Mahabharata
About
.
Volumes
.
Contact
सभापर्व
१. सभाक्रियापर्व ।
अध्यायः - १
. अर्जुनं प्रति मयेन प्रत्युपकारस्वीकरप्रार्थना मयेन सभारचनोपक्रमः
अध्यायः - २
. द्वारकां प्रति प्रस्थितस्य श्रीकृष्णस्य युधिष्ठिरादिभिः सारथ्यकरणम् । अर्धयोजनगतानां पाण्डवादीनां परस्परानुज्ञया स्वस्वनगरगमनं श्रीकृष्णस्य द्वारकां प्रति गमनम्
अध्यायः - ३
. सभानिर्माणसामाग्र्यानयनार्थं मयस्य बिन्दुसरोगमनम् । बिन्दुसरोवर्णनम्। मयेन भीमार्जुनाभ्यां गदाशङ्खदानम्। मयसभावर्णनम्
अध्यायः - ४
. पाण्डवानां सभागृहप्रवेशः । तदा सभागतानाम् ऋषीणां राज्ञां गन्धर्वाणां च नामानि
२. लोकपालसभाख्यानपर्व ।
अध्यायः - ५
. नारदवर्णनम् । तदागमनकथनम् । नारदेन युधिष्ठिरस्य कुशलप्रश्नद्वारेण राजधर्मानुशासनम्
अध्यायः - ६
. युधिष्टिस्य लोकपालसभाजिज्ञासा
अध्यायः - ७
. नारदेन इन्द्रसभावर्णनम्
अध्यायः - ८
. यमसभावर्णनम्
अध्यायः - ९
. वरुणसभावर्णनम्
अध्यायः - १०
. कुबेरसभावर्णनम्
अध्यायः - ११
. ब्रह्मसभावर्णनम्
अध्यायः - १२
. हरिश्चन्द्रकथा । युधिष्ठिरं प्रति पाण्डुसंदेशकथनम् । नारदगमनम्
३. राजसूयारम्भपर्व ।
अध्यायः - १३
. युधिष्ठिरेण स्वकीयराजसूयार्थमाहूतस्य श्रीकृष्णस्य इन्द्रप्रस्थं प्रति गमनम्
अध्यायः - १४
. श्रीकृष्णेन जरासंधस्य शौर्यादिकथनम्
अध्यायः - १५
. राजसूयविषये युधिष्ठिरभीसकृष्णानां मिथः संभाषणम्
अध्यायः - १६
. युधिष्ठिरार्जुनयोर्जरासंधवधविचारः
अध्यायः - १७
. बृहद्रथराजकथा । जरासंधोत्पत्तिः
अध्यायः - १८
. जरायाः स्वरूपेऽन्तर्धानम्
अध्यायः - १९
. जरासंधप्रशंसा
४. जरासंधवधपर्व ।
अध्यायः - २०
. भीमार्जुनाभ्यां सह माधवस्य मगधदेशगमनम्
अध्यायः - २१
. कृष्णजरासंधसंवादः
अध्यायः - २२
. जरासंधस्य युद्धोद्योगः
अध्यायः - २३
. भीमजरासंधयोर्युद्धम्
अध्यायः - २४
. जरासंधवधः । तेन बंदीकृतानां भूभुजां मुक्तिः । जरासंधपुत्रं सहदेवाख्यं राज्येऽभिषिच्य श्रीकृष्णभीमार्जुनानामिन्द्रप्रस्थं प्रति गमनम्
५. दिग्विजयपर्व ।
अध्यायः - २५
. संक्षेपतः पाण्डवदिग्विजयवर्णनम्।
अध्यायः - २६
. अर्जुनदिग्विजये भवदत्तजयः ।
अध्यायः - २७
. नानादेशजयः ।
अध्यायः - २८
. उत्तरदिग्विजयः ।
अध्यायः - २९
. दिग्विजये पांचालदेशगमनम्
अध्यायः - ३०
. भीमप्राचीदिग्जयः
अध्यायः - ३१
. सहदेवदक्षिणदिग्विजयः
अध्यायः - ३२
. नकुलप्रतीचीजयः
६. राजसूयपर्व ।
अध्यायः - ३३
. राज्यव्यवस्थावर्णनम् । श्रीकृष्णस्य द्वारकाया आगमनम् । यज्ञसामग्री संपादनम् । ऋत्विजां व्यासेनानयनम् । धृतराष्ट्राद्यामन्त्रणार्थं नकुलगमनम् । युधिष्ठिरस्य राजसूयदीक्षाग्रहणम्
अध्यायः - ३४
. निमन्त्रितानामागमनम्
अध्यायः - ३५
. भीष्मादीनामागतानां तत्तदधिकारे नियोजनम् । राजसूययागः
७. अर्घाभिहरणपर्व ।
अध्यायः - ३६
. श्रीकृष्णस्य भीष्माज्ञया सहदेवेन अग्रपूजाकरणम् ।
अध्यायः - ३७
. श्रीकृष्णाग्रपूजामसहमानेन शिशुपालेन श्रीकृष्णोपालम्भः ।
अध्यायः - ३८
. शिशुपालं मधुरवचसा सान्त्वयन्तं युधिष्ठिरं निवार्य भीष्मेण श्रीकृष्णमाहात्म्यकथनम्
अध्यायः - ३९
. सहदेवेन कृष्णाग्रपूजाविरुद्धभाषिणः सनिकारं वधे प्रतिज्ञाते राज्ञां तृष्णींभावः । सहदेवशिरसि पुष्पवृष्टिः । नारदेन कृष्णद्वेषिणां निर्भर्त्सना । शिशुपालेन यज्ञविघातार्थं राज्ञां निमन्त्रणम्
८. शिशुपालवधपर्व ।
अध्यायः - ४०
. क्रुद्धं राजमण्डलं दृष्ट्वा भीतस्य युधिष्टिरस्य भीष्मेण समाश्वासनम्
अध्यायः - ४१
. भीष्मपरिहासपूर्वकं शिशुपालेन कृष्णमाहात्म्यभर्त्सनम्
अध्यायः - ४२
. शिशुपालस्य निन्दावाक्यं श्रुत्वा क्रुधा शिशुपालं हन्तुं प्रवृत्तस्य भीमस्य भीष्मेण निवारणम्
अध्यायः - ४३
. भीष्मेण शिशुपालस्य जन्मप्रभृति दुश्चरित्रकथनम्
अध्यायः - ४४
. भीष्मवचनं श्रुत्वा क्रुद्धेन शिशुपालेन भीष्मनिन्दा । ततश्चेदिपतेः शिशुपालस्य वचनं श्रुत्वा भीष्मस्य प्रतिवचनम्
अध्यायः - ४५
. शिशुपालेन राज्ञः संनाह्य युद्धार्थं कृष्णाह्वानम् । श्रीकृष्णेन शिशुपालकृतापराधकथनम् श्रीकृष्णेन चक्रेण शिशुपालस्य शिरच्छेदः । श्रीकृष्णस्य द्वारकां प्रति गमनम्
९. द्यूतपर्व ।
अध्यायः - ४६
. व्यासं प्रति युधिष्ठिरेण शिशुपालवधोत्पन्नोत्पातफलप्रश्नः । उत्पातस्याशुभं फलमुक्त्वा व्यासस्य कैलासं प्रति गमनम् । उत्पातफलं श्रुत्वा खिन्नस्य युधिष्ठिरस्य अर्जुनेन सान्त्वनम् । युधिष्ठिर समयाः
अध्यायः - ४७
. मयसभायां स्थले जलभ्रमेण जले स्थलभ्रमेण अद्वारे द्वारभ्रमेण द्वारे च भित्तिभ्रमेण दुर्योधने पतति भीमादिभिस्तस्योपहासः । तत्परिहासदुःखोद्विग्नस्य दुर्योधनस्य पाण्डवसंपदाहरणे मतिः
अध्यायः - ४८
. शकुनिना पाण्डवान् जेतुं द्यूतोपायकथनम्
अध्यायः - ४९
. शकुनिना दुर्योधनस्य चिन्ताकार्श्यादिकस्य धृतराष्ट्राय निवेदनम् । धृतराष्ट्रस्य दुर्योधनं प्रति चिन्तानिमित्तप्रश्नः । दुर्योधनेन स्वविचारकथनम् । धृतराष्ट्रेण द्यूतार्थं पाण्डवानयनाय विदुरप्रेरणा । विदुरभाषणम्
अध्यायः - ५०
. विस्तरेण द्यूतवृत्तान्तः । धृतराष्ट्रेण द्यूतनिषेधः । दुर्योधनेन पाण्डवैश्वर्यवर्णनं भीमादिकृतस्योपहासकथनं च
अध्यायः - ५१
. राजसूयसमये नानादेशागतभूपालप्रदत्तोपायनवर्णनम्
अध्यायः - ५२
. राजसूयसमये नानादेशागतभूपालप्रदत्तोपायनवर्णनम्
अध्यायः - ५३
. दुर्योधनेन राजसूयवर्णनम्
अध्यायः - ५४
. धृतराष्ट्रेण पाण्डवद्वेषनिषेधः
अध्यायः - ५५
. दुर्योधनेन राजनीतिनिरूपणम्
अध्यायः - ५६
. शकुनिना "द्यूतेन पाण्डवाञ्जेष्यमि' इति प्रतिज्ञाकरणम् । द्यूते दुर्योधनसंमतिः । धृतराष्ट्रेण पुनः पुनः पाण्डवैरनिषेधः । दैवानुरोधेन पुत्रप्रेम्णा व्यामोहितस्य धृतराष्ट्रस्याज्ञया द्यूतसभानिर्माणं पाण्डवानयनाय विदुरप्रेषणं च
अध्यायः - ५७
. द्यूतविषये विदुरधृतराष्ट्रयोर्मिथः संवादः
अध्यायः - ५८
. विदुरस्य पाण्डवसमीपे गमनम्। विदुरयुधिष्ठिरसंवादः । पाण्डवानां हास्तिनपुरीगमनं च
अध्यायः - ५९
. पाण्डवानां द्यूतसभाप्रवेशः ।शकुनियुधिष्ठिरसंवादः
अध्यायः - ६०
. भीष्मादीनां द्यूतसभाप्रवेशः। युधिष्ठिरदुर्योधनयो: 'पण'विषये मिथः समयः
अध्यायः - ६१
. युधिष्ठिरेण पणीकृतानां शकुनिनापहरणम्
अध्यायः - ६२
. द्यूतविषये विदुरहितवाक्यम्
अध्यायः - ६३
. विदुरवाक्ये द्यूतस्यानर्थकारित्वम् ।
अध्यायः - ६४
. विदुरस्य दुर्योधनेनोपालम्भः । विदुरस्य प्रतिवचनम्
अध्यायः - ६५
. युधिष्ठिरेण पणीकृतानां तद्भ्रातॄणां पराजयः । पणीभूतस्य युधिष्ठिरस्य पराजयः । युधिष्ठिरेण पणीकृतायाः द्रौपद्याः पराजयः । सभाक्षोमः । धृतराष्ट्रस्य हर्षः
अध्यायः - ६६
. द्रोपदीमुद्दिश्यावाच्यं वाक्यमुक्तवन्तं दुर्योधनं प्रति विदुरवाक्यम्
अध्यायः - ६७
. दुःशासनेन हठात् सभां प्रति द्रौपद्या आनयनम् । सभ्यान्प्रति स्वविषये द्रौपदीप्रश्नः
अध्यायः - ६८
. 'द्रौपदी अजिता ' इति सत्पपक्षपातिनो धार्तराष्ट्रान्तःपातिनो विकर्णस्य वचनम् । कर्णस्य तत्प्रतिकूलवचनम् । दुःशासनेन द्रौपदीवस्त्राकर्षणम् । भगवतः श्रीकृष्णस्य कृपया द्रौपद्या रक्षणम् । भीमप्रतिज्ञा । विदुरवाक्यम्
अध्यायः - ६९
. द्रौपद्याः सभ्यानुद्दिश्य प्रश्नः ।अस्य प्रश्नस्य युधिष्ठिरेण उत्तरं धक्तव्यम्' इति भीष्मवचनम्
अध्यायः - ७०
. दुर्योधस्य द्रौपदीमुद्दिश्य संभाषणम् । भीमेन स्वपराक्रमवर्णनम्
अध्यायः - ७१
. द्रौपदीमुद्दिश्य कर्णप्रलपनम् ।दुर्योधनेन प्रेक्षमाणायाः द्रौपद्याः सव्योरुप्रदर्शनम् । तत् दृष्ट्वा यदि एतमूरुं गदया न भिन्द्यां तदा पितृभिः सह वृकोदरः सालोक्यं मास्म गच्छेत्' इति भीमप्रतिज्ञा । विदुरवाक्यम् । दुर्योधनवाक्यम् । अर्जुनवाक्यम् । धृतराष्ट्रेण पाञ्चालीं प्रत्यभीष्टं वरं वरय इति सूचनम् । द्रौपद्या स्वेनसह पाण्डवानामदासत्त्वचरणम्
अध्यायः - ७२
. भीमक्रोधः । तस्य युधिष्ठिरेण परिसान्त्वनम्
अध्यायः - ७३
. धृतराष्ट्रवरप्रदानपूर्वकमिन्द्रप्रस्थं प्रति युधिष्ठिरगमनम्
१०. अनुद्यूतपर्व ।
अध्यायः - ७४
. दुर्योधनेन पाण्डवपराक्रमवर्णनम् । धृतराष्ट्रस्य पुनरपि द्यूतार्थे पाण्डवानयनाय संमतिः । द्रोणादीनां द्यूतनिषेधः
अध्यायः - ७५
. गान्धार्या धृतराष्ट्रकृत्यनिषेधः ।धृतराष्ट्रस्य पुनर्द्यूतनिश्चयः
अध्यायः - ७६
. पाण्डवानां मध्येमार्गं प्रतिनिवृत्य द्यूतसमाप्रवेशः । शकुनिना युधिष्ठिरपराजयः
अध्यायः - ७७
. वनाय प्रस्थितानां पाण्डवानां दुःशासनेन परूषवचसा उपहासः । तत् श्रुत्वाऽमर्षतैः पाण्डवैः कौरववधे प्रतिज्ञाकरणम्
अध्यायः - ७८
. पाण्डवानां विदुरस्याशीर्वचनम् । भीष्मद्रोणौ नमस्कृत्य युधिष्ठिरस्य वनप्रस्थानम्
अध्यायः - ७९
. विदुवचनात् कुन्त्यास्तस्य गृहे वासः । द्रौपदीकुन्तीसंवादः
अध्यायः - ८०
. पाण्डवविषयके धृतराष्ट्रविदुरयोर्वचनप्रतिवचने । द्रोणवाक्यम्
अध्यायः - ८१
. धृतराष्ट्रसंजयसंवादः
सभापर्व