Mahabharata
About
.
Volumes
.
Contact
उद्योगपर्वणि
(1) सेनोद्योगपर्व
अध्यायः - १
. अभिमन्योर्विवाहार्थं समागतेषु नृपेषु विराटस्य सभायामुपविष्टेषु भगवता श्रीकृष्णेन कौरवाणां दौःशील्यं पाण्डवानां धर्मज्ञत्वं चोक्त्वा सर्वैर्युद्धे पाण्डवानां साहाय्यं कर्तव्यमिति सूचनम् .....
अध्यायः - २
. युधिष्ठिरापराधकृत्वैवेयं पाण्डवानां विपत्तिर्नतु तत्र दुर्योधनो हेतुरतो दूतं प्रेष्य प्रणिपातपूर्वकमेवार्धराज्यं याचन्तां पाण्डवाम् इति बलदेवस्य राज्ञः प्रत्युक्तिः......
अध्यायः - ३
. बलदेववाक्यं श्रुत्वा पाण्डवानां निरागस्त्वोपपादनपूर्वकं सात्यकिना बलदेववाक्यगर्हणम्...
अध्यायः - ४
. दुर्योधनो न सामसाध्योऽतः शीघ्रं प्रस्थाप्यन्तां मित्रेभ्यो दूताः, नोचेत् दुर्योधनेन पूर्वं प्रार्थितास्ते तमेव भजेयुः । एवं मम पुरोहितो धृतराष्ट्रं प्रति गृहीतसन्देशो गच्छतु इति द्रुपदवाक्यम्.....
अध्यायः - ५
. द्रुपदवाक्यमभिनन्द्य तं प्रति भवानेव श्रुतवयोभ्यां गुरुरसि नः सर्वेषामिति भवत्सन्दिष्टं वचोऽस्माकं संमतमिति श्रीकृष्णवचनम् । कृष्णस्य द्वारकां प्रति गमनम् । कुरुपाण्डवानां युद्धोद्योगवर्णनम्.....
अध्यायः - ६
. प्रशंसापूर्वकं धृतराष्ट्रं प्रति कर्तव्यार्थमुपदिश्य द्रुपदेन स्वपुरोधसो हास्तिनपुरप्रेषणम्....
अध्यायः - ७
. सर्वपार्थिवाह्वानार्थं दूतसंप्रेषणानन्तरमर्जुनस्य श्रीकृष्णसाहाय्ययाचनार्थं द्वारकां प्रति गमनम् । तेनैव हेतुना दुर्योधनस्यापि गमनम् । कृष्णगृहं प्रविष्टयोस्तयोर्द्वयोर्निद्रितस्य श्रीकृष्णस्य पाददेशेऽर्जुनस्तस्थौ शिरोदेशे दुर्योधनश्च । दुर्योधनकृष्णयोः संवादानन्तरमर्जुनः कृष्णमेव वव्रे दुर्योधनस्तु नारायणगणानेव वव्रे । बलदेवेनोभयोरपि साहाय्येऽनङ्गीकृते ससैन्यो दुर्योधनः स्वगृहं प्रति जगाम । कृष्णार्जुनयोः संवदतोः सतोरर्जुनप्रार्थनया कृष्णेन तत्सारथ्याङ्गीकरणम् । कृतकार्यस्यार्जुनस्य युधिष्ठिरसमीपे गमनम्....
अध्यायः - ८
. सैन्येन सह पाण्डवान्प्रति प्रस्थितं मद्रराजं शल्यं मध्येमार्गं वञ्चयित्वा दुर्योधनेन स्वसाहाय्यकरणवरग्रहणम् । अथ युधिष्ठिरदर्शनार्थं गतेन शल्येन तत्प्रार्थनया कर्णस्य तेजोवधकरणाङ्गीकारः....
अध्यायः - ९
. कथमिन्द्रेण दुःखं प्राप्तमिति युधिष्ठिरेण प्रश्ने कृते शल्येन युधिष्ठिराय वृत्रवधाख्याननिरूपणम् । इन्द्रद्रोहात्त्वष्ट्रा प्रजापतिना निर्मिते त्रिशिरसि विश्वरूपे तपस्यति तत्तपोभंगार्थमिन्द्रेणाप्सरसां प्रेषणम् । अप्सरस्सु प्रतिहतासु विश्वरूपवधोपायं चिन्तयतेन्द्रेण तस्योपरि वज्रप्रहारः। तच्छिरश्छेदे इन्द्रेणाज्ञप्तेन तक्ष्णा तच्छिरस्सु छिन्नेषु तेभ्योऽण्डजानामुत्पत्तिः । पुत्रवधं श्रुत्वेन्द्रविनाशार्थं त्वष्ट्रा वृत्रस्योत्पादनम् । वृत्रेण सङ्ग्रामे देवराजस्य पराजयः ......
अध्यायः - १०
. वृत्रवधोपायजिज्ञासया विष्णुं प्रति शरणं गतानामृषिगणसहितानामिन्द्रादिदेवानां वाक्यम् । विष्णुना वृत्रेण सह सन्धिकरणे आज्ञप्तानां सर्षीणां देवानां वृत्रसमीपगमनम् । महर्षिभिर्देवादिसख्यार्थं प्रेरितो वृत्रेण ’न शुष्केण न चार्द्रेण’ इत्यादिना शक्रस्य न वध्यो भवेयमिति तेभ्यो वरग्रहणम् । तत इन्द्रेण कदाचित्समुद्रान्ते उपासनाय वृत्राय सफेनस्य वज्रस्य प्रक्षेपः । फेनप्रविष्टेन विष्णुना वृत्रस्य वधः । इन्द्रस्य ब्रह्महत्याभिभवाददर्शनम्.....
अध्यायः - ११
. ऋषिभिर्देवैश्च चक्षुर्विषयवर्तिनस्तेजोहरणवरेण संवर्ध्य नहुषस्य देवराज्येऽभिषेचनम् । ततः कदाचिद्देवकन्याभिः सह क्रीडता तेन शचीं दृष्ट्वा देवान् प्रति शची कस्मान्मां नोपतिष्ठते इति प्रश्नः । ततस्तद्भीतया शच्या त्राणार्थं बृहस्पतेर्देवगुरोराश्रयणम्.....
अध्यायः - १२
. देवैः प्रतिषिद्धस्यापि नहुषस्य शच्यां प्रतिनिवेशः । ततो देवैः शचीदानाय बृहस्पतिप्रार्थनम् । बृहस्पतिना तदत्यागप्रतिज्ञापूर्वकं सर्वैः सह संमन्त्र्य कालयाचनार्थं नहुषसमीपे शचीप्रेषणम्.....
अध्यायः - १३
. शच्या प्रार्थिते समये नहुषेणाङ्गीकृते सति पुनर्ब्रहस्पतिं प्रति तस्यागमनम् । शाक्रान्वेषणं चिन्तयतां देवानां विष्णुसमीपे गमनम् । इन्द्रपावनार्थमश्वमेधकरणे विष्ण्वाज्ञया देवेन्द्रसमीपं गतेषु सत्स्वमेधप्रवृत्तिः । ब्रह्महत्याविभागानन्तरं निष्पापोऽपीन्द्रो वरदानादिप्रभावान्नहुषतेजसो दुःसहत्वमालोच्य पुनरन्तर्दधे । इन्द्रेऽन्तर्हिते विलापपूर्वकं शच्या कृतमुपश्रुत्याह्वानम्.....
अध्यायः - १४
. इन्द्राणीं प्रति उपश्रुतेरुपस्थितिः । तया हिमवत उत्तरे पार्श्वे कस्मिंश्चिन्महाद्वीपे महासरसि पद्मनाले प्रविष्टस्येन्द्रस्येन्द्राण्यै दर्शनम् । इन्द्राण्यास्तं प्रति नहुपधप्रार्थना......
अध्यायः - १५
. इन्द्रोपदेशाच्छच्या प्रति सप्तर्षियानेनोपसुप्तस्य तेऽहं वशगा स्यामित्युक्तिः । नहुषेण तत्प्रतिश्रुत्य स्ववाहने ऋषीणां योजना । इन्द्रान्वेषणाय शचीप्रार्थितेन वृहस्पतिनेष्टिं निरूप्येन्द्रान्वेषणाध्येषणा । अग्निना जलादन्यत्रेन्द्रस्यासत्त्वकथनम्......
अध्यायः - १६
. बृहस्पतिना स्तुत्या मन्त्रैश्च संवर्धितेनाग्निना जलं प्रविश्य पद्मनालगतमिन्द्रमुपलभ्य बृहस्पतये तदाख्यानम् । तत्र गतेन बृहस्पतिना स्तुत्वा संवर्धितायेन्द्राय नहुषात्पीडाकथनम् । इन्द्रेण लोकपालैः सह नहुषवधोपायचिन्तनम्....
अध्यायः - १७
. नहुषवधोपायं चिन्तयन्तमिन्द्रं प्रत्यागतेनागस्त्येन तस्मै नहुषस्य नास्तिक्याद्ब्राह्मणावमाननाच्च स्वर्गात्परिभ्रंशकथनम् । शक्रादीनां स्वर्गगमनोत्तरं देवर्षिगन्धर्वादिभिरागत्येन्द्रस्याभिनन्दनम्.....
अध्यायः - १८
. इन्द्रेण देवैः सह त्रिविष्टपं प्रविश्य शच्या समेत्य त्रैलोक्यपालनम्- ’इन्द्र इव भवानपि शत्रुभिर्जित्य राज्यं भोक्ष्यसे' इति युधिष्ठिरमाश्वास्य तत्प्रार्थितं कर्णतेजोवधकरणं प्रतिज्ञाय शल्यस्य दुर्योधनसमीपगमनम्......
अध्यायः - १९
. सात्यकेर्धृष्टकेत्वादीनां च युधिष्ठिरं प्रत्यागमनं भगदत्तादीनां वीराणां दुर्योधनं प्रत्यागमनं च......
(२) सञ्जययानपर्व
अध्यायः - २०
. धृतराष्ट्रसभायां गतस्य द्रुपदपुरोहितस्य महात्मानः पाण्डवा युष्मत्कृतानपराधान् पृष्ठतः कृत्वा लोकानामविनाशाय सामकाङ्क्षन्ति । तस्मात्तेषां प्रभावं च विचिन्त्य राज्यार्धदानेन भवद्भिस्तत्साम कर्तव्यमिति वचनम्..........
अध्यायः - २१
. द्रुपदपुरोहितोक्तमर्थमनुमन्यमानस्य भीष्मस्य वाक्यमाक्षिप्य कर्णेन समयमुल्लङ्घ्य युध्यतः पाण्डवान्वयं जेष्याम इति ध्वननम् । भीष्मेण तद्गर्हणम् । धृतराष्ट्रेण कर्णं निर्भर्त्स्य पाण्डवान् प्रति सञ्जयं प्रेषयामीत्युक्त्वा सत्कृत्य द्रुपदपुरोहितप्रतियापनम् ......
अध्यायः - २२
. धृतराष्ट्रेण सञ्जयस्याग्रे ’पाण्डवान्स्तत्पक्षीयांश्च धर्मतो बलतश्च संस्तूय यथा ते युद्धाय न स्पृहयेयुस्तथा तेषु भाषेथाः’ इत्युक्त्वा तत्प्रेषणम्.........
अध्यायः - २३
. उपप्लव्यं गतेन सञ्जयेन धृतराष्ट्रवचनाद्युधिष्ठिरं प्रत्यनामयप्रश्नः । युधिष्ठिरेण तं प्रति कुरूणां कुशलं ब्राह्मणेषु वृद्धिं चापृच्छ्य, द्रोणादीनां पाण्डवेषु कीदृशी मतिः ? दुर्योधनादयश्च भीमानीनां दिग्विजयादिकर्माणि स्मरन्ति न वा? इत्यादयः प्रश्नाः........
अध्यायः - २४
. सर्वेषामनामयं ब्राह्मणवृत्तीनामलोपनं चोक्त्वा सञ्जयेन पुत्रादिभिः सह धृतराष्ट्रवचनश्रवणप्रार्थनम्......
अध्यायः - २५
. युधिष्ठिरानुमतेन सञ्जयेन धृतराष्ट्रानुशिष्टस्य युद्धे बहुविधदोषसत्त्वाच्छमविधानपरस्य वाक्यस्याभिधानम्......
अध्यायः - २६
. युधिष्ठिरेण स्वपरयोः शुभाशुभाभिसन्धिकथनपूर्वकं स्वस्याजय्यत्वमभिधाय इन्द्रप्रस्थे राज्यदाने शान्तिकथनम्.......
अध्यायः - २७
. युद्धे भीष्मादीनां हननेन राज्यसंपादनापेक्षया भैक्ष्यचर्यादिकं वरमित्यादिका युधिष्ठिरं प्रति सञ्जयस्योक्तिः....
अध्यायः - २८
. धर्मेणेवाहं स्वं भागं कामये, अधर्मेण त्रिदशानामपि राज्यं नेच्छामि, धर्माधर्मविनिर्णयः सुदुष्करस्तस्माद्भगवान् धर्मेश्वरो वासुदेव एव ब्रवीतु यदत्र धर्म्यमिति युधिष्ठिरचनम् .......
अध्यायः - २९
. भगवता विद्यातः कर्मणो ज्यायस्त्वं राज्ञां युद्धेऽपि धर्मतन्त्रत्वं, धार्तराष्ट्राणां राज्यापहारित्वाद्गर्ह्यव्यवहरणाच्च वध्यत्वमुपपाद्य पाण्डवस्य शमे युद्धे च शक्तत्वकथनम्........
अध्यायः - ३०
. हास्तिनपुरं प्रस्थितस्य सञ्जयस्य युधिष्ठिरेण तत्पुरवासिषु ब्राह्मणादिदासपर्यन्तेषु तत्तत्कुशलप्रश्नस्वकुशलनिवेदनयोरन्धादीनां भरणाश्वासने दुर्योधनं प्रति च सर्वकुरूणामैकाधिपत्यकामासिद्धिकथने चोदनम्.....
अध्यायः - ३१
. युधिष्ठिरेण सञ्जयस्य स्वोक्तार्थस्य धृतराष्ट्रे याथातथ्येन कथने दुर्योधनं प्रति च कुरुवधं परिहर्तुं पञ्चभिरपि ग्रामैः शमाय युद्धाय च शक्तोऽस्मीति कथने चोदनम्........
अध्यायः - ३२
. युधिष्ठिरसकाशात्प्रत्यागतः सञ्जयो द्वारपालद्वारा धृतराष्ट्रानुज्ञां प्राप्य तत्समीपं जगाम । युधिष्ठिरः स्वधर्मेण भवतः सकाशाद्राज्यादिकमिच्छतीत्याद्युक्त्वा तदकरणेऽनर्थं चोक्त्वा सञ्जयेन धृतराष्ट्राज्ञया स्वस्थानगमनम्.......
(2) प्रजागरपर्व
अध्यायः - ३३
. सञ्जयवाक्यानुतप्तेन स्थद्वाधृतराष्ट्रेंअ द्वा:स्थद्वाराऽऽहूतस्य विदुरस्य तत्समीपागमनम् । उभयोः संवादानन्तरं परं धर्म्यं ते वचः श्रोतुमिच्छामीति धृतराष्ट्रप्रश्ने विदुराय सदुपदेशः । पण्डितमूर्खयोर्लक्षणानि कथयित्वा साधारणीं नीतिं कथयता विदुरेणासुरेन्द्रगीतेतिहासकथनद्वारा राजनीतिकथनम् .......
अध्यायः - ३४
. ’जाग्रतो दह्यमानस्य’ इत्यादिके धृतराष्ट्रणोक्ते विदुरेण सर्वोपयोगि सन्नीतिकथनम्......
अध्यायः - ३५
. ’ब्रूहि भूयो महाबुद्धे ’इत्यादिना पुनर्धृतराष्ट्रेणोक्ते विदुर उपदिशन् विरोचनकेशिनी सुधन्वसंवादरूपमितिहासमाह । तस्माद्राजेन्द्रभूम्यर्थे नानृतं वक्तुमर्हसीत्याद्युक्त्वा मद्यमांसादिवर्जनं, साक्ष्ये वजनीयान् मनुष्यान्, ब्रह्मघ्नसमान्मनुष्यांश्च कथयित्वा विदुरः पुनर्नीतिमुवाच......
अध्यायः - ३६
. विदुरेणात्रेयसाध्यसंवादरूपे इतिहासे कथिते तं प्रति धृतराष्ट्रस्य महाकुलविषयः प्रश्नः । विदुरो महाकुललक्षणानि कुलदूषणानि वृत्तप्रशंसां च कथयित्वा पुनर्हितवाक्यान्युवाच । पुनर्धृतराष्ट्रप्रश्नानन्तरं विदुरेण नीत्युपदेशः....
अध्यायः - ३७
. विदुरेण सप्तदशसु मूर्खेषु कथितेषु तं प्रति धृतराष्ट्रस्यायुःक्षयविषय कः प्रश्नः । अतिमानादीनामायुर्नाशकत्वं कथयित्वा विदुरः पाण्डवैः सह विग्रहे दोषादिकमाह । पुरुषाणां पञ्चविधं बलं कथयित्वा पुनर्हितमुपदिदेश......
अध्यायः - ३८
. वृद्धानामातिथ्यं चिकित्सकादीनां तदभावमविक्रेयद्रव्याणि भिक्षुकलक्षणानि तापसलक्षणानि च कथयित्वा विदुरः पुना राजनीत्यादि कथयामास......
अध्यायः - ३९
. विदुरहितोपदेशानन्तरं 'दुर्योधनं त्यक्तुं नोत्सहे’ इत्यादि वदन्तं धृतराष्ट्रं प्रति विदुरो दोषिणां वजनाद्याह । ज्ञातिविग्रहे दोषकथनपूर्वकं हितमुपदिदेश बिदुरः । तापसादीनां बलमबादीनामव्रतघ्नत्वं वेदादीनां मलादिकं च कथयित्वा विदुरो दानं प्रशशंस.......
अध्यायः - ४०
. पुनर्हितमुपदिशन् विदुरो विद्याशत्रुन् विद्यार्थिनां सप्तदोषानाह स्म । आशादीनां धृतिनाशकत्वं गृहे स्थापनार्हाणि वैराग्योत्पादकवाक्यानि चाभ्यधात् । धृत्यादिभिः शिश्नोदरादिजयं कथयित्वा ब्राह्मणादिधर्मानभ्याचष्ट...
(3) सनत्सुजातपर्व
अध्यायः - ४१
. धृतराष्ट्रविदुरयोः पूर्वकथितावशिष्टकथनविषये संवादः । धृतराष्ट्रेण ब्रह्मतत्वं पृष्टो विदुर आत्मनः शूद्रयोनानुत्पन्नत्वं विचिन्त्य सनत्सुजातं चिन्तयामास । विदुरस्मृतिमात्रेण सन्निहितं सनत्सुजातं प्रति ’मया वक्तुमशक्यं धृतराष्ट्रस्य संशयं वक्तुमर्हसि’ इत्यादि विदुरप्रार्थनम्.....
अध्यायः - ४२
. ’न मृत्युरस्तीति तव प्रवादम्’ इत्यादिके धृतराष्ट्रप्रश्ने प्रमादापेक्षयाऽन्यो मृत्युर्नास्तीति सोपपत्तिकं कथयित्वा तन्निवृत्तिर्ब्रह्मज्ञानमन्तरा नास्तीत्याह सनत्सुजातः.....
अध्यायः - ४३
. एतदन्ते प्रमादात्मकमृत्युप्रतिरोधकत्वेनोक्तानि यानि मौनादीनि तेषामेव धृतराष्ट्रप्रश्नपूर्वकं विवरणम् । एतत्प्रसङ्गे दोषत्वेन क्रोधादिगणकथनं त्रयोदशनृशंसकपनं च......
अध्यायः - ४४
. ब्रह्मविद्यासाधनस्य ब्रह्मचर्यस्य विस्तरतो निरूपणं ब्रह्मस्वरूपनिरूपणं च .......
अध्यायः - ४५
. ब्रह्मविद्याप्राप्तिसाधनं निरूपयितुं पुनः प्रागुक्तानेव दोषान् हेयत्वेन गुणांश्चोपादेयत्वेनाह सनत्सुजाना....
अध्यायः - ४६
. ब्रह्मचर्यादिसाधनैः सद्रूपं ब्रह्मैव प्रत्यगभिन्नत्वेन ज्ञेयमित्यस्मिन्नर्थे मन्त्रान् योगिप्रत्यक्षं च प्रमाणत्वेनाह स्म सनत्सुजातः....
(4) यांनसन्धिपर्व
अध्यायः - ४७
. सनत्सुजातेन विदुरेण च सह कथाः कथयतो धृतराष्ट्रस्य रात्र्यामतीतायां प्रभाते तेन सह भीष्मादयो दुर्योधनादयश्च सभामाविविशुः । सभां प्रविष्टः सञ्जयो युधिष्ठिरस्य प्रणामादि कथयति स्म.....
अध्यायः - ४८
. अर्जुनोक्तिश्रवणविषये धृतराष्ट्रप्रश्ने सञ्जयस्योत्तरम् । युधिष्ठिर-मीम-नकुल-सहदेवाभिमन्युप्रभृतीनां स्वस्य च भावियुद्धप्रसङ्गे दुर्योधनस्यानुतापविषयकमर्जुनवाक्यमाह सञ्जयः । श्रीकृष्णप्रशंसापूर्वकमर्जुनेन कृतायाः कौरवनाशप्रतिज्ञायाः कथनम्.......
अध्यायः - ४९
. अर्जुनस्य नरावतारस्त्वं बोधयितुं भीष्मो दुर्योधनं प्रति नरनारायणवृत्तान्तं कथयति स्म । वासुदेवार्जुनयो: नरनारायणावतारत्वेनाजय्यत्वं कथयित्वा भीष्मो दुर्योधनमनुनयति स्म । कर्णस्य दर्पोक्तिं श्रुत्वा भीष्मो धृतराष्ट्रं प्रति कर्णनिन्दारूपं वाक्यं व्याजहार । धृतराष्ट्रं प्रति भीष्मवाक्यानुकूलमेव द्रोणवाक्यम्......
अध्यायः - ५०
. ’युधिष्ठिरः किमभाषत’ इत्यादिके धृतराष्ट्रप्रश्ने तं प्रति सञ्जयस्योक्तिः । पाण्डवसैन्यजिज्ञासया धृतराष्ट्रप्रश्नं श्रुत्वा सञ्जयस्य कश्मलप्राप्तिः । पुनः प्रत्याश्वस्तो युधिष्ठिरादीनां पाण्डवानां प्रशंसामुक्त्वा शिखण्डिप्रभृतीनां राज्ञां साहाय्यकरणादि व्याहरति स्म......
अध्यायः - ५१
. घृतराष्ट्रो ’भीमाद्भयं जायते’ इत्युक्त्वा भीमपराक्रमस्य स्मरणेनात्यन्तमन्वतपत्.......
अध्यायः - ५२
. अर्जुनस्य पराक्रमं चिन्तयानो घृतराष्ट्रः शोचति.....
अध्यायः - ५३
. धृतराष्ट्रः पाण्डवपक्षपातिनां पराक्रममुक्त्वा युधिष्ठिरादिक्रोधाद्भयं भवतीत्याद्यमिधाय युधिष्ठिरं प्रशस्य युद्धोपरमाभिप्रायमाह स्म.....
अध्यायः - ५४
. युद्धे त्वदीयानां क्षयो नियतोऽनीशस्य ते विलपनं च व्यर्थमिति सञ्जयस्य धृतराष्ट्रं प्रत्युक्ति:...
अध्यायः - ५५
. सञ्जयवाक्यश्रवणोत्तरं दुर्योधनो भीष्मादिभिर्दत्तपूर्वं युद्धानुमोदनं कथयित्वा धृतराष्ट्रमाश्वासयामास । दुर्योधन आत्मानं प्रशस्य भीष्मादिसाहाय्यमुक्त्वा कर्णप्रशंसापूर्वकमेकादशाक्षौहिणबलमभिधाय पुनर्धृतराष्ट्रमाश्वासयामास...
अध्यायः - ५६
. दुर्योधनसञ्जयसंवादस्तत्रार्जुनाद्यश्वादिप्रश्ने सञ्जयकृतं तत्कथनं च...
अध्यायः - ५७
. पाण्डवसैन्यजिज्ञासया धृतराष्ट्रस्य प्रश्ने सञ्जयस्योत्तरम् । कृष्णादीनां पाण्डवसाहाय्यार्थमागमनस्य कथनम् । पाण्डवसैनिकैः शिखण्डिप्रभृतिभिर्भीष्मादयः स्वस्वभागत्वेन कल्पिता इति कथनम् । धृतराष्ट्रः स्वपुत्रनिन्दापूर्वकं पाण्डवबलं प्रशंसन् पाण्डवसैन्यनेतृणां नामानि व्याजहार । पाण्डवोद्दीपकः क इति प्रश्ने धृष्टद्युम्नोत्साहादिकथनम्....१३० ५८ – २९ अर्जुनपराक्रमाद्भीतेन धृतराष्ट्रेण भीष्मादयो युद्धं नेच्छन्ति नापि त्वं स्वेच्छया किंतु कर्णशकुनिदुःशासनैः पापैः प्रयुक्त एवेत्युक्तो दुर्योधनः कर्णादयश्चत्वार एव वयं शत्रून् हनिष्यामो नाहं भीमादिषु भारं कृत्वा पाण्डवान् समाह्वये इत्युक्तवान् । ततो धृतराष्ट्रस्य विलपनम्.....
अध्यायः - ५८
. ..............................................
अध्यायः - ५९
. 'वासुदेवार्जुनौ यदब्रूतां तत्कथय’ इति धृतराष्ट्रेणोक्ते सञ्जयस्तदभिहितवान् । एकासनस्थितयोः कृष्णार्जुनयोः समीपे स्वप्रवेशमभ्यधात् सञ्जयः । भोगदानादिकं विधेयं महद्वोभयमागतमित्याद्यर्जुनप्रशंसासहितं कृष्णसन्देशं सञ्जय आचख्यौ.......
अध्यायः - ६०
. वचसो गुणदोषौ स्वपरयोर्बलाबले च निश्चित्य 'देवाः पुत्रप्रीत्याऽग्रिश्च प्रत्युपकारेच्छया युद्धे पाण्डवानां साहाय्यं करिष्यति' इति धृतराष्ट्रस्य दुर्योधनं प्रत्युक्तिः......
अध्यायः - ६१
. देवत्वभ्रंशभयान्न देवाः पाण्डवानां साहाय्यं करिष्यन्ति दैवं बलं मय्यप्यस्तीति दुर्योधनोक्तिः.....
अध्यायः - ६२
. अहमेव पाण्डवान् हन्तुं ’समर्थो भीष्मादयस्तिष्ठन्तु ते समीपे’ इति धृतराष्ट्रस्य पुरत आत्मानं श्लाघमानः कर्णो भीष्मेण गर्हितो ’भीष्मेऽप्रशान्ते नाहं योत्स्ये’ इति प्रतिज्ञाय सभां विहाय स्वं भवनं जगाम । भीष्मः सभातो निर्गतं कर्णं विनिन्दन् दुर्योधनमुवाच ....
अध्यायः - ६३
. ’ममायं युद्धसमारंभो न भवत्सु भारं कृत्वा प्रवृत्तः, अहं कर्णदुःशासनाभ्यां सहितः शत्रून् हनिष्यामि' इति भीष्मं प्रति क्रुद्धा ब्रुवाणं दुर्योधनमुद्दिश्य विदुरो दमं प्रशंसति......
अध्यायः - ६४
. विदुरेण शकुनिद्वयवृत्तान्तकथनेन किरातवृत्तान्तकथनेन च विवादस्योभयनाशं कथयित्वाऽविवादोप्रदेशः...
अध्यायः - ६५
. पाण्डवास्त्वया जेतुं न शक्या इति दुर्योधनं प्रति धृतराष्ट्रोक्तिः....
अध्यायः - ६६
. पृच्छते धृतराष्ट्राय सञ्जयेन यथा रणयज्ञे सर्वे राजानो न हताः स्युस्तथा प्रयतध्वमिति तत्र समागताः पार्थिवास्त्वया वाच्या इत्यर्जुनवचनकयनम्......
अध्यायः - ६७
. सभात उत्थितेषु राजस्वेकान्ते धृतराष्ट्रः सञ्जयं प्रति स्वपरसैन्ययोर्बलावले पृच्छति स्म- एकान्ते त्वामेकं प्रत्येव न कथयामि व्यासं गान्धारीं चानय, तयोः सांनिध्ये कथयामीति सञ्जयेनोक्ते विदुरस्तावानयामास । व्यासः कथयितुं सञ्जयं प्रेरयामास.....
अध्यायः - ६८
. व्यासवचनात् सञ्जयेन धृतराष्ट्राय कृष्णार्जुनयोर्याथातथ्यकथनम् .....
अध्यायः - ६९
. ’कथं त्वं माधवं वेत्थ’ इत्यादिके धृतराष्ट्रप्रश्ने ’विद्यया तात जानामि’ इत्यादिना तदुत्तरकथनं सञ्जयेन । कृष्णार्जुनयोर्माहात्म्यं श्रुतवता घृतराष्ट्रेण ’श्रीकृष्णं शरणं गच्छ’ इति दुर्योधनोपदेशः । तत्प्रत्याचक्षाणस्य दुर्योधनस्य गान्धार्या गर्हणम् । सञ्जयेन धृतराष्ट्राय पृच्छते भगवत्प्राप्त्युपायकथनम्....
अध्यायः - ७०
. वासुदेवादिनाम्नामर्थज्ञानार्थं धृतराष्ट्रप्रश्ने सञ्जयेन कृष्णस्य कतिपयनाम्नां निरुक्तिः.....
अध्यायः - ७१
. धृतराष्ट्रस्य चक्षुष्मद्भाग्यस्पृहापूर्वकं श्रीकृष्णं प्रति शरणगमनम्...
(5) भगवद्यानपर्व
अध्यायः - ७२
. आपत्तारणं प्रार्थयन्तं युधिष्ठिरं प्रति भगवतस्त्वत्कथितं करिष्यामीत्याद्युक्तिः । धृतराष्ट्रो राज्याप्रदानेन शममिच्छतीत्याद्युक्त्वा स्वप्रार्थनीयानविस्थलादीन् पञ्च ग्रामान् कथयति स्म युधिष्ठरः। युधिष्ठिरो लोभादीनां प्रज्ञादिनाशकत्वमभिधाय निर्धनस्यानर्थप्राप्रिक्रमं धनिकस्यार्थप्राप्त्यादि चोक्त्वा स्वस्य युद्धनिवारणाभिप्रायं निवेदयति स्म । शुद्रादीनां धर्माद्यभिधाय युद्धे दोषकथनादि कुर्वतो युधिष्ठिरस्य कृष्णेन संवादः......
अध्यायः - ७३
. ’दुर्योधनः प्रागिव संप्रत्यपि त्वय्यपकारशीलो जीवंस्ते राज्यं दातुं नालमिति परैः सहाहं युद्धमेवाशंसे तदहं तत्र गत्वा राज्ञां मध्ये तव गुणान् दुर्योधनस्य च व्यतिक्रमान् कीर्तयिष्यामि । येन सर्वे त्वां धर्मात्मानं संप्रतिपद्य धृतराष्ट्रं दुर्योधनं च गर्हयिष्यन्ति’ इति श्रीकृष्णस्य युधिष्ठिरं प्रति वचनम् ......
अध्यायः - ७४
. कौरवान् प्रति यास्यते कृष्णाय भरतानां दयमानस्य भीमस्यानुक्तपूर्वं वचनं- ’दुर्योधनोऽत्यन्तममर्षी नोग्रमुक्तः शमं गृह्णीयादिति मृदु ब्रूयाः । अपि वयमधश्चरा भूत्वा तमनुयास्यामः मा स्म भरता नशन्’ इति....
अध्यायः - ७५
. कृष्णेन सन्तेजनार्थं भीमस्योपालम्भः.....
अध्यायः - ७६
. कशयाभिहतेनेव सदश्वेन भगवदुपालम्भेन भीमेन स्वपौरुषाविष्करणम्.....
अध्यायः - ७७
. दैवपौरुषयोर्बलाबलानवधारणात्पौरूषं कर्तव्यमेवेति बुद्ध्या युद्धाख्यपौरुषाद्विमुखं त्वां तत्र प्रवर्तयितुमहं किञ्चित् परुषमिवोक्तवानिति भीमं प्रति भगवदुक्तिः.....
अध्यायः - ७८
. यदि परेषु भवान् प्रशममसुकरं मन्यते न च त न वधार्हास्तस्माद्यन्नः श्रेयस्तदाशु क्रियतामिति कृष्णं प्रत्यर्जुनस्योक्तिः....
अध्यायः - ७९
. कार्यसिद्धिर्हि दैवपुरुषकारोभयायत्ता । तन्मया शमं याचितोऽपि न स गृह्णीयान्न चाहं दैवमन्यथयितुं शक्रोमि न च शममिच्छामीति जानन्नपि कथमद्य मामभिशङ्कसे इत्यर्जुनं प्रति भगवदुक्तिः...
अध्यायः - ८०
. नकुलेन श्रीकृष्णं प्रति यद्भवान् प्राप्तकालं क्षमं च मन्यते तत्करोत्विति कथनम्....
अध्यायः - ८१
. सहदेवेन श्रीकृष्णस्य कौरवैः सह युद्धयोजनप्रार्थनं सर्वैस्तदनुमोदनं च .......
अध्यायः - ८२
. द्रौपद्याः स्वपरिभवादिकथनपूर्विका श्रीकृष्णं प्रत्युक्तिः। अर्जुनाद्याक्षेपपूर्वकं दुःशासनधृतकेशान् दर्शयित्वाऽतिविषादेन भीममाक्षिप्य कृष्णादीनामग्रे रुरोद द्रौपदी । श्रीकृष्णो द्रौपदीं सान्त्वयित्वा दुर्योधनादिनाशनं प्रतिजज्ञे....
अध्यायः - ८३
. अर्जुनकृष्णयोरुक्तिप्रत्युक्त्यनन्तरं गमनसामयिकमाङ्गल्यकरणपूर्वकं सात्यकिना सज्जीकृते रथे तेन सह श्रीकृष्ण आरुरोह । गमनसमये वाय्वादीनामानुकूल्ये सति वसिष्ठादीन्प्रदक्षिणीकृत्य निर्गतं श्रीकृष्णं प्रति युधिष्ठिरादयोऽनुजग्मुः । श्रीकृष्णं प्रति सन्देशं कथयित्वा युधिष्ठिरे निवृत्ते सति स्वमभिप्रायं निवेदयतोऽर्जुनस्योक्तिं श्रुत्वा भीमे हृष्टेऽर्जुनादयो निववृतिरे । मार्गे ऋषीन् दृष्ट्वाऽभिवन्दनपुरःसरं श्रीकृष्णप्रश्ने जामदग्न्यः समागतस्य तव भाषणादि श्रोतुमागच्छाम इत्युवाच । दशभिर्महारथैः सह कृष्णे गते तत्प्रयाणे कानि निमित्तान्यभवन्निति जनमेजयप्रश्ने वैशम्पायनकृतं तेषां कथनम्......
अध्यायः - ८४
. मार्गे उपप्लव्यवासिभिः पूजितः कृष्णो वृकस्थलमागत्य रथादवरुह्य सन्ध्यावन्दनादि विधाय रात्रौ तत्रैव वसंस्तत्रत्यैर्ब्राह्मणैः सत्कृतस्तानपि पूजयति स्म.....
अध्यायः - ८५
. धृतराष्ट्रानुमते दुर्योधनेन श्रीकृष्णपूजार्थं पथि सर्वकामसमृद्धसभानिर्माणम् । अनवेक्षमाणस्यैव ता भगवतो हास्तिनपुरप्राप्तिः.....
अध्यायः - ८६
. धृतराष्ट्रः श्रीकृष्णाय देवत्वेन संकल्पितानि रथादिवस्तूनि विदुरं श्रावयति....
अध्यायः - ८७
. न त्वयाऽर्थेन पाण्डवेभ्यः कृष्णो भेदयितुं शक्य इति धृतराष्ट्रं प्रति विदुरोक्तिः.....
अध्यायः - ८८
. ’पूज्यतममपि कृष्णं संप्रति वयं न सत्कर्तुमर्हामः' इति दुर्योधनवचः श्रुत्वा भीष्मेण कृष्णो नावज्ञेयस्तद्वारा पाण्डवैः सह शमः कर्तव्य इत्यके दुर्योधनेन तन्नियमनोपायं पृष्टस्य भीष्मस्य क्रुधा सभाया निगमनम्.....
अध्यायः - ८९
. प्रातर्वृकस्थलान्निर्गतः कृष्णः प्रत्युद्गतैर्भीष्मादिभिर्वृतो हास्तिनपुरमेत्य धृतराष्ट्रगृहं प्रविवेश । धृतराष्ट्रादिभिः सत्कृतः श्रीकृष्णो विदुरगृहमाजगाम । पूजापूर्वकं विदुरेण पाण्डवकुशलं पृष्टः श्रीकृष्णस्तं प्रति तत्कथयामास...
अध्यायः - ९०
. कुन्तीगृहं प्रति गतं श्रीकृष्णं प्रति कुन्त्याः पाण्डवा वने कथमूषुरित्यादि वाक्यम् । युधिष्ठिरादिप्रशंसनपूर्वकं कुन्त्या कृतं श्रीकृष्णाग्रे स्वविषादप्रकाशनम् । कुन्ती विदुरं प्रशस्य स्वदुःखं कथयित्वा युधिष्ठिरादीन् प्रति वक्तव्यं स्वन्देशं कृष्णं प्रति कथयामास । कुन्ती कृष्णं प्रत्यर्जुनोत्पत्तिकालिकं वृत्तान्तं कथयति स्म । कृष्णेन कुन्तीं प्रशस्य पाण्डवानां युद्धोत्साहमभिधाय पाण्डवाभिवादने निवेदिते तं प्रति कुन्त्युक्तिः......
अध्यायः - ९१
. कुन्तीमापृच्छ्य दुर्योधनगृहं गतः श्रीकृष्णः प्रत्युत्थानादिना सत्कृतो दुर्योधनेन भोजनार्थं निमन्त्रितस्तन्नाङ्गीचकार । दुर्योधनेन ’भवता सह नो वैरभावादस्मत्प्रयुक्तपूजादेरग्रहणं न युक्तम्’ इत्युक्तेन श्रीकृष्णेन ’संप्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः ॥ न च संप्रीयसे राजन्न चैवापद्गता वयम्’ इत्यद्युक्त्वान्ते ’धर्मे स्थितैः पाण्डवैः सह द्वेष एव मे द्वेषस्तस्मादुष्टाभिसंहितं त्वदन्नं न भोक्तव्यम्’ इत्यभिधाय विदुरगृहगमनम् । ततो द्रोणादिभिः सह सम्भाषणानन्तरं विदुरपूजामङ्गीकृत्य कृष्णस्तदनं बुभुजे......
अध्यायः - ९२
. ’निर्मर्यादानां दुष्टचेतसां धार्तराष्ट्राणां मध्ये तवावतरणं मे न रोचते’ इति विदुरो धार्तराष्ट्रनिन्दारूपं वाक्यमुक्त्वा कौरवाणामनभिमतं सन्धिकरणमित्याह । विदुरः श्रीकृष्णं प्रति सन्धियत्नवारणाभिप्रायकं सभागमनवारणाभिप्रायकं वाक्यमुक्त्वा तद्दर्शनजां स्वप्रीतिं च निवेदयति स्म........
अध्यायः - ९३
. न मे पर्याप्ताः सर्वे पार्थिवाः, किं च पाण्डवानामर्थमहापयन्यदि कुरूणां शममाचरेयं तदा मे पुण्यं चरितं स्यादिति बुद्ध्याऽहमागतोऽस्मीत्युक्त्वा श्रीकृष्णो विदुरवाक्यमभिनन्द्य स्वागमनप्रयोजनादि कथयित्वा सुष्वाप....
अध्यायः - ९४
. प्रभाते सूतादिभिर्बोधितं श्रीकृष्णमावश्यकं प्राभातिकं कृत्वा संध्यामुपास्यमानं प्रति शकुनिदुर्योधनावाजग्मतुः । ताभ्यां धृतराष्ट्रादीनां सभाप्रवेशे निवेदिते श्रीकृष्णो ब्राह्मणेभ्यो हिरण्यादि दत्त्वाऽग्निं प्रदक्षिणीकृत्य रथमारुरोह । दुर्योधनादिभिरनुगतं वाद्यघोषपुरःसरं कौरवसभां प्रविशन्तं श्रीकृष्णं प्रति धृतराष्ट्रादयोऽभ्युत्थानादिनाऽर्चयामासुः । आकाशे समागतानृषीन् दृष्टा श्रीकृष्णेन प्रेरितो भीष्मस्तेभ्य आसनादि ददौ । दुःशासनादयश्च सात्यकिप्रभृतिभ्यो ददुः.....
अध्यायः - ९५
. “त्वं स्वबन्धुषु नृशंसवद्भ्यवहरतः स्वपुत्रान्निगृह्णीष्व न चेदस्मिन्कुले त्वन्निमित्तः सर्वपार्थिवक्षयो भवेत् । पाण्डवास्तु त्वया प्राणेषु वित्तेषु चासकृत्प्रहृता अपि सौशील्यात्त्वामेवान्ववर्तन्त । संप्रति च शुश्रूषयितुं योद्धुं च स्थिताः। तदत्र यत्पथ्यं मन्यसे तत्कुरु" इति श्रीकृष्णः स्वागमनाभिप्रायमुक्त्वा कौरवकुलप्रशंसां विधाय धृतराष्ट्रं प्रति शमविधानार्थकं वाक्यमभिधाय युद्धे दोषानब्रवीत् । तथैव पाण्डवसन्देशमभिधायाधर्माचरणे सभ्यदोषानुद्भाव्य धृतराष्ट्रं प्रति हितमुपदिश्य युधिष्ठिरादीनां धैर्यादिकमभिदधाति स्म.....
अध्यायः - ९६
. श्रीकृष्णवाक्यं श्रुत्वा सर्वेषु राजसु तूष्णीं भूतेषु दंभोद्भवराजवृत्तान्तकथनपूर्वकं परशुरामस्योपदेशः । 'अस्ति कश्चिद्युधि मत्समः’ इति दर्पात्पृच्छन्तं दंभोद्भवं प्रति नरनारायणाभ्यां युद्धं कुर्विति ब्राह्मणैरुक्ते तयोराश्रमं स जगाम । आतिथ्यादिना सत्कृतो युद्धं याचमानस्ताभ्यां निवारितोऽपि दम्भोद्भवो यदा नाश्रोषीत्तदा नर इषीकामुष्टिमादाय युद्धार्थं प्रववृते । इषीकास्त्रेण पराभूतं स्वपादयोः पतन्तं दम्भोद्भवं प्रति नरस्योपदेशः । रामोऽप्यर्जुनं शरणं गच्छेयुक्त्वाऽर्जुनस्याजय्यत्वकथनपूर्वकं शममुपदिदेश.....
अध्यायः - ९७
. कण्वो दुर्योधनं प्रति कृष्णार्जुनप्रशंसावाक्यमुक्त्वा मातलिवरान्वेषणाख्यानमाचख्यौ । कन्याया वरं चिन्तयन् मातलिः कन्याजन्मनिन्दापूर्वकं देवादिलोकानन्विष्य तया सह नागलोकं गन्तुं प्रतस्थे.....
अध्यायः - ९८
. पथि गच्छतो मातलेर्मार्गमध्ये दृष्टेन नारदेन सहोक्तिप्रत्युक्ती । नारदमातल्योर्वरुणलोकदर्शनाद्यनन्तरं नागलोके 'भ्रमतोः सतोर्नारदो मातलिं प्रति वरुणपुत्रादीनां नामरूपादि व्याजहार । नारदकृतं वरुणलोकसंपत्तिकथनम्..........
अध्यायः - ९९
. नारदेन सह मातलिना पातालदर्शनम्...
अध्यायः - १००
. उमयोर्हिरण्यपुरनामकदैत्यस्थानगमनम् । हिरण्यपुरनिर्माणादिकथनपूर्वकं तत्र कालखंजादिवसन्त्यादि कथयन्तं नारदं प्रत्यन्यत्र गमनाय मातल्यनुज्ञा....
अध्यायः - १०१
. सुपर्णलोकं गत्वा तद्वृत्तान्तकथनपूर्वकं सुवर्णचूडादीनां नामानि कथयति स्म नारद......
अध्यायः - १०२
. नारदो रसातलं गत्वा तद्वृत्तान्तं कथयन्स्तत्रत्यसुरभिप्रशंसापूर्वकं तल्लोकं प्रशशंस......
अध्यायः - १०३
. वरान्वेषणाय वासुकिपालितां भोगवतीं गत्वा तद्वृत्तान्तं कथयन्वासुक्यादीनां नामान्यभिधाय 'अत्र ते रोचते कश्चित्’ इत्याद्याह मातलिं नारदः । तत्रार्यकपुत्रं सुमुखं दृष्ट्वा प्रश्नमुखेन नारदात्तज्जन्मवृत्तान्तं श्रुत्वा ’एष मे रुचितो वरः’ इत्याद्याह मातलिः......
अध्यायः - १०४
. आर्यकं प्रति मातलिप्रशंसापूर्वकं सुमुखायायं स्वकन्या दातुमिच्छतीत्याह नारदः । मासानन्तरं सुमुखभक्षणं गरुडेन प्रतिज्ञातमित्याद्यार्यवाक्यं श्रुत्वा तं प्रति मातलिः सुमुखस्य स्वेन सहेन्द्रं प्रति गमनं प्रार्थयति स्म । सुमुखेन सह नारदमातल्योरिन्द्रसमीपगमनानन्तरं तं प्रति नारदो विवाहादिवृत्तमकथयत् । विष्णोरनुमत्या नारदमातलिभ्यां प्रार्थितेन्द्रेण सुमुखाय चिरायुष्प्रदानम्......
अध्यायः - १०५
. सुमुखायायुष्प्रदानश्रवणक्रुद्धेन गरुडेनेन्द्रोपेन्द्रयोरात्मानमधिकबलवत्त्वेन विकत्थ्य भर्त्सनम् । गरुडवाक्यं श्रुत्वा ममेमं सव्येतरं बाहुं धारयेत्युक्त्वा विष्णुना निहितस्य बाहोर्भारेण गरुडः पपात । अनन्तरं गतदर्पेण गरुडेन प्रार्थितस्य विष्णोः प्रसादादि । स उपेन्द्र एवायं वासुदेवस्तेन द्वारीभूतेनात्मानं रक्षेत्युक्तवतः कण्वस्य दुर्योधनेनोपहसनम्.....
अध्यायः - १०६
. जनमेजयप्रश्नानन्तरं नारदकृतमुपदेशं कथयाञ्चक्रे वैशम्पायनः । दुर्योधनं प्रति हितमुपदिशन्नारदो गालवचरित्रं कथयति स्म । विश्वामित्र एकदा वसिष्ठवेषेण स्वसमीपमागतस्य धर्मस्य कृते चरुं श्रपयति स्म । चरुक्षपणमप्रतीक्ष्यान्यत्र भुक्तवति वसिष्ठे श्रपितं च गृहीत्वा आगतो विश्वामित्रो ’भुक्तं मयाऽन्यत्र त्वं तिष्ठ’ इति वसिष्ठेनोक्तस्तथैव शतं वर्षाणि तस्थौ । पुनरागते धर्मे भुक्त्वा प्रसन्ने गते सति तत्कालकृतया गालवसेवया तुष्टेन विश्वामित्रेणानुज्ञातो गालव आग्रहपूर्वकं गुरुदक्षिणार्थं प्रार्थितवान् । ’एकतः श्यामकर्णानां हयानामष्टौ शतानि देहि’ इति गालवं प्रत्याह विश्वामित्र....
अध्यायः - १०७
. आहारादिपरित्यागपूर्वकं यतमानोऽपि दक्षिणामलभमानो गालवो विललाप । विलपन्तं गालवं प्रति तत्सखा गरुड आगत्य दक्षिणासंपादनार्थं यत्र यत्र त्वया गन्तव्यं तत्र तत्र त्वां प्रापयिष्यामीत्युबाच.....
अध्यायः - १०८
. गरुडेन गालवाय प्राचीवर्णनम्......
अध्यायः - १०९
. दक्षिणस्या दिशो वर्णनम् .....
अध्यायः - ११०
. प्रतीच्या वर्णनम्.....
अध्यायः - १११
. उदीचीवर्णनम्...
अध्यायः - ११२
. पूर्वाध्यायान्ते 'कां दिशं जिगमिषसि' इत्युक्तवन्तं गरुडं प्रति पूर्वां दिशं प्रयाहीति गालव उवाच । गरुडपृष्ठमारुह्य गच्छन् गालवस्तद्वेगमसहमानो ’न मे प्रयोजनं किञ्चित्’ इत्याद्याह गरुडं प्रति । ऋषभपर्वते विश्रान्तिं गृहीत्वा निवर्तिष्यावह इत्याद्याह स्म गरुडो गालवम्........
अध्यायः - ११३
. ऋषभपर्वते शाण्डिलीं दृष्ट्वा तस्या आश्रमे भुक्त्वा तदनुज्ञया सुप्तयोः पश्चात्प्रतिबुद्धयोर्गालवगरुडयोर्मध्ये गरुडो गलितपक्षी मांसपिण्डाकृतिश्चाभूत् । गालवेन तथाविधाकृतिर्गरुडः पृष्टस्तत्कारणं कथयति स्म । प्रार्थनातुष्टायाः शाण्डिल्याः प्रसादाल्लब्धपक्षबले गरुडेऽलब्धाश्वो गालवः प्रत्याजगाम । मध्येमार्गं विश्वामित्रवाक्यं श्रुत्वा गरुडो दक्षिणालाभार्थं मन्त्रयिष्याव इत्याह गालवम्......
अध्यायः - ११४
. ययातिर्मम सखाऽस्ति तन्निकटं गच्छाव इति गरुडेनोक्ते तौ ययातिं ययतुः- ययातिं प्रति गरुडेन गालववृत्तान्ते कथिते गालवो गुरुदक्षिणामयाचत.......
अध्यायः - ११५
. क्रतुषु क्षीणवित्तेन ययातिना धनं याचमानाय गालवाय माधवीनाम्नयाः स्वकन्याया धनार्जनोपायतया दानम् । कन्यामादाय शुल्कार्थं हर्यश्वं प्रति गालवगमनम्...
अध्यायः - ११६
. हर्यश्वेनैकपुत्रोत्पादनायैकतः श्यामकर्णानामश्वानां द्विशत्या मुल्येन कन्यापरिक्रयणम् । पुत्रमुत्पाद्य पुनः कन्याभूतां तामादाय दिवोदासं प्रति गालवगमनम्...
अध्यायः - ११७
. दिवोदासेनापि तेनैव मूल्येनैकं पुत्रमुत्पादयितुं माधवीस्वीकरणं पुत्रमुत्पाद्य गालवाय निवर्तनं च......
अध्यायः - ११८
. गालवेन पुनरौशीनराय तेनैव मूल्येनैकं पुत्रं जनयितुं माधवीदानम् । पुत्रमुत्पाद्य तेन निर्यातितां तामादाय गच्छता गालबेन पथि सुपर्णदर्शनम्........
अध्यायः - ११९
. सुपर्णवचसा ज्ञाताधिकाश्वालाभेन गालवेनाश्वषट्शत्या सहैकपुत्रोत्पादनाय विश्वामित्राय माधवीदानम् । एवं गुरुदक्षिणां निर्यात्य विश्वामित्रेण पुत्रोत्पादनान्ते पुनः कन्याभूताया माधव्यास्तत्पित्रे निर्यातनम्.....
अध्यायः - १२०
. राज्ञोपक्रान्तस्वयंवरया माधव्या वनं गत्वा तपश्चरणम् । बहुना कालेन स्वर्गतस्य ययातेः सर्वावमाननेन क्षीणपुण्यस्य तत्रस्थैरनभिज्ञानान्निस्तेजस्त्वप्राप्तिः.......
अध्यायः - १२१
. ययातेः स्वदौहित्राणां प्रतर्दनादीनां वाजपेयेन यजमानानां मध्ये पतितस्य मांधवीगालवाभ्यां स्वस्वतपसोऽर्धेनाष्टमभागेन च तारणम्........
अध्यायः - १२२
. प्रतर्दनादिभिः स्वसर्वपुण्यदानेन ययातेः स्वर्गारोपणम्.......
अध्यायः - १२३
. पुनः स्वर्गतस्य ययातेर्दैवतैरभिनन्दनम् । ययातिना स्वपतनहेतुं पृष्टेन ब्रह्मणाऽभिमान इति कथनम् । नारदेन दुर्योधनाय मानत्यागोपदेशः.....
अध्यायः - १२४
. धृतराष्ट्रप्रार्थितेन श्रीकृष्णेन शमार्थं दुर्योधनस्य बहुविधानुनयः......
अध्यायः - १२५
. भीष्मद्रोणाभ्यां विदुरेण धृतराष्ट्रेण च भगवद्वचनावमानने दोषानुक्त्वा तद्वचनकरणोपदेशः......
अध्यायः - १२६
. भीष्मद्रोणाभ्यां दुर्योधनाय शमस्य श्रेयस्त्वोपदेशः.......
अध्यायः - १२७
. न मया पाण्डवानां सुसूक्ष्ममप्यपराद्धं न च तीक्ष्णतया सूच्या यावद्विद्ध्येत्तावदपि भूमेः मया पाण्डवान्प्रति परित्याज्यमिति दुर्योधनस्य दर्पोक्तिः.....
अध्यायः - १२८
. भगवता श्रीकृष्णेन द्रौपदीसभाप्रवेशन-लाक्षागृहदाह-विषबन्धनादिदुर्योधनव्यतिक्रमेषु श्रावितेषु भीष्मादीननादृत्य महता क्रोधेन सभातो दुर्योधनप्रस्थानम् । कर्ण-शकुनि-दुःशासन-दुर्योधनानां निग्रह एव प्राप्तकाल इति कुरून्प्रति भगवदुक्तिः.....
अध्यायः - १२९
. धृतराष्ट्रेण दुर्योधनमनुनेतुं गान्धार्यानयनम्- गान्धार्या धृतराष्ट्राज्ञया विदुरेण पुनः सभां प्रवेशिताय पुत्राय पाण्डवेभ्यो राज्यार्धदानोपदेशः........
अध्यायः - १३०
. मातुर्वाक्यमनादृत्य पुनः सभातो निष्क्रम्य दुःशासनादिभिः कृष्णबन्धनं मन्त्रयमाणस्य दुर्योधनस्याभिप्रायमिङ्गितेन ज्ञात्वा सात्यकिना कृतवर्मणे सभाद्वाररक्षणाय सेनायोजनमादिश्य कृष्णं प्रति तेषामभिप्रायमुक्त्वा स्मितपूर्वं धृतराष्ट्रविदुराभ्यां तत्कथनम् । विदुरेण धृतराष्ट्र पुत्रास्ते परीतकाला इत्युक्ते श्रीकृष्णेन दुर्योधनादिभिः स्वनिग्रहणं स्वेन वा तन्निग्रहणं यत्स्यात्तदनुजानीहीति सर्वेषु शृण्वत्सु धृतराष्ट्रप्रार्थनम् । धृतराष्ट्रेण पुनर्दुर्योधनं सानुजं सहामात्यं च सभामानाय्य बहु गर्हयित्वा कृष्णघर्षणत्वस्याप्यशक्यत्वप्रतिपादनम् । विदुरेणापि कृष्णस्येश्वरत्वप्रतिपादनमुखेन तथैव प्रतिपादनम्.......
अध्यायः - १३१
. श्रीकृष्णो दुर्योधनं प्रति ’त्वमेकाकिनं मां मन्यसे चेत्सर्वमेतन्मयि पश्य’ इत्याद्युक्त्वा विश्वरूपं दर्शयामास । तत् दृष्ट्वा सर्वेषु राजसु भयेन निमीलितनेत्रेषु सत्सु द्रोणादयो भगवद्दत्तदिव्यदृष्ट्या तत्पश्यन्त एव तस्थुः । ततः सभाया निर्गतं कौरवैरनुयातं श्रीकृष्णं प्रति धृतराष्ट्रस्य प्रार्थनोक्तिः । धृतराष्ट्रादीनामन्त्र्य निर्गतः श्रीकृष्णः कुन्तीं द्रष्टुं ययौ.....
अध्यायः - १३२
. पृथागृहगतेन भगवता तस्यै सभावृत्तान्तकथनम् । तया तं प्रति युधिष्ठिराय क्षत्रियोचिताचरणसन्देशः....
अध्यायः - १३३
. युधिष्ठिरमिव क्षत्रियोचिताचारपराङ्मुखं परपरिभूतं स्वपुत्रं विदुला नाम राजन्या बहु गर्हयित्वा शत्रुजये प्रावर्तयत्ततो विक्रमोपार्जितमेव क्षत्रियस्य प्रशस्यतरं नतु याञ्चयोपनतं तस्माद्युद्धमेव प्रवर्ततामिति भवता युधिष्ठिरो वक्तव्य इत्युक्त्वा कुन्त्या श्रीकृष्णाय विदुलातत्पुत्रयोः संवादकथनम्.......
अध्यायः - १३४
. विदुलया अनुद्यमनिमित्तेन पुत्रं बहु विनिन्द्य क्षत्रस्वभावं च निर्वर्ण्य तस्य शत्रूत्सादनचोदनम्
अध्यायः - १३५
. पुनः पुनर्युद्धचोदनात्पुत्रेण निष्करुणत्वेनाऽऽक्षिप्तया विदुलया धर्मार्थहीनपुत्रवात्सल्यं खरीवात्सल्यत्वेन विगर्ह्य मनस्विपुरुपस्वभाववर्णनेन तद्विपरीतः पुत्रोऽर्थादधमत्वेनोक्तः पुनः करुणं ब्रुवन् शत्रुवधानन्तरं त्वां पूजयिष्यामीति तया समाश्वासितः कोशामावादात्मानमयजानन्नुपायमपृच्छत् । मात्राऽऽत्मन्यवज्ञाया अयुक्तत्वस्य शत्रुजयोपायस्य च कथनम्
अध्यायः - १३६
. मातुः शत्रुजयोपायनिगूढकोशनिचयौ शृण्वता सञ्जयेन शत्रुजयोद्योगप्रतिज्ञानम् । कुन्त्यास्याख्यानस्य जयनामत्व-वीरप्रसवहेतुत्वयोः कथनम्........
अध्यायः - १३७
. कुन्त्याऽर्जुनादिभ्यः प्रनष्टस्वांशोद्धारावश्यकत्व-शत्रुताकृतापराधाक्षम्यत्व-परसन्देशप्रेषणम् । भगवता कुन्तीमभिवाद्य स्वरथे कर्णमारोप्य तेन सह सुचिरं मन्त्रयित्वोपप्लव्यगमनम्.....
अध्यायः - १३८
. भीष्मद्रोणौ दुर्योधनं प्रत्यर्जुनप्रशंसापूर्वकं शमार्थं युद्धनिवारणार्थं च वाक्यमूचतुः....
अध्यायः - १३९
. स्ववचनश्रवणेन विमनसं दुर्योधनं दृष्ट्वा भीष्मद्रोणाभ्यां शुश्रूषुणा पार्थेन सहावश्यंभावियुद्धप्रसङ्गं शोचित्वा दुर्योधनं च विगर्ह्य पाण्डवानामजय्यत्वमात्मनश्च जीवित उदासीनत्वमुक्त्वा पुनः शमोपदेशः.......
अध्यायः - १४०
. कृष्णः कर्णं प्रति किमब्रवीदिति धृतराष्ट्रप्रश्नः । ’कर्णं प्रति भगवता धर्मतस्त्वं पाण्डोः पुत्रोऽसि तद्दुर्योधनादीन् परित्यज्य युधिष्ठिरं समाश्रय पार्थाश्चाग्रजत्वात्त्वामेव राज्येऽभिषेक्ष्यन्तीत्युक्तम्' इति सञ्जयेन धृतराष्ट्रं प्रति कथनम् ...
अध्यायः - १४१
. इदानीं मया पाण्डवाश्रयणे मम तेषां चाकीर्तिः स्यात् किं चाधिरथदुर्योधनादीनां सौहार्दादपि तथा कर्तुं नोत्सहे युद्धे च पाण्डवानामेव जयो भवितेत्यादि कर्णस्य भाषणम्......
अध्यायः - १४२
. कृष्णः कर्णं प्रति पाण्डवजयनिश्चयं कथयित्वार्जुनयुद्धं प्रशंसन् द्रोणभीष्मादीन् प्रति वक्तव्यं सन्देशं कथयामास.....
अध्यायः - १४३
. कालः क्षत्रं नाशयिष्यति तत्र निमित्तमात्रं वयं किं च पाण्डवधार्तराष्ट्राणां क्रमेण शुभाशुभशंसीनि निमित्तानि दृश्यन्ते तेन पाण्डवानामेव जयो भवितेत्युक्तवतः कर्णस्य भगवता विसर्जनम् .....
अध्यायः - १४४
. कौरवनिन्दारूपं वाक्यं वदन्तं विदुरं प्रति विषादोक्तिपूर्वकं कर्णजन्मवृत्तान्तं कथयित्वा गङ्गासमीपं गतवत्यः कुन्त्याः कर्णदर्शनादि.......
अध्यायः - १४५
. कुन्त्या कर्णं प्रति त्वं सूर्यान्मयि जातोऽसि न राधेयस्तस्मान्मद्वचनाद्धार्तराष्ट्रान्परित्यज्य पाण्डवैः सङ्गच्छस्वेति कथनम्.....
अध्यायः - १४६
. कुन्तीवाक्यानुमोदकं सूर्यवाक्यं श्रुत्वा कुन्त्याक्षेपपूर्वकमर्जुनं विना तव पुत्रान्न हनिष्यामीति कर्णेन प्रतिज्ञाते सत्युभौ यथास्थानं जग्मतुः.......
अध्यायः - १४७
. उपप्लव्यमागत्य सर्वं वृत्तान्तं सङ्क्षेपेणोक्त्वा विश्रान्तं कृष्णं प्रति भानावस्तं गते युधिष्ठिरेण प्रश्ने कृते स दुर्योधनं प्रति स्वोक्तिमाह । भीष्मादयः किमुक्तवन्त इति युधिष्ठिरेण पृष्टे दुर्योधनं प्रति भीष्मेण कथितं शन्तनुमारभ्य पाण्डवपर्यन्तं राज्याधिकारिक्रमेण पाण्डवा एव राज्याधिकारिण इत्यादि वाक्यमाह स्म भगवान् श्रीकृष्णः......
अध्यायः - १४८
. दुर्योधननिन्दापूर्विका भीष्मं प्रति विदुरोक्तिः । कुद्धा गान्धारी दुर्योधनं प्रति पाण्डोरेवैतद्राज्यमित्याद्युवाच......
अध्यायः - १४९
. ’धृतराष्ट्रो दुर्योधनं प्रति वदन्श्चन्द्रवंशविवरणपूर्वकमात्मनो राज्यानधिकारमुक्त्वा युधिष्ठिरस्यैवैतद्राज्यमित्याद्याह स्म......
अध्यायः - १५०
. भीष्मादिभिरेवं बोधितोऽप्यबुध्यमानो दुर्योधनः कुरुक्षेत्रगमनार्थं राज्ञः आदिदेश । श्रीकृष्णो युधिष्ठिरं प्रति वहुप्रकारं स्वकर्तव्यं कथयामास.......
(७) सैन्यनिर्याणपर्व
अध्यायः - १५१
. युधिष्ठिरः सेनाविभागार्थं भ्रातॄनादिश्य द्रुपदादीन् सप्ताक्षौहिणीपतीन्निर्दिश्य सप्तानामपि नियन्तारमेकं सेनापतिं ब्रूहीति सहदेवमब्रवीत् । सेनापतिकरणे सहदेवादीनां मतभेदे युधिष्ठिरप्रेरणया श्रीकृष्णो धृष्टद्युम्नमेवान्वमोदत । हृष्टानां सैनिकानां सन्नहनपूर्वकं कुरुक्षेत्रगमनम्.....
अध्यायः - १५२
. युधिष्ठिराज्ञया धृष्टद्युम्नादयो धृतराष्ट्रसैनिकान् विद्राव्य हिरण्यवत्यास्तीरे महार्हाणि शिबिराणि निर्माय परिखादि चक्रुः । तत्र काष्ठादीनां सञ्चयादिकं ज्याधनुर्बाणादीनां शिबिरे स्थापनं चाकुर्वन्.......
अध्यायः - १५३
. ’पाण्डवसेनां निविष्टां श्रुत्वा किमकार्षीत् दुर्योधनः’ इति जनमेजयप्रश्ने वैशम्पायनस्योत्तरम् । दुर्योधनः शिबिरादिनिर्माणार्थं कर्णादीनाज्ञापयामास । आसनेभ्य उत्थिता राजानो धार्तराष्ट्रश्च युद्धोत्साहं प्रकाशयाञ्चक्रुः.....
अध्यायः - १५४
. युधिष्ठिरेण श्रीकृष्णं प्रति कथमस्मिन्काले स्वधर्मान्न च्यवेमहीति प्रश्नः । भगवता न वयमत्यर्थं परित्यागेन शममिच्छाम इत्युक्ते युधिष्ठिरेण युद्धमाज्ञाप्य गुरुभिः सह सङ्ग्रामस्य शोचनमर्जुनेन कुन्तीविदुराभ्यामपि तथोपदेशान्नात्राधर्मशङ्का युक्तेति समाधानम् । युद्धार्थं कृतनिश्चयाः पाण्डवाः कुरुक्षेत्र ऊषुः.....
अध्यायः - १५५
. दुर्योधनेन विभक्तस्य सैन्यस्य वर्णनम् । सेनादीनां पत्त्यादीनां च लक्षणकथनं कृपादीनां पृथगक्षौहिणीपतित्वकथनं च...
अध्यायः - १५६
. सैनापत्यार्थं दुर्योधनेन प्रार्थितो भीष्मस्तदङ्गीकृत्य प्रतिदिनमयुतसेनानाशनं प्रतिजज्ञे । भीष्ये कर्णमाक्षिपति स यावद्गाङ्गेयो जीवति तावदहं न योत्स्ये इति प्रतिजज्ञे । भीष्मस्य सैनापत्यामिषेके कृते दुर्निमित्तान्यभूवन् । सर्वैः सैनिकैः सह कुरुक्षेत्रमागतो दुर्योधनः शिबिरादिकं कारयामास......
अध्यायः - १५७
. भीष्मं युद्धाय दीक्षितं श्रुत्वा युधिष्ठिरादयः किमभाषन्तेति जनमेजयप्रश्नं वैशम्पायनस्योत्तरम् । धार्तराष्ट्रैर्भीष्मं सैनापत्येऽभिषिक्तं श्रुत्वा युधिष्ठिरो द्रुपदादीनक्षौहिणीपतित्वे धृष्टद्युम्नं सर्वसेनापतित्वेऽभिषिच्यार्जुनं च सेनापतिं कृत्वा कृष्णं तस्यापि नेतारं चक्रे । अत्रान्तरे बलरामस्तत्रागत्य पाण्डवैः पूजितो युद्धात्समुत्तीर्णान्भवतो द्रक्ष्यामीत्युक्त्वा कौरवान्नश्यत उपेक्षितुमशक्तस्तीर्थयात्रां प्रययौ......
अध्यायः - १५८
. अस्मिन्नेव काले रुक्मी महत्या सेनया पाण्डवानुपेत्यार्जुनं ’यदि भीतोऽसि साहाय्यं ते करिष्यामि’ इति वदन्नर्जुनेन प्रत्याख्यातो धार्तराष्ट्रं गतस्तत्रापि पूर्ववद्वदन्स्तेनापि प्रत्याख्यातः स्वनगरे ययौ...
अध्यायः - १५९
. युद्धदोषान् दुर्योधने आधित्सतं धृतराष्ट्रं प्रति त्वमात्मनो दुश्चरितादर्थमापन्नो दुर्योधनं कालमीश्वरं वा दूषयितुमर्हसीति सञ्जय वचनम्.......
(८) उलूकदूतागमनपर्व
अध्यायः - १६०
. हिरण्वत्यां पाण्डवेषु निविष्टेषु तत्र दुर्योधनो बलं निवेश्य कर्णादिभिः सह मन्त्रयित्वोपह्नरे वासुदेवस्य शृण्वतः "वासुदेवसहस्रं वा फाल्गुनानां शतानि वाऽमोधेषु मामासाद्य दश दिशो विद्रोष्यन्ति, अहं वासुदेवभयात्तथा युष्माकं भयाद्वा राज्यं न प्रतिप्रदास्यामि" इति सन्देशं पाण्डवेभ्यः कथयेत्युलूकं प्रति बिडालव्रताख्यानकथनपूर्विका दुर्योधनोक्तिः.....
अध्यायः - १६१
. उलूकः पाण्डवान् प्रति गत्वा युधिष्ठिरादभयं लब्ध्वा दुर्योधनकथितं सन्देशं युधिष्ठिरार्जुनौ प्रत्याह.....
अध्यायः - १६२
. उलूकवाक्यश्रवणेन क्रुद्धेषु पाण्डवेषु श्रीकृष्णः "प्रयाहि गच्छ" इत्याद्याहोलूकम् । कृष्णाधिक्षेपेण क्रुद्धेषु राजसु भीमः सहदेवश्च क्रमेणोलूकं प्रत्यूचतुः । भीमं धृष्टद्युम्नादींश्च प्रत्यर्जुनेनोक्तं वाक्यं श्रुत्वा राजानोऽर्जुनं प्रशशंसुः । दुर्योधनं प्रति वक्तव्यमुलूकं प्रत्याहार्जुनः श्रीकृष्णश्च......
अध्यायः - १६३
. भीष्मं पुरस्कृत्य युद्ध्यमानं दुर्योधनमधिक्षिप्योलूकनिकटे भीष्महननप्रतिज्ञादि विधाय वक्तव्यं सन्देशमाहार्जुनः । युधिष्ठिर-भीष्म-नकुल-सहदेव-विराट-द्रुपद-शिखण्डि-धृष्टद्युम्ना अपि स्वस्वसन्देशमुलूकं प्रत्याहुः । पुनर्युधिष्ठिरसन्देशवाक्यं श्रुत्वा तदनुज्ञया ततो निर्गत उलूको दुर्योधनमागत्यार्जुनादिसन्देशान् कथयामास । दुर्योधनः सेनाप्रस्थे कर्णादीनाज्ञापयामास......
अध्यायः - १६४
. उलूकवाक्यं श्रुत्वा युधिष्ठिरेण निर्यापितायाः सेनाया अग्रेसरो धृष्टद्युम्नः "अर्जुनं सूतपुत्राय" इत्यादिना सर्वेषां योधानां भागान् कल्पयित्वा स्वस्य द्रोणं भागमकल्पयत्........
(९) रथातिरथसङ्ख्यानपर्व
अध्यायः - १६५
. सञ्जयं प्रति धृतराष्ट्रप्रश्नः । अभिषिक्तेन भीष्मेण समाश्वासितो दुर्योधनस्तं प्रत्युभयपक्षीयाणां रथातिरथसङ्ख्यां पप्रच्छ । भीष्मः स्वसैन्यगतानां महारथादीनां सङ्ख्यां कथयन् रथातिरथविभागकथनपूर्वकं दुर्योधनादीनां पराक्रमं स्वस्य कृतवर्मादीनां सिन्धुराजस्य च पराक्रमं कथयामास......
अध्यायः - १६६
. काम्बोजादीनारभ्य कृपपर्यन्तानां रथातिरथसङ्ख्यानपूर्वकं पराक्रमकथनम्........
अध्यायः - १६७
. शकुन्यश्वत्थामद्रोणप्रभृतिभगदत्तान्तानां सङ्ख्यानपूर्वकं पराक्रमकथनम्.....
अध्यायः - १६८
. अचलवृषकयोः पराक्रमकथनानन्तरं कर्णनिन्दापूर्वकं तमर्धरथत्वेन गणयति स्म भीष्मो द्रोणश्च तदेवान्वमोदत । भीष्मं प्रति सक्रोधं निन्दावाक्यमुक्त्वा दुर्योधनं प्रति भीष्मत्यागादिकं कथयन्तं कर्णं प्रति भीष्मः सक्रोधमुवाच । भीष्मं क्षमापयन् दुर्योधनः परेषां रथातिरथसंख्यां शुश्रूषुः पप्रच्छ.....
अध्यायः - १६९
. पाण्डवानां रथातिरथसंख्यानं कथयन् भीष्मो युधिष्ठिरादीनामर्जुनस्य च पराक्रमं वर्णयति स्म । भीष्मकथितं पाण्डवपराक्रमं श्रुतवतां योधानां बाहवः शिथिला बभूवुरित्याह वैशम्पायनः.....
अध्यायः - १७०
. द्रौपदेयानारभ्य विराटद्रुपदपर्यन्तानां पराक्रमं कथयामास भीष्मः......
अध्यायः - १७१
. शिखण्डिप्रभृति काश्याद्यन्तानां पराक्रमकथनम्......
अध्यायः - १७२
. कुन्तिभोजप्रभृतिघटोत्कचाद्यन्तानां पराक्रममभिधाय शिखण्डिनं नाहं हन्यामित्याद्यभिदधाति स्म भीष्मः.....
(१०) अम्बोपाख्यानपर्व
अध्यायः - १७३
. दुर्योधने भीष्मं प्रति शिखण्डिनोऽहनने निमित्तं पृच्छति भीष्म आह स्म । विचित्रवीर्यस्य विवाहार्थं भीष्मः काशीं गत्वा काशिपतेस्तिस्रः कन्या आजहार । कन्याहरणसमये युध्यमानानां राज्ञां भीष्मात्पराजयः.....
अध्यायः - १७४
. कन्यानां विचित्रवीर्येण सह उपक्रान्ते विवाहे ज्येष्ठयाऽम्बया मया मनसा शाल्वो घृतस्तेन चाहं रहसि वृतेति तं प्रति मां प्रेषयेति भीष्मप्रार्थना......
अध्यायः - १७५
. भीष्मेण सर्वानुमत्या वृद्धादिभिर्गुप्तायास्तस्याः शाल्वाय प्रेषणं भीष्मभयाच्च शाल्वेन तस्याः परित्यागः । तया स्वदुःखस्य भीष्मं हेतुं निश्चित्य तद्वधाय तपश्चिकीर्षया तपोवनं गत्वा प्राव्राज्यदीक्षार्थं तापसप्रार्थनम्......
अध्यायः - १७६
. तापसेष्वम्बया संवदत्स्वकस्मादागतं होत्रवाहनं प्रति तापसा अम्बावृत्तान्तं कथयाञ्चक्रुः । होत्रवाहनस्तापसवाक्यं श्रुत्वा अम्बां स्वाङ्कमारोप्य पृष्टया तया कथितं वृत्तान्तं च श्रुत्वा रामसमीपगमनार्थं तामाज्ञापयति स्म । एतस्मिन्नेवावसरेऽकस्मादागतेन रामानुचरेणाकृतव्रणेन श्वः प्रभाते रामोऽत्रागमिष्यतीति कथिते तं प्रति होत्रवाहनोम्बावृत्तं निवेदयामास......
अध्यायः - १७७
. अकृतव्रणाम्बयोः संवादः । तत्रागतं रामं प्रति होत्रवाहनेन ’अस्या वृत्तं शृणु’ इत्युक्ते स्वसमीपे रुदत्यम्बा रामेण पृष्टा सती दुःखितां मामुद्धरेति सामान्यतः उवाच । 'किमिदं वक्ष्यति' इति चिन्तयन्तं जामदग्न्यं प्रत्यम्बा विशेषतः स्वं वृत्तं निवेद्य भीष्मवधार्थं प्रार्थयामास....
अध्यायः - १७८
. रामाम्बयोः संवदतोरकृतव्रणे ’शरणागताभिमां मा त्यज’ इत्युक्तवति तदङ्गीकरणवाक्यं प्रति राम उवाच । रामे कन्यया सह कुरुक्षेत्रमागत्य भीष्मं प्रतीमां प्रतिगृह्णीष्वेत्युक्तवति सत्युभयोरुक्तिप्रत्युक्ती । आक्षेपपूर्वकं स्वस्य युद्धाभिप्रायं प्रकटीकृत्य भर्त्स्यमानं भीष्मं प्रति रामः सक्रोधमुवाच । भीष्मेण सह युद्धार्थं रामः कुरुक्षेत्रमाजगाम । जामदग्न्यभीष्मयोर्युद्धोपक्रमः । तदात्वे गङ्गा युद्धनिवारणार्थं भीष्मं बोधयित्वा तस्मिन्नशृण्वति राममागत्य प्रार्थयित्वा तस्मिन्नशृण्वति पुनरपि भीष्ममुपसर्प.........
अध्यायः - १७९
. भीष्मरामयोरुक्तिप्रत्युक्त्यनन्तमुभयोस्तुमुले युद्धे प्रसक्ते बाणप्रहारेण मोहितं रामं दृष्टवतो भीष्मस्य पश्चात्तापः....
अध्यायः - १८०
. पुनर्द्वितीये दिवसे युद्धप्रवृत्यनन्तरं रामबाणप्रहारेण मोहिते भीष्मे अकृतव्रणादयो जहृषुः। लब्धसंज्ञस्य भीष्मस्य बाणप्रहारेण रामे मूर्छिते सति तत्समीपागतैरकृतव्रणादिभिः संज्ञां लम्भितस्य तस्य भीष्मं प्रति ’तिष्ठ भीष्म’ इत्यादि वाक्यम्.....
अध्यायः - १८१
. तृतीये दिवसे दिव्यैरस्त्रैर्युध्यमानयोरुभयोः परस्परं बाणैर्गाढविद्धयोः सायं शुद्धविरामः......
अध्यायः - १८२
. चतुर्थदिवसे पुनर्युद्धे प्रसक्ते बाणजालविद्धे भीष्मसारथौ मृते रामबाणप्रहारेण मोहितो भीष्मोऽष्टभिर्ब्राह्मणैः संज्ञां लम्भितः सारथिस्थाने स्थित्वा हयान् सगृह्णतीं स्वमातरं गङ्गां दृष्ट्वा भीष्मः प्रणामपूर्वकं तां विसृज्य स्वयं रश्मीन् गृहीत्वा युद्धं चकार । भीष्मबाणप्रहारमोहिते रामे पतिते सत्यौत्पातिका उल्कापातादयो बभूवुः । एवं प्रतिदिनं युध्यमानयोस्त्रयोविंशतिदिनान्यतीयुः.....
अध्यायः - १८३
. वसुभिः स्वप्ने ’त्वं रामं जेष्यसि न त्वां रामो जेता, प्रस्वापनास्त्रं च त्वामुपस्थास्यति यद्रामो न वेद’ इति भीष्मं प्रति कथनम्......
अध्यायः - १८४
. ततः परेद्यव्युभाभ्यामपि तुमुले युद्धे प्रसक्ते भीष्मेण ब्रह्मास्त्रे योजिते तत्प्रतीघातार्थं रामेणापि तस्मिन् प्रयोजिते तत्तेजसा व्योम्नि प्रज्वलिते लोकेषु च हाहाकारेषु जातेषु प्रस्वापनं नामास्त्रं मोक्तुकामस्य भीष्मस्य तत्प्रतिभानम्....
अध्यायः - १८५
. प्रस्वापनास्त्रं प्रयुञ्जानो भीष्मो देवैर्नारदेन च निवारितः सप्नदृष्टब्राह्मणवाक्याच्च तत्सञ्जहार । ऋचीकादिषु रामपितृष्वागत्य भीष्मं रामं च प्रति युद्धान्निवृत्तिमाज्ञापयत्स्वपि यदोभौ नाङ्गीचक्रतुस्तदा भागीरथ्या सह ते सर्वे रणाजिरं प्रतिरुध्य रामं शस्त्रं न्यासयाञ्चक्रिरे । 'ततः स्वप्नदृष्टब्राह्मणवाक्यादहमपि रामस्य पादवन्दनाद्यकार्षमित्याद्याह भीष्मः.....
अध्यायः - १८६
. "त्वं यथेष्टं गच्छ भीष्मं वा प्रपद्यस्व" इत्याद्युक्तवन्तं रामं प्रति भीष्मगमनानङ्गीकारपूर्वकं ’यत्र गत्वा स्वयमेव भीष्मं हनिष्यामि तत्रैव गमिष्यामि’ इत्युक्त्वा तपःसङ्कल्पं कृत्वा जगामाम्बा । तस्यास्तपःसङ्कल्पं श्रुत्वा चिन्तयन्तं भीष्मं प्रति व्यासनारदावागत्यऽऽश्वासयामासतुः । तपश्चरणार्थं वत्सभूमिमागत्य नन्दाश्रमादिषु तपश्चरन्त्या अम्बाया गङ्गायाश्चोक्तिप्रत्युक्ती । तीर्थलोभादितस्ततो धावन्ती पतिताऽम्बा गङ्गाशापास्तीर्था सरित् कन्या च बभूव...
अध्यायः - १८७
. कन्याशरीरेण तत्र पुनस्तपसि प्रवृत्तयाऽम्बया दर्शितरूपादीश्वरात् 'भवान्तरे भीष्मं हनिष्यसिककन्या भूत्वा पञ्चात्पुमांश्च भविष्यसि' इति वरं लब्ध्वाऽग्निप्रवेशनम्.....
अध्यायः - १८८
. कन्या भूत्वा कथं पुरुषो भवेदिति दुर्योधनप्रश्ने भीष्मस्योत्तरकथनम् । अपत्यार्थं तपस्यन् द्रुपदस्तुष्टान्महादेवात् 'स्त्रीपुमांस्ते भविष्यति’ इति वरं लब्ध्वा स्वभार्यां प्रति कथयामास । शिखण्डिनो जन्मादिवृत्तान्तकथनम्.....
अध्यायः - १८९
. यौवनस्थां कन्यां दृष्ट्वा चिन्तयन्द्रुपदो भार्ययाऽऽश्वासितः सन् दशार्णकन्यया सह शिखण्डिनो विवाहमकरोत् । शिखण्डिन्याः स्त्रीत्वं ज्ञात्वा दशार्णकन्या स्वधात्रीभ्यो न्यवेदयत्, ताश्च स्वदासीद्वारा दशार्णाय निवेदयामासुः । तच्छ्रुत्वा क्रुद्धेन दशार्णाधिपतिना प्रेषितो द्रुपमागत्य तत्सन्देशमेकान्ते कथयामास......
अध्यायः - १९०
. इदमसदिति दूतद्वारा द्रुपदसन्देशं श्रुत्वा दशार्णाधिपतिः पुनर्निश्चित्य सैन्येन सह द्रुपदमभियास्यन् युद्धाय स्थिरो भवेत्यादि सन्देशं दूतद्वारा प्रेषयति स्म । दशार्णसन्देशश्रवणेन भीतो द्रुपदो भार्यां प्रति पृच्छति स्म.....
अध्यायः - १९१
. ततो भार्यावाक्यं श्रुत्वा द्रुपदे मन्त्रिभिः सह चिन्तयति शिखण्डिनी प्राणत्यागनिश्चयं कृत्वा वनं जगाम । वनगतेन स्थूणाकर्णयक्षेण पृष्टा शिखण्डिनी तं प्रति स्ववृत्तान्तं कथयित्वा दशार्णपरावर्तनपर्यन्तं पुंस्त्वं मे देहीति ययाचे.....
अध्यायः - १९२
. समयबन्धनपूर्वकं यक्षशिखण्डिन्योरन्योन्यलिङ्गपरिवर्तनानन्तरं शिखण्डी पुम्स्त्वं लब्ध्वा स्वपुरमाजगाम । शिखण्डिपुंस्त्वसन्देशं द्रुपदप्रेषितदूतमुखाछ्रुत्वाऽप्यविश्वस्तो दशार्णः काम्पिल्यनगरमेत्य द्रुपदं प्रति स्वपुरोहितं प्रेषयामास । पुनर्दुपदप्रेषितदूतवाक्यं श्रुत्वा दशार्णः शिखण्डिसमीपे परीक्षार्थं युवतीः प्रेषयामास । युबतीमुखाच्छिखण्डिनः पुंस्त्वं श्रुत्वा दाशार्णो हृष्टः सन् द्रुपदगृहे वसति स्म । एतदन्तरे वने समागतस्य कुबेरस्य पूर्ववत् प्रत्युद्गमनादिकमकुर्वन्तं स्थूणाकर्णं प्रति शिखण्डिजीवनपर्यन्तं तव स्त्रीत्वं तिष्ठत्विति कुबेरः शशाप । एतदनन्तरं सर्वसङ्केतानुरोधेन पुंस्त्वं दातुमागतः शिखण्डी स्थूणाकर्णेन कुबेरशापादिकथनपूर्वकं विसर्जितः स्वगृहं प्रत्याजगाम । एवं शिखण्डिवृत्तं कथयित्वा स्त्रीपूर्वत्वादेनं न हनिष्यामीति भीष्मः प्रतिजज्ञे......
अध्यायः - १९३
. सर्वां पाण्डवसेनां कतिदिनैर्हनिष्यसीति भीष्मादीन् प्रति दुर्योधनप्रश्ने भीष्म-द्रोण-कृपाश्वत्थामानो मासादीनवधीन् कथयामासुः । कर्णेन पञ्चरात्रावधौ कथिते भीष्मो जहास ......
अध्यायः - १९४
. भीष्मप्रतिज्ञां श्रुत्वा युधिष्ठिरेण पृष्टोऽर्जुनः स्वबलं कथयित्वा स्वसैनिकानां पराक्रममुवाच......
अध्यायः - १९५
. पाण्डवान् प्रति गन्तुं दुर्योधनेन प्रेरिताः ससैन्या राजानः कुरुक्षेत्रस्य पश्चार्धम् आगत्य दुर्योधनेन कारितानि शिबिराणि प्रविविशुः.....
अध्यायः - १९६
. युधिष्ठिरः प्रथमं धृष्टद्युम्नादीन्, अनन्तरं भीष्मादीन्श्च प्रेषयित्वा विराटादिभिः सह स्वयं निर्जगाम । भीमादिसैन्यसम्बन्धिनामश्वादीनां परिगणनम्.......
उद्योगपर्वणि