Mahabharata
About
.
Volumes
.
Contact
स्त्रीपर्वणि
(१) जलप्रदानिकपर्व
अध्यायः - १
. दुर्योधने हते धृतराष्ट्रः किमकरोदिति जनमेजयप्रश्ने धृतराष्ट्रस्य सन्तापादिकं सञ्जयकृतं त्सान्त्वनं पुनः शोकार्दितस्य तस्य पतनं चाह स्म वैशम्पायनः । विलपतो धृतराष्ट्रस्य शोकं निवारयन्सञ्जयो दुर्योधनं तं च विनिन्दन्नाश्वासयति स्म…..
अध्यायः - २
. विदुरस्य धृतराष्ट्रं प्रति ’उत्तिष्ठ राजन् किं शेषे’ इत्यादिकं प्रबोधवाक्यम् ……
अध्यायः - ३
. विदुरवाक्येन विशोको धृतराष्ट्रः ’कथं नु मानसैर्दुःखैः प्रमुच्यन्ते तु पण्डिताः’ इति पप्रच्छ । विदुरो ’यतो यतो मनोदुःखात्’ इत्यादिना तत्त्वमुपदिदेश….
अध्यायः - ४
. कथं संसारगहनमित्यादिके धृतराष्ट्रप्रश्ने विदुरस्तदुत्तरत्वेन भूतानां जन्मप्रभृतिमरणपर्यन्तं वृत्तान्तं कथयित्वा धर्मपालनेन परमगतिप्राप्तिमाह स्म….
अध्यायः - ५
. ’यदिदं धर्मगहनम्’ इत्यादिके धृतराष्ट्रप्रश्ने संसारगहनकथनं प्रतिज्ञाय वनोपमानकथनेन तत्सूचयन्नाह विदुरः…..
अध्यायः - ६
. अहो खलु महद्दुःखमित्यादिके धृतराष्ट्रप्रश्ने विदुरो मोक्षविकल्पितोपमानभूतकान्तारादिशब्दानामर्थं विवृणोति स्म .....
अध्यायः - ७
. पुनर्धृतराष्ट्रप्रश्ने विदुरः संसारगहनवृत्तये तत्त्वमुपदिदेश…..
अध्यायः - ८
. पुनः शोकसंतप्तो धृतराष्ट्रः पतित्वा पुनर्लब्धसंज्ञो यदा विललाप तदा व्यासस्तं प्रति दैवकृतेरपरिहार्यत्वं कथयित्वा प्रत्यक्षतः श्रुतं देवानां कार्यं कथयितुं प्रतिजज्ञे । इन्द्रसभायां भारसंहारं प्रार्थयन्तीं पृथ्वीं प्रति ’धृतराष्ट्रस्य ज्येष्ठः पुत्रस्ते कार्यं करिष्यति’ इत्यादिकं विष्णुवाक्यं कलेरंशेन दुर्योधनजन्मादिकं राजसूये नारदोक्तं चाभिधाय धृतराष्ट्रं सान्त्वयामास व्यासः । एतदुपदेशेन समाश्वस्तं धृतराष्ट्रमालक्ष्य व्यासोऽन्तर्दधे……
अध्यायः - ९
. व्यासे गते धृतराष्ट्रः किमकरोदिति जनमेजयप्रश्ने वैशम्पायनस्योत्तरम् । आगतस्य सञ्जयस्य प्रेतकार्यकरणविषयकं वाक्यं श्रुत्वा पतितं धृतराष्ट्रं प्रति विदुरः पुनरुपदिदेश….
अध्यायः - १०
. विदुरवाक्यं श्रुत्वा गान्धार्यादीनामानयनार्थमाज्ञाप्य धृतराष्ट्रो यानमारुरोह । आज्ञानुरोधेन कुन्त्यादिभिः सहागतायां गान्धार्यां रुदतीभिः स्त्रीभिः परिवृतो धृतराष्ट्रो युद्धस्थानं गन्तुं निर्जगाम….
अध्यायः - ११
. नगराद्बहिः क्रोशमात्रे प्रदेशे मिलिताः कृपाश्वत्थामकृतवर्माणो धृतराष्ट्राय वृत्तान्तं निवेद्य गान्धार्यै च पुत्राणां निधनं सौप्तिकवृत्तान्तं चावेद्य पाण्डवभयात्स्वस्थानानि जग्मुः….
अध्यायः - १२
. नगरान्निर्गतं धृतराष्ट्रं श्रुत्वा भ्रातृसहितो युधिष्ठिरः स्त्रीभिः सहिता द्रौपदी च प्रत्युद्गम्य धृतराष्ट्रवन्दनादि चक्रतुः। युधिष्ठिरमालिङ्ग्यालिङ्गनच्छलेन भीमनाशेच्छया तमालिङ्गितुं प्रवृत्तो धृतराष्ट्रस्तदभिप्रायज्ञेन श्रीकृष्णेन भीममाक्षिप्य पुरस्कृतां लौहीं भीमप्रतिमामालिङ्ग्य तां चुर्णीकृत्य मेदिन्यां पपात । ततो गतक्रोधं धृतराष्ट्रं प्रति ’मा शुचो धृतराष्ट्र त्वम् ’ इत्याद्युवाच श्रीकृष्णः…..
अध्यायः - १३
. कृतशौचो धृतराष्ट्रो ’राजन्नधीता वेदास्ते’ इत्यादिकं श्रीकृष्णवाक्यं श्रुत्वा तदनुमान्य भीमादीन्स्वगात्रैः स्पृष्ट्वा तत्तत्कल्याणमुवाच…..
अध्यायः - १४
. ततो गान्धारीं प्रति गतेषु पाण्डवेषु तस्याः पाण्डवशापदानाभिप्रायं ज्ञात्वा तत्कालमागतेन व्यासेन सान्त्विता सा ’भगवन्नाभ्यसूयामि’ इत्याद्युवाच तं प्रति….
अध्यायः - १५
. गान्धार्या वाक्यं श्रुत्वा तां सान्त्वयतो भीमस्य तस्याश्चोक्तिप्रत्युकी । युधिष्ठिरमन्विष्यन्तीं गान्धारीं प्रति शापभीतः स आत्मानं विनिन्दन्नुवाच । अङ्गुल्यग्रे गान्धारीदृष्टिपातेन कुनखित्वं प्राप्तो युधिष्ठिरस्तदनुज्ञया कुन्तीसमीपमाजगाम । विलपन्तीं द्रौपदीमाश्वास्य तया सहागतां कुन्तीं प्रति ’मैवं पुत्रीति शोकार्ता’ इत्याद्युवाच गान्धारी….
(२) स्त्रीविलापपर्व
अध्यायः - १६
. व्यासप्रसादलब्धया दिव्यदृष्ट्या गान्धारी युद्धस्थानं ददर्श । धृतराष्ट्रादिष्वप्यायोधनं द्रष्टुमागतेषु विलपन्ती गान्धारी कृष्णं प्रति ’पश्यैताः पुण्डरीकाक्ष’ इत्याद्युवाच……
अध्यायः - १७
. हतं दुर्योधनं दृष्ट्वा पतिता गान्धारी पुनर्लब्धसंज्ञा सती दुर्योधनमालिङ्ग्य विलपन्ती श्रीकृष्णं प्रति ’उपस्थितेऽस्मिन् संग्रामे’ इत्याद्युक्त्वा दुर्योधनपत्नीं दृष्ट्वा पुनर्विललाप….
अध्यायः - १८
. निहतान्पुत्रान्दृष्ट्वा गान्धारी श्रीकृष्णं प्रति ’पश्य माधव पुत्रान्मे’ इत्याद्युक्त्वा विलपन्तीः स्त्रियो दुःशासनं च दृष्ट्वा पुनर्विललाप…..
अध्यायः - १९
. विकर्णं दुर्मुखादींश्च दृष्टवत्या गान्धार्या विलापः….
अध्यायः - २०
. अभिमन्युं दृष्ट्वा विलपन्ती गान्धारी श्रीकृष्णं प्रति, विलपन्तीमुत्तरां विराटे हते विलपन्तीस्ताः स्त्रियश्च दर्शयामास.....
अध्यायः - २१
. कर्णं दृष्टवत्या गान्धार्या विलापः….
अध्यायः - २२
. आवन्त्यं जयद्रथं च दृष्टवत्या गान्धार्या विलापः….
अध्यायः - २३
. शल्य-भगदत्त-भीष्म-द्रोणानां दर्शनेन गान्धारीविलापः.....
अध्यायः - २४
. भूरिश्रवसं दृष्ट्वा विलपन्ती गान्धारी सोमदत्तोद्देशेन च विलपन्तीस्तत्पत्नीर्यूपध्वजमुद्दिश्य च विलपन्तीस्तत्स्त्रियश्च श्रीकृष्णं प्रति दर्शयित्वा शकुनिदर्शनेन विलपति स्म.....
अध्यायः - २५
. काम्बोजं मागधं धृष्टद्युम्नपुत्रादीन्विन्दानुविन्दादींश्च सर्वान् हतान् दृष्ट्वा विलापवाक्यानि वदन्ती गान्धारी शोकेन मूर्च्छिता सती भूम्यां पपात । पुनर्लब्धसंज्ञा गान्धारी मरणोन्मुखानामेषां समर्थेनापि त्वयोपेक्षा कृतेत्यादिना सर्वं दोषं श्रीकृष्ण आरोप्य ’त्वमपि सर्वान्स्वज्ञातीन्हत्वा कुत्सितं मरणं प्राप्स्यसि’ इति तं शशाप । श्रीकृष्णो ’जानेऽहमेतदप्येवम्’ इत्यादिना गान्धारीदत्तं शापमनुमनुते स्म…..
(३) श्राद्धपर्व
अध्यायः - २६
. कृष्णेन प्रबोधिता गान्धारी तूष्णीं बभूव । धृतराष्ट्रेण, हतानां वीराणां संख्यायां पृष्टायां युधिष्ठिरस्तां कथयित्वा मृतानां गतीश्च कथयति स्म । पुनः ’केन ज्ञानबलेनैवं पुत्र पश्यसि सिद्धवत्’ इति धृतराष्ट्रेण पृष्टो युधिष्ठिरो वनवासे लोमशाल्लब्धाया अनुस्मृतिविद्याया बलेनेत्याद्याह स्म । हतानां प्रेतकार्यकरणार्थमाज्ञप्तो धृतराष्ट्रेण युधिष्ठिरस्तदर्थं धौम्यादीनादिश्य दुर्योधनादीनां तानि कारयति स्म.....
अध्यायः - २७
. धृतराष्ट्रं पुरस्कृत्य गङ्गातीरे आगत्य युधिष्ठिरादयः सर्वेषामुदकदानं चक्रुः । उदकदानसमये कुन्त्या ’सूर्यात्सकाशान्मय्युत्पन्नस्तव ज्येष्ठो भ्राता कर्ण इति तस्मै त्वमेवोदकदानं कुरु’ इत्यादिष्टो युधिष्टिरो भ्रातरं कर्णं ज्ञात्वा विलपंस्तस्मा उदकदानं चकार । भविष्यत्पर्वसूचनपूर्विका स्त्रीपर्वसमाप्तिः....
स्त्रीपर्वणि