- १.जम्बूखण्डनिर्माणपर्व
- २. भूमिपर्व
- ३. भगवद्गीतापर्व
- ४. भीष्मवधपर्व
- अध्यायः - ४३. गीता सुगीतेत्यादिना गीतापठनप्रशंसनं गीताश्लोकसंख्याकथनं च । गीतोपदेशानन्तरमर्जुनेन गाण्डीवे धृते दृष्टाः पाण्डवादयः शङ्खान्दध्मुर्देवादयश्च युद्धदर्शनार्थमाजग्मुः । युधिष्ठिरे भीष्ममभिप्रेक्ष्य रथादवरुह्य गच्छत्यनुगम्यमानेष्वर्जुनादिषु पृच्छत्स्वपि निरुत्तरे सति तदभिप्रायं श्रीकृष्ण आह। कुरुसैन्ये निन्दति सति युधिष्ठिरो भीष्मं प्रति चरणौ निपीड्य युद्धानुज्ञामाशिषं च प्रार्थयति स्म । यद्येवमित्यादिनाऽनागमने दोषमभिधाय प्रीतोऽहं युध्यस्व त्वं जयं चाप्नुहीत्युक्त्वाऽस्मत्तो वरो व्रियतामित्याह भीष्मः। मदर्थे हितैषी सन् मंत्रयस्वं कौरवार्थं च युध्यस्वेति प्रार्थयति युधिष्ठिरे तदंगीकृत्य भीष्मो हि 'ब्रूहि यत्ते विवक्षितम्' इत्याह । 'कथं जयेयं संग्रामे भवन्तमपराजितम्' इति युधिष्ठिरेण याचिते नैनं पश्यामीत्याद्युक्तवति भीष्मे युधिष्ठिरो वधोपायं ब्रवीहीत्याह । 'न तावन्मृत्युकालोपि पुनरागमनं कुरु' इत्युक्तवति भीष्मे युधिष्ठिरस्तद्वाक्यं शिरसा गृहीत्वा तमभिवाद्य द्रोणाचार्यं प्रति ययौ । भीष्मवदेव द्रोणाद्वरादिकं लब्ध्वा कृपशल्यौ प्रति गत्वा तथैव ताभ्यामपि वरादिकं लब्ध्वा प्रत्याववृते। कृष्णोऽपि कर्णं गत्वा 'यावद्भीष्मजीवनं तावदस्मान्वृणु' इत्युवाच कर्णेन तदनङ्गीकृते निववृते च। युधिष्ठिरे सैन्ययोर्मध्ये स्थित्वा 'योऽस्मान् वृणोति तमहं' इत्युक्तवत्यागतं युयुत्सुमंगीकृत्य स्वसैन्यमागत्य कवचमग्रहीत् । युधिष्ठिरस्येमां कृतिं वीक्ष्य साधु साध्विति सर्वे राजान ऊचुर्हृष्टाश्च संतो भेरीवादनपूर्वकं शंखान् दध्मुश्च
- अध्यायः - ४४. के पूर्वं प्राहरन्निति धृतराष्ट्रप्रश्ने संजय आह। युद्धारंभे सेनायास्तुमुलं शब्दं श्रुत्वा नदन्तं भीमं बाणवर्षपूर्वकं परिवारयद्भिर्दुर्योधनादिभिः सह द्रौपदीपुत्रादीनां युद्धम् १५६
- अध्यायः - ४५. संजयो युद्धारंभसामयिकं सिंहनादादि कथयन् पूर्वं भीमार्जुनयोर्द्वंन्द्वयुद्धानाह
- अध्यायः - ४६. पितृपुत्रादिसंबंधनविगणय्य युध्यमानानां योधानां संकुलयुद्धं कथयन् संजयो भीमदर्शनेन पाण्डवसेनानां कंपादिकमाह
- अध्यायः - ४७. दुर्योधनप्रेरणया दुर्मुखादिषु भीष्मं रक्षत्सु तस्याभिमन्युना सह युद्धम्। अभिमन्युरक्षार्थमागतेषु पाण्डवमहारथेषु भीमेन सह भीष्मस्य युद्धम् । उत्तरशल्ययोर्युध्यमानयोः शल्यशक्तिप्रहारेणोत्तरे पतिते तद्भ्रात्रा श्वेतेन सह शल्यादीनां युद्धम्। शल्यरक्षणार्थं भीष्मादिष्वागतेषु भीष्मस्य भीमादिभिस्तुमुलं युद्धम्
- अध्यायः - ४८. शल्यरथं प्रति श्वेते गते भीमादिर्भिभीष्मस्य कुरुभिः सह श्वेतस्य तमुलं युद्धम् । भीष्मश्वेतयोर्युध्यमानयोः श्वेतो भीष्मस्य धनुरादि चिच्छेद । भीष्मरक्षार्थं दुर्योधनेन सैन्ये प्रेरिते श्वेतभीष्मयोस्तुमुलं युध्यमानयोः श्वेतप्रेषितां शक्तिं भीष्मश्चिच्छेद | श्वेतप्रेरितया गदया भीष्मे विरथीकृते आकाशवाणीं श्रुत्वा तद्वधे यत्नं कुर्वन् भीष्मो ब्राह्मास्त्रेण तं जघान। श्वेतमरणेन शोचन्तः पाण्डवा अवहारं चक्रुः
- अध्यायः - ४९. धृतराष्ट्रः 'श्वेते हते पाण्डवाः किमकुर्वन्' इत्यादि पृष्ट्वा दुर्योधनाग्रहं निरूप्य धनञ्जयः किमकरोदित्यादिप्रश्नपूर्वकमर्जुनं प्रशस्य श्वेते हते धृष्टद्युम्नः किमकरोदिति पप्रच्छ । सञ्जयो धृतराष्ट्रं निर्भर्त्स्य शल्यं प्रति शङ्खस्य गमनं तद्रक्षार्थ कौरवसैन्यगमनं, शङ्खस्य वधार्थं भीष्मगमनं चाभिधाय शङ्खरक्षणार्थमागतेनार्जुनेन सह भीष्मस्य महद्युद्धमाह । भीष्मे द्रुपदमेत्य पाण्डवसेनां निघ्नति भीतायां तस्यां पाण्डवा अवहारमकुर्वन्। अयमवहारः प्रथमदिवसीयः
- अध्यायः - द्वितीपदिवयुद्धम् ।.
- अध्यायः - ५०. युधिष्ठिरो भ्रातृभिः सह कृष्णमेत्यात्मनो विषादप्रकाशकं वाक्यं वदन् भीमं प्रशस्य भीष्मवधोपायं जिज्ञासुरुवाच । कृष्णेनाश्वासितो युधिष्ठिरो धृष्टद्युम्नप्रोत्साहनं कृत्वा कौञ्चव्यूहरचनार्थं तमादिदेश, स च तं रचयामास
- अध्यायः - ५१. क्रौञ्चव्यूहं दृष्ट्वा दुर्योधनो द्रोणाचार्यादीन् प्रोत्साहयन् शूरसेनादीन् भीष्मरक्षार्थं नियोजयति स्म । व्यूहं रचयित्वा भीष्मे शङ्खं वादयति कौरवाः पाण्डवाश्च शङ्खनादं कुर्वन्तो युद्धमुपचक्रमिरे...
- अध्यायः - ५२. कथं प्रहारं चक्रुरिति धृतराष्ट्रप्रश्ने सञ्जयस्योत्तरम् । दुर्योधनाज्ञयोभयोः सैन्ययोस्तुमुलं युध्यमानयोर्भीष्मः सौभद्रादीन्प्राते बाणांस्तत्याज । भीष्मसमीपगमनार्थमर्जुनेन प्रेरितः कृष्णो यत्तो भवेत्याद्युक्त्वा यावद्रथं प्रेरयति तावद्भीष्मोऽर्जुनसमीपं जगाम। भीष्मादिभिरर्जुनस्य युद्धे प्रसक्ते सात्यकिप्रभृतयोऽर्जुनरक्षार्थमाजम्मुः । भीमार्जुनयोर्युद्धप्रसङ्गेऽश्वत्थामप्रभृतयो भीष्मं ररक्षुः। उभयोर्युध्यमानयोः शरविद्धाङ्गं कृष्णं दृष्ट्वाऽर्जुनश्चुक्रोध देवादयः सर्वे च विस्मयं चक्रुर्योधाश्च परस्परं युयुधिरे द्रोणधृष्टद्युम्नौ तमुलं युयुधाते
- अध्यायः - ५३. 'द्रोणधृष्टद्युम्नयोः कथं समागमः?' इति धृतराष्ट्रप्रश्ने सञ्जयः पाण्डवानामजय्यत्वकथनपूर्वकं तयोर्युद्धं शशंस। द्रोणेन विरथीकृतं धृष्टद्युम्नं प्रति साह्यार्थमागतो भीमो दुर्योधनपोषितेन कालिङ्गेन सह युयुधे
- अध्यायः - ५४. "भीमकालिङ्गयोः कथं युद्धं?" इति धृतराष्ट्रेन सञ्जयस्योत्तरम् । कालिङ्गे भीमरथं प्रत्यागते उभयोः सैन्ययोस्तुमुले युद्धे प्रवृत्ते भीमः स्वसमीपमागतं कालङ्गपुत्रं शक्रदव गदया जघान। पुनः कालिङ्गभीमयोर्युद्धप्रसङ्गे भीमो भानुमन्तं हत्वा गजादिसैन्यं मारयति स्म । भीमयुद्धदर्शनेनान्येषु विस्मितेषु सत्सु भीमो रथमारुह्य कालिङ्गादीन् जघान। स्वसमीपमागतेषु कालिङ्गसैन्येषु भीमः सप्तशताधिकद्विसहस्रयोधान्हत्वा शंखं दध्मौ। धृष्टद्युम्नाज्ञया शिखण्डिप्रभृतिष्वागतेषु धृष्टद्युम्नो भीमपार्श्वं स्थित्वा हर्षेण शंखवादनादि चकार । भीमधृष्टद्युम्नयोः पार्श्वे सात्यकावागते बहूनि सैन्यानि नाशयन्तं भीमं प्रत्यागतेषु भीष्मादिषु भीष्मेण सह सात्यकिप्रभृतीनां महयुद्धम्, सात्यकिकृतं भीमप्रोत्साहनं च
- अध्यायः - ५५. गतपूर्वाण्हभूथिष्ठे तस्मिन्नहनि धृष्टद्युम्नेऽश्वत्थामशल्यकृपैर्युध्यमाने तत्साहाय्यार्थमाभिमन्युराजगाम । शल्यादिभिर्युध्यमाने सौभद्रे युद्धार्थमागतेन लक्ष्मणेन सह तस्य तुमुले युद्धे प्रसक्ते सौभद्रं प्रति दुर्योधनादय आजग्मुः । महारथैर्वेष्टितमभिमन्युं दृष्ट्वा तद्रक्षार्थमागतस्यार्जुनस्य तमुलं युद्धं दृष्ट्वा भीष्मोऽवहारं चकार । अयं द्वितीयदिवसावहारः
- अध्यायः - तृतीयदिवसयुद्धम् ।.
- अध्यायः - ५६. प्रभाते भीष्मेण यानार्थं सेनामादिश्य गारुडव्यूहे रचितं पांडवा अप्यर्धचंद्रव्यूहं रचयामासुस्ततो युद्धारंभः
- अध्यायः - ५७. अर्जुने रथानीकं घ्नत्युभयोः सैन्ययोस्तुमुलयुद्धे प्रवृत्ते नरशोणितैः पृथिवीरजःशान्तौ भीष्मादयः पाण्डवसेनां जग्मुर्भीमादयश्च कौरवसेनाम्
- अध्यायः - ५८. क्रुद्धेषु राजसु बाणादीन्प्रहरत्सु तेषां बाणादीनिवारयत्यर्जुने देवादयस्तं प्रशशंसुः । सौबलानां सात्यक्यभिमन्युभ्यां युधिष्ठिरादीनां द्रोणभीष्माभ्यां घटोत्कचभीमयोर्दुर्योधनादिभिश्च युद्धे प्रसक्ते दुर्योधनस्य मोहः । द्रोणभीष्मयोनिर्वारणमगणय्य पलायमानं कौरवसैन्यं दुर्योधनं गतमोहं दृष्ट्वा निववृते । भीष्ममनुनयन् दुर्योधनः क्रुद्धस्य भीष्मस्य वाक्यं श्रुत्वा हर्षाच्छंखं दध्मौ, तच्छ्रुत्वा पाण्डवा अपि शंखान् दध्मुः ...
- अध्यायः - ५९. ‘तत्र भीष्मः किमकरोत्?’ इति धृतराष्ट्रप्रश्नः । कौरवपाण्डवयोस्तुमुले युद्धे प्रसक्ते तद्युद्धं प्रशंसन् संजयो योधानां नानाविधान् ध्वनीन् कथयामास । आश्चर्ययुद्धं कुर्वतो भीष्मस्य बाणैः पाण्डवसैन्ये भग्ने कृष्णेनोक्तोऽर्जुनः सक्रोधमुक्त्वा भीष्मस्य धनुश्चिच्छेद। अर्जुनं प्रशस्य भीष्मे कृष्णार्जुनौ प्रति बाणान् क्षिपति तत्पराक्रमं दृष्ट्वा कृष्णश्विन्तयामास । पुनर्भीष्मे बाणैर्दिश आच्छादयति द्रोणादिषु च युगपद्बाणप्रहारान् कुर्वत्सु पलायमानं पाण्डवसैन्यं प्रति सात्यकिरुवाच । कृष्णे सात्यकिं प्रति सक्रोधमुक्त्वा चक्रं धृत्वा भीष्मवधार्थं निर्गते भीष्मस्तं दृष्टा तुष्टाव । अर्जुनेन रथादवप्लुत्य पादौ भूत्वाऽनुनीतः कृष्णो पुना रथमारुरोह। कृष्णादिषु शङ्खान्वादयत्सु भूरिश्रवप्रभृतिभिर्युगपद्युद्धे प्रसक्तेऽर्जुनो बहु सैन्यं पातयति स्म । अर्जुनप्रेरितैन्द्रास्त्रभयेन सभीष्मकौरवेषुपयातेष्वर्जुनादयोऽपि शिबिरं जग्मुः। अयं तृतीयदिवसावहारः
- अध्यायः - चतुर्थदिवसयुद्धम् ।.
- अध्यायः - ६०. द्रोणादिषु भीष्मेण सह युद्धभूमिं गतेषु सत्स्वर्जुनोऽपि ससैन्यो निर्जगाम । उभयसैनिकेषु युध्यमानेषु युध्यमानमर्जुनं प्रत्यागतान्भीष्मादीन् दृष्ट्वा साहाय्यार्थमागतोऽभिमन्युर्युयुधे । भीष्मार्जुनावपि महद्युद्धं चक्रतुः
- अध्यायः - ६१. द्रोणिप्रभृतिभिर्युध्यमानमभिमन्युं प्रति दुर्योधनः पंचविंशतिसहस्रसंख्यान् योधान् प्रेषयामास । मद्रानीकादिभिर्युध्यमानो धृष्टद्युम्नो शलपुत्रं जघान । तस्मिन्हते कुरुसैन्येषु हाहाकारं कुर्वत्सु सांयमनिधृष्टद्युम्नौ युयुधाते
- अध्यायः - ६२. पुनरनुतप्यमानं धृतराष्ट्रं प्रति संजयोक्तिः । धृष्टयुम्नशल्ययोर्युद्धानंतरमभिमन्युशल्ययोर्युध्यमानयोः शल्यरक्षणार्थं दुर्योधनादय आजग्मुः । दुर्योधनादिभिर्युध्यमानो भीमो यदा गदां जग्राह तदा तं दृष्ट्वा कौरवेषु पलायमानेषु दशसहस्रगजानीकसहितं मगधं पुरस्कृत्य दुर्योधन आजगाम । भीमरक्षणार्थं द्रौपदी पुत्रादिषु युध्यमानेष्वभिमन्युर्मागधं जघान । भीमे गदाप्रहारेण योधान् पशुमारं मारयति पीडिता गजा पलायनं चक्रुः
- अध्यायः - ६३. भीमं हतेत्युक्त्वा दुर्योधनेन प्रेषिते सैन्ये भीमपराक्रमं प्रशस्य तस्य महद्युद्धं प्राह संजयः। भीमस्य गदायुद्धं दृष्ट्वा विषीदत्सु कौरवेषु सैन्यानि ग्रसमाने तस्मिन्भीष्म आजगाम । सात्यकिप्रभृतिषु भीष्मं प्रति बाणांस्त्यजत्सु भूरिश्रवा आजगाम
- अध्यायः - ६४. सात्यकिभूरिश्रवसोर्युध्यमानयोर्भूरिश्रवसं रक्षितुं दुर्योधनादय आययुः सात्यकिं रक्षितुं पाण्डवाश्च| दुर्योधनादिभिर्भीमस्य बाणयुद्धे प्रसक्ते दुर्योधनबाणप्रहारेण मूर्च्छितं भीमं दृष्ट्वाऽभिमन्युप्रभृतयो युयुधिरे । भीमबाणपीडिते दुर्योधने पलायिते युद्धार्थमागतान् सेनापतिसुषेणप्रभृतिस्तभ्रातॄन् भीमो जघान । भीष्मप्रेरणया आगच्छत्सु महारथेषु भीमसमीपमागतस्य भगदत्तस्याभिमन्युप्रभृतिभिर्युद्धम् । बाणप्रहारेण मूर्च्छितं भीमं दृष्ट्वा भगदत्ते सिंहनादं कुर्वति घटोत्कचो मायया युयुधे। आर्तनादं श्रुत्वा भीष्मेण प्रेरिता द्रोणादयो भगदत्तरक्षणार्थमाययुस्तान् दृष्ट्वा युधिष्ठिरादयोऽपि । घटोत्कचयुद्धं दृष्टवता भीष्मेण प्रेरितेषु कौरवेषु युद्धान्निवृत्तेषु तान् दृष्ट्वा पाण्डवा अपि सिंहनादादिपूर्वकं निववृतिरे । पराजितेषु कौरवेषु हृष्टेषु पाण्डवेषु च स्वस्वशिबिरं गतेषु दुर्योधनो भ्रातृवधेन दीनः संश्चिन्तयागास, चतुर्थदिवस युद्धसमातिः
- अध्यायः - पञ्चमदिवसयुद्धम् ।.
- अध्यायः - ६५. अनुतप्तस्य धृतराष्ट्रस्य 'दुर्योधनादयः किं कृतवन्तः' इति प्रक्षे सञ्जयः पाण्डवान् प्रशस्य कौरवान्निन्दन्धृतराष्ट्रभर्त्सनपूर्वकं दुर्योधनभीष्मसवांदमाह । पाण्डवजयकारणे दुर्योधनेन पृष्टे तं प्रति भीष्मस्तत्कथयन् विश्वोपाख्यानमाह-गंधमादनपर्वते ऋषिभिः सहोपविष्टो ब्रह्माकस्मादागतं विमानं विश्वरूपं भगवन्तं तुष्टाव
- अध्यायः - ६६. ब्रह्मस्तवेन दृष्टो भगवान् 'विदितं तात योगान्मे' इत्याद्युक्त्वाऽन्तर्दधे। देवदिभिः पृष्टे ब्रह्मा तान् प्रति नरनारायणावेताविति कथयित्वा तदवज्ञाकरणे दोषमभिधाय स्वभवनं जगाम । भीष्मो दुर्योधनं प्रति युद्धनिवृत्तिकथनपूर्वकं श्रीकृष्णसंमाननाद्युपदिशंस्तदाश्रयादेव पाण्डवानां जय इत्याह
- अध्यायः - ६७. भगवत्तत्वज्ञानार्थं दुर्योधनेन पृष्टो भीष्मस्तत्तत्त्वं कृष्णप्रसादादिरूपं फलं च कथयति स्म
- अध्यायः - ६८. भीष्मेण नारदादिकृते श्रीकृष्णस्तवे कथिते केशवं बहु मानयन्तं दुर्योधनं प्रति पुनः शमविधानार्थमुवाच । समाप्तं विश्वोपाख्यानम्
- अध्यायः - ६९. .............................................
- अध्यायः - ७०. भीष्मे तुमुलं युध्यमाने छिन्नैर्मस्तकादिभिर्युद्धभूमौ व्याप्तायां कुरुपाण्डवयोस्तुमुलं युद्धम्
- अध्यायः - ७१. भीष्मं प्रत्यागतस्यार्जुनस्य गाण्डीवध्वनिं श्रुत्वा योधेषु बिभ्यत्सु काम्बोजा युद्धार्थमाजग्मुः। भीष्मार्जुनप्रभृतीनां द्वंद्वयुद्धेषु प्रसक्तेषु दुर्निमित्तान्यभूषन
- अध्यायः - ७२. द्रोणदुर्योधनादिभिरर्जुनभीमप्रभृतीनां युद्धे प्रवृत्ते शक्त्याद्यायुधप्रभाभिर्दिशां शोभावर्णनम् । भीष्मभीमयोर्युद्धानंतरं युध्यमानस्य सात्यकेर्भीष्मबाणेन सारथौ पतिते भीष्मादिभिर्धृष्टद्युम्नादीनां युद्धम्
- अध्यायः - ७३. भीष्माश्वत्थामप्रभृतिषु विराटार्जुनप्रभृतिभिर्द्वन्द्वशो युध्यमानेध्वभिमयुलक्ष्मणयोर्युध्यमानयोर्लक्ष्मणस्य पलायनम्
- अध्यायः - ७४. तुमुलं युध्यमानेन सात्यकिना सह भूरिश्रवसो युद्धम्। मध्ये आगतैर्दशभिः सात्यकिपुत्रैर्युध्यमानेन भूरिश्रवसा तेषु हतेषु तेन सह सात्यकेर्महद्युद्धम् । अर्जुनकृतपञ्चविंशतिसहस्रमहारथनाशानन्तरं भीष्मोऽवहारं चकार। अयं च पञ्चमो दिवसावहारः
- अध्यायः - षष्ठदिवसयुद्धम् ।.
- अध्यायः - ७५. शर्वर्यामतीतायां युद्धार्थं कुरुपाण्डवयोर्निर्गतयोः सतोर्युधिष्ठिरवाक्याद्धृष्टद्युम्नो मकरव्यूहं रचयामास भीष्मश्च क्रौञ्चव्यूहम्। युद्धारम्भे सेनाद्वयशोभावर्णनपुर:सरं भीमद्रोणयोर्युद्धवर्णनम्
- अध्यायः - ७६. अनुतापपूर्वकं दुर्योधननिन्दारूपा धृतराष्ट्रस्योक्तिः
- अध्यायः - ७७. दुःशासनादीन् दृष्ट्वा क्रुद्धो भीमः कौरवचमूं प्रविवेश । 'जीवग्राहं गृह्णीम एनम्' इति वदत्सु दुःशासनादिषु तद्वधं चिन्तयन् भीमो रथमुत्सृज्य गदामादाय युद्धमकरोत्। भीमरथं शून्यं दृष्ट्वा आगतो घृष्टद्युम्नो विशोकवाक्यं श्रुत्वा कौरवचमूमध्ये प्रविश्य भीममाश्वासयामास। दुर्योधनप्रेरणया स्वसमीपागतान् दुःशासनादीन् दृष्ट्वा तान् दृष्टद्युम्नो मोहनास्त्रेणामोहयत् । तान् दृष्ट्वा कौरवेषु पलायमानेषु द्रोणो धृष्टद्युम्नमागत्य प्रज्ञास्त्रेण दुःशासनादीनां मोहमपाचकार। युधिष्ठिरप्रेरणया साह्यार्थमागतेामेऽभिमन्यौ भीमधृष्टद्युम्नौ जहृषतुः। धृष्टद्युम्नद्रोणयोर्युद्धे प्रवृते द्रोणेन विरथीकृतो धृष्टद्युम्नोऽभिमन्युरथमारुरोह
- अध्यायः - ७८. भीमदुर्योधनयोद्धे प्रवृत्ते भीमनिग्रहार्थं दुःशासनादिषु यतमानेषु भीमाश्चित्रसेनादीन्प्रति बाणान्मुमोच । अभिमन्युविकर्णयोर्दौपदेयैर्दुर्योधनस्य च युद्धमभिधाय योधानां युद्धोत्साहमभ्यधात्संजयः
- अध्यायः - ७९. युद्धार्थमागतं दुर्योधनं दृष्ट्वा क्रुद्धेन भीमेन ‘अयं स कालः’ इत्युक्त्वा तस्य धनुरादिषु छिन्नेषु तद्ररक्षणार्थं जयद्रथादय आजग्मुः । विकर्णादिभिरभिमन्युप्रभृतीनां द्वंद्वशो युद्धे प्रवृत्ते भीष्मः पाण्डवसैन्यं नाशयित्वाऽवहारं चक्रे, युधिष्ठिरादयश्च शिबिरं जग्मुः अयं च पष्ठदिवसयुद्धावहार:
- अध्यायः - सप्तमदिवसयुद्धम् ।.
- अध्यायः - ८०. शूरेषु स्वस्वशिबिराणि गतेषु खिद्यमानेन दुर्योधनेन पृष्टो भीष्मः ‘अहं सर्वात्मना जीवितं परित्यज्य पाण्डवसेनां प्रति योत्स्यामि, सदेवदैत्यान् सर्वान् दहेयं शत्रुसेनां किमु’ इत्यादि व्याजहार तेन स तुष्टो बभूव । दुर्योधनाज्ञया योधानां निर्गमनमभिधाय कौरवसैन्यशोभां वर्णयति स्म संजयः
- अध्यायः - ८१. भीष्मो दुर्योधनं प्रति पाण्डवानामजय्यत्वाद्यभिधाय ‘पाण्डवांश्च रणे जेष्ये’ इति प्रतिज्ञाय तस्मै विशल्यकरणीमोषधिं दत्वा प्रातमंण्डलव्यूहं रचयामास युधिष्ठिरश्च वज्रव्यूहम् । ‘भारद्वाजो ययौ मत्स्यम्’ इत्यादिना योधप्रतियोधयोर्नामतः कथनम् । अर्जुनः श्रीकृष्णं प्रत्युक्त्वा बाणान् ववर्ष
- अध्यायः - ८२. अर्जुनं प्रति भीष्मगमनानंतरमर्जुनपराक्रमं दृष्ट्वा दुर्योधनप्रेरिताः सुशर्मादयो भीष्ममाजग्मुः । भीमार्जुनौ दृष्ट्वा सैन्यानि त्रेसुः । द्रोणविराटयोर्युध्यमानयोर्द्रोणेन शंखे हते विराटोऽपययौ। अलंबुषसात्यक्योर्युध्यमानयोरलंबुषः पलायते स्म । धृष्टद्युम्नदुर्योधनयोः कृतवर्मभीमयोश्च युद्धम्
- अध्यायः - ८३. धृतराष्ट्रवाक्यं श्रुत्वा तं भर्त्सयन् संजय इरावदावन्त्ययोर्धटोत्कचभगदत्तयोर्युद्धं शशंस । भयात्पांडवसैन्ये पलायिते घटोत्कचेप्यपयाते भगदत्तः पाण्डवसैन्यं नाशयति स्म । नकुलसहदेवयोः शल्येन युद्धे प्रसक्ते सहदेवबाणप्रहारेण शल्ये मोहिते द्वावपि शङ्खौ दध्मतुः
- अध्यायः - ८४. युधिष्ठिरश्रुतायुषोर्युध्यमानयोर्युधिष्ठिरेण श्रुतायुषो धनुरादिषु छिन्नेषु स रणाद्वेगेन विप्रदुद्राव । चेकितानकृपयोः सौमदत्तिधृष्टकेत्वोश्चित्रसेनादिभिरभिमन्योश्च युद्धवर्णनम् । अभिमन्युं प्रति गच्छन्तं भीष्मं दृष्ट्वार्जुनप्रेरितेन श्रीकृष्णेन तत्र रथे नीतेऽर्जुनेनाधिक्षिप्ताः सुशर्मादयस्तमावव्रुः
- अध्यायः - ८५. अर्जुनो महद्युद्धं कृत्वा महारथान्नाशयन् यावद्भीष्मसमीपमगच्छत्तावत्समीपमागतांस्त्रिगर्तादीन् पराजिग्ये । युधिष्ठिरो भीष्मेण सह युद्धार्थं गच्छञ्जयद्रथादिभिर्युयुधे । युधिष्ठिरवाक्याद्भीमं प्रति गच्छन् शिखण्डी शल्येन सह युद्धं चकार । गदां गृहीत्वा जयद्रथं प्रति गच्छन् भीमसेनो गदाप्रहारेण चित्रसेनरथं बभंज
- अध्यायः - ८६. भीष्मयुधिष्ठिरयोर्युध्यमानयोर्भीष्मेणाश्वेषु हतेषु रथं त्यक्त्वा युधिष्ठिरो नकुलरथमारुरोह । महारथान्नाशयन्भीष्मः सञ्जयैः सह युयुधे । विंदानुविंदादिभिर्धृष्टद्युम्नादीनां युद्धम्। अर्जुने सुशर्मादीन् जित्वा स्वशिबिरंगते दुर्योधनादयोऽपि स्वस्वशिबिराणि जग्मुः अयं सप्तमदिवसयुद्धावहारा.....
- अध्यायः - अष्टमदिवसयुद्धम् ।.
- अध्यायः - ८७. प्रभाते वीरेषु युद्धाय निर्गतेषु भीष्मो महाव्यूहं रचयामास, धृष्टद्युम्नः शकटव्यूहम् । भीष्मादीनां धृष्टद्युम्नादीनां च युद्धार्थमागमनम्
- अध्यायः - ८८. भीष्मेण संजयादिषु हतेषु तेन सह युध्यमानो भीमस्तस्य सारथिं जघान । हते सूते भीष्मरथे प्रद्रुताश्वे सति भीमः सुनाभप्रभृतीनष्ट दुर्योधनभ्र तॄञ्जघान । हतशेषेषु कौरवेषु पलायितेषु भीमं हतेत्युवाच दुर्योधनः सैनिकान् । विलपन्तं दुर्योधनं प्रति भीष्मो भर्त्सयन्नुवाच
- अध्यायः - ८९. अनुतापपूर्वकं दुर्योधनं निन्दन्तं धृतराष्ट्रं प्रति तन्निन्दारूपं संजयवाक्यम् । धृष्टद्युम्नादिषु भीष्मं प्रति गतष्वर्जुनादिषु च कौरवान्प्रति गतेषु सत्सु संजयैः सह द्रोणस्य युद्धम् । कौरवसैन्यं निघ्नता भीमेन कृतं हस्तिसमूहनाशनं नकुलसहदेवकृतमश्वसमूहनाशनं च
- अध्यायः - ९०. संजयः शकुन्यादीनां पाण्डवान्प्रत्यागमनमुक्त्वा इरावतोऽर्जुनपुत्रस्य तज्जन्मादिवृत्तकथनपूर्वकं युद्धार्थमागमनं शशंस । युद्धार्थमागतैर्गजगवाक्षादिभिर्युद्धं कुर्वन्निरावांस्तेषां मध्यमात्पञ्च जघान । दुर्योधनप्रेरणयां गतेनार्ष्यशृंगिणा राक्षसेन युध्यमानमिरावन्तं स राक्षसो जघान । पुत्रवधूमजानन्नर्जुनो भीष्मरक्षिणो राज्ञ आजघान । द्रोणपराक्रमदर्शनेन भीतानां पाण्डवानां मिथः सभयोक्तिः
- अध्यायः - ९१. इरावन्नाशं दृष्ट्वा महान्तं शब्दं कृत्वा युद्धार्थमागतं घटोत्कचं प्रति दुर्योधनो जगाम। दुर्योधनघटोत्कचयोर्महति युद्धे प्रवृत्ते घटोत्कचः सक्रोधः सन् 'अद्यानृण्यं गमिष्यामि इत्याद्युवाच...
- अध्यायः - ९२. दुर्योधनघटोत्कचर्योयुध्यमानयोर्दुर्योधनसाहाय्यार्थमागतस्य वंगराजस्य गजं घटोत्कचः शक्त्या जघान । घटोत्कचशब्दं श्रुत्वा भीष्मेण प्रेरितानां द्रोणादीनां घटोत्कचसमीपमागमनं तेन सह तेषां तुमुलं युद्धं च...
- अध्यायः - ९३. दुर्योधनं प्रत्यागतस्य घटोत्कचस्य शब्दं श्रुत्वा युधिष्ठिरेण प्रोरेते सत्यधृनिप्रभृतिभिरनुगम्यमाने भीमे आगते उभयसैन्ययोस्तुमुलं युद्धम्
- अध्यायः - ९४. दुर्योधनभीमयोर्युध्यमानयोर्भीमस्य मोहं दृष्ट्वा घटोत्कचादिष्वागतेषु द्रोणप्रेरणया कृपादयोप्याजग्मुः । द्रोणभीमयोर्युद्धे प्रसक्ते भीमबाणप्रहारेण मोहितं द्रोणमवलोक्य दुर्योधने आगते गदां गृहीतवंन्तं भीमं दृष्ट्वा कौरवा आजग्मुः । नीलाश्वत्थाम्नोर्युध्यमानयोर्नीलं मुह्यन्तं दृष्ट्वा आगतस्य घटोत्कचस्याश्वत्थाम्ना युद्धे प्रसक्ते निवारयत्यपि भीष्मे कौरवसैन्यं प्रदुद्राव। स्वसमीपमागतेन दुर्योधनेन निजपराजये कथिते भीष्मस्तं निवार्य भगदत्तं प्रेरयति स्म स च घटोत्कचं जगाम...
- अध्यायः - ९५. आगच्छन्तं भगदत्तं दृष्ट्वा आगतानां भीमादीनां महति युद्धे प्रसक्ते भीमो भगदत्तसैन्यं नाशयामास । भीमरथं प्रति भगदत्तेन प्रेषितो गजो भीमादिबाणप्रहारेण पलायमानः पाण्डवसैन्यमर्दयत् । गजनाशार्थं घटोत्कचेन प्रक्षिप्तं शूलं भुङ्क्त्वा भगदत्तेन प्रक्षिप्तां शक्तिं सोऽपि जानुन्यारोप्य बभंज | भगदत्तेन विरथीकृते भीमे गदां गृह्णति तं दृष्ट्वा कौरवा बिभ्युः। भगदत्तेन सह युद्धार्थमागतोऽर्जुनो भीमादिरावद्वधवृत्तांतं शुश्राव
- अध्यायः - ९६. इरवद्वधश्रवणेन विषण्णस्यार्जुनस्यानुतापवाक्यं श्रुत्वा श्रीकृष्णः कौरवान्प्रति वाहान् चोदयामास। अर्जुनं प्रति भीष्मादावागतेषु भीमो नव व्यूढोरस्कादीन्दुर्योधनभ्रातॄञ्जघान, शेषाश्च विदुद्रुवः। द्रोणभीमयोर्भीष्मादिभिरर्जुनादीनां च तमुले युद्धे प्रसक्ते धनुरादिप्रभावर्णनपूर्वकं मृतसैन्याद्यास्तृताया भूमेः शोभां वर्णयति स्म सञ्जयः। ततः कुरुपाण्डवा अवहारं चक्रुः । अयं चावहारोष्टमदिवसस्य...
- अध्यायः - नवमदिवसयुद्धम् ।.
- अध्यायः - ९७. दुर्योधनादिषु मंत्रयत्सु दुर्योधनवाक्यं श्रुत्वा कर्णो भीष्मनिंदापूर्वकं ‘भीष्मे रणादपयाते अहं पाण्डवान्हनिष्यामि’ इत्याद्युवाच। अनुयाथि सज्जीकरणार्थं दुःशासनमाज्ञाप्याहं भीष्ममानीयागमिष्यामीत्युक्त्वा गतस्य दुर्योधनस्य भीष्मं प्रत्यनुनयवाक्यम् ।
- अध्यायः - ९८. दुर्योधनवाक्यं श्रुत्वा क्रुद्धो भीष्मोऽर्जुन, शंसादिकथनपूर्वकं दुर्योधनं निर्भत्स्यं 'अहं तु सोमकानित्याद्युक्त्वा द्युखं स्वपिहि गांधारे' इत्यादि प्रतिजज्ञे । भीष्मवाक्यं श्रुत्वा शिबिरमागतेन दुर्योधनेन सेना सज्जीकरणमाज्ञाप्य भीष्मवाक्यकथनपूर्वकं भीष्मरक्षणार्थं दुःशासनादीनाज्ञापयामास। दुर्योधनवाक्यात्तथा कृत्वा भीष्मं पुरस्कृत्य सेनया सहागतं दुःशासनं निरीक्ष्यार्जुनोऽद्य शिखण्डिनं भीष्माग्रे कुरु, तस्याहं गोप्तेत्याद्युवाच धृष्टद्युम्नम्...
- अध्यायः - ९९. युद्धार्थं निर्गच्छन् भीष्मः सर्वतोभद्रव्यूहं रचयामास युधिष्ठिरादयश्च महाव्यूहम् । उभयोर्युद्धार्थं समागमे दुर्निमित्तदर्शनम्
- अध्यायः - १००. युद्धारंभे दृढं युध्यमानस्याभिमन्योर्बाणप्रहारेण पीडितानां सैन्यानामार्तनादं श्रुत्वा दुर्योधनेन प्रेरितस्यार्ष्यशृंगेस्तेन सह युद्धम् । द्रौपदेयादीन् पराजितवता राक्षसेन सहाभिमन्योः पुनर्युद्धम्
- अध्यायः - १०१. अलंबुषाभिमन्युप्रभृतीनां युद्धविषये धृतराष्ट्रप्रश्ने संजयस्य तत्कथनम् । अभिमन्युबाणप्रहारेण पीडितोऽलंबुषो रथं त्यक्त्वा पलायनपरो बभूव । भीष्मादिभिः सौभद्रस्य कृपस्यार्जुनसात्यकिभ्यां सात्यकेरश्वत्थाम्ना च युद्धम् । द्रोणसात्यक्योर्युद्धानंतरमर्जुनद्रोणयोः समागमः
- अध्यायः - १०२. द्रोणार्जुनयोर्युद्धविषये धृतराष्ट्रप्रश्ने संजयस्य तत्कथनम् द्रोणार्जुनयोर्युध्यमानयोर्दुर्योधनाज्ञया द्रोणसाह्यार्थमागतैः सुशर्मादिभिरर्जुनस्य युद्धम् । भीमो गजानीकं दृष्ट्वा गदामादाय रथादवप्लुत्य तज्जघान, गजाश्च तद्भयात्पलायनं चकुः
- अध्यायः - १०३. मध्यंदिने भीष्मे पाण्डवसेनां प्रति तेन सह धृष्टद्युम्नादीनां युद्धम् । भमादिषु युद्धार्थं भीष्मसमीपागतेषु कौरवपाण्डवयोस्तुमुलयुद्धे प्रवृत्ते शोणितनदी प्रावर्तत । क्षत्रियेषु दुर्योधनं धृतराष्ट्रं च निंदत्सु दुर्योधनस्य भीष्मादीन् प्रति सक्रोधवाक्यं कथयित्वा संजयो धृतराष्ट्रं निनिंद
- अध्यायः - १०४. सुशर्मप्रभृतिभिरर्जुनस्य युद्धे प्रसक्ते तद्भयात्सुशर्मसहायभूतेषु महारथेषु पलायितेषु तत्साहाय्यार्थं दुर्योधन आजगाम । अर्जुनसाहाय्यार्थं पाण्डवेष्वागतेषु भीष्मादीनां संकुलं युद्धम् । द्रोणभयाद् द्रुपदेऽपयाते भीमबाल्हिकयोः सात्यकिभीष्मयोश्च युद्धम्...
- अध्यायः - १०५. क्रुद्धं भीष्मं दृष्ट्वा दुर्योधनेन प्रेरितः ससैन्यो दुःशासनस्तत्साहाय्यार्थं जगाम । पाण्डवनिवारणार्थं दुर्योधनेन प्रेषिते सैन्ये युधिष्ठिरादिभिः पराजिते दुर्योधनप्रेरणया आगतेन शल्येन सह तेषां युद्धम्
- अध्यायः - १०६. भीमादीन् प्रति बाणांस्त्यजति भीष्मे नकुलादिषु च बाणैः प्रहरत्सु क्रुद्धस्य महद्युद्धं कुर्वतस्तत्य भयात्पाण्डवसेना भङ्गमाप । सैन्यभङ्गं विलोक्यार्जुनं प्रोत्साहयन् श्रीकृष्णस्तद्वाक्यं श्रुत्वा भीष्मसमीपे रथं प्रेषयामास भीष्मेण बाणैराच्छादितेऽपि रथेऽर्जुनस्य मृदुयुद्धतां संप्रेक्ष्य कुद्धः श्रीकृष्णः प्रतोदं गृहीत्वा रथादवप्लुत्य प्रत्यधावत् । आगच्छन्तं तं श्रीकृष्णं 'प्रति एह्येहि पुण्डरीकाक्ष !' इत्यादिनाऽनुनयति भीमेऽर्जुनेन यथाकथंचिन्निगृह्य 'निवर्तस्व' इत्यायुक्त्वा भीष्मवधे प्रतिज्ञाते स पुना रथमारुरोह । भीष्मे शरवृष्टिं कुर्वति तद्भयेम सैन्यं पलायते स्म
- अध्यायः - १०७. सूर्येऽस्तमुपागते युधिष्ठिरोऽवहारं चकार, अयं नवमदिवसावहारः । भीष्मपराक्रमं दृष्ट्वा चिंतापूर्वक मंत्रयत्सु पाण्डवेषु कृष्णेन सांन्त्वितो युधिष्ठिरस्तदनुमत्या वधोपायजिज्ञासया भीष्मं प्रति कृष्णादिभिः सह जगाम युधिष्ठिरादीन् प्रति भीष्मेण स्वागतप्रश्ने कृते युधिष्ठिरस्तद्वधोपायं पप्रच्छ । भीष्मकथितमात्मवधोपायं श्रुत्वा युधिष्ठिरादिषु स्वशिविरमागतेषु भीष्मेण सह युद्धमनिच्छन्तमर्जुनं प्रति श्रीकृष्ण उपदिदेश। शिखण्डिनं पुरस्कृत्येत्याद्यर्जुनवाक्यं श्रुत्वा सर्वे हृष्टाः सन्तः स्वानि स्वानि शयनानि भेजिरे...
- अध्यायः - दशमदिवसयुद्धम् ।.
- अध्यायः - १०८. युद्धार्थं निर्गतैः पाण्डवैर्व्यूहे रचिते कौरवेषु चागतेषु भीष्मस्य महद्युद्धम् । बाणांस्त्यजन्तं शिखण्डिनं प्रति भीष्मेण 'त्वया नाहं योत्स्ये' इत्युके शिखण्डी च 'ध्रुवं च त्वां हनिष्यामि' इत्याद्युक्त्वा बाणान् मुमोच । अर्जुनः शिखण्डिनं प्रति अहं 'त्वामनुयास्यामि' इत्याद्युक्त्वा भीष्मं प्रति गन्तुं प्रेरयामास
- अध्यायः - १०९. 'कथं शिखण्डी' इत्यादिके धृतराष्ट्रप्रश्ने सञ्जयस्योत्तरम्। भीष्मे महायुद्धं कुर्वत्यर्जुन आगत्य बाणान् विसृजन् कालवच्चकार, तद्भयात् कौरवसैन्यं दुद्राव च । तत् दृष्ट्वा दुर्योधनेनोक्तो भीष्मः 'अहं वाद्य हतः शेषे' इत्यादि प्रतिज्ञाय पाण्डवसैन्यं नाशयामास...
- अध्यायः - ११०. अर्जुनप्रेरितः शिखण्डी भीष्मं प्रति जगाम तमनु धृष्टद्युम्नायोऽपि। योधप्रतियोधानां द्वन्द्वयुद्धानि। धृष्टद्युम्नोऽर्जुनप्रशंसापूर्वकं सर्वान् सैनिकान् भीष्मं प्रेरयति स्म । दुःशासनार्जुनयोर्युद्धम्
- अध्यायः - १११. अलम्बुषसात्यकयोर्युध्यमानयोरागतेन भगदत्तेन सह सात्यकेर्युद्धम् । दुर्योधनप्रेरितानां तद्भ्रातॄणां सात्यकिना सह युद्धम्। आभिमन्युकाम्बोजप्रभृतीनां द्वन्द्वशो युद्धम्
- अध्यायः - ११२. युध्यमानो द्रोणो दुर्निमित्तानि दृष्ट्वाऽश्वत्थामानं प्रति तत्कथनपूर्वकमर्जुनाजय्यात्वादिकं कथयामास
- अध्यायः - ११३. भगद्त्तादिभिर्दशभिर्भीमस्य युद्धे प्रसक्ते तत्साहाय्यार्थमर्जुने आगते सति दुर्योधनप्रेरितः सुशर्मा तं प्रत्याजगाम
- अध्यायः - ११४. भीमार्जुनयोः कौरवैः सह युध्यमानयोरर्जुनपराक्रमं दृष्ट्वा दुर्योधनादिषु भीष्मसमीपं गतेषूभौ कौरवसैन्यं नाशयामासतुः । शल्यार्जुनयोर्भीममागधयोद्रोणभीमयोश्चयुद्धम् । भीष्मादीनां पाण्डवादीनां च परस्परसमीपमागमनोत्तरं महद्युद्धम्
- अध्यायः - ११५. भीष्मयुद्धजिज्ञासोर्धृतराष्ट्रस्य प्रश्ने सञ्जयस्य तत्कथनप्रतिज्ञा। भीष्मोऽयुतशो योधान् हत्वा निर्विण्णः सन्नात्मनाशाय समीपस्थ युधिष्ठिरं प्रति प्रेरयति स्म । तच्छ्रुत्वा शिखण्डिनं पुरस्कृत्य पाण्डवेषु भीष्मं प्रति गतेषु दुर्योधनाज्ञया दुःशासनादयोऽर्जुनं प्रत्याजग्मुः । सात्यकिप्रभृतिभिरश्वत्थामप्रभृतीनां युद्धम्...
- अध्यायः - ११६. अभिमन्युर्योधनभृतीनां द्वंदशो युद्धवर्णनं द्रोणधृष्टद्युम्नयोः सविस्तरं युद्धवर्णनं च । योद्धुं भीष्मं प्रति गच्छन्नर्जुनो मध्ये युद्धायागतस्य भगदत्तस्य गजं प्रति बाणावर्षन् शिखण्डिनं प्रति 'याहि भीष्मं जहि' इत्युवाच । भगदत्ते द्रुपदं प्रति गते शिखण्डिनं पुरस्कृत्य युद्धं प्रवर्तयन्नर्जुनः स्वसमीपागतान् कौरववीरान्निजग्राह । शिखण्डिनि बाणान्वर्षति क्रुद्धो भीष्मोऽस्त्राणि क्षिप्त्वा सोमकान्निजघ्नन् घोरं युद्धं चकार....
- अध्यायः - ११७. शिखण्डिना दशभिर्भल्लैर्हृदि ताडितोऽपि भीष्मस्तस्य स्त्रीत्वं बुद्ध्वा न प्रतिजह्रे। अर्जुनप्रेरणया शिखण्डिनि बाणान् वर्षत्यपि भीष्मस्तमनादृत्यार्जुनं प्रति बाणांचिक्षेप। अर्जुनदुःशासनयोर्युध्यमानयोरर्जुनेन विजितस्यापि दुःशासनस्य पुनर्युद्धम् । शिखण्डिनो बाणवृष्टिं सहमाने दुर्योधनप्रेरणया स्वसमीपागतान् योधान् प्रति बाणान् ववर्ष। अर्जुनो बाणप्रहारेण नानाविधान् योधान्नाशयित्वा दुःशासनमागत्य तस्य सारथिं हयांश्च जघान । अर्जुनेन विरथीकृताः कृपादयो युद्धात्संप्राद्रवन्। सञ्जयो युध्यमानस्यार्जुनस्य स्वरूपं वर्णयन् शोणितनद्यादिकं युद्धभूमिं च वर्णयामास। अभिमुखमायान्तं भीष्मं प्रति शिखण्डिनि गतेऽर्जुनो भीष्ममोहनपूर्वकं सैन्यं निजघ्ने
- अध्यायः - ११८. निर्मर्यादे युद्धे प्रवृत्ते शल्यादिभिर्विद्धानां भीष्मेण निकृतानां पाण्डवसैनिकानां वर्णनम् । पाण्डवसैनिकानां वर्णनम्। पार्थे सेनां मारयति पराकान्तं भीष्ममवलोक्य धार्तराष्ट्राः पाण्डवान्प्रति जग्मुः । दुर्योधनकृत क्लेशान् स्मृत्वा पाण्डवेषु निर्भयं युध्यमानेषु सेनापतेर्धृष्टद्युम्नस्य प्रेरणया योधा भीष्मं प्रति गत्वा शरान् ववृषुः। भीष्मो रामात्प्राप्तामस्त्रशिक्षां स्मृत्वा गजाश्वादीन् निघ्नन् शतानीकं वीरं जघान, पराक्रान्तं भीष्मं दृष्ट्वा श्रीकृष्णेन प्रेरितस्यार्जुनस्य बाणान् स खण्डयामास । भीष्मबाणैः पीड्यमानेषु पाञ्चालराजादिष्वर्जुनेन रक्ष्यमाणे शिखण्डिनि भीमं प्रति गते सात्यकिप्रभृतयोऽपि तमभिदुद्रुवुः। सात्यकिप्रभृतीनां बाणान् विध्य सेनां प्रविशति शिखण्डिनमुपेक्षमाणे भीष्मे मत्स्यादिभिर्बाणैराच्छन्नेऽर्जुनस्य शिखण्डिपुरस्कारेण तत्समीपगमनम्
- अध्यायः - ११९. पाण्डवैर्बाणैस्ताडितोऽपि भीष्मोऽव्यथमानो युगान्ताग्निसमो बभौ । पाञ्चालराजादीनवमत्य सेनामध्यं प्राप्य सात्यक्यादीन् विध्यति भीष्मं तद्वाणान्निवार्य ते बाणांस्तत्यजुः । शिखण्डिपुरस्कारेण युध्यमानेनार्जुनेन भीष्मधनुषि छिन्ने तदसहमाना द्रोणादयोऽर्जुनाभिमुखं जग्मुः । अर्जुनसाहाय्यार्थमागतेषु सात्यकिप्रमुखेषुभयोः सेनयोर्युद्धे प्रवृत्तेऽर्जुनरक्षितः शिखण्डी भीष्मस्य धनुरादिकं चिच्छेद । छिन्नशक्तिनिदर्शनेन चिन्ताक्रान्तो भीष्मो यदा स्वमृत्युं बहु मेने तदा वियत्स्था ऋषयो वसवश्चानुमतिं दुंदभिनादपूर्वकं ददुदेवाश्च पुष्पाणि ववृषुः। शिखण्डिबाणप्रहारैरचलस्य भीष्मस्यार्जुनो मर्माणि विद्ध्वा ध्वजादिकं चिच्छेद । अर्जुनबाणेनातिविद्धो भीष्मो दुःशासनं प्रति तस्याजय्यत्वं कथथित्वा तद्वाणप्रहारवेदनामभिनयपूर्वकं प्रदर्श्य तं प्रति शक्ति चिक्षेप । अर्जुनेन शक्तौ छिन्नायां भीष्मः खगचर्मणी गृहीत्वा यावद्रथादनवरूढस्तावच्चर्म शतधा चिच्छेद। युधिष्ठिरप्रेरितेषु सैन्येषु भीष्मं प्रत्यागतेषु तज्जयेप्सया धार्तराष्ट्रेषु चागतेषूभयोः सैन्ययोस्तुमुलं युद्धम् । अर्जुनेन निशितैर्बाणैर्निरन्तरं सर्वाङ्गेषु विद्धो भीष्मः प्राक्शिरा रथात्पपात दिव्यभावं गतो भीष्मो दैवीं वाचं श्रुत्वात्तरायणप्रवृत्तिं यावत्प्राणान्धारयति स्म । गङ्गया प्रेषितान्हंसरूपेणागतान्महर्षीन् प्रति भीष्मो नाह दक्षिणायनं गन्तेत्याद्युक्त्वा शरशय्यामधिशिश्ये। भीष्मे पतिते पाण्डवेषु सिंहनादं नदत्सु रुदति च दुर्योधने शङ्खान् वादयत्सु तेषु भीमो ननादोच्चैः। ऋषिषु पितृषु च शंसत्सु भीष्मो महोपनिषदं जपन्नुत्तारायणं प्रतीक्षमास्तस्थौ
- अध्यायः - १२०. कथमासंस्तदा योधाः' इत्यादिके धृतराष्ट्रप्रश्ने सञ्जयस्योत्तरम्। मेदिनीस्पर्शं वर्जयित्वा भीष्मे शयाने भूतानि हाहाशब्दपूर्वकं 'अयं ब्रह्मविदां श्रेष्ठः' इत्यादिना तं प्रशशंसुः । पतितं भीष्मं दृष्ट्वा दुःशासनो द्रोणसमीपं गत्वा तद्वधं निवेदयति स्म। तच्छ्रुत्वा द्रोणो मोहं प्राप्य पुनः संज्ञां लब्ध्वा सेनां निवारयामास । सर्वेषु योधेषु भीष्मसमीपमागत्याभिवंदनपूर्वकमुपविष्टेषु भीष्मः स्वागतप्रश्नं कृत्वा लम्बमाने स्वशिरस्युपधानं प्रार्थयामास मृदून्युपधानानि समर्पयतो राज्ञः ‘नैतानि वीरशय्यासु’ इत्याद्युत्वा भीष्मेण तदर्थमाज्ञप्तोऽर्जुनस्त्रिभिर्बाणैरुपधानं ददौ। तादृगुपधानेन तुष्टो भीष्मोऽर्जुनं प्रशस्य 'शयनस्यानुरूपं मे' इत्याद्युक्त्वा सर्वान्प्रति ‘पश्यध्वमुपधानं मे’ इत्याद्यभिधाय रक्षणार्थं मां परितः परिखा खन्यतामित्युवाच । आगतेषु शल्योद्धरणवैद्येषु भीष्मवाक्याद्दुर्योधनेन विसर्जितेषु कौरवाः पाण्डवाश्च भीष्मरक्षां विधाय स्वस्वनिवेशनानि जग्मुः । भीष्मपतनेन हृष्टान् पाण्डवान् प्रत्यागतस्य श्रीकृष्णस्य युधिष्ठिरेण सह संवादः
- अध्यायः - १२१. व्युष्टायां निशि पुनः स्वसमीपागतान् सर्वान् प्रति पिपासाक्रान्तो भीष्मो जलमयाचत । राजभिर्जलकुंभेष्वानीतेषु तदनिच्छुभिर्भीष्मोऽखिलान्विनिन्दन्नर्जुनं द्रष्टुमिच्छामीत्यब्रवीत् । समीपमागतोऽर्जुनो भीष्मेण जले प्रार्थिते रथमारुह्य गाण्डीवमालभ्य भीष्मदक्षिणपार्श्वभूमि पर्जन्यास्त्रेण विभेद। अर्जुनबाणविद्धाया भूमेर्निर्गतया वारिधारया भीष्मस्टुतोष, तद्दृष्ट्वा सर्वेषु विस्मितेषु कौरवाश्चकंपिरे। तेन कर्मणा तुष्टो भीष्मोऽर्जुनप्रशंसां विधाय दुर्योधनमाचिक्षेप। तच्छ्रुत्वा दीनमनसं दुर्योधनं प्रति भीष्मः पाण्डवानामजय्यत्वकथनपूर्वकं तेभ्यो राज्यार्धं दीयतामित्यायुक्त्वा तूष्णीं बभूव
- अध्यायः - १२२. तुष्णींभूतेषु राजसु स्वस्वालयेषु गतेषु भीष्मं हतं श्रुत्वा कर्णस्तत्समीपमाजगाम । 'राधेयोऽहं कुरुश्रेष्ठ' इत्यादि कर्णवाक्यं श्रुत्वा नेत्रे उल्मील्य भीष्म एह्येहीत्युक्त्वा प्रशंसापूर्वकं पाण्डवास्ते भ्रातरस्तैः संगच्छस्वेत्युवाच । तच्छ्रुत्वा कर्णः कुन्त्याह त्यक्तः" इत्याद्यभिधाय "धनंजयेनाहं योत्स्ये, मामनुजानीहि मद्दोषो नालोचनीयः" इत्याह । भीष्मो न चेच्छक्यमवस्रष्टुमित्याद्युक्त्वा युद्धानुज्ञां दत्त्वा क्षत्रियस्य युद्धादन्यच्छ्रेयो नास्तीत्युवाच। तच्छ्रुत्वा कर्णो दुर्योधनं प्रति जगाम
भीष्मपर्व