Mahabharata
About
.
Volumes
.
Contact
द्रोणपर्व
१. द्रोणाभिषेकपर्व
अध्यायः - १
. भीष्महननानन्तरं धृतराष्ट्रादयः किमकार्षुरिति जनमेजयप्रश्ने वैशंपायनस्योत्तरम् – निशि शिबिराद्धस्तिनापुरमागतं सञ्जयं प्रति विलापपूर्वकं भीष्मं संशोच्य कुरवः किमकार्षुरिति धृतराष्ट्रप्रश्नः। सञ्जयस्योत्तरम् - स्वधर्ममनुसरन्तो राजानो भीष्माय शरैरुपधानादिकं प्रकल्प्य वाद्यघोषे प्रवृत्ते युद्धस्थानमाजग्मुः । भीष्मरहितानामागतानां कौरवाणां भीष्मसादृश्येन कर्णं स्मृतवतां कर्णं कर्णेत्याक्रोशः । 'अर्धरथः कर्णः' इत्यादिभीष्मोक्त्यनुवादपूर्वकं कर्णकृतयुद्धत्यागादिप्रतिज्ञानुवादः कौरवकृतः । पुनर्धार्तराष्ट्रकृतं कर्णस्मरणादि कथयन्तं सञ्जयं प्रति धृतराष्ट्रवाक्यम् -
अध्यायः - २
. भीष्मं हतं श्रुत्वा आगत्य भीष्मप्रशंसादिकं कुर्वति कर्णे कौरवा आक्रोशपूर्वकमश्रु मुमुचुः । कर्णः कौरवानुपहसन्भवत्सु तिष्ठत्सु कथं भीष्मो निपातित इत्याद्युक्त्वा “समाहितं चात्मनि भारमीदृशम्” इत्याद्युवाच। कर्णो युधिष्ठिरादीनामजय्यत्वादि कथयित्वा स्वसारथिं प्रति “मित्रद्रोहो न मर्षणीयः' इत्याद्यभिधाय शत्रून्हत्वा दुर्योधनाय राज्यं दास्यामीत्युवाच। सूतं प्रति “निबध्यतां मे कवचम्” इत्यादिना युद्धसामग्रीसज्जीकरणपूर्वकं रथसज्जीकरणमादिश्य रथमारुह्य भीष्मं प्रति जगाम कर्णः –
अध्यायः - ३
. कर्णः शरतल्पस्थं भीष्मं दृष्ट्वा रथादवतीर्य तत्समीपं गत्वा स्तुतिभिस्तं प्रसादयामास। 'अद्यप्रभृति संक्रुद्धाः' इत्यादिनाऽर्जुनं प्रशस्य तं जेतुं त्वां विना कः समर्थ इत्याद्यभिधाय “तमद्याहं पाण्डवम्' इत्यादिनाऽऽत्मशूरत्वं ख्यापयति स्म कर्णः –
अध्यायः - ४
. एवं प्रलपन्तं कर्णं प्रति देशकालानुगुणं वदन् भीष्मस्तत्कृतनग्नजिदादिपराजयकथनपूर्वकं “दुर्योधनवत्त्वमपि कौरवाणां गतिर्भव” “गच्छ शत्रुभिः सह युद्ध्यस्व' इत्याद्याह । भीष्मवचनं श्रुत्वा तस्य चरणावभिवाद्य चागतं कर्णं कौरवाः सिंहनादादिना समपूजयन् –
अध्यायः - ५
. कर्णं दृष्ट्वा दुर्योधने त्वया सनाथमेतद्बलमित्युक्तवति तं प्रोत्साहयन् कर्णो वयं तव वचः श्रोतुकामा इत्युवाच । दुर्योधनोऽपि सेनापतौ भीष्मे दिवंगते मामकेषु सर्वेष्वन्यं सेनापतिं पश्येति कर्णमुवाच। कर्णः सर्वेषां राज्ञां सेनापतित्वे योग्यतामुद्भाव्य सर्वयोधानामाचार्यो द्रोणः सेनापतिः कर्तव्य इत्याह –
अध्यायः - ६
. कर्णोपदेशाद्दुर्योधनो द्रोणं गत्वा तदुत्साहजनकानि वाक्यान्युक्त्वा त्वयि सेनापतावहं युधिष्ठिरं जेष्यामीत्युवाच । दुर्योधनोक्तं श्रुत्वा सर्वे द्रोणं प्रति जयेत्युचुः –
अध्यायः - ७
. द्रोणः स्वगुणान् ख्यापयन् पाण्डवान् योधयिष्यामीत्युक्त्वा मद्वधार्थ सृष्टं धृष्टद्युम्नं न हनिष्यामीति चाभिधाय सर्वान् सोमकान् नाशयन् सैन्यानि योधविष्यामीत्युवाच। दुर्योधनेन सैनापत्येऽभिषिक्तो द्रोणः सैन्यं व्यूह्य युद्धार्थं निर्जगाम । तमनु सैन्धवादयस्तद्दक्षिणपार्श्वादौ स्थिताः सन्तो निर्ययुः । सर्वधन्विनामग्रे प्रस्थितं कर्णं दृष्ट्वा सर्वे योद्धाः “पाण्डवा रणे न स्थास्यन्ति” इत्यादिवचनेन तं संमानयामासुः । द्रोणेन शकटव्यूहे रचिते धर्मराजः क्रौञ्चव्यूहं चकार । तदग्रे कृष्णार्जुनयोरवस्थानम् । अत्रैव कर्णार्जुनौ परस्परं ददृशतुः एकादशदिवसयुद्धम् । ततो द्रोणागमनानन्तरं योधानामार्तनादो विविधाश्चोत्पाता उत्पन्नास्तदनु युद्धारम्भश्च संजात इति सञ्जयः प्राह । द्रोणेन विक्षोभ्यमाणा सा पाण्डवानां महती चमूरपि व्यशीर्यतेति कथनम् । ततो याज्ञसेनेर्धृष्टद्युम्नस्य द्रोणेन साकं संग्रामः -
अध्यायः - ८
. घ्नन्तं द्रोणं दृष्ट्वा युधिष्ठिरवाक्यादर्जुनादिषु युद्ध्यत्सु पुनरपि सक्रुधा युयुधे । द्रोणः स्वनाम श्रावयन्नात्मनो रौद्रं रूपं कृत्वा सकुञ्जरपत्त्यश्वान् पश्चालाञ्जघान। क्रमेण द्रोणः पाण्डवैः सह तुमुलं युद्धं कुर्वन् याज्ञसेनिना पातितः स्वर्गं जगाम । आचार्ये युधि निहते सति भूतानां धिगिाते शब्दः समभवत् पाण्डवानां च हर्षः -
अध्यायः - ९
. द्रोणनिधनं श्रुत्वा धृतराष्ट्रस्य तद्गुणानुवर्णनपूर्वकं शोचनम् -
अध्यायः - १०
. द्रोणमरणश्रवणमूर्च्छितस्य धृतराष्ट्रस्य परिचारकादिभिर्जलसेचनादिना समुद्बोधनम् । पुनः पृच्छन् धृतराष्ट्रो युधिष्ठिरादीनां घटोत्कचान्तानां प्रशंसापूर्वकमेकैकमुद्दिश्य “कस्तं द्रोणादवारयत्' इत्याद्युवाच। कृष्णव्यपाश्रयात्पाण्डवानामजेयत्वं श्रुत्वा तस्य दिव्यानि कर्माण्यभिधातुं प्रतिजज्ञे -
अध्यायः - ११
. धृतराष्ट्रः प्रसङ्गाद्भक्त्युद्रेकेण केशिवधमारभ्य पारिजातहरणान्तं श्रीकृष्णचरित्रं कथयति स्म । धृतराष्ट्रेण बहुधा विचिन्त्य सञ्जयं प्रति युद्धकथनचोदना -
अध्यायः - १२
. श्रीकृष्णस्यार्जुनेन सहैकात्मतादिकथनम् । द्रोणचोदितेन दुर्योधनेन युधिष्ठिरस्य जीवग्राहं ग्रहणवरणम् । एतदभिप्रायजिज्ञासया द्रोणेन पृष्टो दुर्योधनः पुनर्द्यूतक्रीडाकरणादिरूपं स्वाभिप्रायमाविश्चकार । द्रोणेनार्जुनासन्निधाने तद्ग्रहणे प्रतिज्ञाते युधिष्ठिरं धृतमिव मत्वा दुर्योधनेन सैन्येषु नदुद्घोपणम् -
अध्यायः - १३
. अर्जुनेन द्रोणप्रतिज्ञाभीतस्य युधिष्ठिरस्य समाश्वासनम्। उभयोः सैन्ययोरुपगतयोर्युद्धे प्रसक्ते बाणैः पाण्डवांस्त्रासयतो द्रोणस्य स्वरूपवर्णनम् -
अध्यायः - १४
. तुमुलं युद्धं कुर्यन्तं द्रोणं प्रति युधिष्ठिरादिष्वागतेषु तान् प्रति कुरुसेनानामागमनम्। शकुनिसहदेवप्रभृतीनां चेकितानानुविन्दान्तानां द्वन्द्वयुद्धवर्णनम् । पौरवसौभद्रयोर्युद्ध्यतोः सौभद्रेण पराभूतं पौरवं दृष्ट्वा आगतेन जयद्रथेन सह स युयुधे । जयद्रथेनाच्छिन्नखड्गेऽभिमन्यौ स्वरथमारुह्य नदति सति तं प्रति शल्यः शक्तिं चिक्षेप । अभिमन्युरुत्प्लुत्य तां शक्तिं गृहीत्वा प्रक्षिप्तया तथैव शल्यसारथिं जधान। तद्दृष्ट्वा विराटादयस्तं प्रशशंसुः -
अध्यायः - १५
. शल्यसौभद्रयोर्युद्धं कथंकारमभूदिति धृतराष्ट्रप्रश्ने सञ्जयस्योत्तरम् - गदां गृहीत्वा रथादवप्लुत्याभिधावन्तं शल्यं प्रति गदाहस्तो भीम आगत्य गदाग्रहणपूर्वकं शल्यमाह्वयन्तमभिमन्यु निवारयामास। गदायुद्धं कुर्वतोर्भीमशल्ययोः परस्पराघातेन पतितयोः सतोर्मीर्च्छितं शल्यं गृहीत्वा कृतवर्माऽपययौ । गदाहस्तस्य भीमस्य संदर्शनेन हर्षितैः पाण्डवैरर्द्यमानानां कौरवाणां पलायनम् –
अध्यायः - १६
. वृषसेने रथिनः पातयति सति तेन सह युद्ध्यतः शतानीकस्य साहाय्यार्थं द्रौपदेयेष्वागतेषूभयोः सेनयोस्तुमुलं युद्धम्। युधिष्ठिरं प्रति गच्छन्द्रोणो मध्येमार्गं पाञ्चालेन कुमारेण निवारितः शिखण्डिप्रभृतीन्प्रति बाणान्मुमोच। युधिष्ठिरपरिलिप्सया विरादादिषु बाणान्प्रक्षिपत्सु द्रोणः सिंहसेनव्याघ्रदत्तयोः शिरसी छित्त्वा युधिष्ठिरसमीपे तस्थौ । पाण्डवसेनानामार्तनादं श्रुत्वाऽऽगतेऽर्जुने बाणैर्दिश आच्छादयति द्रोणादयोऽवहारं चक्रुः -
२. संशप्तकवधपर्व
अध्यायः - १७
. उभयसेनानां स्वस्वशिबिरगमनानन्तरमर्जुनसन्निधौ युधिष्ठिरग्रहणमशक्यमतः कश्चिदाहूयार्जुनं प्रकर्षत्विति द्रोणवचनम् । द्रोणवाक्यं निशम्य त्रिगर्तादयस्तदङ्गीकृत्यार्जुनवधार्थं शपथं कृत्वा तमाह्वयामासुर्युद्धाय । संशप्तकैराहूतस्यार्जुनस्य युधिष्ठिररक्षणे सत्यजितं नियोज्य तान्प्रति युद्धाय गमनम्। युधिष्ठिरानुज्ञायाऽर्जुने संशप्तकान्प्रति गते दुर्योधनसैन्यानि जहृषुः -
अध्यायः - १८
. अर्धचंद्राकारं व्यूहं रचयतां त्रिगर्तादीनां हर्षं विलोक्य फाल्गुनेन शंखे वादिते त्रिगर्तसैन्यानां त्रासः । संशप्तकार्जुनयोर्मिथो महति युद्धे प्रवृतेऽर्जुनबाणप्रहारेण सुधन्वनो नाशे पलायमाना त्रिगर्तसेना तद्वाक्यात्पराववृते –
अध्यायः - १९
. पुनरागतान्त्रिगर्तान्दृष्ट्वाऽर्जुनेन प्रेरिते श्रीकृष्णे तान्प्रति रथं नीतवता पुनस्तैः सह युद्धम्। दुःखितस्य श्रीकृष्णस्य वाक्यादर्जुनो वायव्यास्त्रेण ताञ्जघान । एतदन्तरे द्रोणो युधिष्ठिरग्रहणार्थं यत्नमकरोत् -
अध्यायः - २०
. प्रभातायां रात्र्यां द्रोणेन रचितं सुपर्णव्यूहं दृष्ट्वा युधिष्ठिरोऽर्धमण्डलव्यूहं रचयामास। कौरवव्यूहं दृष्ट्वा “यथा ब्राह्मणस्य वशं नाहमियां तथा नीतिर्विधीयताम्' इत्याद्युक्तवन्तं युधिष्ठिरमाश्वास्य धृष्टद्युम्नो द्रोणमुपाद्रवत्। तत्र धृष्टद्युम्नदुर्मुखयोर्युद्धे प्रवृत्ते द्रोणः पुनरपि निर्मर्यादं युद्धं कृत्वा युधिष्ठिरमधावत् -
अध्यायः - २१
. युधिष्ठिरं जिघांसोर्द्रोणस्य सत्यजिता निरोधः । द्रोणेन वृकेण सह सत्यजिति निहते तेन साकं युधिष्ठिररक्षणार्थमागतानां पञ्चालादीनां युद्धम् । द्रोणो युद्धार्थमागतं विराटभ्रातरं शतानीकं हत्वा हृत्वा मत्स्यादीञ्जित्वा च पाण्डवसैन्यं नाशयञ्शोणितनदीं प्रावर्तयत् । बाणांस्त्यजत्सु शिखण्डिप्रभृतिषु द्रोणेन जितेषु युधिष्ठिरे च पलायमाने स पाञ्चाल्यं राजपुत्रं जघान -
अध्यायः - २२
. द्रोणपराक्रमहृष्टेन दुर्योधनेन कर्णं संबोध्य भीमसेनाद्यवज्ञाने कृते कर्णेन भीमादीनां प्रशंसनपूर्वकं तदनवज्ञत्वकथनम्। पुनर्निवृत्त्य युद्ध्यमानान्भीमादीन् दृष्ट्वा दुर्योधनः कर्णवाक्याद्द्रोणरथं जगाम –
अध्यायः - २३
. पाण्डवानां रथहयध्वजजिज्ञासोर्धृतराष्ट्रस्य प्रश्ने सञ्जयकृतं तत्कथनम्। भीष्मादीनां शिखण्डिप्रभृतीनां च पाण्ड्यद्रोणसहितानां रथादिचिह्नान्यभिधाय युधिष्ठिरादीनां धनुर्लक्षणानि कथयति स्म सञ्जयः -
अध्यायः - २४
. धृतराष्ट्रेण पुत्रान्प्रति शोचनपूर्वकं सञ्जयं प्रति युद्धकथनचोदना –
अध्यायः - २५
. भीमदुर्मर्षणप्रभृतिघटोत्कचालम्बुषान्तानां द्वन्द्वशो युद्धं कथयन् सञ्जयस्तत्प्रशशंस -
अध्यायः - २६
. गजानीकैः सहागतस्य दुर्योधनस्य बाणैर्नागान्तकं पीडयता भीमेन सह युद्धम्। दुर्योधनसाहाय्यार्थमागतेऽङ्गराजे गजसहितेन भीमेन हते कौरवसैन्यस्य पलायनम् । सैन्यभङ्गं दृष्ट्वा, आगतस्य भगदत्तस्य हस्तिना व्याकुलीकुते भीमेऽपयाते तं हतं मत्वा युधिष्ठिरादय आगत्य बाणान्ववृषुः। सात्यकिं प्रति भगदत्तेन प्रेरितो हस्ती यदा तद्रथं चिक्षेप तदा तस्मिन्पलायिते पाण्डवसैन्येषु च भग्नेषु पुनर्भगदत्तं प्रति भीमस्यागमनम्। भगदत्तेन रुचिपर्वणि हते तं प्रत्यागतान्सौभद्रादीन् क्षिपंस्तद्धस्ती पाण्डवांस्त्रासयामास –
अध्यायः - २७
. गजशब्दं श्रुत्वाऽर्जुनेन प्रेरितः श्रीकृष्णो भगदत्तयुद्धस्थाने यावद्रथं प्रेरयति तावत्संशप्तकास्तमाह्वयन्ति स्म । उभयकार्यप्रसङ्गव्याकुलोऽर्जुनः परावृत्य संशप्तकैः सह तुमुलं युद्धं कुर्वन्सहस्रशस्तान्हत्वा भगदत्ताय याहीत्युवाच श्रीकृष्णम -
अध्यायः - २८
. द्रोणानीकं प्रति रथं प्रेरयति श्रीकृष्णे मध्य आगतं सुशर्माणं दृष्ट्वाऽर्जुनप्रेरणया रथं पुनः परावर्तयति च सुशर्मप्रभृतिभिः पुनरर्जुनस्य युद्धम् । सुशर्माणं मोहयित्वा कौरवान् प्रत्यागत्य भगदत्तसमीपं गतस्यार्जुनस्य तेन सह युद्धम्। अर्जुनकृष्णयोर्नाशार्थं भगदत्तेन प्रेरितो हस्ती यदा पाण्डवगजादीन्नाशयामास, तदा चुक्रोधार्जुनः -
अध्यायः - २९
. क्रुद्धोऽर्जुनः किमकरोदिति धृतराष्ट्रप्रश्ने भगदत्तार्जुनयोर्युद्धं कथयति स्म सञ्जयः । उभयोर्युद्ध्यमानयोर्भगदत्तेन प्रेरितं वैष्णवास्त्रं श्रीकृष्णो वक्षसि दधार । तद् दृष्ट्वाऽर्जुनेनाक्षिप्तः श्रीकृष्णो वैष्णवास्त्रवृत्तान्तमकथयत् । कृष्णवाक्याद्बाणवृष्टिं कुर्वन्नर्जुनो बाणेन हस्तिनं निपात्यापरेण बाणेन हृदि भगदत्तं विव्याध, स च विभिन्नहृदयो गतासुः पपात -
अध्यायः - ३०
. गांधारराजसुताभ्यां युद्ध्यमानोऽर्जुनः पञ्चशतगान्धारवीरान्नाशयित्वा वृषकाचलावप्यनाशयत्। वृषकाचलौ हस्तौ दृष्ट्वा शकुनिना माययोत्पाद्य प्रेषितान्खरोष्ट्रादीन् जघानार्जुनः । मायाविना शकुनिना यद्ध्यमानेऽर्जुने, तद्भयात्पलायिते शकुनौ कौरवसैन्यं भग्नमभूत् । सञ्जयः कौरवाणामसामर्थ्यं कथयन्नर्जुनपराक्रमप्रशंसापूर्वकं युद्धभूमिशोभां वर्णयति स्म -
अध्यायः - ३१
. भग्नसैन्यस्यावस्थानविषयके तराष्ट्रप्रश्ने सञ्जयस्योत्तरम् । द्रोणमुद्दिश्योभयसेनयोस्तुमुले युद्धे प्रवृते तद्युद्धं सञ्जयः प्रशशंस | कौरवसैन्यनाशार्थमागते नीलेऽश्वत्थाम्ना हते पाण्डवसैन्यानां स्वजीवितचिन्ता –
अध्यायः - ३२
. द्रोणकर्णौ प्रति बाणान्वर्षन्भीमो युगपद्द्रोणादिभिस्त्यक्तान् वाणान्निवार्य तान्प्रति बाणांस्तत्याज। भीमरक्षणार्थं युधिष्ठिरेण सैन्ये प्रेषिते सात्यकिप्रभृतिभिर्द्रोणादीनां निर्मर्यादं युद्धमवर्तत । सेनापतिवाक्यादागतं पाण्डवसैन्यं निवार्य नाशयति द्रोणोऽर्जुनः संशप्तकान्विजित्य तमभ्यगात्। कौरवसैन्यं नाशयत्यर्जुने आर्तस्य तस्य सैन्यस्य कर्ण कर्णेत्याद्यक्रोशं श्रुत्वा कर्णः संमुखमाजगाम । कर्णार्जुनयोर्युद्ध्यमानयोरर्जुनः शत्रुञ्जयादींस्त्रीन् कर्णभ्रातॄञ्जघान | भीमश्च पञ्चदश तत्पक्षीयाञ्जघान। धृष्टद्युम्नेन चन्द्रवर्मबृहत्क्षत्रयोर्निहतयोः सतोः कर्णसाहाय्यार्थमागतैर्दुर्योधनादिभिर्धृष्टद्युम्नादीनां संकुलं युद्धम्। ततो भृशलुलिते बले दिवाकरमस्तंगिरिमास्थितं दृष्ट्वा शिबिराय प्रयाते । अत्रैव द्वादशदिनयुद्धं समाप्तम् –
३. अभिमन्युवधपर्व
अध्यायः - ३३
. अवहारानन्तरं प्रभाते युधिष्ठिरस्याग्रहणाद्दुर्मनायमानं दुर्योधनं प्रति द्रोणेनार्जुननिस्सारणपूर्वकं कस्यचिन्महारथस्य हननप्रतिज्ञा। सञ्जयेन धृतराष्ट्रं प्रति संक्षेपतोऽभिमन्युवधकथनम् । पुनर्विस्तारेणाभिमन्युविक्रीडितशुश्रूषोर्धृतराष्ट्रस्य प्रश्ने सञ्जयस्तत्कथयितुं प्रातेजज्ञे –
अध्यायः - ३४
. क्रमेण पाण्डवाननुवर्ण्याभिमन्युं वर्णयन् सञ्जयो धृतराष्ट्रेण पुनः पृष्ट उत्तरं वदन् द्रोणस्य चक्रव्यूहनिर्माणमभिवदति स्म -
अध्यायः - ३५
. चक्रव्यूहभेदनार्थं युधिष्ठिरेणोक्तेऽभिमन्यौ 'प्रवेशं जानामि न निर्गमम्' इत्युक्तवति तं प्रति युधिष्ठिरभीमौ “त्वं द्वारं जनय वयमनुयास्यामः” इत्यूचतुः। तच्छ्रुत्वा शत्रुक्षयकरणं प्रतिज्ञातवन्तमभिमन्युं युधिष्ठिरः प्रोत्साहयति स्म –
अध्यायः - त्रयोदशदिवसयुद्धम् ।
.
अध्यायः - ३६
. व्यूहं नेतुमुद्यतोऽभिमन्युः “अतिभारोऽयमायुष्मन्” इत्याद्युक्तवन्तं स्वसारथिं प्रति 'सारथे को न्वयं द्रोणः' इत्याद्युक्त्वा द्रोणानीकं याहीत्युवाच । अभियान्तमभिमन्युं प्रति द्रोणादिष्वागतेषूभयोः सैन्ययोस्तुमुलं युद्धम्। पश्यतो द्रोणस्य व्यूहं भित्त्वा प्रविष्टोऽभिमन्युः कौरवसैन्यं ममन्थ –
अध्यायः - ३७
. भग्नां चमूं दृष्ट्वाऽऽगतं दुर्योधनमन्यागतेषु द्रोणादिष्वभिमन्युः कौरवसेनां प्रति शरान्प्रक्षिपन्नश्मकेश्वरं जघान । पुनः कर्णादिभिर्युज्यमानः सुषेणादींस्त्रीन् हत्वा शल्यं मोहयति स्म –
अध्यायः - ३८
. मोहितं शल्यं दृष्ट्वाऽऽगतं तद्भ्रातरं हत्वा तत्सैन्यं मर्दयति स्माभिमन्युः –
अध्यायः - ३९
. युद्ध्यमानमभिमन्युं दृष्ट्वा हर्षेण कृपं प्रत्युक्तं द्रोणवाक्यं श्रुत्वा दुर्योधनेन कर्णं प्रत्युक्तं वाक्यमाकर्ण्यं दुःशासनोऽभिमन्युवधप्रतिज्ञां कृत्वा सौभद्रमभ्ययात् । अभिमन्युदुःशासनयुद्धम् –
अध्यायः - ४०
. 'दिष्ट्या पश्यामि संग्रामे' इत्याद्युक्तवताऽभिमन्युना सह दुःशासनस्य युद्धे प्रसक्तेऽभि मन्युबाणेन मूर्च्छितं दुःशासनं सारथिरपोवाह। पाण्डवसैनिकेषु द्रोणानीकं प्रति गतेष्वभिमन्युकर्णयोर्युद्धे प्रसक्तेऽभिमन्युना व्याकुलीकृतं कर्णं दृष्ट्वा तद्भ्राता आजगाम -
अध्यायः - ४१
. कर्णभ्रातुः शिरश्छित्वा कर्णं विमुखीकृत्य कौरवसैन्यं बभञ्जाभिमन्युः –
अध्यायः - ४२
. सञ्जयेन धृतराष्ट्रं प्रति अभिमन्युमनुमतानां पाण्डवानां जयद्रथेन निरोधकथनम् । तथा जयद्रथस्य रुद्रात् पाण्डवनिरोधनरूपवरलामकथनम् –
अध्यायः - ४३
. पाण्डवसेनां रुन्धञ्जयद्रथो यो यो व्यूहं भेत्तुं यत्नमकरोत्तं तं रुरोध –
अध्यायः - ४४
. अभिमन्युः कौरवसेनां विलोड्य तुमुलं युद्धं कुर्वन्वसातीयं जघान –
अध्यायः - ४५
. सत्यश्रवसमाक्षिप्य बलं विलोडयत्यभिमन्यौ युद्धार्थमागतः शल्यपुत्रो रुक्मरथस्तेनाहन्यत। रुक्मरथवयस्याञ्शतं राजपुत्रान् निहत्याभिमन्युना विलोड्यमानं स्वबलं दृष्ट्वाऽऽगतो दुर्योधनस्तच्छरताडितो विमुखो बभूव –
अध्यायः - ४६
. स्वबलं भग्नमवलोक्यागतेषु द्रोणादिषु युद्ध्यमानोऽभिमन्युर्दुर्योधनपुत्रं लक्ष्मणं काथापुत्रं च जघान –
अध्यायः - ४७
. द्रोणादिभिः सह विपुलं युद्धं कुर्वन्नभिमन्युर्वृंदारकं बृहद्बलं चावधीत् –
अध्यायः - ४८
. कर्णेन सह युद्ध्यमानोऽभिमन्युस्तस्य षट् सचिवान् हत्वाऽश्वकेत्वादीञ्जघान। युद्ध्यमानं दौःशासनिं शल्यं च विमुखीकृत्य शत्रुञ्जयादीन्पञ्च हत्वा सौबलं बाणैर्विव्याध । अभिमन्युवधोपायं चिन्तयितुं शकुनौ दुर्योधनं प्रति वदति सति कर्णो द्रोणं प्रत्युवाच। द्रोणेनाभिमन्युप्रशंसापूर्वकं कथितं तद्वधोपायमवलम्ब्य, प्रथमं कर्णेन तस्य धनुषि छिन्ने भोजोऽश्वानवधीत्; कृपश्च पार्ष्णिसारथिं जघान । ततः खड्गचर्मणी गृहीत्वा विचरत्यभिमन्यौ द्रोणः खड्गं कर्णश्च चर्म चिच्छेद। ततश्चक्रं गृहीत्वा द्रोणमभ्यधावदभिमन्युः –
अध्यायः - ४९
. बहुभी राजाभिर्मिलित्वा चक्रे छिन्नेऽभिमन्युर्गदां गृहीत्वा तयाऽश्वत्थाम्नो रथादीन् प्रमथ्य कालिकेयादींश्च हृत्वा दौःशासनिं विरथं चकार । सगदेन दौःशासनिना सह गदायुद्धं कुर्वत्यभिमन्यावुभयोरपि परस्परगदाघातात्पतितयोः प्रथममुस्थितो दोःशासनिरुत्तिष्ठन्तमभिमन्युं मूर्ध्न्यताडयत् । दौःशासनिना ताडितोऽभिमन्युर्गतचेताः पपात। पतितेऽभिमन्यौ शोकाकुलं स्वबलं तत्पराक्रमवर्णनपुरःसरमाश्वासयामास युधिष्ठिरः -
अध्यायः - ५०
. अभिमन्युहननानन्तरं शरपीडितानां कौरवाणां शिबिरगमनमभिधाय युद्धभूमिं वर्णयामास सञ्जयः । अत्र त्रयोदशदिनयुद्धं समाप्तम् –
अध्यायः - ५१
. अभिमन्युमुद्दिश्य युधिष्ठिरस्य विलापः –
अध्यायः - ५२
. विलपन्तं युधिष्ठिरमालक्ष्यागतेन द्वैपायनेन कृतं तत्प्रबोधनम् । युधिष्ठिरेण “कस्य मृत्युः कुतो मृत्युः कथं संहरते प्रजाः । हरत्यमरसङ्काश तन्मे ब्रूहि पितामह' इति प्रश्नकृते तदुत्तरं वदन्व्यासोऽकम्पनराजवृत्तान्तमभिधातुमुपचक्रमे - "युद्धे शत्रुभिर्हतं पुत्रमुद्दिश्य शोचन्तमकम्पनमवेक्ष्यागतं नारदं प्रति तेन मृत्युस्वरूपे पृष्टे तदुत्तरमाह नारदः । असंहृतं जगद्दृष्ट्वा रुष्टस्य ब्रह्मण इन्द्रियेभ्य उत्पन्नेनाग्निना जगति दद्यमाने तद्रिरक्षया आगतं शिवं प्रति किं कुर्मः' इत्यादि स उवाच –
अध्यायः - ५३
. ब्रह्मणाग्न्युत्पत्तिकारणे कथितो शिवप्रार्थनयाऽग्निं शमयति तस्मिंस्तदिंद्रियेभ्यो निर्गता स्त्री विस्मिता सती दक्षिणां दिशमाशिश्रिये। तां “मृत्यो” इत्याहूय प्रजासंहारं कर्तुमाज्ञापयति ब्रह्मणि रुदत्यास्तस्या अश्रूण्यञ्जलौ धृत्वा पुनस्तामनुनयति स्म पितामहः –
अध्यायः - ५४
. प्रजासंहारकातरा मृत्युर्विनयपूर्वकं धेनुकाश्रमं गन्तुं प्रार्थयती प्रजापतिप्रसादनानन्तरं धेनुकाश्रमादौ गत्वा परमं तपश्चचार। तपसा तुष्टः प्रजापतिः संहारमनिच्छन्तीं तां प्रति तत्प्रकारमुपदिशति स्म, सा च तमङ्गीचकार। एवं मृत्यूपाख्यानं कथयित्वाऽकम्पनं परिसान्त्व्य नारदो जगाम।" भगवान्व्यास इममितिहासमुक्त्वा युधिष्ठिरं युद्धार्थमुद्योजयति स्म -
अध्यायः - ५५
. पुनः प्राचीनराजचरितशुश्रूषोर्युधिष्ठिरस्य प्रश्ने व्यासस्तत्कथयन्नादौ शैब्यपुत्रस्य सृञ्जयस्य चरितमभिदधति स्म – “नारदपर्वताभ्यां सहासीने सञ्जये वराभिलाषेण समीपागतां तत्कन्यां दृष्ट्वा पर्वतेन कस्येयमिति सवितर्कं पृष्ठः स ममेयमित्याह । तदवसरे भार्यार्थं कन्यां याचितवति नारदे राजा तद्दानमङ्गीचकार । नारदपर्वतयोः परस्परं शापं दत्वा तत्रैव स्थितयोः सतोः सृञ्जयेन पुत्रकामनया पूजितानां ब्राह्मणानुज्ञया नारदवरदानात्तस्य स्वर्णष्ठीविपुत्रलाभः । पुत्रमूलिकां राजसंपत्तिं दृष्ट्वा चौरैर्हृतस्य स्वर्णष्ठीविनो नाशे कृते विलपन्तं सृञ्जयं प्रति शोकापनयार्थमुक्तिः – नारदकथितो मरुत्तवृत्तान्तः -
अध्यायः - ५६
. सुहोत्रराजोदन्तः -
अध्यायः - ५७
. पौरवराजकथा -
अध्यायः - ५८
. शिबिराजाख्यानम् -
अध्यायः - ५९
. रामस्य दाशरथेर्वृत्तम् -
अध्यायः - ६०
. भगीरथचरित्रम् –
अध्यायः - ६१
. दिलीपस्यैलविलस्य प्रभावः –
अध्यायः - ६२
. मान्धातृचरिताभिधानम् -
अध्यायः - ६३
. ययातिप्रवृत्तिः -
अध्यायः - ६४
. नारदेन अयं प्रत्यम्बरीषविभवाभिधानम् –
अध्यायः - ६५
. शशबिन्दुयशोऽनुवर्णनम् -
अध्यायः - ६६
. गयराजगुणानुवर्णनम् -
अध्यायः - ६७
. रन्तिदेवकथासंकीर्तनम्
अध्यायः - ६८
. भरतवार्ताकथनम्
अध्यायः - ६९
. पृथुराजोदन्तनिर्वचनम् -
अध्यायः - ७०
. परशुरामप्रभावसंकीर्तनम् -
अध्यायः - ७१
. एतच्छ्रुत्वा तूष्णींभूतः सञ्जयो वरं वृणीष्वेति नारदेनोक्त एतेनैव प्रतीतोऽहमित्याद्युवाच। मृतं पुत्रं ददानीत्युक्तवति नारदे तत्कालाविर्भूतस्य पुत्रस्य संगेन प्रीतिमानभूत् सञ्जयः।” अभिमन्युना प्राप्तांल्लोकान्कथयित्वा युधिष्ठिरमाश्वास्योपदिश्य चान्तर्दधे व्यासः –
४. प्रतिज्ञापर्व
अध्यायः - ७२
. संशप्तकान्हत्वा शिबिरमागच्छन्नर्जुनः श्रीकृष्णं प्रत्याकस्मिकानि दुश्चिह्नानि कथयंस्तेनाश्वासितः शिबिरं प्रविवेश। शिबिरस्थान् सर्वान्निरुत्साहान्दृष्ट्वा सौभद्रमपश्यन् विषण्णोऽर्जुनस्तद्वधमाशंकमानः "स्वर्गतोऽभिमुखः संख्ये" इत्यादि विललाप। पुत्रशोकार्दितोऽर्जुनः श्रीकृष्णेन “सर्वेषामेष वै पन्थाः ? इत्यादिनाऽऽश्वासितस्तद्वधवृत्तान्तशुश्रूषुः पाण्डवानधिचक्षेप –
अध्यायः - ७३
. अभिमन्युवधवृत्तान्तं कथयन्युधिष्ठिरः स्वीयानां द्रोणनिवारणासामर्थ्यमभिधायास्मद्वाक्याद्व्यूहं प्रविष्टमभिमन्युमनुप्रविशत्स्वस्मासु जयद्रथेन रुद्रवरप्रभावाद्वारितेषु द्रोणादयः सप्त महारथा मिलित्वा तमभ्यघ्नन्निति कथयति स्म। युधिष्ठिरवाक्यं श्रुत्वा पुत्रेत्यादि वदन् मूर्छां प्राप्य पुनर्लब्धसंज्ञोऽर्जुनः शपथकरणपूर्वकं जयद्रथवधं प्रतिजज्ञे, श्रीकृष्णोऽपे पाञ्चजन्यं दध्मौ –
अध्यायः - ७४
. अर्जुनप्रतिज्ञां श्रुत्वा भीतो जयद्रथः सभामागत्य तां कथयित्वाऽत्मरक्षां प्रार्थयन्गन्तुमियेष | दुर्योधनेनाश्वासितो जयद्रथस्तेन सह द्रोणं प्रति गतस्तेनाप्याश्वासितो निर्भयो बभूव कौरवसैन्यानि च जहृषुः –
अध्यायः - ७५
. श्रीकृष्णोऽर्जुनं प्रति “भ्रातॄणां मतमाज्ञाय त्वया वाचा प्रतिश्रुतम्। सैन्धवं चास्मि हन्तेति तत्साहसमिदं कृतम्” इत्याद्युक्त्वा कौरवाणां सिंहनादादिकथनपूर्वकं द्रोणकृताश्वासनं कर्णादीनामविषह्यत्वं चाह –
अध्यायः - ७६
. अर्जुनः स्वपराक्रमं कथयन् पुनः प्रतिज्ञां विधाय गाण्डिवादिकं प्रशंसन् रथसज्जीकरणाद्यर्थं कृष्णमादिदेश -
अध्यायः - ७७
. रात्रौ निर्निद्रौ क्रुद्धौ वासुदेवार्जुनौ ज्ञात्वा देवेषु चिन्तयत्सु रूक्षवातादीनि दुर्निमित्तान्यभूवन् । सुभद्राश्वासनार्थमर्जुनेन प्रेरितः श्रीकृष्णस्तद्गृहं गत्वा तां समाश्वासयामास -
अध्यायः - ७८
. विलपन्ती सुभद्रा भीमबलाद्याक्षेपपूर्वकं स्नुषामुद्दिश्य विलपन्ती सती पुत्रस्योत्तमलोकप्राप्तिमाशास्ते स्म । वैराटीसहिताया द्रौपद्या आगताया दर्शनेन मूर्छितां सुभद्रामाश्वास्य श्रीकृष्णोऽर्जुनसमीपमाजगाम -
अध्यायः - ७९
. श्रीकृष्णेन रात्रावर्जुनेन त्र्यम्बकाय बलिप्रदापनम्। कुष्णदारुकसंभाषणम् –
अध्यायः - ८०
. स्वप्रतिज्ञां स्मरन् शोकसन्तप्तोऽर्जुनः स्वप्ने स्वसमीपागतस्य कृष्णस्योपदेशेन शिवं मनसा चिन्तयामास। कृष्णार्जुनौ हिमालयैकदेशगमनानन्तरं पर्वतशृङ्गे ध्यानस्थं शंकरं दृष्ट्वा प्रणामपूर्वकं स्तुत्वा पुनरस्त्रप्राप्तये प्रसादयामासतुः -
अध्यायः - ८१
. अर्जुनेन पाशुपतास्त्रे प्रार्थिते शिववाक्याद्धनुबाणानयनार्थं तन्निर्दिष्टं सरः प्रति कृष्णार्जुनौ जग्मतुः । सरसि गतौ कृष्णार्जुनौ प्रथमं नागरूपौ पञ्चाच्छिवप्रभावाद्धनुर्बाणौ गृहीत्वा शिवाय ददतुः । ततो महादेवादर्जुनस्य पाशुपतास्त्रलाभपूर्वकं वरलाभानन्तरं कृष्णार्जुनौ स्वशिबिरमाजग्मतुः -
अध्यायः - ८२
. प्रातर्मागधादिभिर्बोधितो युधिष्ठिर आवश्यकं कृत्वा स्नातोऽग्न्यगारं प्रविश्य होमं विधाय ब्राह्मणेभ्यः काञ्चनादीनि ददौ। ब्राह्मकक्षायामासन उपविश्य भूषणग्रहणादिकं युधिष्ठिरो यावत्करोति तावद्द्वारपालेन पुष्णागमने निवेदिते तमानाययामास -
अध्यायः - ८३
. कृष्णयुधिष्ठिरयोः परस्परं कुशलप्रश्नानन्तरं विराटादिष्वागतेषु तत्समक्षमुभयोरुक्तिप्रत्युकी –
अध्यायः - ८४
. सभायामागतो युधिष्ठिरेणा लिङ्गितोऽर्जुनः स्वप्ने शिवदर्शनपूर्वकं पुनः पाशुपतास्त्रप्राप्तिवृत्तान्तं कथयामास । युधिष्ठिरानुज्ञया सर्वेषु युद्धार्थं निर्गतेषु सात्यकिकृष्णयोरर्जुनेन सह तद्गृहमागतयोः सतोः कृष्णेन सज्जीकृते रथे त्रिष्वप्यारूढेषु शुभनिमित्तानि दृष्टवनाऽर्जुनेन प्रेरितः सात्यकिर्युधिष्ठिररक्षणार्थं गच्छति स्म -
५. जयद्रथवधपर्व
अध्यायः - ८५
. धृतराष्ट्रेण सञ्जयं प्रति पुत्रान्प्रतिशोचनपूर्वकमभिमन्युनिधनानन्तरीयकयुद्धकथनचोदना
अध्यायः - ८६
. सञ्जयेन धृतराष्ट्रोपालम्भनपूर्वकं युद्धकथनोपक्रमः -
अध्यायः - ८७
. स्वसेनां व्यूहितुं द्रोणे प्रवृत्ते सति उभयसैन्येषु परस्परं प्रति गर्जनादि कुर्वत्सु द्रोणो जयद्रथमाश्वासयामास । द्रोणेन रचितं शकट-चक्र-पद्म-सूच्याख्यव्यूहचतुष्टयात्मकं महाव्यूहं दृष्ट्वा कौरवादयो हृष्टा बभूवुः –
अध्यायः - ८८
. युद्धभूमावर्जुने आगच्छति शतानकिधृष्टद्युम्नौ व्यूहं रचयामासतुः । सर्वसेनाग्रे दुर्मर्षेणे स्वशौर्यगर्भं वाक्यं ब्रुवति कृष्णार्जुनाभ्यां शङ्खवादने कृते तद्ध्वनिश्रवणेन कौरवाणां त्रासादि -
अध्यायः - ८९
. अर्जुनवाक्याच्छ्रीकृष्णेन तद्रथे दुर्मर्षणसमीपं नीते युद्धमारभमाणोऽर्जुनः स्वबाणावच्छिन्नैः शत्रुशिरोभिः पृथ्वीमाच्छादयामास । भयेन सर्वत्रार्जुनमेव पश्यतां तद्बाणपीडितानां तं द्रष्टुमसमर्थानां कौरवाणां पलायनम् –
अध्यायः - ९०
. भग्ने सैन्ये के वीरा धनञ्जयं प्रत्युदीयुरिति धृतराष्ट्रप्रश्ने सञ्जयोऽर्जुनं प्रति दुःशासनगमनादि कथयति स्म । दुःशासनेन सहार्जुनस्तुमुलं युद्धं कुर्वन् गजादींश्छित्वा सैन्यानि पातयन्युद्धभूमिं यावच्छोभयति तावत्तद्भयादुःशासनो द्रोणसमीपं जगाम -
अध्यायः - ९१
. द्रोणानीकं प्रति गतोऽर्जुनो द्रोणं प्रति विनयपूर्वकं “शिवेन ध्याहि माम्” इत्यादि वदन् 'मामजित्वा न बीभत्सो' इत्यादिना तेनोत्तरितस्तेन सह महद्युद्धं चकार। उभयोर्युद्ध्यमानयोः श्रीकृष्णवाक्यादर्जुनो द्रोणं प्रदक्षिणीकृत्य युधामन्यूत्तमौजोभ्यामनुगम्यमानो जयकृतवर्मादिभिर्महद्युद्धं चकार –
अध्यायः - ९२
. पुनरग्रे गच्छन्नर्जुनोऽश्वादीन् पातयन्युद्ध्यमानं द्रोणं परित्यज्य कृतवर्मादीन् प्रति गतः कृतवर्मणा युयुधे। श्रीकृष्णवाक्यात्कृतवर्माणं मोहयित्वाऽर्जुने काम्बोजान्प्रति गते युधामन्यूत्तमौजसौ कृतवर्मणा युयुधाते । पुनरग्रे गच्छन्नर्जुनः श्रुतायुधेन युद्ध्यमानस्तस्याश्वान्सारथिं च जघान । अयुद्ध्यमाने श्रीकृष्णे श्रुतायुधेन परित्यक्ता वरुणदत्ता गदा परावृत्ता सती तमेव जघान । श्रुतायुधे हते हाहाकृत्वा कौरवसैन्ये पलायमाने आगत्य युद्ध्यमानं काम्बोजपुत्रं सुदक्षिणं जघानार्जुनः -
अध्यायः - ९३
. आगतया कौरवसेनया सह युद्ध्यमानोऽर्जुनो युद्ध्यमानानामभीषाहादीनां शिरोभिर्म--तस्तार | अर्जुनस्य श्रुतायुरच्युतायुर्भ्यां महति युद्धे प्रसक्ते श्रुतायुषा परिक्षिओतेव तोमरेण मोहितमर्जुनं प्रत्यच्युतायुः शूलं चिक्षेप। श्रीकृष्णेन प्रत्याश्वासितोऽर्जुनः श्रुतायुरच्युतायुर्भ्यां महद्युद्धं कुर्वंस्तौ जघान। पुनरग्रे गच्छन्नर्जुनो युद्धार्थमागतौ तत्पुत्रौ नियतायुर्दीर्घायुषौ हत्वा हतैः सैन्यैः पृथ्वीं तस्तार | बाणान्वर्षतो यवनपारदादीन् हत्वाऽर्जुनो रुधिरनदीं प्रावर्तयत् । पुनः सेनां प्रविशन्नर्जुनो युद्धार्थमागताभ्यां श्रुतायुरम्बष्ठाभ्यां सह युद्ध्यमानः सन्नुभौ जघान -
अध्यायः - ९४
. सुदक्षिणादिषु हतेषु दुर्योधनो द्रोणमागत्याक्षेपपूर्वकमुवाच । दुर्योधनवाक्यं श्रुत्वाऽर्जुनस्याजेयत्वकथनादिपूर्वकं व्यूहमुखे संप्राप्तां पाण्डववाहिनीं त्यक्त्वा नाहमर्जुनेन योत्स्ये, त्वमेव गत्वा तेन सह युद्ध्यस्वेत्याद्युवाच द्रोणः । अर्जुनेन सह युद्धार्थं स्वस्यासामर्थ्यद्युद्भावयति दुर्योधने कवचबन्धनं प्रतिज्ञाय तद्वृत्तान्तकथनपूर्वकं तत्प्राप्तिपरंपरां कथयित्वा दुर्योधनशरीरे तत्कवचं बबन्ध द्रोणः । कवचं बद्ध्वा द्रोणेन प्रेरितो दुर्योधनोऽर्जुनसमीपं जगाम -
अध्यायः - ९५
. कुरुपाण्डवसेनयोस्तुमुले युद्धे प्रवृत्ते धृष्टद्युम्नद्रोणयोर्युद्ध्यमानयोर्धृष्टद्युम्नः कौरवसेनां द्रोणः पाण्डवसेनां च मोहयति स्म । भीमनिवारणार्थं विधिंशतिप्रभृतिषु यत्नं कुर्वत्सु बाल्हीकराजद्रौपदेयादयो द्वन्द्वशो युयुधिरे। कृपादीनां जयद्रथरक्षित्वकथनम् -
अध्यायः - ९६
. सञ्जय उभययुद्धकथनं प्रतिज्ञाय विन्दानुविन्दविराटप्रभृतीनां द्वन्द्वशो युद्धं कथयामास –
अध्यायः - ९७
. जलसन्धादीनां भीमादिभियुद्धे प्रवृत्ते धृष्टद्युम्नो द्रोणमधावत्। द्रोणेन सह युद्ध्यमानो धृष्टद्युम्नो द्रोणरथेन सह स्वरथं संयोज्य खड्गं गृहीत्वा द्रोणरथस्य युगमारुरोह। धृष्टद्युम्नस्य खड्गं छित्त्वाऽश्वादींश्च विद्ध्वा तद्धननार्थं द्रोणेन प्रेरितं बाणं सात्यकिश्चिच्छेद –
अध्यायः - ९८
. सात्यकिद्रोणयोर्युद्धशुश्रूषया धृतराष्ट्रप्रश्ने सञ्जयस्य तत्कथनम् । क्रुद्धं द्रोणमागतं दृष्ट्वा सात्यकिः स्वसूतं प्रेरयत्वा तत्समीपमाजगाम । उभयोस्तुमुले युद्धे प्रवृत्ते तद्दर्शनार्थमन्येषां योधानां युद्धादुपरमो ब्रह्मादीनामागमनं च। सात्यकिना धनुषां शते छिन्ने द्रोणो मनसा तं प्रशशंस । क्रुद्धस्य द्रोणस्य सात्यकिना सह दिव्यास्त्रयुद्धे प्रवृत्ते सर्वेषु विषण्णेषु युधिष्ठिरादयः सात्यकिरक्षार्थं यत्नं चक्रु दुःशासनादयश्च द्रोणरक्षार्थम् –
अध्यायः - ९९
. अवतरति दिवसकरे जयद्रथवधार्थमर्जुनवासुदेवयोर्गच्छतोरागताभ्यामावन्त्याभ्यां विन्दानुविन्दाभ्यां सह युद्ध्यमानोऽर्जुनो द्वावपि जघान। जयद्रथं दूरस्थं दृष्ट्वा हयानां विशल्यकरणाद्यर्थमर्जुनेन प्रार्थितः श्रीकृष्णस्तदङ्गीचकार । “अहमावारयिष्यामि सर्वसैन्यानि” इति प्रतिज्ञाय रथादवरूढमर्जुनं प्रति कौरवयोधेषु बाणान्वर्षसु तान्सर्वान्स्वभुजबलेन निवारयामास । “अश्वानां पानादियोग्यं जलमत्र नास्ति” इति श्रीकृष्णेनाभिहितोऽर्जुनो बाणेन मेदिनीं भित्वा सरो निर्ममे तत्परितः शरगृहं च चकार -
अध्यायः - १००
. अदृष्टपूर्वं सरो दृष्ट्वा सिद्धादिषु साधुवादं वदत्सु बाणान्वर्षन्तः सर्वे राजानोऽर्जुनमव्यथितं दृष्ट्वा प्रशशंसुः । श्रीकृष्णेन विशल्यकरणपूर्वकं जलपानादि कारयित्वा योजितेष्वश्वेषु पुना रथमारुह्य यान्तमर्जुनं दृष्ट्वा कौरवा विमनस्काः सन्तो 'धिगस्मान्' इत्याद्यूचुः । दुर्योधनं निन्दत्सु कौरवसैन्येष्वश्वान् प्रेरयित्वा श्रीकृष्णेन पाञ्चजन्ये वादितेऽर्जुनं प्रति दुर्योधनादय आजग्मुः -
अध्यायः - १०१
. श्रान्तानामपि कौरवबलानां धैर्येणार्जुनसमीपं गतानां पुनरनिवर्तनं कृष्णार्जुनौ दृष्टवतामन्येषां जयद्रथजीवितनिराशत्वं चाह सञ्जयः । जयद्रथं दृष्ट्वा कृष्णार्जुनयोर्नदतोः सतोस्तौ प्रत्यागतं दुर्योधनं दृष्ट्वा कौरवसैन्यानि जहृषुः –
अध्यायः - १०२
. दुर्योधनं दृष्ट्वा तन्निन्दापूर्वकं “यथाऽयं जीवितं जह्यात्तथा कुरु” इति श्रीकृष्णवाक्येऽर्जुनेनाङ्गीकृते तौ दुर्योधनं प्रति रथं प्रेषयामासतुः । निर्भयमर्जुनसमीपं गतं दुर्योधनं दृष्ट्वाऽऽलपतां सैन्यानां तत्कृतमाश्वासनमर्जुनं प्रति तस्य प्रौढिवादश्च -
अध्यायः - १०३
. दुर्योधनार्जुनयोः परस्परं बाणप्रहारे प्रवृत्तेऽर्जुनबाणानां नैफल्यै कृष्णेन पृष्टः स द्रोणदत्ताभेद्यकवचवृत्तान्तं कथयति स्म । स्वबाणानां नैष्फल्यं दृष्टवानर्जुनः कवचानावृतं दुर्योधनाङ्गं निर्णीय तस्य हयान्हत्वा हस्तावापं च छित्त्वा हस्ततलयोर्नखमांसान्तरे च विव्याध। तथा विद्धे दुर्योधने पलायनपरे सतितद्रक्षिभिरावृतोऽर्जुनस्तत्सैन्यं नाशयति स्म । आगच्छन्तमर्जुनं दृष्ट्वा जयद्रथरक्षिणः सिंहनादादिकं चक्रुः –
अध्यायः - १०४
. कौरववीरेष्वर्जुनं प्रत्यागतेषु भूरिश्रवःप्रभृतिभिः शङ्खवादने कृते कृष्णार्जुनावपि शङ्खवादनं चकुः । दुर्योधन-द्रोण-कर्णादि-भिरर्जुनस्य तुमुलं युद्धम् -
अध्यायः - १०५
. ध्वजानां विशेषज्ञानार्थं धृतराष्ट्रप्रश्ने सञ्जयोऽर्जुनादीनां ध्वजलक्षणानि कथयित्वा धृतराष्ट्रक्षेमपूर्वकमर्जुनं प्रशशंस-
अध्यायः - १०६
. “पञ्चालाः कुरुभिः सार्धं किमकुर्वत” इति धृतराष्ट्रप्रश्ने सञ्जयस्योत्तरम् । द्रोणादिभिः पञ्चालानां तुमुले युद्धे प्रवृत्ते बृहत्क्षत्रक्षेमधूर्त्यादीनां युद्धं; तत्र विशेषेण द्रोणयुधिष्ठिरयोर्युद्ध्यमानयोर्विरथो युधिष्ठिरः सहदेवरथमारुह्यापायात् –
अध्यायः - १०७
. बृहत्क्षत्रक्षेमधूर्त्योर्युद्ध्यमानयोर्बृहत्क्षत्रः क्षेमधूर्तिं जघान। धृष्टकेतुवीरधन्वनोर्युद्ध्यमानयोर्धृष्टकेतुः शक्त्या वीरधन्वानं जघान। सहदेवदुर्मुखयोर्युद्धं कुर्वतोर्विरथे दुर्मुखे निरभित्ररथारूढे सति सहदेवो निरामत्रं हतवान् । सात्यकि व्याघ्रदत्तयोर्युद्धे सात्यकिना व्याघ्रदत्ते हते तं प्रति मागधा आजग्मुः । मागधैः सह युद्धं कुर्वता सात्यकिना सैन्ये विद्राविते तं प्रति द्रोण आजगाम
अध्यायः - १०८
. द्रौपदेयैः सोमदत्ते युद्धे प्रसक्ते साहदेविः सौमदत्तिं जघान । भीमालम्बुषयोर्युद्धे प्रवृत्ते मायया शस्त्रवृष्टैः कुर्वन्नलम्बुषो भीमप्रेरितेन त्वाष्ट्रास्त्रेण पीडितः पलायनं चकार –
अध्यायः - १०९
. अलम्बुषघटोत्कचयोस्तुमुले युद्धे प्रवृत्ते भीमादिष्वागतेषु सर्वैः सह युद्धं कुर्वन्तमलम्बुषं घटोत्कचो न्यवधीत् । तस्मिन्हते पाण्डवाः सिंहनादादि कृत्वा घटोत्कचं संमानयामासुः -
अध्यायः - ११०
. सात्यकिर्द्रोणं कथं न्यवारयदिति धृतराष्ट्रप्रश्ने सञ्जयस्य तत्कथनम् । द्रोणसात्यकेर्युद्ध्यमानयोः सात्यकिं विषण्णं दृष्ट्वा कौरवा हर्षेण सिंहवद्यनदन्। कौरवनादं श्रुत्वा युधिष्ठिरः सैन्यं धृष्टद्युम्नं च संप्रेर्य सात्यकिरक्षणार्थमायया । द्रोणस्तैः सह युद्धं कुर्वन्पञ्चालादीञ्जिगाय । एतदन्तरे पाञ्चजन्यध्वनिं श्रुत्वा गाण्डीवशब्दमशृण्वन्व्यकुलो युधिष्ठिरः सात्यकिं प्रति तत्प्रशंसादिपूर्वकमर्जुनसाहाय्यार्थं प्रेरयति स्म –
अध्यायः - १११
. अर्जुनं प्रति गच्छतेति युधिष्ठिरचोदितेन सात्यकिना तं प्रति स्वस्यार्जुनेन तद्रक्षणाय नियोगाभिधानपूर्वकं स्वेन तस्यापरित्याज्यत्वकथनम् । युधिष्ठिरेण भीमादिभिः स्वस्य रक्षणकथनपूर्वकं पुनः सात्यकेरर्जुनं प्रति गमने नियोजनम्
अध्यायः - ११२
. युधिष्ठिरोक्तं श्रुत्वा चिन्तयन्सात्यकिरर्जुनसमीपगमनं प्रतिज्ञाय कौरवसैन्यमारणं तदन्तर्गतकिरातादिमारणं च प्रतिज्ञाय रथसज्जीकरणमभिदधाति स्म । सज्जीकृतं रथमारूढः सात्यकिः सहागच्छन्तं भीमं परावर्त्य कौरवसैन्यं प्रविवेश -
अध्यायः - ११३
. सात्यकौ गते धृष्टद्युम्नादयो द्रोणं प्रति जग्मुः। कौरवसैन्यनाशनपूर्वकमर्जुनं जिगमिषुः सात्यकिर्द्रोणेन वारितः संस्तेन सह युयुधे । द्रोणेन सक्रोधमुक्तः सात्यकिर्विनयेनार्जुनकृतिमवलम्ब्य द्रोणं प्रदक्षिणीकृत्य स्वसारथिं प्रेरयन्भारतीं सेनां प्राविवेश । प्रविष्टः सात्यकिरागतेन कृतवर्मणा युद्ध्यमानस्तं बाणैराच्छाद्य तत्सारथिं हत्वा काम्बोजसैन्यं जगाम । सात्यकिं प्रति जिगमिषु द्रोणं पाण्डवसेना निवारयामास –
अध्यायः - ११४
. सञ्जयं प्रति धृतराष्ट्रो विस्मयपूर्वकं वदन्नर्जुनसात्यक्योः प्रशंसारूपं वाक्यमुक्त्वा तावुभौ सेनाप्रविष्टौ दृष्ट्वा दुर्योधनः किमकरोदिति पप्रच्छ । पुनर्धृतराष्ट्रः पुत्राणां शोकं संभावयन्नर्जुनसात्यक्योः सेनाप्रवेशेनानुतप्यमानः सन् द्रोणयुद्धं जयद्रथवधवृत्तान्तं च शुश्रूषुः पृच्छति स्म । आगतेर्भीमादिभिः सह युद्ध्यमानः कृतवर्मा शिखण्डिना युद्धं कुर्वंस्तं बाणैर्मोहयामास । शिखण्डिनं मोहितं दृष्ट्वा कौरवेषु कृतवर्माणं पूजयत्सु शिखण्डिसारथिस्तमपोवाह । कृतवर्मणा पराजिताः पाण्डवसैनिका विमुखाः समपद्यन्त -
अध्यायः - ११५
. कौरवाणां निनादं श्रुत्वा सात्यकिः कृतवर्माणमेत्य युद्ध्यमानस्तं विरथं कृत्वा सारथिं प्रेरयंस्त्रिर्गतैसन्यसमीपं जगाम । त्रिगर्तैः सह युद्धं कुर्वतः सात्यकेर्बाणप्रहारैः पीडिते गजसैन्ये पलायिते तं प्रति जलसन्धे आजगाम। जलसन्धेन सह युद्ध्यमानः सात्यकिस्तस्य बाहुद्वयं छित्त्वा शिरश्चिच्छेद । जलसन्धे हते भग्नं सैन्यं दृष्ट्वा कौरवसहितो द्रोणः सात्यकिमाजगाम –
अध्यायः - ११६
. द्रोणादिषु सप्तसु महारथेषु युगपद्बाणान्वर्षत्सु तान्प्रति सात्यकिर्बाणान्वर्षत्सु तान्प्रति सात्यकिर्बाणान्ववर्ष। सात्यकिर्दुर्योधनेन युद्धं कुर्वंस्तस्य सारथिं जघान । ततस्तस्मिंश्चित्रसेनरथमारुह्य पलायिते आर्तनादं श्रुत्वा कृतवर्मा पुनराजगाम । सात्यकिः कृतवर्मणा युद्धं कुर्वंस्तं विजित्यार्जुनदर्शनार्थं गच्छति स्म -
अध्यायः - ११७
. सात्यकिना सैन्ये पीड्यमाने द्रोणः सात्यकिं प्रति बाणान्समवाकिरत्। सात्यकिना द्रोणस्य सारथौ गते विद्रवन्तं तद्रथं प्रति सैन्ये गते स व्यूहद्वारमागत्य तस्थौ –
अध्यायः - ११८
. द्रोणादीञ्जित्वा सात्यकिः सैन्यमध्ये गच्छन् सुदर्शनेन युयुधे। सात्यकिः सुदर्शनस्य हृयादीन्निहत्य तं हत्वाऽर्जुनमार्गेणाजगाम –
अध्यायः - ११९
. सात्यकिः स्वसारथिं प्रत्यर्जुनहतसैन्यं दर्शयित्वा दुर्योधनादीन्प्रति रथं नेतुमाज्ञापयन् प्रथमं मुण्डनाशार्थं तान् प्रत्यश्वान् प्रेरयेत्याज्ञापयति स्म । रथे प्रेरिते यवनैः सह युद्ध्यमानः सात्याकिस्तान् हत्वा काम्बोजादीन् जघान -
अध्यायः - १२०
. अर्जुनसमीपं गच्छन् सात्यकिर्मध्ये दुर्योधनादिभिर्वारितस्तैः सह तुमुलं युद्धं कुर्वन् दुर्योधनस्य सारथिं जघान । हतसारथौ दुर्योधने पलाविते तमनु तत्सैन्येऽपि द्रुते सात्यकिरर्जुनरथं जगाम -
अध्यायः - १२१
. यान्तं सात्यकिं दृष्ट्वा मत्पुत्राः किमकुर्वतेति धृतराष्ट्रप्रश्ने सञ्जयः 'शृणुष्वावहितो भूत्वा’ इत्याद्युवाच। आगतैर्दुर्योधनादिभिः सह युद्धं कुर्वन्सात्यकिस्तद्बलं नाशयन्हस्त्यश्वादीञ्जघान। दुःशासनप्रेरितैः पाषाणयोधिभिः पार्वतीयैर्युद्धं कुर्वन्सात्यकिस्तान्हतवान् । कौरवबलस्यार्तध्वनिं श्रुत्वा यावद्द्रोणस्तत्सारथिश्च मिथः संवदतस्तावद्भीमं कौरवबलं द्रोणरथं प्रत्याययौ -
अध्यायः - १२२
. आगते सैन्ये दुःशासनरथं दृष्ट्वा दुःशासनं प्रत्याक्षेपवचनपूर्वकं पाण्डवैः शमकरणार्थं वदन्तं द्रोणं प्रत्युत्तरमदत्वा स सात्यकिं जगाम । पाण्डवसैन्ये प्रविष्टो द्रोणो युद्धार्थमागतं पञ्चालपुत्रं वीरकेतुं जघान, तद्दृष्ट्वा भगतांस्ताद्भ्रातॄंश्चिकेतुप्रभृतीनपि जघान । पञ्चालान् हतान् दृष्ट्वा आगतस्य धृष्टद्युम्नस्य द्रोणेन सह महाते युद्धे प्रवृत्ते द्रोणबाणेन सूते हते धृष्टद्युम्ने च पलायिते द्रोणः पुनर्व्यूहद्वारमाययौ -
अध्यायः - १२३
. सात्याकिं प्रति गते दुःशासने उभयोस्तुमुले युद्धे प्रवृत्ते दुःशासनसाहाय्यार्थं त्रिगर्ता आजग्मुः। आगतैस्त्रिगर्तैः सह युद्ध्यमानः सात्यकिस्तदीयान्पञ्चशतवीरान्निहत्य गच्छन्मध्ये निवारयन्तं दुःशासनमपि जित्वाऽर्जुनरथं प्रति जगाम –
अध्यायः - १२४
. किं मत्सेनायां सात्यकेर्निवारयिता कोऽपि नास्तीत्यादिके धृतराष्ट्रप्रश्ने सञ्जयस्योत्तरम्। सेनासमूहं द्रोणव्यूहं च प्रशस्य सेनासंबन्धिनं तुमुलं शब्दं च शंसन् भीमादीनामाक्रन्दनमाह सञ्जयः । अर्जुनसात्यक्योः सुखेन जयद्रथसमीपगमनार्थं युधिष्ठिरादिभिः प्रेरितायां पाण्डवसेनायां कौरवबलं नाशयन्त्यां दुर्योधन आजगाम । भीमादिभिः सह यूद्ध्यमानस्य दुर्योधनस्य युधिष्ठिरेण सह युद्धे प्रसक्ते युधिष्ठिरं प्रत्यागतैः पञ्चालैः सह द्रोणस्य संकुलं युद्धम् -
अध्यायः - १२५
. पराक्रमं प्रकाशयन्युद्धार्थमागतं बृहत्क्षत्रं हत्वा शिशुपालपुत्रं धृष्टकेतुं जघान । द्रोणो धृष्टकेतौ हते आगतं तत्पुत्रं हत्वा जारासन्धिं च निहत्य पाण्डवसैन्यं यावन्नाशयति तावत्पञ्चालादयस्तमाजग्मुः । द्रोणेन चेदिश्रेष्ठेषु हतेषु भीतानां पञ्चालानां द्रोणप्रशंसारूपं वाक्यं श्रुत्वा क्षत्रधर्मा तं प्रत्याजगाम । क्षत्रधर्मणि हते कम्पमानेषु पञ्चालेषु चेकितानेन सह युद्ध्यमानेन द्रोणेन तत्सारथौ हते तद्धयेषु त्वपलायमानेषु द्रुपदस्तमाजगाम -
अध्यायः - १२६
. व्यूहं भित्त्वा पार्थेषु प्रविष्टेषु शरणमपश्यंश्चिन्तयानो युधिष्ठिरो गाण्डीवशब्दमशृण्वन् सात्यकिं चापश्यन् भीमसमीपमागत्य 'यः सदेवान्सगन्धर्वान् दैत्यांश्चैकरथोऽजयत्। तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते’ इत्युवाच । सान्त्वनं कुर्वन्तं भीमं युधिष्ठिरोऽर्जुनं हतमाशङ्क्य तत्समीपगमनार्थं प्रेरयित्वा सात्यक्यर्जुनौ दृष्ट्वा संविदं कुर्वित्याह
अध्यायः - १२७
. युधिष्ठिरमनुनीय तद्वाक्यमङ्गीकृत्यार्जुनसमीपं गच्छन् भीमो धृष्टद्युम्नं तद्रक्षार्थमादिश्य निर्जगाम। पाञ्चजन्यध्वनिं श्रुत्वा पुनर्युधिष्ठिरेण प्रेरितः पञ्चालादिभिरनुगम्यमानो भीमो मध्ये प्राप्तान्दुःशलादीनतीत्य द्रोणसमीपं गतो गजानीकमवधीत्। अर्जुनसरणिमालम्ब्य गच्छेति द्रोणेनोक्तो भीमस्तदनङ्गीकुर्वन् गदया तदर्थं चूर्णयामास अन्यं रथमास्थाय द्रोणे व्यूहद्वारि स्थिते दुःशलादिभिर्युद्ध्यमानो भीमो वृन्दारकादींस्त्वत्पुत्रान् हत्वा सिंहनादादिकं चकार -
अध्यायः - १२८
. द्रोणे निवारयितुमिच्छति स भीम गदया युद्ध्यमानः कौरवान् विद्राव्य चमूं प्रविष्टः सन्द्रोणेन महद्युद्धमकरोत् । द्रोणस्य रथं क्षिप्त्वा व्यूहं प्रविष्टो भीमो भोजानीकं प्रमथ्य दरदादीनतीत्य गच्छन् सात्यक्यर्जुनौ दृष्ट्वा सिंहनादं चकार। भीमनादं श्रुत्वा कृष्णार्जुनसात्यकिष्वपि नदत्सु स वैषां शब्दं श्रुत्वा युधिष्ठिरो हृष्टः सन् मनसा भीमादीन्प्रशशंस -
अध्यायः - १२९
. नर्दन्तं भीमं के पर्यवारयन्निति धृतराष्ट्रप्रश्ने सञ्जयस्योत्तरम् । गमनमार्गे रुन्धता कर्णेन सह तुमुले युद्धे प्रसक्ते भीमस्तस्य सारथ्यादीन् हत्वा तं निर्जित्य सिंहनादं चकार। तच्छ्रबाणाद्युधिष्ठिरो जहर्ष -
अध्यायः - १३०
. दुर्योधनेन शीघ्रमागत्याक्षिप्तो द्रोणो द्यूताद्यनुवादपूर्वकं तं तिरस्कृत्य जयद्रथरक्षणार्थं गच्छेत्यादिदेश । द्रोणेनादिष्टो दुर्योधनो युधामन्यूत्तमौजोभ्यां युद्ध्यमानस्ताभ्यां विरथीकृतो गदया तयोरपि रथौ भङ्क्त्वा शल्यरथमारुरोह। तावप्यन्यरथारूढावर्जुनं जग्मतुः -
अध्यायः - १३१
. कर्णे भीमं प्रति पुनरागते तद्युद्धश्रवणार्थं धृतराष्ट्रप्रश्ने सञ्जयस्योत्तरम् । कर्णं त्यक्त्वाऽर्जुनं गन्तुकामो भीम आक्षेपयुक्तं तदाह्वानमसहमान: कर्णेन युद्धं कुर्वंस्तत्सारथ्यादीन्हत्वा तं पराजिग्ये -
अध्यायः - १३२
. विमुखं कर्णं दृष्ट्वा दुर्योधनः किमब्रवीदित्यादिके धृतराष्ट्रप्रश्ने सञ्जयस्योत्तरम् । रथान्तरमारुह्य पुनरागतस्य कर्णस्य भीमेन सह तुमुले युद्धे प्रसक्ते द्यूतादिसंभवान् क्लेशान्स्मृत्वा सक्रोधो भीमः कर्णं प्रत्यधावत्। कर्णभीमौ परस्परपराक्रमप्रदर्शनपूर्वकमुभावप्युभयसैन्यं व्यनाशयताम् –
अध्यायः - १३३
. भीमयुद्धश्रवणेन विस्मितो धृतराष्ट्रः कर्णपराजयं श्रुत्वाऽनुतप्तो दुर्योधनमाक्षिपन्भीमकर्णयोर्युद्धं शुश्रूषुः प्रश्नं चकार । नपुः कर्णभीमयोर्युद्ध्यमानयोर्भीमे न कर्णस्य सारथ्यादिहनने कृते विरथः स मुमोह। मोहिते कर्णे दुर्योधनेन प्रेरितः स्वभ्राता दुर्जयो भीमेन युद्ध्यमानस्तेन हतः –
अध्यायः - १३४
. रथान्तरमारुह्य पुनरागतं कर्णं युद्ध्यमानो भीमो विरथं चकार । दुर्योधनप्रेरणया आगतेन तद्भ्रत्रा दुर्मुखेन युद्धं कुर्वन् भीमस्तं जघान । हतं दुर्मुखं प्रदक्षिणीकृत्य कर्णस्तद्रथमारुह्य शोचन् भीमबाणपीडितो रणादपायात् -
अध्यायः - १३५
. कर्णपलायनं श्रुत्वाऽनुतप्यमानं दुर्योधनोक्तकर्णप्रशंसादिस्मरणपूर्वकं भीमं स्तुत्वा दुर्योधनं निन्दन्तं धृतराष्ट्रं सञ्जयो भर्त्सयांचक्रे। कर्णेऽपयाते आगतान्दुर्मर्षणादीन्पञ्च दुर्योधनाभ्रातॄन् पुनरागतस्य कर्णस्य समक्षं भीमो जघान -
अध्यायः - १३६
. दुर्मर्षणादिहननेनाधिकं क्रुद्धः कर्णो भीमेन सह तुमुलं युद्धं कुर्वंस्तद्भयात्पुनः पलायनं चक्रे । कर्णेऽपयाते दुर्योधनेन प्रेषितांश्चित्रोपचित्रादीन् षट् खभ्रातॄन् भीम एकैकेन बाणेन जघ्निवान्। तान्निहतान्दृष्ट्वा पुनरागते कर्णे पुनरुभयोर्युद्धे प्रसक्ते भीमपराक्रमदर्शनेन कौरवा विमनसोऽभूवन् -
अध्यायः - १३७
. भीमज्यातनिःस्वनं श्रुत्वा कुद्धः कर्णः पुनर्युयुधे। तुमुलशब्दं श्रुतवता दुर्योधनेन सेनया सह प्रेषितेषु सप्तसु भ्रातृषु सर्वे कर्णरक्षणार्थं यत्नं चक्रुः । भीमसेनः कर्णसमक्षं शत्रुञ्जयादीन् सप्त दुर्योधनाभ्रतॄन् हत्वा तन्मध्ये हतं विकर्णमनुशोचन् सिंहनादं चकार । तं श्रुत्वा युधिष्ठिरस्तुतोष । एकत्रिंशद्भातृहननानन्तरं विदुरवाक्यं स्मृतवतो दुर्योधनस्य मूकीभावं कथयित्वा दुर्योधनादीन्निन्दन् धृतराष्ट्रमाचिक्षेप सञ्जयः -
अध्यायः - १३८
. पुनः शोकसंतप्ते धृतराष्ट्रे पृच्छति सञ्जयः कर्णभीमयोर्युद्धं शशंस | भीमबाणपीडिते सैन्ये पलायमाने योधा बाणपातमतिक्रम्य युद्धदर्शनार्थं तस्थुः। सञ्जयो रुधिरनदीप्रवहणं हतैर्मनुष्यादिभिर्युद्धभूमिशोभां चारणादीनां हर्षं च कथयति स्म –
अध्यायः - १३९
. कर्णभीमयोः पुनर्युद्धे प्रवृत्ते भीमबाणप्रहारेण मोहितः कर्णः संज्ञां लब्ध्वा पुनर्युयुधे । बाणवर्षणेनाकाशं छादयित्वा नादं कुर्वन्तावुभौ प्रति देवर्ष्यादयः पुष्पवृष्ट्यादि चक्रुः । कर्णेन भीमस्य धनुरादिषु छिन्नेषु भीमत्यक्तां शाक्तिं चिच्छेद कर्णः । भीमः खड्गप्रक्षेपेण कर्णस्य धनुश्छित्वा विशस्त्रो मृतहस्त्यादींस्तं प्रति क्षिपन्नर्जुनप्रतिज्ञां स्मृत्वा तं न जघान । कर्णोऽपि कुन्तीवाक्यं स्मृत्वा तं न जघान। धनुष्कोट्या कर्णेन स्पृष्टस्य भीमस्य तस्य च परस्पराधिक्षेपपूर्वकमुक्तिप्रत्युक्ती । भीमस्य बाहुयुद्धविषयकं मतमाज्ञाय युद्धान्निवृत्तं विकत्थमानं कर्णं प्रत्यर्जुने बाणान्क्षिपति तद्बाणपीडितः सोऽपयांचक्रे। कर्णं प्रत्यर्जुनमुक्तान्बाणांश्छिन्दन्द्रोणपुत्रोऽर्जुनबाणपीडितः स सैन्यमध्यं प्रविवेश -
अध्यायः - १४०
. विलापपूर्वकं सात्यकियुद्धशुश्रूषोर्धृतराष्ट्रस्य प्रश्ने सञ्जयस्योत्तरम् । सैन्यमध्यं प्रविशन्ननिवार्यः सात्यकिरागतेनालम्बुषेण युद्धं कुर्वंस्तं जघान। दुःशासनमग्रतः कृत्वा आगतान्दुर्योधनभ्रातॄन्निवार्य गच्छन्तं सात्यकिं दृष्ट्वाऽर्जुनो जहर्ष -
अध्यायः - १४१
. दुःशासनरथं प्रति गच्छन्सात्यकिस्त्रिगर्तिराजप्रभृतिभिर्निवारितस्ताञ्जित्वा भारतीं सेनां प्रविवेश । युद्धविशारदः सात्यकिः शूरसेनसेनां जित्वा कलिङ्गसैन्यं जिगाय । सात्यकिं दृष्ट्वा तं प्रशंसन्तं श्रीकृष्णं प्रति तत्कृतयुधिष्ठिरत्यागेन दुःखितस्यार्जुनस्योक्तिः -
अध्यायः - १४२
. आगच्छन्तं सात्यकिं प्रति भूरिश्रवस्यागते उभयोरुत्तरप्रत्युत्तरपूर्वकं युद्धं कर्तुं प्रवृत्तयोस्तत्सर्वे सैनिका ददृशुः। परस्परं हयनाशनेन विरथावुभावसियुद्धं कुर्वन्तौ परस्परमसिचर्मणी छित्त्वा बाहुयुद्धं चक्रतुः | कृष्णार्जुनयोः पश्यतोर्भूरिश्रवसा सात्यकावास्फाल्य भूमौ पातिते एनं रक्षेत्युवाचार्जुनं कृष्णः । उरसि पादप्रहारं कृत्वा केशान् धृत्वा शिरश्छेत्तुं प्रवृत्तस्य भूरिश्रवसः सासिं बाहुं श्रीकृष्णवाक्यादर्जुनश्चिच्छेद –
अध्यायः - १४३
. भूरिश्रवा अर्जुनं निन्दंस्तस्य प्रत्युत्तरं श्रुत्वा प्रायोपवेशनं चकार। निन्दां कुर्वतः कौरवान्प्रत्याक्षेपवाक्यं वदन्नर्जुनो भूरिश्रवस उत्तमलोकप्राप्तिमाशास्ते स्म श्रीकृष्णश्च स्वसारूप्यप्राप्तिमनुजज्ञे । उत्थितः सात्यकिः कृष्णादिभिर्वार्यमाणोऽपि भूरिश्रवसः शिरश्चिच्छेद। देवेषु भूरिश्रवसं स्तुवत्सु सात्यकिं निन्दन्तः कौरवाः सात्यकिवाक्यं श्रुत्वा निरुत्तरबभूवुः -
अध्यायः - १४४
. द्रोणादिभिरनिगृहीतःसात्यकिर्भूरिश्रवसा कथं निगृहीत इति धृतराष्ट्रप्रश्ने सात्यकिभूरिश्रवसोरुत्पत्तिं कथयन्सञ्जयः शिनिपर्यन्तं चन्द्रवंशपरंपरामह। देवक्यर्थं स्वयंवरे वसुदेवार्थं शिनिना देवक्यां हृतायां तदसहमानो युद्ध्यमानः सोमदत्तस्तेन पराभूतो महादेवं प्रसाद्य तस्माच्छिनिपुत्रहन्तारं भूरिश्रवसं पुत्रमवाप । भूरिश्रवसोर्जन्म कथयित्वा सात्यकेरजेयत्वं कथयन् वृष्णीन् प्रशशंस सञ्जयः -
अध्यायः - १४५
. पुनर्युद्धवृत्तान्तं शुश्रूषोर्धृतराष्ट्रस्य प्रश्ने सञ्जयस्योत्तरम् । अश्वप्रेषणार्थं श्रीकृष्णं प्रेरयत्यर्जुने तन्निवारणार्थं दुर्योधनादय आजग्मुः । जयद्रथवधोद्यतमर्जुनं दृष्ट्वा सैन्धवरक्षणार्थं वदन्तं दुर्योधनमाश्वासयति स्म कर्णः । कौरवसैन्यं निघ्नन्नर्जुनो दुर्योधनादिभिर्वारितोऽश्वत्थामप्रभृतिभिर्युद्धं कुर्वन्कर्णं विरथं चकार, स च द्रौणि रथमारुरोह । पुनः कर्णादिभिरर्जुनस्य संकुलं युद्धम् –
अध्यायः - १४६
. गाण्डीवशब्दं श्रुत्वा क्षुब्धे कौरवसैन्येऽर्जुन ऐन्द्रास्त्रेण कौरवसैन्यं नाशयञ्शोणितनदीं प्रावर्तयत् । अर्जुनः कौरवमहारथानतिक्रम्य द्रौण्यादीन्प्रति बाणान्वर्षञ्जयद्रथेन युद्ध्यमानस्तत्सारथिं नाशयामास । सूर्याच्छादनार्थं तमः सृष्ट्वा “पश्य सिन्धुपतिं वीरम्” इत्याद्युक्तवति श्रीकृष्णेऽऽर्जुनः कृपादीन्प्रति बणवर्षं कृत्वा जयद्रथमधावत् । अर्जुनमुक्तशरजालेन जयद्रथरक्षिषु पलायमानेषु पुनरर्जुनः कृपादीन् व्याकुलीकृत्य जयद्रथं हन्तुमस्त्रं जग्राह । श्रीकृष्णकथितं जयद्रथवृत्तान्तं श्रुत्वाऽर्जुनो बाणेन जयद्रथशिरश्छित्वा बाणैरूर्ध्वमुत्क्षिपंस्तत्पितुरुत्सङ्गे तत्पातयामास । उत्सङ्गादधः पतिते शिरसि तत्पितुः शिरोऽपि शतधा बिभेद । तदर्जुनस्य कर्म दृष्ट्वा सैम्येषु विस्मितेषु कृष्णस्तत्तमः सञ्जहार । जयद्रथनाशं दृष्ट्वा दुर्योधनादिषु दुःखितेषु वासुदेवादीनां शंखशब्दं श्रुत्वा युधिष्ठिरो जहर्ष, सोमकाश्च द्रोणेन सह युयुधिरे -
अध्यायः - १४७
. जयद्रये हते मामकाः किमकुर्वतेति धृतराष्ट्रप्रश्ने सञ्जयस्योत्तरम् । जयद्रथे हते कुपद्रौणिभ्यामर्जुनस्य युद्धे प्रसक्ते बाणप्रहारेण मूर्छितं कृपं दृष्ट्वा विलपन्तमर्जुनं प्रति कर्ण आद्रवत्। कर्णं प्रति पाञ्चाल्याभ्यां सह सात्यकावागतेऽर्जुनकृष्णयोरुक्तिप्रत्युक्ती । सात्यकिकर्णयोर्युद्धं शुश्रूषोर्धृतराष्ट्रस्य प्रश्ने तदुत्तरं वदन्सञ्जयः श्रीकृष्णार्जुनौ प्रशशंस । विरथसात्यकिदर्शनानन्तरं श्रीकृष्णेन शंखे वादिते तद्ध्वनिं श्रुत्वा दारुकेणानीतं रथमारुह्य सात्यकिः कर्णं प्रति जगाम । कर्णसात्यक्योस्तुमुले युद्धे प्रवृत्ते सात्यकिना विरथीकृतं कर्णं दृष्ट्वा वृषसेनादय आययुर्विह्वलः कर्णश्च दुर्योधनरथमारुरोह | सात्यकिर्द्रौणिप्रभृतीन्विजित्य दारुकाभ्रात्रा आनीतमन्यं रथमारुह्य कौरवसैन्यं प्रत्युपाद्रवत्। कर्णोऽपि रथान्तरमारुह्य रिपुसैन्यं प्रत्यधावत् -
अध्यायः - १४८
. भीमः किमकार्षीदिति धृतराष्ट्रप्रश्ने भीमयुद्धवृत्तान्तं सञ्जयः कथयति स्म। भीमेन निवेदितं कर्णवाग्बाणप्रहारादि श्रुत्वाऽर्जुनेन कर्णसमीपे तत्सुतवधे प्रतिज्ञाते रथिनस्तुमुलं शब्दं चक्रुः॥ अस्तंगते सूर्येऽर्जुनं प्रशंसंस्तेन च स्तुतः श्रीकृष्णस्तस्मै तद्धतसैन्यानि युद्धभूमिं च प्रदर्श्य शङ्खं वादयित्वा युधिष्ठिरमागत्य जयद्रथवधं कथयति स्म -
अध्यायः - १४९
. पादवन्दनपूर्वकं 'दिष्ट्या वर्धसि राजेन्द्र’ इत्याद्युक्तवति श्रीकृष्णे युधिष्ठिरो रथादवप्लुत्योभावालिङ्ग्य 'प्रियमेतदुपश्रुत्य’ इत्याद्युक्त्वा श्रीकृष्णं तुष्टाव । तौ च तं तुष्टुवतुः । अभिवन्दनं कुर्वन्तौ सात्यकिभूमौ प्रति 'दिष्ट्या पश्यामि वाम्’ इत्याद्युवाच युधिष्ठिरः
अध्यायः - १५०
. सैन्धवे निहते शोचन्दुर्योधनो मनसाऽर्जुनं प्रशस्य कौरवान्प्रति विलापवाक्यमुक्त्वा द्रोणं प्रत्यप्युवाच -
अध्यायः - १५१
. दुर्योधनेनोक्तो द्रोणः किमब्रवीदिति धृतराष्ट्रप्रश्ने सञ्जय उत्तरं जगाद । दुर्योधनोकं श्रुत्वा दुःखितो द्रोणो द्यूताद्यनुवादपूर्वकं तं प्रत्याक्षेपवाक्यान्युक्त्या 'नाहत्वा सर्वपञ्चालान् कवचस्य विमोक्षणम्' इत्यादि प्रतिजज्ञे । अश्वत्थामानं प्रति वक्तव्यं संदेशं दुर्योधनं प्रत्युक्त्वा पाण्डवसृञ्जयाञ्जगाम द्रोणः –
अध्यायः - १५२
. पुनर्युद्धोद्योगं कुर्वन्दुर्योधनः कर्णं प्रति द्रोणनिन्दारूपं वाक्यमब्रवीत् । परं कर्णो द्रोणस्य निर्दोषत्वं कथयित्वा येनास्मत्पौरुषं नाशितं तद्दैवस्य कर्मेत्याद्युवाच। ततस्तावकानां परेषां च पुनर्युद्धारंभ इति सञ्जयः प्राह अत्र चतुर्दशदिवसयुद्धं समाप्तम् । अतः परं रात्रियुद्धम् -
६. घटोत्कचवधपर्व
अध्यायः - १५३
. पञ्चालैः कौरवाणां युद्धे प्रसक्ते जयद्रथवधसंतप्तो दुर्योधनः पाण्डवसैन्यमवगाहे। भीमादीन्प्रति बाणान्वर्षन्दुर्योधनो युधिष्ठिरेण युयुधे । युधिष्ठिरबाणेन दुर्योधनस्य मूर्छा। अथ द्रोणसाहाय्येन प्रमुदिते दुर्योधने पुनश्चासीत्संग्रामः इत्याद्युवाच सञ्जयः -
अध्यायः - १५४
. कुपित आचार्यो यदा पाण्डून् प्राविशत्तदा पाण्डवास्तं कथं पर्यवारयन् ? इत्यादिप्रक्षे सञ्जयस्योत्तरम् । सायाह्ने द्रोणं प्रत्यर्जुनादिषु गतेषु रात्रावुभयोस्तुमुले युद्धे प्रवृत्ते द्रोणः पाण्डवसैन्यं विमुखं चकार -
अध्यायः - १५५
. तस्मिन्प्रविष्टे दुर्धर्षे इत्यादिके धृतराष्ट्रप्रश्ने सञ्जयस्योत्तरम्। द्रोणं प्रति पाण्डवेषु गतेषु स केकयादीन्हत्वा सैन्यानि नाशयञ्शिबिराजं जघान । युद्ध्यमानो भीमो मुष्टिना कलिङ्गसुतान्हत्वा कौरवसैन्यं नाशयन्युद्धार्थमागतौ दुर्मुखदुष्कर्णौ दुर्योधनभ्रातरौ जघान -
अध्यायः - १५६
. पुत्रशोकसंतप्ते क्रुद्धे सोमदत्ते सात्यकिं प्रत्यागत्याधिक्षेपवाक्यमुक्त्वा तद्वधार्थं शपथं चकार । सोमदत्तसाहाय्यार्थं दुर्योधनादिष्वागतेषु सात्यकिसाहाय्यार्थं ससैन्ये धृष्टद्युम्ने चागते उभयोस्तुमुलं युद्धम्। सात्यकिबाणप्रहारेण सोमदत्ते मोहिते तत्सारथिनापवाहिते सात्यकिं प्रत्यायान्तं द्रोणं युधिष्ठिरादय आजग्मुः । द्रोणे बाणान्वर्षति विद्रुतं सैन्यं दृष्ट्वाऽर्जुने आगते पाण्डवैः सार्धं तुमुले युद्धे प्रवृत्ते पञ्चालादय आजग्मुः । सात्यकिं प्रत्यायान्तमश्वत्थामानं प्रत्यागतस्य घटोत्कचस्य युद्धं दृष्ट्वा सकर्णाः कौरवाः प्रदुद्रुवुः । द्रौणिघटोत्कचयोर्युद्धे प्रसक्ते युद्ध्यमानं घटोत्कचपुत्रं द्रौणिर्जघान । पुत्रवधं दृष्ट्वा आगतस्य शोकसन्तप्तस्य घटोत्कचस्याश्वत्थाम्ना सहोक्तिप्रत्युक्ती । द्रौणिं प्रति सक्रोधवाक्यमुक्त्वा तेन सह युद्ध्यमानस्य मायाविनो घटोत्कचस्य युद्धं दृष्ट्वा दुर्योधनो निषसाद। अश्वत्थाम्ना समाश्वासितस्य दुर्योधनस्य प्रेरणया शकुनिः ससैन्यः पाण्डवाञ्जगाम। द्रौणिघटोत्कचयोस्तुमुले युद्धे प्रवृत्ते घटोत्कचप्रेरिते राक्षसैः सह युद्धं कुर्वन्द्रौणिरद्भुतं पराक्रमं प्रकटयति स्म । द्रौणिं प्रति घटोत्कचेन प्रेरिता अशनिर्द्रौणिनोत्प्लुत्य गृहीत्वा प्रक्षिप्ता, सैव घटोत्कचरथं नाशयामास । विरथे घटोत्कचे धृष्टद्युम्नरथमारूढे उभयोर्बाणान्वर्षतोर्द्रौणी राक्षसादीन् पातयन् युद्धभूमिं शोभयित्वा शोणितनदीं प्रावर्तयत् । भीमादीन्प्रति बाणान् वर्षन्नश्वत्थामा द्रुपदपुत्रान् सुरथादीञ्श्रुताह्वयादीनन्यांश्च जघान । अश्वत्थाम्ना घटोत्कचे पराजिते धृष्टद्युम्नादिषु च विमुखेषु सिद्धादयोऽश्वत्थामानं प्रशशंसुः -
अध्यायः - १५७
. द्रुपदपुत्रादीनां नाशं दृष्ट्वा युधिष्ठिरादिषु संकुलं युद्धं कुर्वत्सु सात्यक्यादीनां बाणैः सोमदत्तो मोहितोऽभूत् । सोमदत्तं मोहितं दृष्ट्वाऽऽगतेन बाल्हीकेन सह युद्धं कुर्वन्भीमस्तं जघान । नागदत्तप्रभृतिभिर्दशभिर्दुर्योधनभ्रातृभिर्युध्यमानो भीमस्ताञ्जघान | सेन्यानि नाशयतो युधिष्ठिरस्य द्रोणेन सह युद्धे प्रवृत्ते सैनिकास्तत्प्रशशंसुः । युधिष्ठिरं विमुच्य पञ्चालान् गच्छन्तं द्रोणं प्रत्यागतयोर्भीमार्जुनयोर्बाणैर्व्यथिता कौरवसेना व्यशीर्यत -
अध्यायः - १५८
. दुर्योधनेन युद्धकरणार्थं प्रार्थितः कर्णस्तमाश्वासयति स्म । कर्णवाक्यं श्रुत्वा तन्निर्भर्त्सनां कुर्वन्तं कृपं प्रति कर्णः स्वप्रागल्भ्यं प्रकाशयन्नुवाच। पुनः स्वाक्षेपपूर्वकं पाण्डवान्प्रशंसन्तं कृपं कौरवप्रशंसापूर्वकमधिचिक्षेप कर्णः -
अध्यायः - १५९
. कृपाधिक्षेपेण क्रुद्धं कर्णाधिक्षेपं कुर्वन्तमश्वत्थामानं दुर्योधनो निवारयति स्म । कर्णाशत्थाम्नोरुक्तिप्रत्युक्त्यनन्तरं दुर्योधनेन प्रार्थितोऽश्वत्थामा प्रससाद । युद्धार्थमागतस्य कर्णस्य पाण्डवैः सह युद्ध्यमानस्य पराक्रमं दृष्ट्वा तुष्टो दुर्योधनोऽश्वत्थामानं प्रति कर्णं प्रशंसन्नुवाच । कर्णरक्षणार्थमश्वत्थामप्रभृतिष्वागतेषु सत्सु पञ्चालैः सहार्जुने चागत उभयोस्तुमुलं युद्धम् । अर्जुनेन धनुरादि छित्त्वा विरथीकृते कर्णे कृपरथमारूढे सैन्ये च पलायमाने तदाश्वासनं कृत्वाऽऽत्मश्लाघापूर्वकं युद्धार्थं गच्छतं दुर्योधनं कृपप्रेरितोऽश्वत्थामा निवारयति स्म । दुर्योधनोऽश्वत्थामानं प्रति सखेदवाक्यमुक्त्वा पाण्डवसेनानाशार्थं प्रेरयंस्तं प्रशशंस –
अध्यायः - १६०
. पाण्डवसेनां नाशयितुं यत्नं कुर्वतोऽश्वत्थाम्नो दुर्योधनमधिक्षिप्य केकयपञ्चालादिभिः सह युद्धकरणं प्रतिज्ञातवतस्तैः सह तुमुलं युद्धम् । द्रवतः पञ्चालादीन्दृष्ट्वा आगतस्य धृष्टद्युम्नस्याश्वत्थाम्ना सह सोक्रोधोक्तिप्रत्युक्त्यनन्तरं तुमुलं युद्धम्। उभयोर्युद्धदर्शने हृष्टेषु सैन्येष्वश्वत्थामा धृष्टद्युम्नस्य ध्वजादिकं छित्वा ननाद -
अध्यायः - १६१
. अश्वत्थामानं प्रत्यागतानां युधिष्ठिरादीनां दुर्योधनादिभिः सह युद्धे प्रवृत्ते भीमार्जुनाभ्यामम्बष्ठादिषु हतेषु द्रोणे च पञ्चालान् प्रति भीमार्जुनभयेन कौरवसैन्यं पलायति स्म –
अध्यायः - १६२
. सोमदतेन सह तुमुलं युद्ध्यमानः सात्यकिर्बाणेन तं जघान, तं दृष्ट्वा कौरवयोधा आजग्मुः । द्रोणयुधिष्ठिरयोस्तुमुले युद्धे प्रसक्ते युधिष्ठिरः श्रीकृष्णवाक्यात्स्थानान्तरं जगाम -
अध्यायः - १६३
. रात्रियुद्धवृत्तान्तं कथयन्तं सञ्जयं प्रति 'कथं प्रकाशस्तेषां वा' इत्यादि धृतराष्ट्रप्रश्ने स कौरवव्यूहरचनाकथनपूर्वकं दीपादीनां व्यवस्थामाह -
अध्यायः - १६४
. सर्वत्र दीपप्रकाशे सति परस्परवधेच्छया आगतेषु योधेषु दीपादिभिः शोभितायां युद्धभूमावर्जुनः कौरवसैन्यं व्यधमत् । 'तस्मिन्प्रविष्टे' इत्यादिके धृतराष्ट्रप्रश्ने सञ्जयस्योत्तरम् । दुर्योधनेन द्रोणरक्षणार्थं भ्रातुप्रभृतिषु प्रेरितेषूभयोस्तुमुलं युद्धम् -
अध्यायः - १६५
. द्रोणसमीपगमनार्थं युधिष्ठिरेण सैन्ये प्रेरिते योद्धॄणां परस्परं द्वन्द्वशो युद्धे प्रवृत्ते कृतवर्मशरैः पीडितस्य युधिष्ठिरस्य रणादपयानम् -
अध्यायः - १६६
. भूरिसात्यक्योस्तुमुलं युद्ध्यमानयोः सात्यकिः शक्त्या भूरिं जघान, तं हतं दृष्ट्वा आगच्छतोऽश्वत्थाम्नो घटोत्कचेन युद्धे प्रसक्ते तच्छराहतोऽश्वत्थामा मुमोह । पुनर्लब्धसंज्ञशस्य द्रौणेः शराघातेन विमूढे घटोत्कचे सारथिनाऽपवाहिते भीमदुर्योधनयोस्तुमुले युद्धे प्रसक्ते भीमगदया चूर्णितरथो दुर्योधनो नन्दकरथमारुरोह -
अध्यायः - १६७
. सहदेवकर्णयोस्तुमुले युद्धे प्रवृत्ते कर्णेन पराजितस्तद्वाक्शल्यपीडितः सहदेवो जनमेजयरथमारुरोह। विराटशल्ययोस्तुमुले युद्धे प्रवृत्ते शल्येन विरथीकृतं दृष्ट्वा आगतं शतानीकं तद्भ्रातरं शल्यो जघान । शतानीकरथमारुह्य युद्ध्यमाने विराटे शल्यबाणपीडिते युद्धादपयाते कृष्णार्जुनौ शल्यसमीपमाजग्मतुः । अलम्बुषार्जुनयोर्युद्धे प्रसक्तेऽर्जुनोऽलम्बुषं विजित्य द्रोणान्तिकं जगाम
अध्यायः - १६८
. शतानीकचित्रसेनयोर्युद्धे प्रवृत्ते विरथश्चित्रसेनो हार्दिक्यरथमारुरोह । द्रुपदवृषसेनयोर्युद्धे प्रवृत्ते वृषसेनबाणप्रहारेण मोहिते द्रुपदे तत्सारथिनाऽपवाहिते पाण्डवसैन्यं निर्जित्य वृषसेनो युधिष्ठिरं जगाम । प्रतिविन्ध्यदुःशासनयोर्युद्ध्यमानयोर्दुःशासनेन विरथीकृतं प्रतिविन्ध्यं दृष्ट्वा तद्भ्रातर आजग्मुः -
अध्यायः - १६९
. नकुलसौबलयोर्युद्ध्यमानयोर्नकुलबाणपीडिते सौबलेऽपयाते नकुलो द्रोणसमीपमाजगाम । शिखण्डिकृपयोस्तद्रक्षणार्थमागतयोरुभयसैन्ययोश्च तुमुलं युद्धम् -
अध्यायः - १७०
. धृष्टद्युम्नद्रणयोर्युद्धे प्रवृत्ते द्रोणरक्षणार्थमागतैः कर्णादिभिर्धृष्टद्युम्नस्य युद्धम् । द्रुमसेनेन युद्ध्यमानो धृष्टद्युम्नस्तं हत्वा कर्णादिभिर्युर्युधे, तदा तं प्रति सात्यकिराजगाम । सात्यकिना सह तुमुलं युद्धं कुर्वतो गाण्डीवध्वनिं श्रुतवतः कर्णस्य वाक्याद्दुर्योधनेन प्रेरितः शकुनिः ससैन्योऽर्जुनं प्रति जगाम। शकुनौ प्रयाते कर्णादयो बाणान्वर्षन्तः सात्यकिमवव्रुः -
अध्यायः - १७१
. कर्णादिभिर्युद्ध्यमानः सात्यकिर्यावत्कौरवबलं नाशयति तावदागतो दुर्योधनो युद्धं कुर्वंस्तेन विरथीकृतः कृतवर्मरथमारुरोह । शकुनिधनञ्जययोर्युद्ध्यमानयोः स्वबाणच्छिन्नसैन्यभुजादिभिर्भूमिमाच्छादयता धनञ्जयेन विरथीकृते शकुनावुलूकरथमारूढे सैम्यं सर्वा दिशः प्रदुद्राव। धृष्टद्युम्नद्रोणयोर्युद्धे प्रवृत्ते धृष्टद्युम्नो द्रोणं निवार्य तत्सेनां व्यधमत्, तदा पाण्डवसैन्यानि शङ्खान्दध्मुः -
अध्यायः - १७२
. स्वबलं विद्रुतं दृष्ट्वा कृद्धेन दुर्योधनेन प्रेरितौ द्रोणकर्णौ पाण्डवान्प्रत्याजग्मतुः, द्रोणादिषु सात्यकिं प्रति बाणान्वर्षत्सु द्रोणं प्रत्यागतेषु पञ्चालादिषु तेन भग्नेषु दीनमनाः श्रीकृष्णोऽर्जुनं प्रति वदति स्म । पलायमानां स्वसेनां यावत्कृष्णार्जुनावाश्वासयतस्तावदागच्छन्तं भीमं दृष्ट्वा उभावपि द्रोणकर्णौ न जग्मतुस्तदाऽऽभ्यस्ता युधिष्ठिरादयोप्याजग्मुः । ततः पुनरुभयोः सेनयोः संकुलं युद्धम् –
अध्यायः - १७३
. धृष्टद्युम्नकर्णयोस्तुमुले युद्धे प्रवृत्ते कर्णेन पराजितं धृष्टद्युम्नं दृष्ट्वा आगताः पञ्चालादयो द्रोणकर्णाभ्यां पीडिताः प्रदुद्रुवुः । स्वसैन्यं विद्रुतं दृष्टवतो युधिष्ठिरस्य 'पश्य कर्णं महेष्वासम्’ इत्यादि वाक्यं श्रुत्वाऽर्जुनः श्रीकृष्णं प्रति ’भीतः कुन्तीसुतो राजा’ इत्याद्युवाच । कर्णं प्रति घटोत्कचप्रेषणार्थं श्रीकृष्णेन प्रेरितोऽर्जुनस्तमाजुहाव । कर्णं प्रति गमनार्थं कृष्णार्जुनाभ्यां प्रेरितो घटोत्कच उभावाश्वास्य कर्णं प्रति जगाम -
अध्यायः - १७४
. कर्णसमीपे राक्षसं दृष्ट्वा दुर्योधनो यावद्दुःशासनं प्रेरयति तावत्पाण्डवान्हन्तुं प्रार्थयमानो जाटासुरिरलम्बुषो दुर्योधनवाक्याद्घटोत्कचं जगाम । कर्णालाम्बुषाभ्यां युद्धं कुर्वन्घटोत्कचोऽलम्बुषं हत्वा दुर्योधनं प्रति ’एष ते निहतो बन्धुः' इत्याद्युक्त्वा कर्णं जगाम -
अध्यायः - १७५
. कर्णघटोत्कचयोर्युद्धं शुश्रूषोर्धृतराष्ट्रस्य प्रश्ने सञ्जयो घटोत्कचरूपादि वर्णयन् कर्णं प्रति तस्य गमनमाह । आगतेन घटोत्कचेन सह तुमुलं युद्धं कुर्वन्कर्णस्तस्य प्रगल्भवाक्यानि श्रुत्वा पुनर्युद्ध्यमानस्तत्सेनां नाशयन् दुर्निरीक्ष्यः शुशुभे । मायानिर्मितं रथमारुह्यागते घटोत्कचे नानारूपाणि धृत्वा तुमुलं युद्धं कुर्वति कर्णः स्वास्त्रेण तस्य मायां नाशयति स्म, स च पुनरन्तर्दधे -
अध्यायः - १७६
. एतदन्तरे अलायुध आगत्य 'विदितं ते महाराज' इत्याद्युक्त्वा दुर्योधनेनानुमोदितो भीमेन सह युद्धार्थं गच्छति स्म, तदा घटोत्कचसदृशः स बभौ -
अध्यायः - १७७
. राक्षसं दृष्ट्वा हृष्टेषु कौरवेषु कर्णघटोत्कचयोर्युद्ध्यमानयोरार्तं कर्णं दृष्ट्वा दुर्योधनेन प्रेरितोऽलायुधो घटोत्कचं जगाम । अलायुधघटोत्कचयोस्तुमुले युद्धे प्रवृत्ते घटोत्कचसाहाय्यार्थमागतस्य भीमस्यालायुधेन सह तुमुलं युद्धम् । उभयोर्घोरं युद्धं दृष्टवता श्रीकृष्णेन प्रेरितोऽर्जुनो यथायथं सैनिकान्योजयति स्म पुनरलायुधभीमौ तुमुलं युयुधाते-
अध्यायः - १७८
. अलायुधग्रस्तं भीमं दृष्टवता श्रीकृष्णेन प्रेरितो घटोत्कचोऽलायुधेन युयुधे । अलायुधसैन्येन सह सात्यक्यादिषु युद्ध्यमानेषु तेन सह तुमुलं युद्धं कुर्वन्घटोत्कचोऽलायुधं हत्वा तच्छिरो दुर्योधनसमीपे चिक्षेप। अलायुधं हतं दृष्ट्वा पञ्चालादिषु सिंहवन्नदत्सु दुर्योधन उद्वविजे -
अध्यायः - १७९
. पञ्चालादिभिर्युद्धं कुर्वता कर्णेन स्वबलं भग्नं दृष्ट्वा आगतो ’घटोत्कचस्तेन सह तुमुलं युद्धं कृत्वाऽन्तर्दधे । ततो मदीयैः किं कृतमिति धृतराष्ट्रप्रश्ने सञ्जयो 'घटोत्कचनाशार्थं कौरवा मन्त्रयामासुः’ इत्याह । घटोत्कचस्य मायायुद्धं दृष्ट्वा दुर्योधनादिषु भीतेषु सैन्ये च भग्ने सत्यपि कर्णो धैर्येणामोहितस्तस्थौ। ’घटोत्कचं हन्तुं शक्तिं प्रेरय' इत्यतिनिर्बन्धपूर्वकं कौरवैः प्रेरितः कर्णस्तं प्रतीन्द्रदत्तां शक्तिं चिक्षेप। शक्त्या हतो घटोत्कचः पतन्स्वदेहेन कौरवाणामेकामक्षौहिणीं सेनां नाशयति स्म -
अध्यायः - १८०
. घटोत्कचे हते पाण्डवेषु शोचत्सु हृष्टं श्रीकृष्णमालोक्यार्जुनस्तं प्रति 'अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन' इत्याद्युवाच। श्रीकृष्णो हर्षकारणं कथयञ्शक्तिसहितस्य कर्णस्याजेयत्वं तत्पराक्रमं च कथयित्वा तद्वधोपायादिकमाचख्यौ -
अध्यायः - १८१
. जरासन्धादयः कथं हता इत्याद्यर्जुनप्रश्ने श्रीकृष्णो ’युष्माकं जयोपकाराय’ इत्याद्युक्त्वा जरासन्धादिपराक्रममाख्यातवान् -
अध्यायः - १८२
. ’कर्णोऽर्जुनं परित्यज्य घटोत्कचे कथं शक्तिं मुमोच’ इति धृतराष्ट्रप्रश्ने सञ्जयस्योत्तरम्। प्रतिदिनं रात्रावास्माभिरर्जुने शक्तिप्रक्षेपार्थं प्रेरितः कर्णस्तत्क्षेपं निश्चित्य प्रातर्युद्धार्थं गतः संस्तद्विस्मरणमवाप । ’सति प्रत्यये कर्णेनार्जुनं प्रति शक्तिः कथं न मुक्ता' इति सात्यकिना पृष्टः श्रीकृष्णो दुःशासनादिभिः प्रेरितोऽपि कर्णो मया मोहितत्वान्न चिक्षेप इत्याद्याह -
अध्यायः - १८३
. ’कृष्णेऽर्जुने वा शक्तिः कथं न त्यक्ता’ इति पुनर्धृतराष्ट्रप्रश्ने सञ्जयः शक्तित्यागविषये सर्वेषां विस्मृतिरित्याद्याह । अनुतप्तस्य धृतराष्ट्रस्य युद्धशुश्रूषया पुनः प्रश्ने सञ्जयस्योत्तरकथनम्। कर्णपराक्रमभयात्कौरवसैन्यनिवारणार्थं भीममादिश्य दुःखितं युधिष्ठिरं श्रीकृष्ण आश्वासयामास। कृष्णेनाश्वासितोऽपि घटोत्कचवधेनाभिमन्युवधस्मरणेन चानुतप्यमानो युधिष्ठिरो द्रोणकर्णयोर्वधविषये तं प्रत्युक्त्वा कर्णं हन्तुं स्वयं निर्जगाम । कर्णेन सह योद्धुं गच्छन्तं युधिष्ठिरं दृष्ट्वा श्रीकृष्णेन प्रेरितेऽर्जुने तमनुधावति व्यास आगत्य युधिष्ठिरमाश्वासयति स्म –
७. द्रोणवधपर्व
अध्यायः - १८४
. व्यासोपदेशात्कर्णवधान्निवृत्तस्य द्रोणवधार्थं धृष्टद्युम्नमादिशतो युधिष्ठिरस्य प्रेरणया द्रोणवधार्थं निर्गतेषु पाण्डवसेन्येषूभयसेनयोस्तुमुलं युद्धम् । रात्रियुद्धेन श्रान्ता निद्राव्याकुलाः सैनिका अर्जुनेन दत्तानुज्ञाः शयनं कुर्वन्तस्तमाशिषाऽभ्यनन्दन् । सर्वेषां निद्रास्थानवर्णनपूर्वकं चन्द्रोदयं वर्णयति स्म सञ्जयः -
अध्यायः - १८५
. अधिक्षिपन्तं दुर्योधनं प्रति क्रुद्धो द्रोणोऽर्जुनं प्रशंसन्नुवाच । अर्जुनप्रशंसया क्रुद्धं विकत्थनवाक्यानि वदन्तं दुर्योधनं प्रत्युपहासपूर्वकं भर्त्सनरूपं द्रोणवाक्यम् -
अध्यायः - १८६
. रात्रिविशेषेऽरुणोदयसमये सर्वेषां जयाद्यनन्तरं द्वैधीभूतं सैन्यमालोक्य द्रोणकर्णयोरपसव्यकरणार्थं कृष्णेन प्रेरितो भीमेन च तथैवानुमोदितोऽर्जुनस्तावतिचक्राम। दुर्योधनादिभिरर्जुनस्य युद्धे प्रवृत्ते द्रोणदर्शनेन त्रस्ते पाण्डवसैन्ये आगतयोर्विराटद्रुपदयोर्द्रोणेन सह युद्धम् । द्रोणं दृष्ट्वा तद्वधार्थं धृष्टद्युम्नेन शपथे कृते भीमेन सक्रोधमुक्तः स तेन सह द्रोणेन युद्धं कर्तुं जगाम –
अध्यायः - पञ्चदशदिवसयुद्धम् ।
.
अध्यायः - १८७
. सूर्योदये युद्धप्रवृत्तौ दुर्योधनकर्णद्रोणदुःशासनादिषु चतुर्षु चतुर्भिः पाण्डवैर्युद्ध्यमानेषु नकुलदुर्योधनयोर्युद्धम् -
अध्यायः - १८८
. सहदेवदुःशासनयोर्भीमकर्णयोश्च युद्धम् । द्रोणार्जुनयोर्युद्ध्यमानयोस्तद्दर्शनार्थं देवेष्वागतेषु सिद्धादिषु च विस्मितेषूभयोरुभौ प्रति ब्रह्मास्त्रप्रक्षेपः -
अध्यायः - १८९
. दुःशासनधृष्टद्युम्नयोर्युद्ध्यमानयोर्दुःशासनं पराजित्य द्रोणं प्रति गच्छन्तं धृष्टद्युम्नं प्रति युद्धार्थमागतस्य कृतवर्मणस्तेन तत्सहोदराभ्यां च सह छलादिरहितं तुमुलं युद्धम्। युद्धार्थं सङ्गतयोर्दुर्योधनसात्यक्योः संवदतोः प्रियवाक्यानि वदन्तं दुर्योधनं प्रति 'एवं वृत्तं सदा क्षात्रम्’ इत्याद्युवाच सात्यकिः । दुर्योधनसात्यक्योस्तुमुले युद्धे प्रवृत्ते दुर्योधनसाहाय्यार्थमागतेन कर्णेन सह भीमस्य युद्धम् | युधिष्ठिरप्रेरिताः सैनिका द्रोणं प्रत्यागत्य युयुधिरे -
अध्यायः - १९०
. पञ्चालैः सह द्रोणस्य युद्धे प्रवृत्ते द्रोणबाणपीडितांस्तान् दृष्ट्वा श्रीकृष्णोऽर्जुनं प्रति ’नैष युद्धेन संग्रामे’ इत्याद्युवाच। श्रीकृष्णवाक्यं श्रुत्वा भीमो मालवेन्द्रगजमश्वत्थामनामानं हत्वा द्रोणस्याग्रे 'अश्वत्थामा हतः' इत्याह। भीमवाक्येन कुद्धं युद्ध्यमानद्रोणं प्रति विश्वामित्रादय आगत्य ’अर्धमतः कृतं युद्धम्’ इत्याद्यूचुः । ऋषिवाक्यं भीमवाक्यं च श्रुत्वा सत्यवादित्वधिश्वासात्स्वपुत्रं हत वाऽहतं वेति युधिष्ठिरं प्रति पप्रच्छ। श्रीकृष्णवाक्याद्भीमवाक्याच्च युधिष्ठिरेणोक्तमश्वत्थामा हत इति व्यक्तं गज इत्यव्यक्तं च वाक्यं श्रुत्वा द्रोणो विषण्णोऽभूत् -
अध्यायः - १९१
. विषण्णेन द्रोणेन सह धृष्टद्युम्नस्य तुमुले युद्धे प्रसक्ते धृष्टद्युम्नहननार्थं द्रोणेन प्रेषितं बाणं सात्यकिश्छित्त्वा धृष्टद्युम्नं मोचयतिस्म
अध्यायः - १९२
. आगतैदुर्योधनादिभिः सात्यकेर्युद्धे प्रसक्ते युधिष्ठितः 'स्वसेनां प्रति अभिद्रवत संयत्ताः’ इत्याद्युवाच। युद्धार्थं प्रवृत्ते द्रोणे भूकम्पादिषु दुर्निमित्तेषु जातेषु भीमप्रोत्साहितने धृष्टद्युम्नेन सह युद्ध्यमानं द्रोणं प्रति भीमो 'यदि नाम न युद्ध्येरन्' इत्याद्युवाच । भीमवाक्यं श्रुत्वा कर्णादीनाहूयास्त्राणि त्यक्त्वा रथोपस्थ उपविश्य सर्वभूतेभ्योऽभयं दत्वा योगधारणां चकार द्रोणः । योगधारणया ब्रह्मलोकं गतस्य द्रोणस्य धृष्टद्युम्नेन शिरसि छिन्ने कौरवेषु पलायमानेषु पाण्डवेषु च सिंहवन्नदत्सु भीमस्तं प्रशशंस -
८. नारायणास्त्रमोक्षपर्व
अध्यायः - १९३
. द्रोणे हते पलायमानेषु शकुनिकर्णादिषु बलं भग्नं दृष्ट्वाऽश्वत्थामा तद्विषये दुर्योधनं पप्रच्छ । पितृवधकथनार्थं दुर्योधनेन प्रेरितः कृपोऽश्वत्थामानं प्रति द्रोवधवृत्तान्तं कथयति स्म, स च चुक्रोध तच्छ्रुत्वा
अध्यायः - १९४
. द्रोणं प्रशंसन्धृतराष्ट्रो धृष्टद्युम्नेनाधर्महतं पितरं श्रुत्वाऽश्वत्थामा किमब्रवीदिति पप्रच्छ सञ्जयं प्रति
अध्यायः - १९५
. शोचन्पितृवधेनाश्वत्थामा युधिष्ठिरविषये दुर्योधनसमीपे शपथं कृत्वाऽस्मानं श्लाघयन्नारायणास्त्रप्राप्तिवृत्तान्तं कथयित्वा तत्प्रयुयोज
अध्यायः - १९६
. अश्वत्थाम्ना नारायणास्त्रे प्रयुक्ते दुर्निमित्तान्यभूवन् । धृष्टद्युम्नं रक्षितुं पाण्डवाः किं मन्त्रयामासुरित्यादिके धृतराष्ट्रप्रश्ने सञ्जयस्योत्तरम् । कुरुसेनारवश्रवणभीतेन युधिष्ठिरेण पलायितसेनाप्रतिनिवर्तकप्रश्ने अर्जुनेन तत्कथनपूर्वकं द्रोणवधोपेक्षणादात्मोपालम्भः -
अध्यायः - १९७
. साधिक्षेपमश्वत्थामतो युधिष्ठिरं भीषयन्तं पार्थं प्रति भीमेन सामर्षमात्मबलवर्णनादिपूर्वकं स्वेनाश्वत्थामादिविजयप्रतिज्ञानम्। धृष्टद्युम्नेनाप्यर्जुनं प्रति सक्रोधं क्षात्रधर्मादिकथनपूर्वकं स्वकृतद्रोणवधस्य धार्मिकत्वकथनम्
अध्यायः - १९८
. क्षत्रधर्मनिन्दापूर्वकं धृतराष्ट्रे पृच्छति सञ्जय आह। धृष्टद्युम्नवाक्यं श्रुत्वा सर्वेषु तूष्णींभूतेष्वर्जुने च कुद्धे धृष्टद्युम्नं निनिन्द सात्यकिः । सात्यकिमाक्षिप्य कौरवनिन्दावाक्यं वदति धृष्टद्युम्ने स गदामादाय तं गच्छति स्म । श्रीकृष्णप्रेरितेन भीमेन निवारितं सात्यकिं प्रति सहदेवः सविनयमुवाच । सात्यकिं क्षमापयन्तं भीमं प्रति सोपहासं वाक्यं वदति धृष्टद्युम्ने कृष्णयुधिष्ठिरावुभावपि निवारयतुः
अध्यायः - १९९
. सैन्यनाशपूर्वकं दुर्योधनसमीपे पुनः प्रतिज्ञां कुर्वत्यश्वत्थाम्नि कुरुपाण्डवसेनयोः समागमं कथयञ्सञ्जयो नारायणास्त्रप्रभावं कथयति स्म । द्रोणमारणरुष्टेनाश्वत्थाम्ना वैरिसेनायां नारायणास्त्रप्रयोगः। अस्त्रतेजसा पीड्यमानानां कृष्णवचनाद्यानावरोहणशस्त्रन्यासादिनाऽऽत्मरक्षणम् । भीमे एकस्मिन्नेव शस्त्रधारणपूर्वकं प्रतियुद्ध्यमाने सति तन्मस्तकेऽस्त्रस्य प्रज्वलनम् -
अध्यायः - २००
. नारायणास्त्रेणावेष्टितं दृष्ट्वा कृष्णार्जुनाभ्यां हस्ततः शस्त्रापकर्षणपूर्वकं रथादपकृष्टे तस्मिन्नस्त्रस्य प्रशमनम् । सञ्जयेन दुर्योधनाश्वत्थाम्नोरुक्तिप्रत्युक्तिकथनानन्तरं 'तस्मिन्नस्त्रे प्रतिहते द्रौणिः किमकरोत् ?' इति धृतराष्ट्रप्रश्ने सञ्जयस्योत्तरम् । धृष्टद्युम्नाश्वत्थाम्नोर्युद्ध्यमानयोर्धृष्टद्युम्नं पीडितं दृष्ट्वाऽऽगतः सात्यकिः कृपादिभिर्युद्धं कुर्वन्नश्वत्थामसहितान्सर्वान्विरथांश्चकार । रथान्तरमारह्यागतेनाश्वत्थाम्ना सर्वपञ्चालवधं प्रतिज्ञाय बाणेन विद्धः सात्यकिर्मुमोह, तं च रणादपोवाह सारथिः । द्रौणिबाणप्रहारेण मूर्च्छिर्तं धृष्टद्युम्नमालोक्यागतैरर्जुनादिभिस्तस्य युद्धम् । पौरवादीनां नाशं दृष्ट्वा क्रुद्धस्य भीमस्याश्वत्थाम्ना युद्धं कुर्वतस्तद्बाणप्रहारेण हयेषु प्रद्रुतेषु तदपयानं दृष्ट्वा पञ्चालादयोऽपि प्रदुद्रुवुः -
अध्यायः - २०१
. नारायणास्त्रे विफलीकृते पुनरश्वत्थाम्नाऽऽग्नेयप्रयोगः । तदपि पार्थेन व्यर्थीकृते दूयमानेन द्रौणिना शस्त्रन्यासपूर्वकं रणाङ्गणान्निर्गमनम् । निर्गच्छता च तेन यदृच्छासमागतं व्यासं प्रति निजास्त्रवैफल्यकारणप्रश्नः। व्यासेन कृष्णार्जुनयोर्नरनारायणात्मकथनप्रसङ्गेन शतरुद्रीयकथनपूर्वकं तं प्रत्युपदेशः। व्यासवाक्यं श्रुत्वा द्रौणिना सेनावहारे कृते पाण्डवा अपि स्वसैन्यान्यवजष्हुः। इति पञ्चदशदिनयुद्धम्
अध्यायः - २०२
. द्रोणे हते मामकाः पाण्डवाश्च किमकुर्वन्निति धृतराष्ट्रेण पृष्टःसञ्जय आह । यदृच्छागतं व्यासं प्रत्यर्जुनो ’युद्धे योऽयं मदग्रे शूलहस्तोऽतितेजस्वी पुरुषो गच्छन्दृश्यते स कः’ इति पप्रच्छ । तदुत्तरं वदन्व्यासो महादेवस्वरूपं तत्पारिषदानां नामानि महादेवस्य स्तोत्रं च कथयित्वा त्रिपुरजयवृत्तान्तं कथयति स्म । पार्वती स्वाङ्के बालं धृत्वा कोऽयमिति देवान्पप्रच्छ, तदाऽसूयया तं प्रति वज्रं प्रहरिष्यत इन्द्रस्य बाहूस्तंभयामास प्रभुः । इन्द्रमोचनार्थं ब्रह्मणा स्तुतो महादेवः प्रससाद। पशुपतिप्रभृतीनां नाम्नां निर्वचनान्यभिधाय महादेवस्तवश्रवणादिफलं च कथयित्वा व्यासो जगाम । सञ्जयकथितो द्रोणपर्वकथोपसंहारस्तच्छ्रवणफलकथनं, भविष्यत्पर्वसंसूचनपूर्विका द्रोणपर्वसमाप्तिश्च -
द्रोणपर्व