- (१) राजधर्मानुशासनपर्व
- अध्यायः - १. कृतोदकेषु पाण्डवेषु गङ्गातीरे निवसत्सु तान्प्रत्यागतेषु व्यासनारदादिषु नारदो "भवता बाहुवीर्येण" इत्याद्युवाच युधिष्ठिरं प्रति । असंतुष्टो युधिष्ठिरो नारदं प्रति कुन्तीकृतमन्त्रसंवरणवृत्तान्तं पूर्वोक्तं कुन्तीकर्णसंवादं च कथयित्वा कर्णाभिज्ञानेनानुतप्तः सन् कर्णाभिशापवृत्तान्तं शुश्रूषया प्रपच्छ ।..........
- अध्यायः - २. उत्तरं वदन्नारदो द्रोणसमीपे कर्णकृतं ब्रह्मास्त्रयाचनं द्रोणकृतं तत्प्रत्याख्यानं च कथयति स्म । द्रोणेन प्रत्याख्यातः कर्णः परशुरामं प्रति गत्वा ब्राह्मणोऽहमित्युक्त्वा तत्र वसंस्तस्मादस्त्रशिक्षामवाप । कदाचित्कर्णः समुद्रतीरे विचरन्नज्ञानाद्ब्राह्मणधेनुं हत्वा तं ब्राह्मणमनुनयन्नपि क्रुद्धात्तस्मान्मरणकाले चक्रमज्जनादिरूपं शापमवाप ।.....
- अध्यायः - ३. कर्णस्य वीर्यादिकं दृष्ट्वा तुष्टो रामस्तस्मै ब्रह्मास्त्रं ददौ । कदाचित्कर्णोत्संगे शिरो निधाय सुप्तो रामः केनचित्कीटेन भग्नात्कर्णोरोर्निर्गतेन रुधिरेण स्पृष्टः प्रबुद्धः सन् कर्णोरुभेदकं कीटं ददर्श । कीटको रामस्य दृष्टिपातेन तत्कीटकरूपं त्यक्त्वा राक्षसरूपः सन् स्वस्य कीटत्वप्राप्तिकारणवृत्तान्तमाचख्यौ । "नैतादृशं ब्राह्मणस्य धैर्यं तस्मात्तथ्यं कथय" इति परशुरामेण सक्रोधमुक्तः कर्णः स्वस्य यथार्थं वृत्तान्तं कथयामास । तच्छ्रुत्वा क्रुद्धेन रामेण "यस्मान्मिथ्योपचरितः" इत्यादिना मरणकाले ब्रह्मास्त्रास्फुरणरूपं शापं दत्वा विसर्जितः कर्णः पादवंदनादिपूर्वकं स्वदेशं जगाम........
- अध्यायः - ४. दुर्योधनेन सह कर्णस्य सख्ये जाते कदाचित्स्वयंवरदर्शनार्थं कलिंगदेशं प्रत्युभौ जग्मतुः। तत्र दुर्योधनेन कलिंगराजकन्यायां हतायां राजभिः सह कर्णदुर्योधनयोर्युद्धम्.....
- अध्यायः - ५. मागधेन युद्धार्थमाहूतः कर्णस्तं पराजिग्ये, पराजितश्च स कर्णाय मालिनीनगरं ददौ । देवमायाविमोहितः कर्ण इन्द्राय सहजं कवचं कुण्डले च ददौ......
- अध्यायः - ६. इत्युक्त्वा विरते नारदे शोचन् युधिष्ठिरो "यातितः स मया पूर्वं" इत्यादिना कर्णेन सह जातं स्वसंवादं कथयन्तीं कुन्तीं प्रति "तव मन्त्रसंवरणेनाहं पीडितः" इत्याद्युक्त्वा "न गुह्यं धारयिष्यन्ति" इति सर्वाः स्त्रियः शशाप.......
- अध्यायः - ७. "कर्णं स्मृत्वा संतप्तो युधिष्ठिरो हतान् ज्ञातीननुस्मृत्य दुर्योधनं विनिंदन् पापभीतोऽर्जुनं प्रत्यात्मनो वनवासाभिप्रायं कथयति स्म.....
- अध्यायः - ८. युधिष्ठिरं प्रत्युत्तरं वदन्नर्जुनोऽर्थं प्रशंसन्नर्थहीनान्विनिंदन् भूमित्यागरूपं कुपथं मा स्म गम इत्याह ।....
- अध्यायः - ९. युधिष्ठिरो वनवासप्रशंसापूर्वकं तद्धर्मान् यतिधर्मांश्चाख्याय संसारालम्बने दुःखं तत्त्यागे सुखं च वर्णयति स्म........
- अध्यायः - १०. युधिष्ठिरं प्रति भीमस्य "श्रोत्रियस्येव ते राजन्” इत्याद्युपदेशवाक्यम्.....
- अध्यायः - ११. अर्जुनो युधिष्ठिरं प्रति गार्हस्थ्यालम्बनस्य श्रेयस्त्वं प्रतिपादयंस्तापसेन्द्रसंवादरूपमितिहासं कथयामास....
- अध्यायः - १२. युधिष्ठिरं प्रत्यर्जुनोक्त्युपबृंहकं "विशाखयूपे देवानां" इत्यादिकं नकुलस्योपदेशवाक्यम्....
- अध्यायः - १३. सहदेवो युधिष्ठिरं प्रति "न बाह्यं द्रव्यमुत्सृज्य” इत्याद्युवाच......
- अध्यायः - १४. भ्रातृभिर्बोधितमपि तूष्णीं भूतं युधिष्ठिरं प्रति सर्वैः प्रकारै राज्योपभोगसमर्थनरूपा द्रौपद्युक्तिः....
- अध्यायः - १५. द्रौपदीवाक्यं श्रुत्वा पुनरर्जुनो दण्डं प्रशस्य तस्यार्थाधीनत्वं प्रतिपादयन्नन्तरात्मनोऽबध्यत्वं कथयन् भ्रूणहत्यादिदोषाभावं वर्णयति स्म........
- अध्यायः - १६. अर्जुनवाक्यं श्रुत्वा भीमो युधिष्ठिरमाक्षिपन् शारीरादीन् व्याधीनभिधाय द्रौपदीसमानयनाद्यनूद्य राज्यं शाधीत्याह..........
- अध्यायः - १७. युधिष्ठिरो राज्यं विनिंदन् वनवासिनः प्रशस्य जनकोक्तां गाथां जगाद......
- अध्यायः - १८. तूष्णींभूते युधिष्ठिरे पुनरर्जुनो राज्यत्यागिनो जनकस्य तत्पत्न्या सह संवादं कथयित्वा तद्दॄष्टांतेन "त्वं मोहं मास्म गमः" इत्याह........
- अध्यायः - १९. पुनर्युधिष्ठिरो राज्यत्यागमभिप्रेत्य वनवासिनः प्रशशंस.....
- अध्यायः - २०. युधिष्ठिरं प्रत्युपदिशन् देवस्थानऋषिर्यज्ञं प्रशशंस ......
- अध्यायः - २१. पुनर्देवस्थान इन्द्रबृहस्पतिसंवादरूपमितिहासमुक्त्वा भूतानां नानाविधानि मतान्युपन्यस्य राज्यं पालयितुमुपदिदेश......
- अध्यायः - २२. पुनरर्जुनो युधिष्ठिरं प्रति "क्षत्रधर्मेण धर्मज्ञं प्राप्य राज्यं सुदुर्लभं” इत्याद्युवाच.......
- अध्यायः - २३. अर्जुनोक्तिं श्रुत्वा तूष्णींभूतं युधिष्ठिरं प्रति व्यासो गृहस्थाश्रमं प्रशस्य ब्राह्मणक्षत्रियधर्मानुपदिश्य तदुद्देशेन बृहस्पतिगीतां "राजानं चाविरोद्धारं” इत्यादिरूपां गाथामाह स्म । सुद्युम्नः केन कर्मणा सिद्धिमवापेति युधिष्ठिरप्रश्ने तदुत्तरं कथयन् व्यासः शंखलिखितवृत्तान्तं कथयति स्म । कदाचिल्लिखितः शंखाश्रमं गत्वा फलान्यभुङ्क्त तं चाह शंखो मदनुज्ञां विना फलानि भक्षितवता त्वया स्तेयं कृतमिति सुद्युम्नं राजानं प्रति गच्छेति । शंखानुज्ञया – सुद्युम्नं प्रति गत्वा "स्तेनं मां मत्वा दण्डं धारय" इत्युक्तवन्तं लिखितं प्रति स राजा "प्रमाणं चेन्मतो राजा" इत्याद्युवाच । पुनर्दंडमेव कुर्विति प्रार्थिर्तन सुद्युम्नेन हस्तद्वयच्छेदनरूपे दंडे विहिते धृतदंडो लिखितः शंखवाक्याद्बाहुदानद्यां स्नात्वा हस्ताववाप तेन स राजापि सिद्धिं प्राप........
- अध्यायः - २४. व्यासः पुनर्युधिष्ठिरं प्रति राजधर्मानुपदिदेश......
- अध्यायः - २५. प्रत्युत्तरं वदन्युधिष्ठिरो यदा “न पार्थिवमिदं राज्यं” इत्याद्युवाच तदा व्यासः “कालप्रभावात्सर्वं भवति" इत्युक्त्वा तदुपष्टंभकत्वेन सेनजित्कथिता गाथा अभिधाय पुना राजधर्मानभ्यधात्.......
- अध्यायः - २६. पुनर्युधिष्ठिरोऽर्जुनं प्रति वनवासप्रशंसारूपं वाक्यमुक्त्वा ययातिगीता गाथाः कथयित्वा धनं विनिंदनुवाच ....
- अध्यायः - २७. अभिमन्युवधादिकं भीमपराक्रमं द्रोणवाक्यं चानूद्य विलपन्तं बंधुशोकविह्वलं युधिष्ठिरं प्रति व्यासः "संयोगा विप्रयोगांता:" इत्याद्युपदिदेश......
- अध्यायः - २८. पुनर्युधिष्ठिरस्य शोकमपनुदन् व्यासोऽश्मर्षिजनकसंवादरूपमितिहासं कथयति स्म । "आगमे यदि वापाये ज्ञातीनां द्रविणस्य च" इत्यादिके जनकप्रश्ने उत्तरं वदन्नश्मर्षिः सर्वेषां कालाधीनत्वं भूतसमागमस्यानित्यत्वं च कथयन्नुपदिदेश । अश्मोपदेशेन विशोकस्य जनकस्य स्वगृहगमनमाख्याय "जनकवत् त्वमपि शोकं मुञ्च" इत्याद्याह व्यासः.......
- अध्यायः - २९. युधिष्ठिरशोकापनोदार्थमर्जुनेन प्रेरितः श्रीकृष्णस्तदथ सृञ्जयनारदसंवादरूपमितिहासं कथयति स्म । पुत्रशोकसंतप्तं सृञ्जयं प्रति नारदो मरुत्त-सुहोत्र-बृहद्रथ-शिबि-भरत-राम-भगीरथ-दिलीप-मान्धातृ-ययाति-अम्बरीषप्रभृतीनां षोडशानां मरणकथनेन तस्य शोकमपनुद्य राज्ञः पुत्रयाचनमंगीकृत्य पुनस्तं दातुं प्रतिजज्ञ....
- अध्यायः - ३०. सृञ्जयस्य स्वर्णष्ठीवी पुत्रः कथं जात इति धृतराष्ट्रप्रश्ने श्रीकृष्णस्तदुत्तरं वदन्नारदपर्वतवृत्तान्तं कथयति स्म । नारदपर्वतयोः प्रार्थनापूर्वकं सृञ्जयगृहे निवसतोः सृञ्जयेनोभयोः सेवार्थं नियुक्तायाः कन्यायाः परिचर्यया मदनाक्रान्तं नारदं दृष्ट्वा पर्वतस्तस्मै वानराकृतिप्राप्तिरूपं शापं विततार, नारदश्च पर्वताय स्वर्गगतिरोधरूपम् । परस्परशापदानानन्तरं गते पर्वते नारदो राजकन्यां लब्ध्वा निवसन् कस्मिंश्चित्काले पर्वतं जगाम । तत्र नारदं दृष्ट्वा शापमोचनार्थं पर्वतेन प्रार्थनायां कृतायामुभावपि परस्परं शापमोचनं चक्रतुः । शापमोचनेन रूपान्तरवन्तं नारदं दृष्ट्वा परपुरुषशङ्कया विद्रवन्ती राजकन्या पर्वतोपदेशेन प्रकृतिमापेदे । इत उत्तरं वृत्तान्तमेष नारदो वक्ष्यतीत्युवाच श्रीकृष्णो युधिष्ठिरम्......
- अध्यायः - ३१. युधिष्ठिरेण पृष्ठो नारदोऽवशिष्टं वृत्तान्तं कथयितुं प्रतिजज्ञे, राजगृहे बहुदिनवासेन तुष्टयोर्नारदपर्वतयोरुक्तिप्रत्युक्त्यनन्तरं पर्वतेन वरयाचनार्थमुक्तः सृञ्जयो देवराजसमद्युतिं पुत्रं ययाचे, तच्छ्रुत्वा पर्वतो “यतस्त्वयेन्द्रस्पर्धया पुत्रः प्रार्थितोऽतस्तव स्वर्णष्ठीवी पुत्रो भविष्यति परं त्वल्पायुर्भविष्यति इत्युवाच राजानम् । पुनर्दीर्घायुषं पुत्रं प्रार्थितवति राजनि नारदो "भवत्वल्पायुर्मां स्मर ते पुत्रं दर्शयिष्यामि” इत्यवादीत् । पर्वतप्रसादात्पुत्रे स्वर्णष्ठीविनि जाते सति तन्नाशार्थमिन्द्रेण प्रेषितं स्वकीयं वज्रं व्याघ्ररूपेण राजपुत्रं जघान । तदा स्मृतो नारद आगत्य तं पुत्रं जीवयामास राजा च तुष्टः सन् राज्यं पालयामास । एवं कथयित्वा नारदो युधिष्ठिरं प्रति शोकं परित्यज्य राज्यं पालयेत्युवाच....
- अध्यायः - ३२. तूष्णीं भूतं युधिष्ठिरं "प्रजानां पालनं धर्मः" इत्यादिकं व्यासवाक्यं श्रुत्वा "न तेऽभिशङ्के वचनं” इत्यादिना अवध्यानां हननं मां दहति इत्यादिना वदन्तं प्रति व्यासः "ईश्वरप्रयुक्तेन पुरुषेण साध्वसाधु क्रियते" इत्याद्युवाच ........
- अध्यायः - ३३. पुनर्विलपन्तं युधिष्ठिरमाश्वासयितुम् उपदिशन् व्यासो देवासुरसंग्रामवृत्तान्तमाख्याय प्रायश्चित्तार्थमश्वमेधकरणमुपदिदेश.......
- अध्यायः - ३४. "कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः" इत्यादिके युधिष्ठिरप्रश्ने उत्तरं कथयन् व्यासो विहिताकरणादिना प्रायश्चित्तार्हत्वमभिधाय प्रायश्चित्तार्हाणां स्वरूपं निरूप्य येषु क्रियमाणेष्वपि दोषाभावस्तान्यप्यभिदधाति स्म........
- अध्यायः - ३५. ब्रह्महसुरापगुरुतल्पगपरदाराभिमर्शिपरिवेत्तृप्रभृतीनां प्रायश्चितान्यभिदधाति स्म व्यासः। ब्राह्मणादीनां प्रायश्चित्ते गौरवलाघवे निरूप्यागम्यागमनप्रायश्चित्तं भक्ष्याभक्ष्येष्वज्ञानिनः स्वल्पप्रायश्चित्तादिकं चाचष्ट...
- अध्यायः - ३६. भक्ष्याभक्ष्यादिज्ञानार्थं युधिष्ठिरप्रश्ने तन्निरूपणार्थं सिद्धमनुसंवादरूपमितिहासं वर्णयति स्म व्यासः । सिद्धैः कार्याकार्यविषये पृष्टो मनुः "अनादेशे जपो होम:" इत्याद्युक्त्वा ब्राह्मणानामभक्ष्याणि कथयित्वा प्रेतान्नादिभक्षणे दोषं चाभिधाय गृहस्थानां देवादिपूजनपूर्वकं भोजनादिनियमं दाननियमं चाख्यातवान् ।.....
- अध्यायः - ३७. राजधर्मादीन् श्रोतुं प्रार्थयन्तं युधिष्ठिरं प्रति व्यासो "भीष्मं गच्छ स ते सर्वं कथयिष्यति” इत्युक्त्वा भीष्मं प्रशशंस । भीष्मं प्रति गन्तुं लज्जमानो युधिष्ठिरः श्रीकृष्णेन बोधितः सन् षोडशगवं रथमारुह्य तत्कालोचितपरिकरसमेतः पुरं प्रविवेश ।.....
- अध्यायः - ३८. पुरप्रवेशसमये दिदृक्षूणां जनानामागमने स्त्रीषु द्रौपदीं स्तुतवतीषु प्रकृतिषु च राजानं प्रशंसत्सु प्रविष्टो युधिष्ठिरो ब्राह्मणपूजादिकमाचचार, पुरे पुण्याहघोषादिके प्रवृत्ते दुर्योधनसखश्चार्वाको नाम राक्षसो भिक्षुरूपेणागत्य युधिष्ठिरं निनिंद । तदवसरेण युधिष्ठिरेण प्रार्थिता ब्राह्मणास्तत्प्रत्यभिज्ञां दत्वा हुंकारैः पापराक्षसं चार्वाकं जघ्नुः.....
- अध्यायः - ३९. श्रीकृष्णो युधिष्ठिरं प्रति चार्वाकराक्षसस्य ब्रह्मणो वरदानं देवप्रार्थनया ब्रह्मादिष्टं तद्वधोपायं चाकथयत् ।.....
- अध्यायः - ४०. वैशंपायनो युधिष्ठिरादीनामासनोपवेशनमाभिषेचनिकसामग्रीं युधिष्ठिरस्य राज्याभिषेकं ब्राह्मणानां स्तुतिपूर्वकाशीर्वादांश्चाभि दधाति स्म ।.......
- अध्यायः - ४१. युधिष्ठिरोऽमात्यादीन् प्रति धृतराष्ट्राज्ञानुवर्तनाद्यभिधाय भीमं यौवराज्येऽभिषिच्य मंत्रणादिषु धृतराष्ट्रसंमानने च विदुरादीन् विनियुयोज ।.....
- अध्यायः - ४२. युधिष्ठिरादिभिः कृतानि मृतानां श्राद्धान्यकथयद्वैशंपायनः....
- अध्यायः - ४३. अभिषेकोत्तरं युधिष्ठिरकृतः श्रीकृष्णस्तयः ।......
- अध्यायः - ४४. विसर्जितेष्यमात्यादिषु स्वस्वगृहगतेषु युधिष्ठिरो भीमादीन्सांत्वयित्वा भीमार्जुननकुलसहदेवान् प्रति दुर्योधनदुःशासनदुर्मर्षणदुर्मुखगृहेषु निवसितुं यथाक्रममनुजज्ञे.......
- अध्यायः - ४५. “प्राप्य राज्यं युधिष्ठिरो यदकरोत्तत्कथय" इति जनमेजयस्य प्रश्ने वैशंपायनस्योत्तरम् । युधिष्ठिरश्चातुर्वर्ण्यं यथायोग्यं स्वे स्वे स्थाने निवेश्य धौम्यादिभ्यो धनं दत्वा श्रीकृष्णसमीपं गत्वा "सुखेन ते निशा कच्चित्" इत्याद्युवाच....
- अध्यायः - ४६. उत्तरमददानं ध्यायन्तं श्रीकृष्णं दृष्ट्वा विस्मितो युधिष्ठिरः "किमिदं परमाश्चर्यं" इत्याद्युवाच तं प्रति । “भीष्मो मां ध्यायति तद्गतं मम मनः" इत्युक्त्वा तं प्रशस्य राजधर्मादीन् श्रोतुं तं प्रति गच्छेति श्रीकृष्णेनोक्तो युधिष्ठिरस्त्वां पुरस्कृत्य गमिष्यामीत्युवाच। तच्छ्रुत्वा श्रीकृष्णेन रथयोजनार्थं सात्यकिद्वाराऽऽज्ञप्तो दारुको रथं सज्जीकृत्याजगाम....
- अध्यायः - ४७. भीष्मः कथं देहमुत्सृष्टवानिति जनमेजयप्रश्ने वैशंपायनस्योत्तरम् । शरतल्पगतो भीष्मो व्यासनारदादिषु समीपस्थितेषु श्रीकृष्णस्य स्तवराजं कृतवान् । स्तवेन तुष्टः श्रीकृष्णो रूपांतरेण भीष्माय दिव्यं ज्ञानं दत्वा शयनस्थाने स्वं देहमागतो युधिष्ठिरेण प्रबोधितो रथमारुह्य युधिष्ठिरादिभिः सह कुरुक्षेत्रदर्शनार्थं निर्जगाम.....
- अध्यायः - ४८. श्रीकृष्णादिषु कुरुक्षेत्रमवतीर्य तद्दर्शनं कुर्वत्सु श्रीकृष्णो युधिष्ठिरं प्रति संक्षेपेण जामदग्न्यस्य रामस्य पराक्रममकथयत्......
- अध्यायः - ४९. रामपराक्रमज्ञानार्थं युधिष्ठिरप्रश्ने श्रीकृष्णः सविस्तरं तं कथयन् रामस्य जन्मवृत्तान्तं कथयति स्म । ऋचीको गाधिकन्यां सत्यवतीं परिणीय प्रसन्नः संस्तस्या गाधेश्च पुत्रोत्पत्यर्थं चरुद्वयं निर्माय "त्वच्चरुर्ब्राह्मणं पुत्रं त्वन्मातृचरुः क्षत्रियं पुत्रं जनयिष्यतीति यथायोग्यमनयोरुपयोगः कर्तव्यः" इत्युक्त्वा वनं जगाम एतस्मिन्नवसरे तीर्थयात्रां कुर्वन् गाधिराश्रममाजगाम, तेन सहागवाया मातुरुपदेशेन विनिमयपूर्वकं चरोरुपयोगं सत्यवतीतन्मातरौ चक्रतुः । चरुव्यत्ययेन गर्भव्यत्ययं दृष्ट्वा ऋचीकः सत्यवतीं प्राह "तव पुत्रः क्रूरकर्मा क्षत्रियो भविष्यति त्वन्मातुश्च तपोरतो ब्राह्मणः पुत्रः" इति । "मम पौत्रस्तथा भवतु पुत्रश्च शमात्मको ब्राह्मणो भवतु" इति सत्यवत्या प्रार्थित ऋचीकस्तथांगीचकार, ततः सत्यवती जमदग्निं तन्माता च विश्वामित्रं जनयामास जमदग्नेरुत्पन्नो रामो महादेवादस्त्राणि परशुं चावापादत्तात्रेयप्रसादाल्लब्धबाहुसहस्रो हैहयाधिपतिरर्जुनोऽग्निना मिक्षितस्तस्मै पुरराष्ट्रादीनि ददौ स च तानि ददाह । दग्धवताग्निनाऽऽपवस्याश्रमे दग्धे क्रुद्धः सोर्जुनं प्रति तम्रबाहुसहस्रं रामश्छेत्स्यति" इति शशाप । कदाचिदर्जुनपुत्रैर्जमदग्निहोमधेनोर्वत्से हृते तन्निमित्तकेऽर्जुनरामयोर्युद्धे प्रसक्ते रामोर्जुनस्य बाहुसहस्रमच्छिनत् । आश्रमं रामरहितं तत्रागत्यार्जुनपुत्रैर्जमदग्नौ हते क्रुद्धो रामः पृथिवीं निःक्षत्रियां कर्तुं प्रतिज्ञाय तथा कृत्वा वनं जगाम । पुनः परावसोराक्षेपवाक्यात्कुद्धो राम एकविंशतिवारं क्षत्रियान् हत्वा निःक्षत्रियां पृथिवीं कश्यपाय दत्वा समुद्रतीरे वासमकरोत् । अराजके प्रजानां दुःखं पृथिव्या उर्वीतिनाम्नो वृत्तान्तं निगूढतया स्थितैः क्षत्रियैरात्मरक्षार्थं कश्यपं प्रति पृथ्वीप्रार्थनं तद्वाक्यात्कश्यपकृतं क्षत्रियाणां राज्याभिषेकं चाभिधाय युधिष्ठिरादीनां कुरुक्षेत्रदर्शनं चाभिदधाति स्म वैशम्पायनः......
- अध्यायः - ५०. विस्मितेन युधिष्ठिरेण रामपराक्रमेऽभिनन्दिते तदादयः सर्वे भीष्मसमीपमाजग्मुः । आगतेषु सर्वेषु श्रीकृष्णो भीष्मं प्रति "कच्चिज्ज्ञानानि सर्वाणि” इत्याद्युक्त्वा तं प्रशस्य युधिष्ठिरस्य शोकमपनुद इत्याह । श्रीकृष्णवाक्यं श्रुत्वा तं स्तुत्वा उत्तमां गतिं प्रार्थयन्तं भीष्मं प्रति इत्याह.......
- अध्यायः - ५१. श्रीकृष्णवाक्यं श्रुत्वा तं स्तुत्वा उत्तमां गतिं प्रार्थयन्तं भीष्मं प्रति श्रीकृष्णः "उदगयने त्वमिष्टां गतिं प्राप्स्यसीत्युक्त्वा सर्वधर्मोपदेशपूर्वकं युधिष्ठिरस्य शोकमपाकुरु" इत्याह......
- अध्यायः - ५२. “शरवेदनाक्रान्तोऽनवस्थितमनाः कथं वक्ष्यामि" इत्युक्तवन्तं भीष्मं प्रति श्रीकृष्णो ग्लानिमूर्च्छादिनिवृत्तये वरं ददौ । तदा व्यासादिषु श्रीकृष्णसंमाननं कृत्वा भीष्ममामंत्र्य "श्वः समेष्यामः" इत्युक्त्वा गतेषु युधिष्ठिरादयोऽपि स्वस्वगृहाणि जग्मुः......
- अध्यायः - ५३. रात्रौ सुप्तः श्रीकृष्णोऽर्धयामशेषायां रात्रावुत्थाय प्रातःकृत्यं कृत्वा युधिष्ठिरं प्रति सात्यकिं प्रेषयामास स च "कृष्णः सज्जो भूत्वा त्वां प्रतीक्षते इत उत्तरं यत्कर्तव्यं तत्कुरु" इत्युवाच युधिष्ठिरम् । सात्यकिवाक्यं श्रुत्वा युधिष्ठिराज्ञयार्जुनेनानीतं रथमारुह्य सर्वे कृष्णं प्रति गत्वा तेन सह भीष्मसमीपं जग्मुः......
- अध्यायः - ५४. "शरतल्पगते भीष्मे काः कथाः समवर्तन्त” इति जनमेजयप्रश्ने वैशम्पायन आह । ऋषिप्रभृतिषु सर्वेश्वागतेषु भीष्मात्सकाशाद्धर्मश्रवणार्थं नारदेन प्रेरितेषु पांडवेषु प्रकरणार्थं श्रीकृष्णं प्रत्याह युधिष्ठिरः । श्रीकृष्णेन कुशलप्रश्ने कृते भीष्मस्तं प्रति "त्वत्प्रसादान्मे ग्लान्यादिकं नास्ति, श्रेयो वक्तुमहं समर्थोऽस्मि, परन्तु त्वमेव कुतो न कथयसि मां किमिति प्रेरयसि" इत्याद्याह स्म । भीष्मवाक्यं श्रुत्वा श्रीकृष्णस्तं प्रशस्य "मया धर्मेषु कथितेषु नाश्चर्यं परन्तु तव यशः प्रख्यापयितुं त्वां प्रेरयामि” इत्याद्युक्त्वा प्रथमं राजधर्मान्ब्रूहीत्याह....
- अध्यायः - ५५. “युधिष्ठिरो मां पृच्छतु” इत्युक्तवन्तं भीष्मं प्रति श्रीकृष्णो “युद्धे गुरुवधादिप्रयुक्तलज्जया व्रीडितो युधिष्ठिरस्त्वां न पृच्छति" इत्युवाच । "युद्धे गुर्वादिहननं राज्ञां धर्मः" इत्यादि भीष्मवाक्यं श्रुत्वा पादयोः पतन्तं युधिष्ठिरं प्रति "मां पृच्छ तात विस्रब्धं मा भैस्त्वं कुरुसत्तम" इत्युवाच भीष्मः.......
- अध्यायः - ५६. राजनीतिं श्रोतुं युधिष्ठिरेण पृष्टो भीष्मस्तां कथयन् प्रथमं देवब्राह्मणार्चनमभिधाय सर्वथा क्षमाशीलस्य भृत्यैः सह सोपहासभाषणशीलस्य च दोषानाचष्ट......
- अध्यायः - ५७. राज्ञा नित्यमुद्योगवता भवितव्यमित्याद्युक्त्वा "द्वाविमौ ग्रसते भूमिः" इत्यादिकमुशनोगीतमभिधाय मरुत्ताद्याच्चारनिदर्शनपूर्वकं राजधर्मानाख्यातवान् भीष्मः......
- अध्यायः - ५८. बृहस्पत्याद्युक्तप्रजारक्षणरूपं राजधर्मं चारादिसाधनं चाख्याय राजधर्मविषयिणीं बृहस्पतिगाथामाह स्म भीष्मः । व्यासादिषु भीष्मं प्रशंसत्सु श्वः प्रष्टास्मीत्युक्तवति युधिष्ठिरे ब्राह्मणादीनभिवाद्य कृष्णादयो गृहं जग्मुः...
- अध्यायः - ५९. ॥ राजनीतिप्रारम्भः ॥ पुनर्युधिष्ठिरादिषु भीष्मसमीपमागतेषु युधिष्ठिरो "य एष राजन् राजेति" इत्यादिना राजशब्दोत्पत्यादिकं प्रपच्छ । राज्यस्य कारणमभिदधानो भीष्मः कृतयुगे प्रजानां धर्मेणैव परस्पररक्षणमभिधाय कालान्तरे तासु मोहाद्युत्पत्तिक्रमेण वेदनाशमभ्यधात् । वेदे नष्टे देवैः प्रार्थितो ब्रह्मा "श्रेयोऽहं चिन्तयिष्यामि" इत्याद्युक्त्वा लक्षाध्यायात्मकं नीतिशास्त्रं कृत्वा देवान् प्रति "उपकाराय लोकस्य" इत्याद्युवाच । तदेव नीतिशास्त्रं प्रजानामायुर्ह्रासाद्यालोच्य शिवादय उत्तरोत्तरं संचिक्षिपुः । विष्णुं प्रति गत्वा सर्वे मनुष्येभ्यः श्रेष्ठं दिशेत्युक्तवत्सु देवेषु स मानसं पुत्रं विरजसनामानं जनयामास । विरजसः कीर्तिमांस्ततः कर्दमस्ततोंगापरनामानंगस्ततोतिबलस्ततो मृत्युकन्यायां संभूतो वेनो यदा प्रजासुविधर्मेण वर्तनं चकार तदा तमृषयो जघ्नुः । मृतस्य वेनस्य दक्षिणमूरुमृषयो ममन्युस्ततो निषादेषूत्पन्नेषु पुनस्तस्य दक्षिणबाहोस्तैरेव मथितात्पृथुरुत्पद्य तान् प्रति "सुसूक्ष्मा मे समुत्यन्ना” इत्याद्युवाच । पृथुं प्रति देवादयो "नियतो यत्र धर्मो वै” इत्याद्युक्त्वा "पालयिष्याम्यहं भीमं" इत्यादिकं प्रतिजानीहीत्यूचुः । भीष्मो वैन्यस्य पुरोधःप्रभृतीनां नामानि निरूप्य तस्य राज्याभिषेकादिकं तत्कृतपृथ्वीदोहनादिकं राजादिशब्दानां निर्वचनं राजदेहे विष्णोराविर्भावादिकं चाब्रवीत्......
- अध्यायः - ६०. युधिष्ठिरेण चातुर्वर्ण्यधर्मान् पृष्टो भीष्मो धर्मादीन् प्रणम्य ब्राह्मणक्षत्रियवैश्यशूद्राणां धर्मानाख्याय शूद्रवृत्तिं निरूप्य श्रद्धां प्रशंसंस्तद्विषये यज्ञगाथाम् आचख्यौ.....
- अध्यायः - ६१. आश्रमधर्मान् कथयन् भीष्मो वानप्रस्थधर्मान् यतिधर्मान् गृहस्थधर्मांस्तद्विषयिणीं नारायणगीतां ब्रह्मचारिधर्मांश्च निजगाद.....
- अध्यायः - ६२. "शिवान् सुखान् महोदर्कान्" इत्यादिविशेषणविशिष्टान् धर्मान्ब्रूहीति युधिष्ठिरप्रश्ने उक्तविशेपेण विशिष्टधर्माधिकारित्वं ब्राह्मणस्यैवेत्यभिप्रायेण ब्राह्मणानामेव चतुराश्रमाधिकारमुक्त्वा तेषां क्षत्रियादिवृत्तिकरणे दोषं स्वकर्मकरणे प्रशंसां चाह स्म भीष्मः.......
- अध्यायः - ६३. ब्राह्मणानामविहितं कर्माख्याय विहितं च प्रतिपाद्य क्षत्रधर्माश्रयिकं सर्वधर्मस्थितिमाचष्ट.....
- अध्यायः - ६४. सर्वधर्माणां क्षत्रधर्माधीनत्वमभिधाय दण्डनीतिं प्रशस्य धर्मनिश्चयार्थं मान्धातृचरितमाह भीष्मः । विष्णुदर्शनार्थंमान्धात्रारब्धे यज्ञे इन्द्ररूपेणाविर्भूतस्य विष्णोस्तेन सह संवाद इन्द्रकृता क्षत्रधर्मप्रशंसा च...
- अध्यायः - ६५. पुनः क्षत्रधर्मं प्रशस्य स्वस्वकर्मपरित्यागिनां दोषमभिधाय विकर्मस्थान् ब्राह्मणान्निनिन्देन्द्रः । यवनादिधर्मान् श्रोतुं मान्धात्रा पृष्ट इन्द्रस्तानभिदधाति स्म । पुनर्मान्धात्रा "दृश्यन्ते मानुषे लोके सर्ववर्णेषु दस्यवः" इति प्रश्ने कृते तदुत्तरमभिधाय तमुपदिश्येन्द्ररूपो विष्णुर्जगाम.....
- अध्यायः - ६६. त्वत्कथिता मनुष्यमात्रस्याश्रमधर्मा मया श्रुताः परं तेषामेव स्पष्टीकरणं सविस्तरमाचक्ष्वेति युधिष्ठिरप्रश्नः । अस्योत्तरं कथयन् भीष्मः "चातुराश्रम्यकारिणां यानि लिङ्गानि तानि राज्ञां धर्मे एव वर्तन्ते" इत्यभिधाय "अकामद्वेषयुक्तस्य दण्डनीत्या युधिष्ठिर । समदर्शिनश्च भूतेषु भैक्ष्याश्रमपदं भवेत्" इत्यादिनाऽऽश्रमान्तरे आश्रमान्तरस्यासाधारणं धर्ममप्याचरंस्तदाश्रमफलं प्राप्नोतीति विवरणपूर्वकमाह । एतत्सर्वमभिधाय भीष्मो युधिष्ठिरं प्रति राजधर्मं प्रजापालनमुपदिदेश.......
- अध्यायः - ६७. "राष्ट्रवासिनो जनस्य यत्कृत्यतमं तद्ब्रूहि" इति युधिष्ठिरप्रश्ने भीष्मस्तत्कथयन् 'प्रजानां राज्ञोभिषचनं कृत्यतमं’ इत्यभिधाय तदकरणे दोषं चाख्याय पूर्वमराजके दुःखितानां प्रजानां ब्रह्माणंप्रति शरणगमनमाचष्ट । प्रजापालने ब्रह्मकृतमादेशमनंगीकुर्वन्तं मनुं प्रति सर्वाः प्रजाः "कर्तॄनेनो गमिष्यति” इत्याद्यभिधाय "पशूनामधिपञ्चाशत्" इत्यादिना तद्वृत्तिं कल्पयामासुः......
- अध्यायः - ६८. राजानं किं दैवतमाहुरित्यादिके युधिष्ठिरप्रश्ने भीष्मो बृहस्पतिवसुमनसोः संवादरूपमितिहासमाह स्म । "केन भूतानि वर्धन्ते" इत्यादि पृष्टवन्तं वसुमनसं राजानं प्रति बृहस्पतिर्धर्मो राजमूल इत्याद्यभिधाय राशोऽभावे प्रजानां दोषं, प्रजारक्षणे राज्ञो गुणं, प्रशंसापूर्वकं राज्ञोग्न्यादिरूपतां, तद्योगेन प्रजानां हितादिकं चादिदेश.....
- अध्यायः - ६९. पार्थिवेन किं कार्यं, जनपदः कथं रक्षणीयः, शत्रवश्च कथं जेयाः इत्यादिके युधिष्ठिरेण पृष्टे भीष्मो राज्ञां कर्तव्यकर्माण्याह । मनःसहितेन्द्रियजयकरणं दुर्गादिषु गुल्मन्यासममात्यादिषु गूढचारनियोजनमापणादिषु परप्रेषितचारान्वेषणमात्मनो हीनतादशायां सन्धिकरणादिकं चाह । प्रजाभ्यो बलिग्रहणादिकमाकरादिष्यमात्यादिन्यासं चाभिधाय सम्यग्दण्डधरत्वादीन् राजगुणान् बलवता पीडितस्य दुर्गाश्रयणादिकं दुर्गादिरक्षणोपायादीन्श्चाह । भिक्षुकादीनां बहिष्करणादिकमर्थानां तैलवसादिद्रव्याणां च सङ्ग्रहं रक्षणीयमात्मादिसप्तकं षाड्गुण्यादिकं त्रिवर्गमनयोर्लक्षणं प्रजापालने बृहस्पतिगीतश्लोकद्वयं चाह । दण्डनीतिं ज्ञातुं युधिष्ठिरेण पृष्टो भीष्मस्तां कथयंस्तद्गुणानाह । दण्डनीत्यां सम्यग्वर्तमाने राज्ञि कृतयुगप्रवृत्तिमंशत्रयेण वर्तमाने त्रेतायुगप्रवृत्तिमर्द्धांशेनानुवर्तमाने द्वापरयुगप्रवृत्तिं तां परित्यज्य वर्तमाने कलियुगप्रवृत्तिं चाभिधाय राज्ञश्चतुर्युगप्रवृत्तिकारणत्वं सत्यादियुगप्रवर्तनेन गुणदोषौ चाभ्यधात्.....
- अध्यायः - ७०. केन वृत्तेन राज्ञा सुखमित्यादिके युधिष्ठिरप्रश्ने भीष्मो राज्ञः षट्त्रिंशद्गुणानाचष्ट....
- अध्यायः - ७१. “कथं राजा प्रजा रक्षन्" इत्यादिके युधिष्ठिरप्रश्ने भीष्मः सङ्क्षेपेण राजधर्मानाख्याय लोभत्यागं कर्तुमुपदिश्य प्रजारक्षणे राज्ञः फलं कथयति स्म ....
- अध्यायः - ७२. “य एव तु सतो रक्षेदसतश्च निवर्तयेत्। स एव राज्ञा कर्तव्यो राजन् राजपुरोहितः” इत्यभिधाय तद्विषये पुरूरवसो मातरिश्वनश्च संवादरूपमितिहासमाहा । कुतः स्विद्ब्राह्मणो जात इत्यादिके पुरूरवसः प्रश्ने मातरिश्वा ब्राह्मणादीनां जन्मवृत्तान्तमाचख्यौ । “द्विजक्षत्रिययोर्मध्ये कस्येयं पृथिवी" इति पुरूरवसः प्रश्ने "विप्रस्य सर्वमेवैतत्" इत्यादिना ज्येष्ठत्वाद्ब्राह्मणस्यैव सर्वमित्यभिधाय राजा तदनुशिष्टं यं धर्ममाचरति तस्य सर्वस्य भागी राजपुरोहित इत्याद्याह स्म मातरिश्वा.....
- अध्यायः - ७३. भीष्मः पुरोहितलक्षणान्युक्त्वा “ब्रह्मक्षत्रं हि सर्वेषां वर्णानां मूलमुच्यते" इत्यभिधायैतद्विषये ऐलकश्यपसंवादरूपमितिहासमाह स्म । “यदा हि ब्रह्म प्रजहाति क्षत्रं" इत्यादिके ऐलस्य प्रक्षे कश्यपो ब्रह्मक्षत्रिययोः परस्पररक्षणं कथयति स्म । ऐलकश्यपयोः संवादः.....
- अध्यायः - ७४. भीष्मो राजपुरोहितयोः समानयोगक्षेमत्वं निरूप्य तद्विषये मुकुचुंदवैश्रवणयोः संवादं जगाद मुकुचुन्दः पृथिवीं जित्वा स्वबलपरीक्षार्थं धनदं प्रति जगाम, तेन च स्वाज्ञप्तैः राक्षसैः पराभूतो राजा पुरोहितं वसिष्ठं गर्हयामास । गर्हितेन पुरोहितेन तपस्तप्त्वा राक्षसेषु हतेषु मुचुकुंद धनद आचिक्षेप, ततः क्रुद्धस्य मुचुकुंदस्य धनदस्य चोक्तिप्रत्युक्ती अभिधाय क्षत्रधर्मस्थितमुचुकुंददर्शनेन धनदस्य विस्मयादिकमभ्यघासीद्भीष्मः...
- अध्यायः - ७५. "कृतपुरोहितो राजा कथं प्रजावृद्ध्या परलोकं जयेत्” इति युधिष्ठिरप्रश्ने "दानशीलो भवेद्राजा" इत्यादिना भीष्मस्योत्तरम् । राज्यकरणमनिच्छन्तं युधिष्ठिरं प्रति तद्विषये भीष्मस्योपदेशः । "किं तात परमं स्वर्ग्यं” इत्यादिके युधिष्ठिरप्रश्ने “यस्मिन्मयार्दितः सम्यक् क्षेमं विंदत्यपि क्षणम् । स स्वर्गजित्तमः" इत्यादिकं भीष्मस्योत्तरम्......
- अध्यायः - ७३. स्वकर्मरतानां विकर्मरतानां च विशेषमभिधत्स्वेति युधिष्ठिरप्रश्ने भीष्मः स्वकर्माचरतां ब्राह्मणानां प्रशंसां विकर्मकृतां निन्दां चाकरोत्.....
- अध्यायः - ७७. राजा केषां वित्तस्य प्रभुः कया च वृत्त्या वर्तेतेति युधिष्ठिरप्रश्ने भीष्मः "अब्राह्मणादीनां धनाधिकारी राजा" इत्याद्युक्त्वा राज्ये स्तेनसत्ता राजदोष इति चाभिधाय तद्विषये केकयराजस्येतिहासमुपन्यस्यत् । कदाचिदरण्ये केकयं निगृह्णन् राक्षसो "न मे क्ष्तेनो जनपदे" इत्यादिकं केकयवाक्यं श्रुत्वा तमुन्मुच्य "स्वस्ति प्राप्नुहि गृहं गच्छ" इत्युक्त्वा स्वयं जगाम । इममितिहासमुक्त्वा भीष्मो ब्राह्मणादिरक्षणरूपं धर्ममाचष्ट.......
- अध्यायः - ७८. ब्राह्मणस्यापदि क्षत्रियवृत्याश्रयणवद्वैश्यवृत्त्याश्रयणमस्ति न वेति युधिष्ठिरप्रश्ने वैश्यवृत्त्यापि जीवनविषये भीष्मस्याभ्यनुज्ञा । ब्राह्मणानामापदि विक्रेयद्रव्यजिज्ञासया युधिष्ठिरप्रश्ने उत्तरं वदन्भीष्मो ब्राह्मणस्याविक्रेयाणि सुरालवणादिद्रव्याण्याह । “यदा तु सर्वे शस्त्रधारिणः स्वधर्मं व्युत्क्रामन्ति तदा क्षीणबलो राजा कथं प्रजारक्षकः स्यात्" इति युधिष्ठिरप्रश्ने दानादिना ब्राह्मणप्रमुखा वर्णाः क्षेममिच्छेयुरित्युक्त्वा ब्राह्मणेन वर्धितबलो राजा प्रजा रक्षेदित्याद्याह स्म ब्राह्मणान् दूषयतः क्षत्रियस्य कथं ब्राह्मणस्रातेति प्रश्ने भीष्मः "तप आद्युपायेन ब्राह्मणेनैव क्षत्रं नियंतव्यम्" इत्याद्युक्त्वा ब्राह्मणरक्षणां गतिमाचष्ट । यदि ब्राह्मणो वैश्यः शूद्रो वा दस्यूत्थाने शस्त्रं गृहीत्वा प्रजा रक्षेत्तर्हि तेन राजकार्यं कर्तव्यं न वा स च स्वामीभवेन्न वेति युधिष्ठिरेण पृष्टो भीष्मो य एवं कुर्यात्स माननीय एवेत्युक्त्वा प्रजारक्षणासमर्थं राजानं निनिंद भीष्मः......
- अध्यायः - ७९. ऋत्विजां लक्षणानि ज्ञातुं युधिष्ठिरेण पृष्टो भीष्मस्तानि कथयामास । पुनर्युधिष्ठिरेण ऋत्विग्देयदक्षिणाविषये कृतप्रश्नो भीष्मो “न वेदानां परिभवात्" इत्यादिना तदुत्तरमकथयत्.....
- अध्यायः - ८०. सचिवस्य लक्षणं ज्ञातुं युधिष्ठिरेण पृष्टो भीष्मश्चतुर्विधमित्राणां विशेषमाख्यायामित्रस्योत्तममित्रस्यामात्यानां च लक्षणानि निरूप्य राज्ञो ज्ञातिभिः सह व्यवहाररीतिमाह...
- अध्यायः - ८१. ज्ञातिप्रभृतिषु राज्ञा कीदृशो भावः कर्तव्य इति युधिष्ठिरेण पृष्टो भीष्मस्तद्विषये वासुदेवनारदसंवादेतिहासमाह स्म । ज्ञातिवाक्शल्यपीडितस्य वासुदेवस्य "नासुहृत्परमं मन्त्रम्" इत्यादिना सर्वेषां चित्तवशीकारः कथं कर्तव्य इत्यभिप्रायके प्रश्ने नारदस्य "आपदो द्विविधाः कृष्ण” इत्याद्युत्तरम् । अनायासेन शस्त्रेण जिह्वामुद्धर इति कथयन्नारदः 'अनायासं मुने शस्त्रं’ इत्यादि पृष्टवन्तं श्रीकृष्णं प्रति तत्स्वरूपमाह स्म......
- अध्यायः - ८२. “कोशवृद्धिकरोऽमात्यादिभ्योपि विशेषेण संमाननीयः” इत्युक्त्वा तद्विषये कालकवृक्षीयमुनेः कौसल्यस्य च संवादमाह भीष्मः । सर्वज्ञः कालकवृक्षीयो मुनिः पंजरनिहितं काकं गृहीत्वा कौसल्यराजसमीपमागत्य तवामात्यादयः सर्वेऽपि कोशं हरन्तीति सत्यवाद्ययं काकः कथयति तद्विचारयेत्याह स्म । एच्छ्रुतवद्भिरमात्यादिभिरीर्ष्यया निशि काके बाणेन विद्धे मुनिः कौसल्यं प्रत्यभयं ययाचे । राज्ञाऽभये दत्ते तं प्रत्यमात्यानां दोषान् कथयित्वा दुष्टानां तेषां भयादन्यत्र गच्छामीत्यभिधायोपदेशं चकार कालकवृक्षीयः । राज्ञा रक्षणप्रतिज्ञापूर्वकं स्वगृहे निवासितो मुनिर्दुष्टामात्यगणनाशपूर्वकं राज्यरक्षणमादिश्यात्मनः प्रत्यभिज्ञानं दत्वा "व्यापन्ने भवतो राज्ये" इत्याद्युक्तवान्......
- अध्यायः - ८३. “कीदृशाः सभासदादयः" इति युधिष्ठिरप्रश्ने तेषां लक्षणं कथयन् भीष्मो राज्ञः श्रेयोलक्षणममात्यानां गुणदोषान् मन्त्रिलक्षणं मन्त्रश्रवणे योग्यायोग्ययोर्लक्षणादिकमभ्यधात्........
- अध्यायः - ८४. मन्त्रमूलभूतप्रजासंग्रहणविषये बृहस्पतिशक्रसंवादरूपमितिहासमवोचद्भीष्मः । "किमाचरन्सर्वभृतप्रियो भवति" इति शक्रस्य प्रश्ने “सांत्वमेकपदं शक्र” इत्यादि बृहस्पतेः प्रत्युत्तरम्....
- अध्यायः - ८५. “प्रजाः पालयन् राजा कथं कीर्तिमाप्नोति" इति युधिष्ठिरप्रश्ने "व्यवहारेण शुद्धेन” इत्याद्याह भीष्मः । "कीदृशौर्व्यहारैस्तु कैश्च व्यवहरेन्नृपः" इत्यादिके पुनर्युधिरिप्रश्ने राज्ञाऽमात्यादिकरणरीतिं दण्डविधानरीतिं दूतादीनां लक्षणं च जगाद भीष्मः.......
- अध्यायः - ८६. "कथंविधं पुरं राजा स्वयमावस्तुमर्हति" इति युधिष्ठिरप्रश्ने भीष्मः षड्विधदुर्गनिर्माणादिकं पुरे स्थापनीयद्रव्यसञ्चयं चाभिधाय तत्र स्थितस्य राज्ञः कर्तव्यं व्याजहार......
- अध्यायः - ८७. राष्ट्रगुप्तिराष्ट्रसंग्रहयोर्जिज्ञासया युधिष्ठिरप्रश्ने राष्ट्रगुप्तिप्रकारं करादानरीत्युपन्यासेन राष्ट्रसंग्रहप्रकारं चावभाषे........
- अध्यायः - ८८. कोशार्थी राजा प्रजासु कथं वर्तेतेति पृच्छन्तं युधिष्ठिरं प्रति भीष्मः प्रजानुशासनरीतिं पानागारादीनां नियमनं कोशसंग्रहो पायांश्चाभाषत......
- अध्यायः - ८९. "वनस्पतीन्भक्ष्यफलान्" इत्यादिना राष्ट्रपालनरीतिमुपदिशन् भीष्मः"तुल्यबाहुबलानां च” इत्यादिना कथमितर इतरं भुञ्जीतेति पृच्छन्तं युधिष्ठिरं प्रति "यच्चरा ह्यचरानद्युः" इत्यादिना बलवानेव दुर्बलं भुञ्जीत, तुल्यस्त्वात्मानं रक्षेदित्यभिप्रायकमुत्तरमाह....
- अध्यायः - ९०. प्रकीर्णकान् धर्मान् वक्तुमुतथ्यगीतमाह भीष्मः मान्धातरं प्रति । राजधर्ममुपदिशन्नुतथ्यः “उच्छिद्यते धर्मवृत्तं" इत्यादिना पापनिवारणार्थं राज्ञा यत्नः करणीय हत्याद्युपदिश्य धर्मस्य श्रैष्ट्यमुक्त्वा तत्स्वरूपाद्याह स्म पुनरुतथ्यो बलिदृष्टान्तेनासूयादि त्यागमुपदिश्य प्रमत्ते राज्ञि सर्वत्राधर्मोत्थानादिकमाह......
- अध्यायः - ९१. "अकालवर्षी पर्जन्यः" इत्यादिना राज्ञोऽप्रमादे प्रजानां सुखमभिधाय प्रमाद्यति तस्मिन् सर्वेषां प्रमादं "दुर्बलार्थं वलं सृष्टं" इत्यादिना दुर्बलावमानने दोषं चाहोतथ्यः । "राज्ञो यदा जनपदे" इत्यादिनाऽन्यायवर्तिनां राजपुरुषाणामदण्डने दोषं “यदा राजा शास्ति” इत्यादिनाऽशिष्टानां दण्डने राज्यवृद्धिं चाभिधाय राज्ञोऽवश्यकर्तव्यमुपदिश्यैतद्राजवृत्तमप्रमादेन त्वमप्याचरेति मान्धातरमुपदिदेशोतथ्यः, मान्धातृदृष्टान्तेन युधिष्ठिरं प्रति भीष्मस्य वाक्यम्.......
- अध्यायः - ९२. धर्मे स्थातुमिच्छन् राजा कथं वर्तेतेति युधिष्ठिरप्रश्ने भीष्मो वामदेवगीतां व्याजहार । वसुमनसा पृष्टो वामदेवो "धर्ममेवानुवर्तस्व” इत्याद्युक्त्वा राज्ञो विनाशकारणान्याख्याय सुखकारणमप्याह स्म ......
- अध्यायः - ९३. पुनरपि "यत्राधर्मं प्रणयते" इत्यादिना किञ्चिन्नाशकारणमभिधाय राज्ञोऽवश्यकरणीयमादिदेश....
- अध्यायः - ९४. पुनर्वामदेवेन “अयुद्धेनैव विजयं” इत्यादिनोपदिष्टं राजधर्ममाख्याय भीष्मो वसुमनसं दृष्टान्तीकृत्य युधिष्ठिरं प्रति त्वमप्येतत्कुर्वित्याह स्म......
- अध्यायः - ९५. विजिगीषुविजयधर्मजिज्ञासोर्युधिष्ठिरस्य प्रश्ने भीष्मस्तं कथयति स्म । क्षत्रियेण क्षत्रियः कथं योद्धव्य इति युधिष्ठिरप्रश्ने भीष्मो युद्धरीतिं व्याजहार........
- अध्यायः - ९३. अधर्मेण युद्धे क्षेषमाख्याय राज्ञो वर्तनप्रकारमाह स्म भीष्मः.......
- अध्यायः - ९७. क्षत्रियधर्मजिज्ञासया पृच्छन्तं युधिष्ठिरं प्रति भीष्मस्तं कथयित्वाऽयुद्धेन मरणे क्षत्रियस्य निंदामाह.....
- अध्यायः - ९८. युद्धे मृतानां के लोका भवन्तीति युधिष्ठिरानुयोगे भीष्मोंऽबरीषशक्रसंवादेतिहासमाह । अम्बरीषः स्वर्गं गत्वाऽऽत्मनोऽमात्यं सुदेवमिन्द्रसमीपस्थं दृष्ट्वा विस्मितः सन्निन्द्रं प्रति "ममायममात्यो मदपेक्षया कुतोधिकः" इत्याद्याह स्म । अमात्यस्याधिक्यकारणभूतं युद्धयज्ञं कथयन्तमिन्द्रं प्रति तत्प्रकारं पृच्छति स्माम्बरीषः । इन्द्रो युद्धयज्ञे ऋत्विगादीन्निरूप्य युद्धे मृतादीनां लोकप्राप्तिं चाख्याय युद्धमृतानामशोच्यत्वादिकमाह........
- अध्यायः - ९९. भीष्मः शूरप्रोत्साहनविषये प्रतर्दन-मैथिल-संग्रामेतिहासमाख्याय शूरं प्रशशंस....
- अध्यायः - १००. जयार्थिनो योधान् यथानयन्ति तत्कथयेति युधिष्ठिरप्रश्ने सेनानीतिमवादीद्भीष्मः । अश्वादीनां युद्धार्थं भूम्यादीन्निरूप्य सैन्याधिपतिसंख्यादिकमाख्याय युद्धसमये योधान् प्रति यद्वक्तव्यं तदाह भीष्मः.....
- अध्यायः - १०१. "किंशीलाः किंसमाचाराः" इत्यादिना कीदृशी योद्धारः संग्रामे क्षमा इत्यादिके युधिष्ठिरप्रश्ने भीष्मोऽस्त्रविशेषयुद्धकुशलान्गान्धारादीन्निरूप्य "सिंहशार्दूलवाङ्नेत्राः" इत्यादिना योधानां लक्षणान्यभिदधाति स्म...
- अध्यायः - १०२. “जयित्र्याः कानि रूपाणि" इत्यादिना जयित्र्याः सेनाया लक्षणेषु युधिष्ठिरेण पृष्टेषु भीष्मस्तान्यभिधाय युद्धसरणिमुपदिदेश......
- अध्यायः - १०३. मृदौ तीक्ष्णे च शत्रौ राज्ञा आदौ कथं वर्तितव्यमिति पृच्छन्तं युधिष्ठिरं प्रति भीष्मो बृहस्पतींद्रसंवादेतिहासं बभाषे “अहितेषु कथं ब्रह्मन् वर्तेयं” इतीन्द्रेण पृष्टो बृहस्पतिः शत्रौ वर्तनरीतिं प्रदर्शयति स्म । "कानि लिङ्गानि दुष्टस्य" इतीन्द्रेण पृष्टो बृहस्पतिस्तान्यभ्यधात्.....
- अध्यायः - १०४. “कोशदण्डाभ्यां च्युतोऽमात्यैः प्रबाधितो धार्मिको राजा सुखमिच्छन् कथं चरेत्" इति युधिष्ठिरेण पृष्टो भीष्मः क्षेमदर्शीयेतिहासमभाषत । वैदेहेन राज्याद् भ्रंशितः क्षेमदर्शी कालकवृक्षीयं मुनिं प्रति "अर्थेषु भागी पुरुषः" इत्यादिना यत्नवतोप्यलब्धराज्यस्य कर्तव्यं किं, विषयविरक्तस्य च सुखं किमित्यादिकं पप्रच्छ । मुनिरपि निवृत्तिरतं तं दृष्ट्वा “पुरस्तादेव ते बुद्धिः" इत्यादिना दुर्बलस्य हीनसंपदः परैर्निर्जितस्य निवृत्तिधर्म एव श्रेयानित्युपदिदेश...
- अध्यायः - १०५. हीनसंपदः परैर्जितस्य प्रवलस्य तु "अथ चेत्पौरुषं किञ्चित्” इत्यादिना निकृतिप्रधानां राजनीतिमुपदिदेश कालकवृक्षीयः......
- अध्यायः - १०६. “न निकृत्या न दंभेन" इत्यादिना निकृतिं कर्तुमनिच्छतः क्षेमदर्शिनो विदेहस्य च परस्परं संधिकरणेनैतादृशस्य धर्मिष्ठस्य सामाख्यं जयोपायमुपदिशति स्म कालकवृक्षीयः......
- अध्यायः - १०७. कथितं ब्राह्मणादिधर्माणां वृत्तमनूद्य गणानां वृत्तं पृच्छन्तं युधिष्ठिरं प्रति भीष्मस्तदाख्यातवान्...
- अध्यायः - १०८. अनेकविधानां धर्माणां मध्ये किमनुष्ठेयतरमिति युधिष्ठिरप्रश्ने मात्रादिपूजनरूपधर्मस्य बहुमतत्वमभिधायाचार्यादीनामुत्तरोत्तरगुरुत्वं पित्रादिभक्तस्य फलमाचार्यादिद्रोहिणामनिष्कृतिं चोवाच भीष्मः....
- अध्यायः - १०९. धर्मे स्थातुमिच्छन्नरः कथं वर्तेतेत्यादिषु युधिष्ठिरप्रश्नेषु भीष्मः सत्यासत्ययोर्व्यवस्थां धर्माधर्मव्यवस्थां प्राणात्ययादावसत्ये दोषाभावं स्वधर्मविरोधेनोपजीवितुर्दण्डं चाचख्यौ...
- अध्यायः - ११०. येन दुर्गाण्यतितरेत्तत्कथयति युधिष्ठिरप्रश्ने "आश्रमेषु यथोक्तेषु" इत्यादिना दुर्गातितरणमुपदिदेश भीष्मः......
- अध्यायः - १११. "असौम्याः सौम्यरूपेण सौम्याश्चासौम्यदर्शनाः ॥ ईदृशान् पुरुषांस्तात कथं विद्यामहे वयं" इति युधिष्ठिरप्रश्ने भीष्मो व्याघ्रगोमायुसंवादेतिहासमाह स्म । पौरिकाख्यो नृपः प्राक्कर्मदोषेण गोमायुत्वं प्राप्य श्मशाने वसन्नपि शुद्धाचारेण वर्तमानः सजातीयैः स्वसदृशाचारार्थमुपदिष्टोऽपि तान् शुद्धाचारेण वर्तयितुमुपदिदेश । कदाचिच्छुद्धाचारो गोमायुः शार्दूलेनामात्यत्वेन वृत्वा "सौम्य विज्ञातरूपस्त्वं गच्छ यात्रां मया सह" इत्युक्तः संस्तं प्रति "सदृशं मृगराजैतत्” इत्याद्युवाच । शार्दूलस्य पूर्वामात्यैः स्पर्धया गोमायौ मांसचौर्यारोपं कृत्वा तद्विषये विज्ञापितः शार्दूलो गोमायुं हंतुमुद्यतः स्वमात्रा बोधितस्तं मुमोच । गोमायोः प्रायोपवेशनाभिप्रायं ज्ञात्वा सांत्वयन्तं व्याघ्रं प्रति गोमायुः "पूजितोऽहं त्वया पूर्वम्" इत्यादिना प्रसादयित्वा वनं प्रविश्य प्रायोपवेशेन स्वं देहं तत्याज....
- अध्यायः - ११२. "राज्ञा किं कर्तव्यं किं कृत्वा सुखी भवेत्" इत्यादिके युधिष्ठिरेण पृष्टे भीष्मो राज्ञः कर्तव्यमुपदिशन्नुष्ट्रवृत्तान्तं व्याजहार । कश्चिदुष्ट्रो ब्रह्मणो वरप्रदानाद्योजनशतदीर्घां ग्रीवामुपलभ्यालस्येनैकत्र स्थित्वेतस्ततो ग्रीवां चालयन् कदाचिद्वातवर्षाभ्यां पीडितस्तां गुहायां प्रवेश्य स्थितो जम्बुकेन भक्षितग्रीवो ममार । इत्युक्त्वा राज्ञ आलस्यवर्जनमुपदिश्य बुद्धिमूलत्वं विजयस्यावोचद्भीष्मः.......
- अध्यायः - ११३. अमित्रेण सहासाधनेन राज्ञा कथं वर्तितव्यमिति युधिष्ठिरेण पृष्टो भीष्मः सागरगंगयोरिति हासमाख्याय तं प्रति "यो हि शत्रोर्विवृद्धस्य" इत्याद्युवाच....
- अध्यायः - ११४. मूर्खेण सह विदुषा कथं वर्तितव्यमिति युधिष्ठिरेण पृष्टो भीष्मस्तदुत्तरमाचख्यौ....
- अध्यायः - ११५. "यद्धितं राज्यतंत्रस्य" इत्यादिषु युधिष्ठिरप्रश्रेषु भीष्मो राजधर्मानुपदिदेश.....
- अध्यायः - ११६. उत्तमस्थाने नीचो न योज्य इत्युपदेशार्थं श्वदृष्टान्तनिरूपमितिहासमाह स्म भीष्मः । कस्मिंश्चिदाश्रमे तपस्यन्तं शान्तं मुनिं प्रति व्याघ्रादयः सत्त्वाः प्रतिदिनमागत्य सुखप्रश्नादिकं कृत्वा जग्मुरित्येवं प्रचलिते क्रमे तन्निकटे कश्चिच्छ्वा अवात्सीत् । स श्वा कदाचित्क्षुद्रव्याघ्रं दृष्ट्वा भीतो मुनिवाक्यत्तद्रूपोऽभूत् पुनर्महाव्याघ्रं दृष्ट्वा भीतो मुनिवाक्यादेव तद्रूपोऽभूत्.......
- अध्यायः - ११७. पुनः स मुनिर्हस्तिनं दृष्ट्वा मतिं श्वानं हस्तिनं सिंहं दृष्टवन्तं सिंहं शरभं दृष्टवन्तं शरभं च चक्रे स श्वा शरभो भूत्वा यदा मुनिं हन्तुं प्रवृत्तस्तदा मुनिवाक्यात्पुनः श्वैवाभवत्.....
- अध्यायः - ११८. मुनिना तपोवनाद्बहिष्कृतः श्वाऽतिदैन्यमवापेत्युक्त्वा भीष्म एतद्दृष्टान्तेन युधिष्ठिरं प्रति यथायोग्यं भृत्यनियोजनं सचिवलक्षणं राजगुणान्योधगुणांश्चाचष्ट......
- अध्यायः - ११९. भीष्मः पुनः श्वदृष्टान्तेन यथाधिकारं नीचादीनां तत्तत्स्थाने नियोजनं कोशरक्षणादिकं चाभ्यधात्......
- अध्यायः - १२०. एतावत्पर्यन्तं विस्तरेण कथितं राजधर्मं पुनः सङ्क्षिप्तं कथयेत्यनुयुञ्जानं युधिष्ठिरं प्रति प्रजारक्षणादिकं राजधर्मं राजनीतिं धनवृद्धिकारणं निन्दापूर्वकं लुब्धस्यासङ्ग्रहं चाब्रवीत्......
- अध्यायः - १२१. “को दण्डः कीदृशो दण्डः" इत्यादिना दण्डविषये एकादश प्रश्नान्कुर्वन्तं युधिष्ठिरं प्रति भीष्मः सर्वप्रश्नोत्तराणि वदन् दण्डस्य सामान्यनामानि बहुरूपतां प्रयोजनवत्तां विशेषनामाष्टकं चाख्यायाष्टाङ्गाबलं मात्रादीनामपि दण्डार्हत्वं च व्याहरति स्म......
- अध्यायः - १२२. दण्डोत्पत्तिविषयेंऽगराजस्य वसुहोमस्येतिहासं जगाद भीष्मः । मुंजपृष्ठं गतं वसुहोमं प्रति यदृच्छागतो मांधाता दण्डोत्पत्तिप्रकारं पप्रच्छ । दंडोत्पत्तिप्रकारं कथयन् वसुहोमो ब्रह्मणा प्रारब्धे यज्ञे प्रजानियमनरूपस्य दण्डस्यान्तर्धानं जगाद । ततो निर्मर्यादासु प्रजासुब्रह्मणा केशवं संपूज्य प्रार्थितो महादेवो दण्डं निर्मायेन्द्रादीन् देवाद्याधिपत्ये नियोज्य धर्मगोप्तारं दण्डं विष्णवे ददौ । "विष्णुरङ्गिरसे प्रादात्" इत्यादिना दण्डप्राप्तिपरम्परामाख्याय सर्वेषां जागरेण दंडस्यादिकारणत्वं चाभिधाय वसुहोमेतिहासश्रवणफलमाचष्ट युधिष्ठिरं प्रति भीष्मः.....
- अध्यायः - १२३. “तात धर्मार्थकामानां श्रोतुमिच्छामि निश्चयम्" इत्यादिना धर्मादयः किमुद्दिश्य कियन्ते, किमेषामुत्पत्तिस्थानं, कथं तेषां साहित्यं, कथं च पृथक्त्वम्, इति चतुरः प्रश्नांश्चकार युधिष्ठिरः । तत्र "यदा ते" इत्यादिनाऽऽद्यानां त्रयाणां व्युत्क्रमेणोत्तरमभिधाय चतुर्थस्योत्तरमभिधाय चतुर्धस्योत्तरमभिदधानो भीष्म आङ्गरिष्ठकामंदकयोरितिहासं निजगाद । मर्यादाभङ्गं कृत्वा "यः पापं कुरुते राजा" इत्यादिके आङ्गारिष्ठप्रक्षे "यो धर्मार्थौ परित्यज्य" इत्यादिकं कामन्दकस्योत्तरम्......
- अध्यायः - १२४. "धर्मस्य मूलकारणं शीलं वदन्ति जनास्तत्कथं प्राप्यते तल्लक्षणं च किम्" इति युधिष्ठिरेणानुयुक्तो भीष्मस्तदुत्तरं वक्तुं दुर्योधनधृतराष्ट्रसंवादरूपमितिहासमाह स्म । किमर्थं तप्यसे पुत्रेत्यादिके धृतराष्ट्रप्रश्ने तापकारणभूतां युधिष्ठिरसंपत्तिमभिदधानं दुर्योधनं प्रति स "युधिष्ठिरसदृशसंपत्प्राप्तिकारणं शीलं संपादय” इत्याह । "तच्छीलं कथं प्राप्यते" इति दुर्योधनेन पृष्टो धृतराष्ट्रः शीलेन प्रह्लादस्य राज्यप्राप्तिरूपमितिहासमाचष्ट । इन्द्रो बृहस्पतेः सकाशाच्छ्रेयः श्रुत्वा तदनुज्ञया भार्गवं गतस्तस्मादपि तच्छ्रुत्वा तस्याप्यनुज्ञया शिष्यत्वं पुरस्कृत्य ब्राह्मणरूपेण प्रह्लादं गत्वा "त्रैलोक्यराज्यं त्वया कथं प्राप्तम्" इति पप्रच्छ । "नासूयामि द्विजान् विप्र" इत्यादिना स्वेनाचीर्णं श्रेयोभिधाय प्रह्लादो ब्राह्मणरूपमिन्द्रं प्रति वरं याचस्वेत्युवाच । वरं दत्वा चिन्तयन् प्रह्लादः स्वशरीरान्निर्गतं शीलं प्रति को भवानिति पप्रच्छ । तच्च "शीलमहमस्मि त्वया त्यक्तं ब्राह्मण शरीरं गच्छामि” इत्युवाच । एवमेव तमनु धर्मसत्यवृत्तबलेषु गतेषु स्वशरीरान्निर्गता श्रीः प्रह्लादेन का त्वमिति पृष्टा सती "श्रीरहं यत्र शीलादीनि तत्र गच्छामि" इत्याद्युक्त्वा ब्राह्मणस्येन्द्रत्वेन प्रत्यभिज्ञां दत्वा शीलं प्रशस्य शीलादिसहिता श्रीरिन्द्रं प्रति जगाम। शीलप्राप्त्युपायं कथयेति दुर्योधनेन पृष्टो धृतराष्ट्रस्तत्प्राप्त्युपायमभिदधाति स्म.........
- अध्यायः - १२५. आशायाः स्वरूपं ज्ञातुं युधिष्ठिरेण पृष्टो भीष्म ऋषभसुमित्रयोः संवादरूपमितिहासं कथयन्सुमित्रस्य मृगयां संवर्ण्य तद्बाणविद्धस्य मृगस्य महारण्यप्रवेशमाख्यातवान्........
- अध्यायः - १२६. मृगमन्वेषितुमरण्यगतो मुनिभिः "कस्त्वं कुत आयातः" इति पृष्टः सुमित्रः स्ववृत्तं कथयित्वा तान् प्रत्याशाविवरणज्ञानार्थं पप्रच्छ........
- अध्यायः - १२७. मुनीनां मध्ये श्रेष्ठ ऋषभः कृशस्य मुनेरितिहासं कथयन् वीरद्युम्नस्यागमनादिकमाचख्यौ....
- अध्यायः - १२८. मुनीन् प्रति स्वप्रत्यभिज्ञानपूर्वकं स्वपुत्रनाशादिकं कथयतो वीरद्युम्नस्य वाक्यं श्रुत्वाप्युत्तरमददानं कृशनामानं मुनिं प्रति आशावृत्तान्तं ज्ञातुं स राजा पुनः पप्रच्छ । ततः कृशवीरद्युम्नयोरुक्तिप्रत्युक्ती अभिधाय भीष्मो युधिष्ठिरं प्रति “एवं त्वमपि कौतेय" इत्याद्युवाच....
- अध्यायः - १२९. पुनर्धर्मान् श्रोतुं युधिष्ठिरेण पृष्टो भीष्मो गौतमयमसंवादेतिहासं वर्णयंस्तयोरुक्तिप्रत्युक्ती अभ्यधात्....
- अध्यायः - १३०. “मित्रैर्हीनस्य बह्वमित्रस्य राज्ञः का गतिः" इत्यादिके युधिष्ठिरप्रश्ने तमुपदिशन् भीष्म आपदि कोशसंचयरूपं प्रशस्तमुपायमाख्याय धर्मादीनां तम्मूलकत्वमाचख्यौ.......
- (२) आपद्धर्मपर्व
- अध्यायः - १३१. क्षीणत्वदीर्घसूत्रत्वादिविशिष्टस्य किं कार्यमवशिष्यते इति युधिष्ठिरेण पृष्टो भीष्म आपद्धर्मानकथयत् । अभ्यन्तरप्रकुपितादेः किं कार्यमिति युधिष्ठिरप्रश्ने भीष्मस्योत्तरकथनम्.......
- अध्यायः - १३२. 'हीने परमके धर्मे सर्वलोकाभिसंहिते । सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने । केन स्विद्ब्राह्मणो जीवेत्’ इत्यादिना आपद्बहुले काले ब्राह्मणः कथं जीवेदिति युधिष्ठिरेण पृष्टो भीष्मो ब्राह्मणजीवनप्रकारमभिदधाति स्म........
- अध्यायः - १३३. आपन्नस्य कोशादिसङ्ग्रहकरणमुपदिश्य तद्विषयकमुपायं कथयन्दस्यूनामाश्रयणं तत्कर्मकरणं चानुजज्ञे भीष्मः.......
- अध्यायः - १३४. पुनर्भीष्मस्य पुराविद्वाक्यकथनेन युधिष्ठिरं प्रत्युपदेशः । बलप्रशंसा। पापकारिणां तत्परिहारोपायकथनम्........
- अध्यायः - १३५. दस्यूनामपि सिद्धिविषये कायव्यदस्युसंवादेतिहासं प्रोवाच भीष्मः । त्वमस्माकं ग्रामणीर्भवेति दस्युभिः प्रार्थितः कायव्यस्तान् प्रति ’मा वधीस्त्वं स्त्रियं भीरुम्’ इत्यादीन् धर्मानुपदिदेश, तैश्च तस्मिन्नङ्गीकृते उभयेऽपि सिद्धिमापुः..........
- अध्यायः - १३६. राज्ञां कोशसङ्ग्रहमार्गं कथयितुं ब्रह्मगीतागाथाः प्रोवाच गाङ्गेयः......
- अध्यायः - १३७. अनागतविधातुः प्रत्युत्पन्नमतेश्च सुखं दीर्घसूत्रस्य तु तन्नास्तीत्येतद्विषये अनागतविधातृप्रत्युत्पन्नमतिदीर्घसूत्राणां मत्स्थानामितिहासमाचष्ट भीष्मः......
- अध्यायः - १३८. 'यथा राजा न मुह्येत शत्रुभिः परिवारितः’ इत्यादिषु युधिष्ठिरप्रश्रेषु भीष्म आपद्धर्मानुपदिशन्नापदि शत्रुणाऽपि सन्धिकरणविषये दृष्टान्ततया मार्जारमूषिककथा । एकस्मिन्वने महान्तं वटमाश्रित्य पलिताख्यमूषिकलोमशाख्यमार्जारयोर्वसतोः कदाचित्प्रमत्ते मार्जारे व्याधप्रसारितेन जालेन निबद्धे सति निःशंको मूषिकस्तत्स्थं मांसं भक्षयति स्म । एतदन्तरे वटस्याधो बिलस्थितं नकुलमुपरिस्थितमुलूकं च दृष्ट्वा भीतो मूषिक आपदि शत्रुरपि सन्धेय इति मनसि निधाय मार्जारं प्रति 'सौहृदेनाभिभाषे त्वाम्’ इत्यादि प्रोवाच । उभयोः संवादानन्तरमाश्वस्तो मूषिको मार्जारक्रोडे निःशङ्कं स्थितो मार्जारेण जालतन्तुच्छेदने त्वरां कुर्वित्युक्तो ’मा भैत्स्वरां मा कुरु' इत्याद्युवाच मूषिकस्तं प्रति । यमदूताभं चाण्डालं दृष्ट्वा भीतेन मार्जारेण 'किमिदानीं करिष्यसि' इत्युक्तेन मूषिकेण चाण्डालभयादुलूकनकुलो पलायितो दृष्ट्वा जालतन्तौ छिन्ने मार्जारो वटोपरि जगाम मूषिकश्च स्वबिलं जगाम । ततो वटोपरिस्थितस्य मार्जारस्य बिलस्थितस्य मूषिकस्य च पुनः संवादे प्रवृत्ते मूषिको मार्जारं प्रति सौहार्दकारणमाख्यायात्मरक्षार्थं यत्नः करणीय इत्याद्युपदिदेश । ’सत्यं शपे त्वयाऽहं वै मित्रद्रोहो विगर्हितः' इत्यादिकं मार्जारोक्तं प्रत्याख्यायोशनसा कृते 'शत्रुसाधारणे कृत्ये' इत्यादिके द्वे गाथे अभिधाय 'त्वत्तो मयात्मा संरक्ष्यस्त्वमपि चाण्डालादात्मानं रक्ष' इति मूषिकेणोक्तो मार्जारो वटं हित्वाऽन्यत्र जगाम, मूषिकोऽपि तत् बिलं हित्वा बिलान्तरमगात्......
- अध्यायः - १३९. विश्वासं विना राज्ञा कथं वर्तितव्यभिति युधिष्ठिरेणानुयुक्तो भीष्मः पूजनीब्रह्मदत्तसंवादकथनपूर्वकं प्रत्युत्तरमब्रवीत् राजपुत्रेण हतं स्वपुत्रं दृष्ट्वा क्षत्रियनिन्दां विधाय चरणाभ्यां राजपुत्रस्य नेत्रे भित्त्वाऽऽकाशे स्थिता सती ब्रह्मदत्तं प्रति 'इच्छयेह कृतं पापं सद्यस्तं चोपसर्पति' इत्यादि बहुप्रश्नोत्तरमिषेण जगाद पूजनी । उभयोः संवादानन्तरं पूजनी ब्रह्मदत्तं प्रति 'यस्येह व्रणिनौ पादौ’ इत्यादिदृष्टान्तमुखेन कृतापराधाहं त्वयि न वत्स्यामीति स्वाभिप्रायं प्रकटय्य दिगन्तरं ययौ ......
- अध्यायः - १४०. 'युगक्षयात्परिक्षीणे' इत्यादिके युधिष्ठिरप्रश्ने भीष्मो भारद्वाजशत्रुंजयसंवादेतिहासोपन्यासपूर्वकमुत्तरमाह स्म । 'अलब्धस्य कथं लिप्सा’ इत्यादिके शत्रुंजयप्रश्ने भारद्वाजो ’नित्यमुद्यतदण्डः स्यात्’ इत्यादिनाऽध्यायपरिसमाप्तिपर्यन्तं राजनीतिमुपदिदेश.........
- अध्यायः - १४१. 'हीने परमके धर्मे' इत्यादिके युधिष्ठिरप्रश्ने योगक्षेमादीनां राजमूलत्वमभिधाय विश्वामित्रचाण्डालसंवादरूपमितिहासमब्रवीद्भीष्मः । कदाचिद्द्वादशवार्षिक्यामनावृष्ट्यां नष्टप्रायासु प्रजासु क्षुधा पीडितो विश्वामित्रः कुत्राप्यन्नादिकमलभमानः कस्यचिछ्वपचस्य गृहं प्रविवेश । तत्र प्रविष्टो विश्वामित्रः श्वमांसयुतां दण्डिकां दृष्ट्वा 'आपदि ब्राह्मणेन स्तेयमपि कर्तव्यम्' इत्यादि विचार्य श्वजङ्घां चोरयितुमुद्युक्तः श्वपचेनाधिक्षिप्तः । श्वपचविश्वामित्रयोः संवादानन्तरं श्वजङ्घां गृहीत्वा निर्गते विश्वामित्रे विधिना भागान् परिकल्प्येन्द्रादीनाह्वयति सति शक्रः सर्वत्र वृष्टिं चकार । वृष्ट्या सर्वत्र सुभिक्षे विश्वामित्रः श्वमांसं परित्यज्य तपसा सिद्धिमवाप......
- अध्यायः - १४२. 'यदि घोरं समुद्दिष्टमश्रद्धेयमिवानृतम् । अस्तिस्विद्दस्युमर्यादा यामहं परिवर्जये' इत्यादिके युधिष्ठिरप्रश्रे भीष्म आपत्कालिकं राजधर्मं कथयंस्तद्विषये बृहस्पतेर्भार्गवस्य चानुमतिमाह स्म । यामन्यो नाभिलङ्घयेत् ईदृशी मर्यादा अस्ति चेत्तां ब्रूहीति युधिष्ठिरप्रश्ने भीष्मस्योत्तरम्......
- अध्यायः - १४३. ’शरणागतरक्षकस्य यो धर्मस्तं ब्रूहि' इत्यनुयुञ्जानं युधिष्ठिरं प्रति भीष्मस्तं कथयंस्तद्विषये कपोताख्यानमकथयत् । विस्तरेण कपोतवृत्तं श्रोतुं युधिष्ठिरेण पृष्टो भीष्मो मुचुकुन्दभार्गवसंवादमुखेन सविस्तरं तदाख्यातुमुपचक्रमे । कश्चिच्छकुनिलुब्धकः शकुनान्हन्तुं निर्गतो वातवर्षादिना क्लान्तः स्थातुं गन्तुमशक्नुवन्नप्यकस्माद्वृक्षात्पतितां कपोतीं स्वपञ्जरके क्षिप्त्वा वातवर्षनिवृत्तावपि गन्तुमसमर्थो महान्तमेकं वृक्षं दृष्ट्वा तत्प्रार्थनापूर्वकं नक्तं तदधः सुष्वाप.....
- अध्यायः - १४४. तस्य वृक्षस्य शाखायां ससुहृज्जनो दीर्घकालं निवसन्कपोतः प्रातर्गतायां भार्यायां रात्रावनागतायां तामुद्दिश्य बहु बिललाप.......
- अध्यायः - १४५. लुब्धपञ्जरके स्थित्वा कपोती कपोतस्य विलापवाक्यं श्रुत्वा हृष्टा सती तं प्रति ’शरणागतत्राता भव' इत्युक्त्वा शरणागतरक्षणमाहात्म्यमाख्याय लुब्धकसत्कारकरणमुपदिदेश....
- अध्यायः - १४६. कपोतिवाक्यं श्रुत्वा कपोतो लुब्धकमागत्य स्वागतप्रश्नपूर्वकमतिथिपूजनं प्रशस्य ’किमहं ते करोमि’ इत्यादि पप्रच्छ । शरीरतापनार्थं शीतार्तस्य व्याधस्य प्रार्थनां श्रुत्वा तदर्थमग्निमादीप्य 'शरीरं तापयित्वा सुखी भव’ इति कपोतोक्तिः । तापितशरीरेण स्वस्थेन लुब्धकेनाहारे याचिते कपोतः स्वनिकटे तत्पर्याप्तसामग्र्याभावादात्मप्रदानेन तस्याहारं दित्सुः पूर्वप्रज्वालितमग्निं प्रविवेश, तं दृष्ट्वा विषण्णो लुब्धक आत्मानं जगर्हे....
- अध्यायः - १४७. क्रूरकर्मापि लुब्धकः किमीदृशं नृशंसेन इत्याद्युक्त्वा स्वकीयं मृगयापरिकरं कपोतीं च विसृज्य महाप्रस्थानगमनं चकार....
- अध्यायः - १४८. भर्तारं स्मृत्वा विलपन्ती कपोती तच्छोकेनाग्निं प्रविवेश, तत आगतं विमानं कपोतः कपोत्या सहारुह्य स्वर्गं गतो रेमे.....
- अध्यायः - १४९. विमानस्थौ तौ दृष्ट्वा चिन्तयल्लुब्धको महारण्यं प्रविश्य दावदग्धः सन्स्वर्गमगच्छत्....
- अध्यायः - १५०. 'अबुद्धिपूर्वकं पापं कुर्वन्कथं मुच्यते’ इति युधिष्ठिरप्रश्ने भीष्मो जनमेजयशौनकसंवादोपन्यासेनोत्तरं कथयति स्म । अबुद्धिपूर्वकं ब्रह्महत्यां प्राप्तो जनमेजयो वनं जगाम तं च शौनको भर्त्सयांचक्रे......
- अध्यायः - १५१. 'गर्ह्यं भवान्गर्हयते’ इत्यादि ब्रुवतो जनमेजयस्य शौनकेन सह संवादः......
- अध्यायः - १५२. 'यज्ञो, दानं, दया, वेदाः सत्यं च पृथिवीपते । पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः’ इत्यादिना यज्ञादीनि पापनिवृत्तिसाधनान्युपदिश्याबुद्धिपूर्वकपापनाशविषये बृहस्पतिवाक्यं चोदाहृत्य जनमेजयमश्वमेधेन याजयामास च निष्कल्मषः स्वं राज्यं विवेश....
- अध्यायः - १५३. 'कच्चित्पितामहेनासीछ्रुतं वा दृष्टमेव च । कच्चिन्मर्त्यो मृतो राजन् पुनरुज्जीवितोऽभवत्’ इति युधिष्ठिरेण पृष्टो भीष्मो गृध्रजम्बुकसंवादेतिहासमुदाहृत्योत्तरयामास । कस्यचिद्ब्राह्मणस्य बालग्रहेण मृतं पुत्रमादाय श्मशानमागतान् शोकेन तं परित्यज्य गन्तुमसमर्थान् ब्राह्मणान्प्रति श्मशानवासी कश्चिद् गृध्रो 'यद्येनं परित्यज्य दिवैव गृहं गमिष्यन्ति तदा मम कार्यं भविष्यति’ इत्यभिप्रायेण 'मृतं बालमिह त्यक्त्वा गृहं गच्छत' इति उपदिदेश | गृध्रवाक्येन गन्तुमुद्यतान् प्रति श्मशानवासी कश्चिज्जम्बुको 'यद्येते सायङ्कालपर्यन्तमत्र स्थित्वा गमिष्यन्ति तदा मम कार्यसिद्धिर्भविष्यति' इत्यभिप्रायेण 'निर्घृणाः खलु मानुषाः' इत्यादिना तेषां गमनं न्यषेधीत् । एवं स्वस्वाभिप्रायेण बोधयतोर्गृध्रजम्बुकयोर्वाक्याद्गन्तुं स्थातुं चानिश्चितबुद्धींस्तान्व्याकुलान्दृष्ट्वा करुणाविष्टः शङ्करः प्रादुरभूत् । शङ्करेण वरदोऽस्मीत्युक्ते मृतपुत्रजीवनरूपं वरं प्रार्थयन्तो ब्राह्मणास्ते संजीवितं पुत्रमादाय हृष्टाः सन्तो जग्मुः.....
- अध्यायः - १५४. ’बलिनः प्रत्यमित्रस्य नित्यमासन्नवर्तिनः । उपकारापकाराभ्यां समर्थस्योद्यतस्य च’ इत्यादिके युधिष्ठिरप्रश्ने भीष्मो 'यद्यापन्नो राजा दैवेन नानुगृह्यते तर्हि शत्रुमेव शरणी कुर्यात्, यदि तु वाक्शूरत्वात्तेन सह वैरं करोति तदा कृत्स्नं स्वपरिग्रहं स्वयमेव त्यक्त्वा स्वात्ममात्रं रक्षेत्' इत्यर्थबोधिकां पवनशाल्मलिसंवादाख्यायिकामुदघाटयत् । हिमालयस्थं महान्तं शाल्मलिवृक्षं दृष्ट्वा तन्निकट आगत्य नारदस्तं प्रति 'अहो नु रमणीयस्त्वम्' इत्याधुवाच....
- अध्यायः - १५५. ’बन्धुत्वादथवा सख्यात्त्वां पवनो रक्षति' इत्यादिकां नारदोक्तिमाकर्ण्य ’न मे वायुः सखा ब्रह्मन्' इत्याद्युक्तवन्तं शाल्मलिं प्रति नारदः ’शाल्मले विपरीतं ते' इत्याद्युवाच......
- अध्यायः - १५६. ततः नारदो वायुसमीपमागत्य तं प्रति शाल्मलेरहङ्कारं नाशयितुं हिमवत्पृष्ठजः कश्चित् इत्याद्युवाच । एतन्नारदवाक्यं श्रुत्वा क्रुद्धः समीरणः शाल्मलिवृक्षसमीपमागत्य 'यतो नारदसमीपे मां निन्दितवानस्यतस्तथा प्रभावं दर्शयामि यथा त्वं पुनर्नावमन्यथाः' इत्याद्युवाच। वायुवाक्यं श्रुत्वा ’पवन त्वं च मे क्रुद्धः’ इत्याद्युक्तवन्तं शाल्मलिं प्रति 'श्वो दर्शायेष्यामि ते तेजः' इत्याद्यभिदधे पवनः.......
- अध्यायः - १५७. प्रातरागतो वायुः शाखापर्णस्कन्धादिरहितं शाल्मलिं दृष्ट्वा तं प्रति ’अहमप्येवमेव त्वाम्' इत्याद्युवाच । शाल्मलिं दृष्टान्तीकृत्य भीष्मः ’एवं हि राजशार्दूल इत्याद्युपदिदेश युधिष्ठिरं प्रति......
- अध्यायः - १५८. ’पापस्य यदधिष्ठानं यतः पापं प्रवर्तते । एतदिच्छाम्यहं श्रोतुं तत्त्वेन भरतर्षभ’ इति युधिष्ठिरस्य प्रश्ने भीष्मः ’एको लोभो महाग्राहो लोभात्पापं प्रवर्तते’ इत्यादि प्रोवाच.....
- अध्यायः - १५९. 'अज्ञानं श्रोतुमिच्छामि’ इति युधिष्ठिरवाक्ये भीष्मस्तदाचष्ट । अज्ञानप्रवृत्त्यादिविषये युधिष्ठिरप्रश्ने भीष्मस्तदब्रवीत्.....
- अध्यायः - १६०. ’स्वाध्याये कृतयत्नस्य नरस्य च पितामह । धर्मकामस्य धर्मात्मन् किं नु श्रेय इहोच्यते’ इत्यादिके युधिष्ठिरप्रश्ने भीष्मो दमस्य श्रेयस्त्वमभ्यधात्.......
- अध्यायः - १६१. ’भीष्मः सर्वमेतत्तपोमूलम्’ इत्यादिना तपः प्रशशंस........
- अध्यायः - १६२. सत्यस्य स्वरूपादिके युधिष्ठिरेण पृष्टे भीष्मः सत्यस्य लक्षणादिकथनपूर्वकं तत्प्रशशंस........
- अध्यायः - १६३. ’यतः क्रोधादीनां संभवस्तत्कथय इति युधिष्ठिरेण पृष्टो भीष्मः क्रोधादीनां दुर्जयत्वमाख्याय तेषामुत्पत्तिप्रकारं व्याजहार........
- अध्यायः - १६४. 'आनृशंस्यं विजानामि दर्शनेन सतां सदा । नृशंसान्न विजानामि तेषां कर्म च भारत’ इत्यादिना नृशंसधर्मान् पृच्छति युधिष्ठिरे भीष्मस्तान् कथयामास.........
- अध्यायः - १६५. भीष्मः प्रथमं दानयोग्यत्वप्रतिपादनपुरःसरं ब्राह्मणान् प्रशस्य सर्वापन्मूलभूतपापनिवृत्तये प्रायश्चित्तान्यभ्यधात्........
- अध्यायः - १६६. 'धनुःखड्गयोर्मध्ये युद्धे किं श्रेष्ठतरम्' इत्यापृच्छ्य नकुलः स्वाभिमतस्य खड्गस्योत्पत्त्यादिकं प्रपच्छ । एतदुत्तरं वदन् भीष्मः सृष्टिप्रकारमभिधाय ब्रह्मणो यज्ञप्रस्तावे खड्गोत्पत्तिप्रकारं रुद्रादारभ्य नकुलपर्यन्तं तत्प्राप्तिपरम्परां चाख्याय 'असिर्विशसनः’ इत्यादितन्नामानि चोक्त्वा धनुष्योत्पत्तिमाचष्ट.........
- अध्यायः - १६७. इत्युक्त्वा तूष्णींभूते भीष्मे युधिष्ठिरो गृहं गत्वा विदुरसहितान् भ्रातॄन् प्रति कामादीनां मध्ये को गरीयान् कश्च मध्यमः कश्च कनीयानिति पप्रच्छ । युधिष्ठिरवाक्यं श्रुत्वा विदुरो बाहुश्रुत्यं तमस्त्यागः इत्यादिना धर्मस्य प्राधान्यमर्थस्य मध्यमत्वं कामस्य कनीयस्त्वं जगाद । एवमेवार्जुनोऽर्थस्य ज्यायस्त्वमवोचत् । लसहदेवौ धर्मार्थयोर्गरीयस्त्वमवोचतां भीमश्च कामस्य मभ्यधात् । सर्वेषां वचनानि श्रुत्वा युधिष्ठिरो ’यो वै न पापे निरतो न पुण्ये’ इत्यादिना मोक्षाख्यपुरुषार्थस्यैवाभ्यर्हितत्वं व्याजहार, तछ्रुत्वा सर्वे जहृषुः.............
- अध्यायः - १६८. 'कीदृशा मानवाः सौम्याः' इत्यादिके युधिष्ठिरप्रश्ने भीष्मः सन्धेयानसंधेयांश्च पुरुषाल्लक्षणतः कथयति स्म । मित्रद्रोहिणः कृतघ्नस्य वृत्तं जिज्ञासोर्युधिष्ठिरस्य प्रश्नं श्रुत्वा भीष्मो दुर्जनसंबन्धे दोषानभिधातुं गौतमस्येतिहासमाह स्म । दस्युगृहे भिक्षार्थमागतो गौतमनामा ब्राह्मणो दस्युना द्रव्यदानेन स्त्रीसमर्पणेन च सत्कृतस्तद्गृहे निवसंस्तत्समतामवाप । कदाचिङ्गीतमस्य गृहमागतस्य सब्रह्मचारी कश्चिद्राह्मणस्तस्याचारवैपरीत्यं दृष्ट्वा 'किमिदं कुरुषे मोहात्' इत्याद्युवाच । तच्छ्रुत्वा सोऽपि स्ववृत्तभ्रंशप्रकारादिकं कथयामास....
- अध्यायः - १६९. ब्राह्मणोपदेशेन दस्युगृहान्निर्गतो गौतमः समुद्रं गच्छता सार्थेन सह जगाम । मार्गमध्ये मत्तेन द्विरदेन सार्थे निहते गौतम एकाकी भ्रमन् कस्मिंश्चिद्वने न्यग्रोधवृक्षं दृष्ट्वा तम्मूले सुखं सुष्वाप । तस्मिन्वृक्षे निवसन्कश्यपस्य पुत्रो ब्राह्मणः सखा नाडीजङ्घाख्यो राजधर्मापरनामा बकः सूर्यास्तानन्तरं तत्रागत्य ब्राह्मणं दृष्ट्वा तं सभाजयामास.........
- अध्यायः - १७०. ततो राजधर्मा गौतमायात्मवृत्तान्तकथनपूर्वकं सत्कारोपयोग्यासनादिकं ददाति स्म । तत उभयोरुक्तिप्रत्युक्त्यनन्तरमर्थार्थी गौतमो राजधर्मवाक्याद्विरूपाक्षराक्षसनगरसमीपं गतस्तत्प्रेषितैः प्रेष्यैः सह तद्भवनं प्रविवेश.......
- अध्यायः - १७१. सत्कारपूर्वकमासने उपवेशितेन गौतमेन सहोक्तिप्रत्युक्त्यनन्तरं जन्ममात्रेणायं ब्राह्मण इति जानन् विरूपाक्षो राक्षसो 'मम सख्या प्रेषितायास्मै किं देयम्' इत्यादि चिन्तयामास । कार्तिकीमहोत्सवे मिलितेषु ब्राह्मणेषु विरूपाक्षेणानुज्ञातं द्रव्यं स्वस्वशक्त्यनुरोधेन गृहीत्वा गतेषु तमोऽपि स्वभर्तारं गृहीत्वा निर्गतो राजधर्मसमीपं जगाम । तत्रागत्य विश्रान्तो गौतमो "महान्तमेनं स्वर्णभारं गृहीत्वा गन्तव्यं मार्गश्च दूरतरो मार्गमध्ये भक्ष्यं किमपि नास्ति तस्मादेनं महान्तं मांसराशिभूतं राजधर्माणं हत्वैतन्मांसेन प्राणधारणं कार्यम्" इत्यादि चिन्तयामास......
- अध्यायः - १७२. ततो विश्वस्तं राजधर्माणं हत्वा तम्मांसं गृहीत्वा गते गौतमे प्रतिदिनमागच्छन्तं स्वसखायं राजधर्माणमदृष्ट्वा साशङ्को विरूपाक्षस्तच्छोधनार्थं स्वपुत्रं प्रेषयामास । राजाज्ञया निर्गतस्तत्पुत्रो न्यग्रोधमागत्य हतस्य बकस्य कङ्कालं दृष्ट्वा रुदन् गौतमं गृहीत्वा बककङ्कालं चादाय विरूपाक्षसमीपमाजगाम । गौतमं हन्तुमाज्ञप्तो राजपुत्रः खण्डशच्छित्त्वा तन्मांसं मांसादेभ्यो ददौ । ते च कृतघ्नमांसमेतदिति बुद्ध्या तन्न जजक्षु.....
- अध्यायः - १७३. विरुपाक्षे राजधर्मणो दाहादिसंस्कारं कुर्वति चितायां सुरभिमुखाच्च्युतः फेनो राजधर्माणमुदजीवयत् । सुरभ्योज्जीवितो राजधर्मा यावद्विरुपाक्षमागच्छति तावदिन्द्रोऽप्यागत्य तस्य ब्रह्मशापादिवृत्तान्तमाचष्ट । गौतमस्योज्जीवनार्थं राजधर्मणा प्रार्थित इन्द्रस्तं जीवयामास । ततो राजधर्मा तमालिङ्ग्य ब्रह्मणः सदनं ययौ गौतमश्च स्वगृहं, देवाश्चैनं शेषुः । भीष्मो नारदेनैतदाख्यानं मह्यं कथितमित्यभिधाय ’कृतघ्ने नास्ति निष्कृतिः' इत्याद्युक्त्वा ’कृतज्ञेन सर्वदा भाव्यं मित्रद्रोहश्च न कर्तव्यः’ इत्याद्याह स्म । तच्छ्रुत्वा युधिष्ठिरः प्रीतमना बभूव..........
- (३) मोक्षधर्मपर्व
- अध्यायः - १७४. मोक्षधर्मं ज्ञातुं युधिष्ठिरेण पृष्टो भीष्मस्तमुपदिदेश । धनादौ नष्टे पुरुषो यया बुद्ध्या शोकमपनुदेत्तद्ब्रूहीति युधिष्ठिरेणानुयुक्तो भीष्मः सेनजिद्विप्रसंवादरूपमितिहासमाचष्टे स्म । 'का बुद्धिः किं तपो विप्र’ इत्यादि पृच्छन्तं सेनजितं प्रत्युपदिशन् विप्र आशाया दुर्जयत्वमाख्याय तद्विषये पिङ्गलागीता गाथा अकथयत्......
- अध्यायः - १७५. ’अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे किं श्रेयः' इति युधिष्ठिरप्रश्ने तद्विषये पितापुत्रसंवादेतिहासं व्याजहार भीष्मः । पितापुत्रयोः संवादमाख्याय पुत्रोपदेशेन पित्रा यत्कृतं तत् त्वमप्याचरेत्याह युधिष्ठिरं प्रति भीष्मः.....
- अध्यायः - १७६. 'धनिनश्चाधना ये च वर्तयन्ते स्वतन्त्रिणः । सुखदुःखागमस्तेषां कः कथं वा पितामह' इति युधिष्ठिरप्रश्ने शंपाकगीतामाह स्म भीष्मः......
- अध्यायः - १७७. धनतृष्णाभिभूतः किं कुर्वन् सुखी भवेत् इति युधिष्ठिरेण पृष्टो भीष्मः सुखिनं निरूप्य मङ्कीगीतां कथयति स्म.......
- अध्यायः - १७८. मङ्कीगीतोपष्टम्भकत्वेन जनकगीतमाख्याय बोध्यनाहुषसंवादेतिहासं कथयन् बोध्योक्तानां पिङ्गलादीनां षण्णां गुरुणां वृत्तमकथयत् भीष्मः......
- अध्यायः - १७९. वीतशोकः केन वृत्तेन महीं चरेत् इत्यादिके युधिष्ठिरप्रश्ने भीष्मः प्रह्लादाजगरसंवादेतिहासमाचख्यौ । स्वस्थः शक्तो मृदुर्दान्तः इत्यादिके प्रह्लादप्रश्ने आजगरो मुनिः स्वाभाविकप्रवृत्यादिकमाख्यायाजगरव्रतस्वरूपं कथयति स्म । इदमाजगरचरितं योऽनुचरेत्स सुखी भवेदित्याह भीष्मः......
- अध्यायः - १८०. आजगरव्रतरूपां स्वास्थ्यलक्षणां निष्ठां बांधवोपलक्षिता जातिरेव समर्पयति किंवा मणिमन्त्रौषधिसाधनादि कर्म किंवा वित्तसाध्यं यज्ञादि उत प्रज्ञैवेति युधिष्ठिरप्रश्ने भीष्मः 'प्रज्ञैव समर्पयति' इत्युक्त्वा तद्विषये इन्द्रकाश्यपसंवादरूपमितिहासं व्याजहार । मत्तेन वैश्येन पातितः काश्यपो धनहीनत्वान्मर्तुं यदा प्रवृत्ते तदा शृगालरूपेणेन्द्र आगत्य 'मनुष्ययौनिमिच्छन्ति' इत्यादिना ब्राह्मणत्वलाभेऽप्यसंतोषमभिधाय 'न तृप्तिः प्रियलाभेऽस्ति’ इत्यादिना जीवानां दुःखहेतुमाशाप्रशमनाभावाद्याह। एतच्छ्रुत्वा विगतशोको ब्राह्मणः प्रत्यक्षमिन्द्रं दृष्ट्वा तं संपूज्य स्वमालयं जगाम...
- अध्यायः - १८१. 'यद्यस्ति दत्तमिष्टं वा’ इत्यादिके युधिष्ठिरप्रश्ने भीष्म 'आत्मनानर्थयुक्तेन’ इत्यादिनोपदिदेश.....
- अध्यायः - १८२. 'कुतः सृष्टमिदं विश्वम्' इत्यादिप्रश्ने तद्विषये भृगुभरद्वाजसंवादरूपमितिहासं व्याहृतवान् । सृष्टिविषये प्रश्नं कुर्वन्तं भरद्वाजं प्रति भृगुर्मानसस्याव्यक्तस्य महत्तत्त्वादिसृष्टिकर्तृत्वमाख्यातवान् । गगनादिपरिमाणजिज्ञासुं भरद्वाजं प्रति भृगुर्गगनादीनामपरिमेयत्वमाह । ’यदि ब्रह्मा पुष्करात्संभूतस्तर्हि पुष्करं ज्येष्ठं भवेत्, भवांस्तु ब्रह्माणं पूर्वजमाह, कथमेतत्' इति पृच्छन्तं भरद्वाजं प्रति भृगुर्ब्रह्मण एव ज्येष्ठत्वमभिधाय तस्य पुष्करे प्रादुर्भूतत्वात्तत्संभूतत्वमित्याह स्म.......
- अध्यायः - १८३. सृष्टिविषये भृगुभरद्वाजयोः संवादः......
- अध्यायः - १८४. 'ब्रह्मणा सहस्रशो भूतानां सर्जनात्कथं पञ्चानामेव भूतत्वम्’ इति भरद्वाजप्रश्ने भृगुः सर्वभूतव्यापनादेतेषामेव महाभूतत्वमित्याद्याह । ’स्थावरजङ्गमा यदि पञ्चभूतयुक्तास्तर्हि स्थावराणां कथं पाञ्चभौतिकत्वम्’ इत्यनुयुञ्जानं भरद्वाजं प्रत्युत्तरं वदन् भृगुः स्थावरेषु तत्सत्तां प्रकाश्य दृष्टान्तत्वेन जङ्गमेष्वपि तत्सत्तामाख्याय पृथिव्यादीनां गुणविभागादिकमपि स्फुटयति स्म......
- अध्यायः - १८५. शारीरयोरग्निवाय्वोर्गतिं ज्ञातुं भरद्वाजेन पृष्टो भृगुः 'वायोर्गतिमहं ब्रह्मन्’ इत्यादिना तां कथयति स्म......
- अध्यायः - १८६. यदि प्राणयते वायुस्तदा जीवो निरर्थकः' इत्यारभ्याध्यायसमाप्तिपर्यन्तं भरद्वाजप्रश्नः.....
- अध्यायः - १८७. 'न प्रणाशोऽस्ति जीवस्य' इत्यादिना तदुत्तरं वदन्भृगुः 'यद्यग्निमारुतौ भूमिः' इत्यादिना जीवस्वरूपजिज्ञासया भरद्वाजेन पृष्टस्तत्कथयति स्म.......
- अध्यायः - १८८. ब्राह्मणादिवर्णभेदेन सृष्ट्यादिकमभिधाय ब्राह्मणादीनां सितादीन्वर्णानभिदधद्भृगुः । ’चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभिद्यते’ इत्यादिना भरद्वाजेनाक्षिप्तस्तद्विभागे कारणादिकमभ्यधात्.....
- अध्यायः - १८९. 'ब्राह्मणः केन भवति' इत्यादिके भरद्वाजप्रश्ने भृगुर्ब्राह्मणस्य लक्षणाद्याचष्टे.....
- अध्यायः - १९०. भृगुः सत्यस्य ब्रह्मादिरूपत्वमनृतस्य तमोरूपत्वं प्रतिपाद्योभयोर्धर्माधर्मरूपत्वं सुखदुःखरूपत्वं चाभिधायैतदेव ’यदेतद्भवताभिहितम्' इत्यादि भरद्वाजप्रश्नद्वारा दृढीचकार......
- अध्यायः - १९१. 'दानस्य किं फलं प्राहुः’ इत्यादौ भरद्वाजप्रश्ने भृगुर्व्युत्क्रमेण होमादीनां फलं प्रत्यपादयत्। भृगुभरद्वाजयोराश्रमविषये प्रश्नोत्तरे.......
- अध्यायः - १९२. वानप्रस्थवृत्तान्तं परिव्राजकाचारं चाख्याय परलोकजिज्ञासोर्भरद्वाजस्य प्रश्नमुत्तरयन्भृगुस्तेन तदक्रियत.......
- अध्यायः - १९३. आचारविधिजिज्ञासयानुयुञ्जानं युधिष्ठिरं प्रति भीष्म आचारं प्रतिपादयति स्म......
- अध्यायः - १९४. 'अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते । यदध्यात्मं यथा चैतत्तन्मे ब्रूहि पितामह' इत्यादिनाध्यात्मविषयके युधिष्ठिरानुयोगे भीष्मस्तन्निरूप्य सत्त्वादीनां गुणानां लक्षणानि व्याकरोत्......
- अध्यायः - १९५. भीष्मेण चतुर्विधध्यानयोगकथनम् ......
- अध्यायः - १९६. 'जापकानां फलावाप्तिं श्रोतुमिच्छामि भारत' इत्यादिना जापकानां फलावाप्तिविषयके युधिष्ठिरप्रश्ने तदुत्तरं कथयन्भीष्मो यमब्राह्मणसंवादेतिहासं व्याजहार......
- अध्यायः - १९७. जापकानां ब्रह्मलोकप्राप्त्यादिरूपगत्यपेक्षयाऽन्या गतिरस्ति न वेति युधिष्ठिरानुयुक्तो भीष्मस्तेषां गतिविशेषमाचष्टे स्म.....
- अध्यायः - १९८. जापकः कीदृशं निरयं यातीति युधिष्ठिरप्रश्ने भीष्मो जापकस्य निरयान्निरूपयति स्म.....
- अध्यायः - १९९. कालमृत्युयमानामिक्ष्वाकोर्ब्राह्मणस्य च यद्वृतं तत्कथयेति युधिष्ठिरेण पृष्टो भीष्मस्तेषां संवादरूपमितिहासं जगाद । पैप्पलादिः कौशिकनामा जापकः सन्तुष्टां सावित्रीं प्रति 'जप्ये मे रमतां मनः' इत्यूचे । सावित्री तच्छ्रुत्वा ब्राह्मणं प्रति सर्वं तत्ते भविष्यति इत्युक्त्वा कालमृत्युयमानां त्वया संवादो भविष्यति इति चाभिधाय जगाम । ततो जापके दिव्यं वर्षशतं जपति तत्रागतस्य प्रसन्नस्य धर्मस्य संवादे प्रचलति सत्यागतानां कालमृत्युयमानां जापकस्य चोक्तिप्रत्युक्ती । तस्मिन्स्थाने आगतमिक्ष्वाकुं प्रति सत्कारपूर्वकं ’किं करोमि’ इत्युवाच ब्राह्मणः । इक्ष्वाकुराजब्राह्मणयोर्विवदतोः सतोस्तौ प्रति 'युवयोरविवादोऽस्तु' इत्याद्युवाच धर्मः । साक्षादागतः स्वर्ग उभौ प्रत्यविषादोऽस्तु युवयोरुभौ तुल्यफलौ युवाम् इत्युवाच । स्वर्गं प्रत्याख्याय 'यदीच्छा तर्हि ब्राह्मणो मे फलं गृह्णातु' इत्युक्तवत इक्ष्वाकोर्ब्राह्मणस्य चोक्तिप्रत्युक्ती । एतदन्तरे विवदमानौ विकृतविरूपाख्यौ द्वौ पुरुषावागत्य राजानं प्रति स्वस्ववृत्तं निवेदयामासतुः । विरूप किं धारयसे इत्यादिना राज्ञा पृष्टेन विरूपेण विवादवृत्तान्ते कथिते इक्ष्वाकुविकृताविरूपाणां परस्परमुक्तिप्रत्युक्तयः तद्विवादं श्रुतवतो ब्राह्मणस्येक्ष्वाकोश्चोक्तिप्रत्युक्ती । विरूपः कामक्रोधौ विद्धि नौ त्यम् इत्याद्युक्त्वा 'गच्छ, लोकान् जितान् स्वेन कर्मणा यत्र वाञ्छसि' इत्युवाच राजानं प्रति । भीष्मो जापकानां गत्यादिकमाख्यायोपसंजहार......
- अध्यायः - २००. 'इक्ष्वाकुराजब्राह्मणौ किं चक्रतुः' इति युधिष्ठिरप्रश्ने उत्तरमकथयद्भीष्मः । राजब्राह्मणयोरुक्तिप्रत्युक्तिद्वारा सहैवोभयोर्गमनं निश्चिन्वतोस्तत्रागतेषु ब्रह्मादिषु तत्समक्षं योगधारणया प्राणांस्त्यजतोस्तयोः शरीरान्निर्गते तेजसि ब्रह्माणं प्रति प्रविष्टे सर्वे देवा ब्रह्मणो वाक्यं श्रुत्वा स्वं स्वं स्थानं जग्मुः.....
- अध्यायः - २०१. 'किं फलं ज्ञानयोगस्य' इत्यादिके युधिष्ठिरप्रश्ने तदुत्तरं कथयन्भीष्मो मनुबृहस्पतिसंवादरूपमितिहासमाह स्म । ’यत्कारणं यत्र विधिः प्रवृत्तः' इत्यादिकेषु बृहस्पतिप्रश्नेषु मनुः कर्मविध्यादिप्रवृत्तिकारणान्याख्यायान्तेऽक्षरस्वरूपमभ्यधात्......
- अध्यायः - २०२. अक्षरात्स्वमित्यादिना सृष्टिक्रमम्, एतैः शरीरैरित्यादिना संहारक्रमं, नोष्णमित्यादिनाऽक्षरस्वरूपकथनं न चक्षुषेत्यादिना तस्यासत्त्वं च प्रतिपाद्य यथा समीप इत्यादिना धीतादात्म्यभ्रान्त्या संसारप्रतीत्यादिकमाह स्म मनुः......
- अध्यायः - २०३. यदिन्द्रियैरित्यादिना बुद्धिप्रकाशकत्वेन चेतनस्य तस्य तदन्यत्वं न चक्षुषेत्यादिनेन्द्रियागोचरत्वं च प्रतिपाद्यादृष्टस्यापि तस्यानुमानेन ज्ञेयत्वं दृष्टान्तपुरस्सरमाह स्म मनुः........
- अध्यायः - २०४. यथा व्यक्तमित्यादिना देहसम्बन्धनिवृत्त्युपायं वदन्निन्द्रियमन आदीनां लयमभिधातुमिन्द्रियेभ्य इत्यादिना तेषां कार्यकारणभावमाख्याय विषया विनिवर्तन्ते इत्यादिना प्रवृत्तिनिवृत्तिधर्मावभ्यधान्मनुः....
- अध्यायः - २०५. शारीरे मानसे च दुःखे प्राप्ते तन्निवृत्त्युपायतया तदनुचिन्तनाभावरूपं वैराग्यं साधनत्वेनाभिधाय ज्ञानं ज्ञेयमित्यादिना सुखप्राप्त्युपायभूतं ब्रह्मात्मज्ञानमाह........
- अध्यायः - २०६. शब्दादिविषयैः सहितानि पञ्चेन्द्रियाणि मनसा सह यदा निगृहीतानि भवन्ति तदा सर्वत्र ब्रह्मव्याप्तिं पश्यतीत्याद्यभिधायाध्यायान्तेऽनागतमित्यनेन प्रकरणार्थमुपसञ्जहार मनुः ........
- अध्यायः - २०७. 'पितामह महाप्राज्ञ पुण्डरीकाक्षमच्युतम् । कर्तारमकृतं विष्णुं भूतानां प्रभवाप्ययम् ।' इत्यादिना नारायणं तत्त्वेन श्रोतुमिच्छामि इति युधिष्ठिरप्रश्ने तत्कथनं प्रतिजज्ञे भीष्मः । उदके शयानस्य विष्णोर्नाभिपद्मे ब्रह्मण उत्पत्त्यनन्तरमुत्पन्नस्य मधोर्महासुरस्य नाशनाद्भगवान् मधुसूदन इत्यभिहितो देवादिभिः । ब्रह्मणः सकाशान्मरीच्यादीनां सप्तानां जन्मप्रकारमदित्यां देवादीनां जन्म, श्रीकृष्णस्य मुखादितो ब्राह्मणादीनां सृष्ट्यादि च समवर्णयद्भीष्मः ।........
- अध्यायः - २०८. 'के प्रजानां पतयः पूर्वमासन्' इति युधिष्ठिरप्रश्ने ब्रह्मणो मरीच्यादीन्पुत्रान् दक्षादीनां तथा देवानां नामानि च निरूप्य देवेषु ब्राह्मणादींश्चतुरो वर्णान्प्रदर्श्य प्राच्यादिचतुर्दिक्षु पृथक् पृथक् अवस्थितान् सप्तर्षींश्च नामतो व्याचख्यौ भीष्मः.........
- अध्यायः - २०९. पुनः कार्त्स्येन ’कृष्णं श्रोतुमिच्छामि’ इति युधिष्ठिरप्रश्ने कश्यपकथितां श्रीकृष्णकथां व्याजहार भीष्मः। पुरा दानवपीडितेषु देवेषु ब्रह्माणं प्रति गतेषु 'वराहरूपेण भगवानन्तर्भूमिगतान्दानवान्हनिष्यति’ इति ब्रह्मवाक्यं श्रुतवत्सु तत्कालाविर्भूतो वराहरूपधारी भगवानन्तर्भूमिगतो दैत्यदानवान् क्षोभयन् महान्तं नादं चकार वराहनादं श्रुत्वा मुग्धैर्देवैः ’कोऽसौ हि कस्य वा नादः इति पृष्टो ब्रह्मा 'दानवपतीन्निहत्य भगवता वराहेण मुक्तोऽयं नादः इति न कार्या भीर्भवद्भिः' इत्याद्युवाच पितामहः.....
- अध्यायः - २१०. मोक्षयोगशुश्रूषोर्युधिष्ठिरस्यानुयोगे भीष्मो गुरुशिष्यसंवादरूपेतिहासकथनद्वारा तमुपदिदेश । गुरुं प्रति शिष्यस्य 'कुतश्चाहं कुतश्च त्वम्' इत्यादिकेऽनुयोगे गुरुर्ब्रह्मवार्ष्णेयाख्येतिहासकथनमुखेनोपदिदेश । ’युगान्तेऽन्तर्हितान्वेदान्’ इत्यादिना अन्तर्हितानां वेदानां लाभादिकं, विज्ञेयं व्यापकं चित्तमित्यादिकम्, अग्निर्दारुगतो यद्वदित्यादिकं, कर्मणा बाध्यते रूपं इत्यादिकं चोपदिदेश गुरुः.....
- अध्यायः - २११. 'चतुर्विधानि भूतानि' इत्यादिना जीवस्य प्राग्वासनावशात्कर्मणि प्रवृत्तिमभिधाय 'येनैतद्वर्तते चक्रम्’ इत्यादिना वासनावशात्कर्म, कर्मवशाच्च वासना इत्यादिकं चक्रं प्रतिपाद्य तादात्म्याभ्यासात् शुद्धस्वरूपं न जानीयात् इत्याद्याह स्म भीष्मः.......
- अध्यायः - २१२. पुनर्भीष्मो निवृत्तिरूपं मोक्षमार्गं बुद्धिमन्त इच्छन्तीति ’प्रवृत्तिलक्षणो धर्मः’ इत्यादिनाऽभिधाय 'नाशुद्धमाचरेत्' इत्यादिना चित्तशुद्ध्यर्थं निष्कामकर्माचरणं चोक्त्वा ’पञ्चभूतात्मके देहे' इत्यादिना देहस्य मृद्विकारत्वं चाख्यायाहङ्कारत्यागमुपदिश्य गुणत्रयमूलकान्दोषांश्चिन्तयेदित्याह स्म । 'के दोषा मनसा त्यक्ताः' इत्यादिना संशयं निरसितुं युधिष्ठिरेणानुयुक्तो भीष्मस्तदुत्तरं वदन्' दोषैर्मूलादवच्छिनैः’ इत्यादिना दोषाणां समूलं नाशनमाख्याय ’रजसाऽधर्मयुक्तानि’ इत्यादिना श्लोकत्रयेण त्याज्यत्वेन राजसतामसकर्माण्युक्त्वा ग्राह्यत्वेन सात्त्विकान्याह स्म कर्माणि.........
- अध्यायः - २१३. पूर्वाध्यायान्तिमश्लोकत्रयं विवृण्वन् भीष्मः क्रोधादिपरित्यागाच्छुचित्वं तत्फलं चाभिधाय मायामोहितानां क्रोधाद्युद्भवप्रणालिकया गर्भवासादि दुःखं निरूप्य तन्निरासार्थमिन्द्रिनिग्रहाद्याह स्म.....
- अध्यायः - २१४. इन्द्रियनिग्रहविषये कथयन् भीष्मः ’सर्वेषामेव भूतानाम्’ इत्यादिना ज्ञानहीनापेक्षया ज्ञानिनोऽधिकत्वमभिधाय 'तांस्तानुपासते धर्मान्' इत्यादिना धर्मज्ञानां शुभगुणज्ञापकत्वमभ्यधात् । ब्रह्मचर्यस्य दुष्करत्वमाख्याय ’संप्रदीप्तमुदीर्णं च निगृह्णीयाद्द्विजो रजः’ इत्याद्युपदिश्य ’त्रिबीजमिन्द्रदैवत्यं तस्मादिन्द्रियमुच्यते’ इतीन्द्रियलक्षणं निरूप्य ’भविता मनसो ज्ञानम्’ इत्याद्युपदिदेश.....
- अध्यायः - २१५. वशीकृतेन्द्रियाणां परपदप्राप्त्याद्यभिधाय पापनाशकं शुभं कर्म कुर्यादित्याह स्म भीष्मः । 'अहिंसा सत्यवचनं’ इत्यादिनाऽहिंसादिविशिष्टस्य सुखित्वं 'सत्यां वाचम्' इत्यादिना सत्यादिगुणविशिष्टां वाचं वदेदिति चाभिधाय ’रजोभूतैर्हि करणैः' इत्यादिना राजसतामसकर्मवर्जनमुपदिश्य ’निःसंदिग्धमनीहो वै' इत्यादिना ब्रह्मप्राप्त्युपायमाह स्म.........
- अध्यायः - २१६. ब्रह्मचर्यं चरतो निद्रावर्जनं, निद्रायां दोषांश्चाख्यायैतत्प्रसङ्गेन जाग्रदाद्यवस्थात्रयं चाभिधाय सर्वेषां मनोगतत्वमुपदिश्य देवासुरेभ्यः प्रजापतिना गोपितं ब्रह्मेन्द्रियनिग्रहेण वेदितुं शक्यमित्याह स्म भीष्मः........
- अध्यायः - २१७. पुनर्भीष्मः प्रधानपुरुषजीवेश्वररूपं चतुष्टयं न वेद स परं ब्रह्म न वेदेत्युक्त्वा प्रवृत्तिनिवृत्तिलक्षणौ धर्मौ चाख्याय 'अनाद्यन्तावुभावेतौ' इत्यादिना पुंप्रकृत्योर्जीवेश्वरयोश्च साधर्म्यवैधर्म्ये निरूप्य 'श्रियं दिव्याम्' इत्यादिना शारीरमानसे तपसी कर्तव्यत्वेनाह । 'अन्तकाले' इत्यादिना साधनान्तराण्यभिधाय तैः परपदप्राप्तिं चाख्याय ’तृष्णाबद्धम्' इत्यादिना तृष्णात्यागं चाभिदधाति स्म .......
- अध्यायः - २१८. 'केन वृत्तेन वृत्तज्ञ’ इत्यादिना जनकः कथं मोक्षमवापेति युधिष्ठिरानुयुक्तो भीष्मो जनकस्येतिहासमाह स्म । भीष्मो मिथिलायां पञ्चशिखस्य मुनेरागमनं तस्य पञ्चशिख इति कापिलेय इति च संज्ञाद्वयप्राप्तिकारणं चाभिधाय ’एतन्मे भगवानाह' (श्लो० १६) इत्याद्युवाच । पञ्चशिखं दृष्ट्वा गुरुशतं विहायानुसरन्तं जनकं प्रति स 'जातिनिर्वेदम्’ (श्लो० २१) इत्यादिना जन्मादिनिर्वेदमाख्याय कर्मादिप्रवृत्तिकारणं मोहं विवरीतुं ’दृश्यमाने विनाशे च' (श्लो०२३) इत्यादिना लोकायतमतमुपन्यासपूर्वकं निरस्य तथैव सौगतमतं तार्किकमतं च निरस्यार्थलिप्सूनां दुःखं तदनिच्छूनां सुखं चाचख्यौ.......
- अध्यायः - २१९. 'भगवन्यदि न प्रेत्य' (श्लो० २) इत्यादिना प्रेत्य संज्ञाभावे सति ज्ञानाज्ञानकृतो न कश्चिद्विशेषः इत्याद्याक्षेपान् कुर्वन्तं जनकं प्रत्युपदिशन् पञ्चशिखो 'धातवः पञ्चभूतेषु' (श्लो० ७) इत्यादिना शरीरादीनामनात्मत्वं बोधयितुं तत्प्रकृतीराह स्म । एतेषामात्मन्यारोपमुक्त्वा ’अनात्मेति च यद् दृष्टम्' (श्लो०१५) इत्यादिनाऽपवादं चाभिधाय ’अत्र सम्यग्वधो नाम’ (श्लो० १६) इत्यादिना त्यागप्रधानं सांख्यशास्त्रमुपदिश्य जनककृतानाक्षेपान्निरस्य ’इमां च यो वेद' (श्लो० ४४) इत्यादिना विद्याफलं प्रतिपादयति स्म.......
- अध्यायः - २२०. 'किं कुर्वन्सुखमाप्नोति' (श्लो० १) इत्यादिके युधिष्ठिरप्रश्ने भीष्मो दमं प्रशस्य ’तेषां लिङ्गानि वक्ष्यामि’ (श्लो० १) इत्यादिना दमवतां लक्षणान्यभिधाय फलतो दमं कुर्वन्सुखी भवत्यकुर्वंश्च दुःखीत्याह स्म......
- अध्यायः - २२१. 'द्विजातयो व्रतोपेताः’ (१) इत्यादिना वैदिकं तान्त्रिकं च विधिमाश्रित्य त्रैवर्णिका हविर्भुञ्जते तद्युक्तमयुक्तं वेति युधिष्ठिरप्रश्ने भीष्मः 'अवेदोक्तवतोपेता’ (२) इत्याद्युत्तरमाह । 'यदिदं तपः (३) इत्यादिना उपवासात्मकमेव तप उतान्यदपीति पुनर्युधिष्ठिरेणानुयुक्तो भीष्मो मासपक्षोपवासेनेत्याद्युत्तरमाह । 'कथं सदोपवासी स्यात्' (९) इत्यादिषु चतुर्षु युधिष्ठिरप्रश्नेषु ’अन्तरा प्रातराशं च' (१०) इत्यादिना क्रमेणोत्तराण्याह भीष्मः.......
- अध्यायः - २२२. 'यदिदं कर्म लोकेऽस्मिन्’ (१) इत्यादिना शुभाशुभकर्मणां पुरुषः कर्तास्ति न वेति पृच्छन्तं युधिष्ठिरं प्रत्येतद्विषये इन्द्रप्रह्लादसंवादरूपमितिहासं व्याजहार भीष्मः । 'यैः कश्चित्संमतो लोके' (९) इत्यादिके इन्द्रप्रश्ने प्रह्लादः 'प्रवृत्तिं निवृत्तिं च ' (१४) इत्यादिना स्वस्य कर्तृत्वं सोपपत्तिकं निरस्य शुभाशुभकर्मणां स्वभावादेव प्राप्तिमुक्त्वा सर्वस्यानित्यतां जानन्नहं न शोचामीत्याह । 'येनैषा लभ्यते प्रज्ञा' (३३) इत्यादिनैतादृशप्रज्ञालाभोपायं पृच्छन्तमिन्द्रं प्रति प्रह्लादः 'आर्जवेनाप्रमादेन' (३४) इत्यादिना तं कथयति स्म...........
- अध्यायः - २२३. 'यया द्धया महीपालः (१) इत्यादिना भ्रष्टश्रीर्नृपः पृथ्व्यां कथं चरेदित्यनुयुञ्जानं युधिष्ठिरं प्रति भीष्म एतद्विषये इन्द्रबलिसंवादरूपमितिहासमब्रवीत् । सर्वान्सुराञ्जित्वेन्द्रो बलिमपश्यन् ब्रह्माणं प्रति गत्वा ’बलिं नाधिगच्छामि तं कथय’ इति पप्रच्छ, तच्छ्रुत्वा ब्रह्मा 'उष्ट्रेषु यदि वा गोषु' (९) इत्यादिना तेजस्विपशुरूपेण शून्यागारे तिष्ठतीत्याह । शून्यागार उपलब्धं तमहं हन्यां न वेति पृच्छन्निन्द्रो 'मा स्म शक्र बलिं हिंसीः ..... न्यायस्तु शक्रप्रष्टव्यः’ (११) इति ब्रह्मवाक्यं श्रुत्वा तं गवेषयन् शून्यागारे खररूपेण स्थितं ददर्श । 'खरयोनिमनुप्राप्तः’ (१४) इत्यादीन् प्रश्नान्कुर्वन्तमिन्द्रं प्रति बलिः 'न त्वं पश्यसि भृङ्गारम्’ (२६) इत्याद्युवाच ......
- अध्यायः - २२४. पुनर्हासपूर्वकमिन्द्रस्य ’यत्तद्यानसहस्रेण’ (२) इत्याद्युक्तिं श्रुत्वा बलिः 'अनित्यमुपलक्ष्येह' (५) इत्यादिना सर्वस्यान्तवत्त्वादनित्यत्वं बुद्ध्वा न शोचामीत्युक्त्वा 'सर्वं कालः समादत्ते' (१९) इत्यादिना सर्वस्य कालकृतत्वं 'मासमासार्धवेश्मानम्’ (४६) इत्यादिना कालस्वरूपं चाख्याय तस्यानिर्वर्त्यत्वकथनपूर्वकं श्रियश्चाञ्चल्यमभ्यधात्.....
- अध्यायः - २२५. बलिदेहनिर्गतां श्रियं दृष्ट्वा बलिवाक्यात्तां प्रति का त्वमिति पृच्छन्तमिन्द्रं प्रति श्रीः स्वनामाद्याख्यानपूर्वकं स्वस्प दुर्ज्ञेयत्वमाचख्यौ । उभयोरुक्तिप्रत्युक्त्यनन्तरं ’तिष्ठेथा मयि नित्यं त्वम्' (१८) इत्यादि प्रार्थयन्निन्द्रः ’स्थास्यामि नित्यं देवेन्द्र' (१९) इत्यादि श्रीवाक्यं श्रुत्वेन्द्रः स्वकथितेषु पृथ्वीजलाग्निसाधुषु चतुर्षु निहितपदां श्रियं रक्षितुं प्रतिजज्ञे । ततो बलिना 'यावत्पुरस्तात्प्रतपेत्' (३०) इत्यादिना स्वपराक्रमकाले कथिते इन्द्रेण ब्रह्माज्ञया त्वयि वज्रं न मुञ्चामीत्युक्तो बलिर्दक्षिणां दिशं जगाम । इन्द्रश्चोदीचीं गतः स्वमारुरोह......
- अध्यायः - २२६. भीष्मोऽनहंकारत्वविषये इन्द्रनमुचिसंवादाख्यमितिहासं कथयामास.....
- अध्यायः - २२७. 'मग्नस्य व्यसने कृच्छ्रे' (१) इत्यादि पृच्छन्तं युधिष्ठिरं प्रति भीष्म उत्तरं वदन् ’धृतिः श्रेयस्करी नृप' (३) इत्याद्युक्त्वैतद्विषये पुनर्बलिवासवसंवादेतिहासमाह स्म । विजयीन्द्र ऐरावतारूढः सञ्चरन् समुद्रान्ते गिरिगह्वरे बलिमविकारं निर्भयं च दृष्ट्वा तं प्रति 'दैत्य न व्यथसे शौर्यात्’ (१४) इत्यादि पप्रच्छ । बलिरुत्तरं वदन् 'नैतदस्मत्कृतं शक्र' (२६) इत्याद्युक्त्वा ’कालः काले नयति माम्' (२९) इत्यादिना सर्वस्य कालकृतत्वमभिधाय 'न च कालेन कालज्ञः’ (८६) इत्यादिनाऽऽत्मनः शोकाभावं प्रतिपादयामास .......
- अध्यायः - २२८. 'पूर्वरूपाणि मे राजन् पुरुषस्य भविष्यतः । पराभविष्यतश्चैव तन्मे ब्रूहि पितामह' (१) इति युधिष्ठिरेणानुयुक्तो भीष्मो मन एव मनुष्यस्य (२) इत्याद्यभिधाय श्रीशत्रुसंवादरूपमिति हासमाचख्यौ । कदाचिदिन्द्रनारदयोर्गङ्गातीरे वार्ताः कुर्वतोः सूर्यमुपतिष्ठमानयोः सतोरग्रत उपस्थितां श्रियं दृष्ट्वेन्द्रस्तां प्रति का त्वमित्यादि पप्रच्छ । श्रिया “पुण्येषु त्रिषु लोकेषु” (२०) इत्यादिना स्ववृत्तान्तमाख्याय "त्वयि वासमरोचयम्” (२७) इत्युक्तः शक्रस्तां प्रति "कथं वृत्तेषु दैत्येषु" (२८) इत्यादि पप्रच्छ । एवमिन्द्रेण पृष्टा श्रीः "स्वधर्ममनुतिष्ठत्सु” (२९) इत्यादिना स्वनिवासयोग्यान् गुणान् "ततःकालविपर्यासे” (५०) इत्यादिना स्वनिवासयोग्यान् दोषांश्चाभिधाय "नाहं देवेन्द्र वत्स्यामि” (८१) इत्याद्याचष्टे स्म............
- अध्यायः - २२९. "किंशीलः किंसमाचारः" (१) इत्यादिके युधिष्ठिरप्रश्ने भीष्मो जैगीषव्यासितदेवलसंवादकथनमुखेनोत्तरमाहस्म..........
- अध्यायः - २३०. “प्रियः सर्वस्य लोकस्य" (१) इत्यादिना सर्वस्य प्रियः, सर्वलोकाभिनंदिता, सर्वगुणैरुपेतो भुवि, कोऽस्तीति पृच्छन्तं युधिष्ठिरं प्रत्युत्तरं वदन् भीष्मो नारदोद्देशेनोग्रसेनवासुदेवसंवादरूपमितिहासं व्याचख्यौ........
- अध्यायः - २३१. “आद्यन्तं सर्वभूतानां ज्ञातुमिच्छामि कौरव” (१) इति पृच्छति युधिष्ठिरे भीष्मो व्यासशुकसंवादेतिहासं न्यरूपयत् । “भूतग्रामस्य कर्तारं” (९) इत्यादिके शुकप्रश्ने व्यासः “अनाद्यन्तमजं दिव्यं” (११) इत्यादिना प्रश्नद्धयोत्तरमभ्यधात् ।......
- अध्यायः - २३२. पुनः शुकं प्रत्युपदिशन् व्यासो “ब्रह्मतेजोमयं शुक्रं" (१) इत्यादिना ब्रह्मतो मनो मनस्त आकाश इत्यादिक्रमेण वेदपर्यन्तां सृष्टिमभिधाय “ऋषयस्तपसा वेदान्” (२५) इत्यादिना ऋषीणां वेदप्राप्त्यादिकमभ्यधात् ।........
- अध्यायः - २३३. व्यासः “प्रत्याहारं तु वक्ष्यामि" (१) इत्यादिनाध्यायसमाप्तिपर्यन्तेन ग्रन्थेन क्रमप्राप्तं प्रलयं न्यरूपयत् ।.......
- अध्यायः - २३४. “ब्राह्मणस्य तु यत्कृत्यं तत्ते वक्ष्यामि तच्छ्रुणु” इत्युक्त्वा व्यासो ब्राह्मणस्य कृत्यान्यभिधाय" “देवर्षिपितृगुर्वर्थं” (१३) इत्यादिना दानस्यावश्यकत्वं निरूप्य रन्तिदेवादिदृष्टान्तविवरणेन तदेव द्रढयति स्म.....
- अध्यायः - २३५. "त्रयीं विद्यामवेक्षेत" (१) इत्यादिना ब्राह्मणस्यावश्यकर्तव्यमुपदिश्य ज्ञानपूर्वकमुत्तमकर्माणि कुर्वतः सिद्धिं चाभिधाय "पञ्चेन्द्रियजलां घोरां" (११) इत्यादिना रूपकेण संसारनदीं प्रदर्श्य तत्तरणाय प्रज्ञाप्लवमभिधाय तत्सम्पादनाय साधनान्यभ्यधाद्व्यासः ।.......
- अध्यायः - २३६. “अथ चेद्रोचयेदेतत्” (१) इत्यादिना मोक्षकामो ज्ञानवान् भवेदित्यभिधाय देशकर्मादिद्वादशनियमनपूर्वकं "यच्छेद्वाङ्मनसी (४) इत्यादिना मनोवाङ्नियमनं चोक्त्वा "धर्मोपस्थो ह्वीनिषेवः (९) इत्यादिना रथरूपकेण योगमुपायमुपदिशन् बाह्यानि तदङ्गान्याचख्यौ । ततः पृथिव्यादीनां जयमभिधाय “पञ्चविंशतितत्वानि” (२९) इत्यादिना तद्विषये योगसाङ्ख्ययोर्विशेषं व्याचख्यौ ।......
- अध्यायः - २३७. “अथ ज्ञानप्लवं धीरः" (१) इत्यादि वदन्तं व्यासं प्रति शुकः “किं तज्ज्ञानमथो विद्या” (२) इत्यादि पप्रच्छ । संशयकारणभूतानि शून्यवादिप्रभृतीनां मतान्युपन्यासपूर्वकं यस्त्वित्यादिना निरस्य “स्थावरेभ्यो विशिष्टानि” (१२) इत्यादिना विदुषो ब्रह्मनिष्ठस्य श्रैष्ठ्यमाह व्यासः.........
- अध्यायः - २३८. "एषा पूर्वतरा वृत्तिः” (१) इत्यादिना ब्राह्मणस्य नित्यां वृत्तिमभिधाय “पौरुषं कारणं केचित्" (४) इत्यादिना मतान्तराण्युपन्यासपूर्वकं निरस्य ज्ञानस्वरूपं निर्णीतवान् व्यासः......
- अध्यायः - २३९. एवं व्यासोक्तं प्रशस्य शुकः "प्रज्ञावान् श्रोत्रियो यज्वा" (२) इत्यादिना ब्रह्मप्राप्तिः कथं भवति, केन प्रकारेण भवति, सांख्ये वा योगे वा, इति पप्रच्छ । अत्रोत्तरं वदन् व्यासो "नान्यत्र विद्यातपसोः" (५) इत्याद्यभिधाय "क्रान्ते विष्णुर्बले” (८) इत्यादिनाध्यायसमाप्तिपर्यन्तेन ग्रन्थेन सांख्यस्यैव सिद्धान्तत्वं प्रतिपादयति स्म......
- अध्यायः - २४०. योगकृत्यं कथयितुं प्रतिजानन् व्यासो योगकारिणां कामादित्यागं, सत्त्वगुणाश्रयेण निद्रोच्छेदनं दोषजयादिकं, मनसि पञ्चेन्द्रियाणां स्थापनं, मनसः स्थिरीकरणं चाह स्म......
- अध्यायः - २४१. "यदिदं वेदवचनं कुरु कर्म त्यजेति च । कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा" (१) इति शुकेन पृष्टो व्यास “कर्मणा बध्यते जन्तुः" (७) इत्यादिना कर्मणा बन्धं विद्यया तन्मोचनं चाभिधायोभयप्राप्ये गती अभिदधाति स्म.......
- अध्यायः - २४२. पुनरुक्तानुवादपूर्वकं “वेदे वचनमुक्तं तु" (३) इत्यनेन कर्मकरणतत्त्यागयोर्व्यवस्थां पृच्छति शुके व्यासो "यथा वै विहिता वृत्तिः" (५) इत्यादिना तामाह स्म । "कुरु कर्म त्यजेति विरुद्धयोर्वाक्ययोः शास्त्रता कथम्" इत्यादिनाऽशास्त्रत्वात्प्रामाण्याभावे प्रसक्ते प्रामाण्यमुभयोः कथमिति पृच्छन्तं शुकं प्रति व्यासः कर्मणां चित्तशुद्ध्यर्थत्वं मनसि निधाय चातुराश्रम्यधर्मान्वदन्प्रथमं ब्रह्मचारिधर्मानाह.....
- अध्यायः - २४३. "द्वितीयमायुषो भागम्" (१) इत्यादिना क्रमप्राप्तान् गृहस्थधर्मानाख्यायान्ते “अतः परं” (२९) इत्यादिना वानप्रस्थाश्रमो विधेय इति व्याजहार व्यासः.......
- अध्यायः - २४४. भीष्मस्य युधिष्ठिरं प्रत्युक्तिः । “गृहस्थस्तु यदा पश्येत्" (४) इत्यादिना व्यासो वानप्रस्थधर्मानभिधाय "चतुर्थे चायुषः शेषे" (२२) इत्यादिना संन्यासं कुर्यादित्याह.......
- अध्यायः - २४५. "वर्तमानस्तथैवात्र" (१) इति शुकप्रश्ने व्यासः “प्राप्य संस्कारमेताभ्याम्” इत्यादिनाऽध्यायसमाप्तिपर्यन्तेन ग्रन्थेन यतिधर्मानाह......
- अध्यायः - २४६. "प्रकृत्यास्तु विकारा ये" (१) इत्यादिना चक्षुरादय आत्मानं न पश्यन्ति तांस्त्वयं पश्यतीत्याख्याय "इन्द्रियेभ्यः परा ह्यर्थाः” (३) इत्यादिना आत्मनो भूतेषु गूढत्वं “दृश्यते त्वग्र्यया बुद्ध्या” (५) इत्यादिनाऽऽत्मनः सत्वे मानं च प्रदर्श्य ध्यानेनोपरतस्यामृतत्वमिन्द्रियवश्यस्य मृत्युं चाभिधाय "आहत्य सर्वसङ्कल्पान्" (९) इत्यादिना सत्त्वे निवेशितस्य चेतसः प्रसादमुक्त्वा "अतो गुह्यतरार्थे” (२१) इत्यादिनाऽध्यात्मकथनं प्रतिजज्ञे व्यासः.....
- अध्यायः - २४७. "अध्यात्मं विस्तरेणेह" (१) इत्यादि पृच्छन्तं शुकं प्रति व्यासः सविस्तरमध्यात्ममाचचक्षे.......
- अध्यायः - २४८. "मनो विसृजते भावम्" (१) इत्यादिना मनोबुद्ध्यहङ्काराणां स्वरूपादिकमभिधाय जगतो बुद्धिमात्रकल्पितत्वं जानतः "एवं स्वभावमेवेदं" (१३) इत्यादिना शोकाभावं फलमभिधाय मनसेन्द्रियनियमने आत्मा प्रकाशते इत्याद्याह स्म व्यासः.......
- अध्यायः - २४९. "सृजते तु गुणान् सत्वं" (१) इत्यादिना बुद्धेर्गुणस्रष्ट्रत्वं क्षेत्रज्ञस्याधिष्ठातृत्वादुदासीनत्वं संवर्ण्य "अनादिनिधनो ह्यात्मा" (५) इत्यादिनाऽऽत्मानं बुद्ध्वा विचरतः शमप्राप्त्यादिकमाह स्म व्यासः......
- अध्यायः - २५०. “यस्माद्धर्मात्परो धर्मः" (१) इत्यादिना विद्याप्रापकं धर्मं पृच्छति शुके व्यासो "धर्मं ते प्रवक्ष्यामि" (२) इत्यादिना तान्धर्मानाख्यास्यन् "दृष्ट्वा त्वमात्मनात्मानं" (१०) इत्यादिनाऽऽत्मानं ज्ञात्वा "सर्वतः स्रोतसं” (१२) इत्यादिना निरूपितां संसारनदीं तीर्त्वा ब्रह्मैव भविष्यसीत्याद्याह स्म.......
- अध्यायः - २५१. “गन्धान् रसान्" (१) इत्यादिना ब्रह्मप्राप्तिसाधनान्याख्याय जीवन्मुक्तस्य लक्षणान्यप्यवादीद्व्यास.......
- अध्यायः - २५२. एतावत्पर्यन्तं विस्तरेण निरूपितमध्यात्मं "द्वंद्वानि मोक्षजिज्ञासुः” (१) इत्याद्यध्यायेन सुखसङ्ग्रहार्थं सङ्क्षेपेणाख्यातवान् व्यासः........
- अध्यायः - २५३. "शरीराद्विप्रमुक्तं हि" (१) इत्यादिना स्थूलशरीरान्तर्गतं लिङ्गशरीरं तद्विषये विदुषां योगिनामनुभवं प्रदर्श्य ’तमेतमतितेर्जोंशं (१२) इत्यादिना रजस्तमोभ्यामाविष्टानामात्मदर्शनाभावं "योगशास्त्रपरा भूत्वा" (१३) इत्यादिना योगेन तद्दर्शनं चाभ्यधाद्व्यासः.......
- अध्यायः - २५४. "हृदि कामद्रुमश्चित्रः” (१) इत्यादिना हृदयक्षेत्रस्थं कामद्रुमं रूपकेण निरूप्य तन्निवृत्तस्य दुःखाभावं" “शरीरं पुरमित्याहु:" (९) इत्यादिना संसारं कुराज्यरूपकेण चाभिधाय तत्सक्तस्थानर्थमभिदधाति स्म व्यासः......
- अध्यायः - २५५. “भूतानां परिसङ्ख्यानं" (१) इत्यादिना व्यासोक्तमुपायं वक्तुं प्रतिजानानो भीष्मो युधिष्ठिरं प्रत्युपदिशन् "भूमेः स्थैर्यं" (३) इत्यादिना प्रत्येकस्य दश दशेत्येवं क्रमेण पञ्चभूतानां मिलितान् पञ्चाशद्गुणानभिधाय मनसो बुद्धेश्च गुणानाख्याति स्म । "कथं पञ्चगुणा बुद्धिः" (११) इति पृच्छन्तं युधिष्ठिरं प्रति "आहुः षष्टिं बुद्धिगुणान्" (१२) इत्यादिनोत्तरमाह भीष्मः.........
- अध्यायः - २५६. "य इमे पृथिवीपालाः" (१) इत्यारभ्य “कस्य मृत्युः कुतो मृत्युः” (६) इत्यन्तेन मृत्युविषयकं प्रश्नं कुर्वाणं युधिष्ठिरं प्रत्त्यकम्पनराजचरितकथनद्वारोत्तरमाह स्म भीष्मः । पुत्रशोकार्तमकम्पनं प्रति नारदस्योक्तिः। स्वसृष्टाभिः प्रजाभिर्वर्द्धमानाभिस्त्रिलोक्यां निरुछ्वासायां तत्सञ्जिहीर्षया प्रजापतिर्यदा क्रुद्धस्तदा तदिन्द्रियेभ्यो निर्गतेऽग्नौ प्रजा दहति सति स्थाणुः पितामहं प्रति शरणं जगाम.........
- अध्यायः - २५७. स्थाणुप्रजापत्योः संवादानन्तरं स्थाणुवाक्यात्तेजः संहरतो ब्रह्मणः स्वेभ्यः प्रजासंहारकारिणी नार्युदपद्यत । उत्पद्य दक्षिणां दिशं गच्छन्ती नारी “मृत्यो” इत्याहूय ब्रह्मणा “प्रजा संहर” (२०) इत्युक्ता सती चिन्तयाऽश्रूण्यमुञ्चत्तानि च प्रजापतिर्लोकानां हितायाञ्जलावधारयत्........
- अध्यायः - २५८. "त्वया सृष्टा कथं नारी" (२) इत्यादिना संहारमनिच्छंतीं नारीं प्रति "मृत्यो सङ्कल्पितो मे त्वं” (७) इत्यादिना ब्रह्मा पुनः प्रेरयामास । एवं पुनः पुनर्नियुज्य प्रजापतौ गतरोषे सति सा नारी धेनुकामाश्रमादौ गत्वा तपश्चचार । तपसा तुष्टेन ब्रह्मणा पुनः संहारे नियुज्यमाना तदनिच्छन्त्यपि "अधर्मो नास्ति मे मृत्यो" (२८) इत्याद्युक्त्वा "ये तवाश्रुबिंदवो मयाञ्जलौ धृतास्ते प्राणिनो मारयिष्यन्ति” (३४) इत्यभिहिता सती शापभयात्तन्नियोगमङ्गीचकार । इत्यभिधाय "अथो प्राणान् प्राणिनामन्तकाले” (३७) इत्यादिना राजानं सांत्वयन्नारदः "तस्मात्पुत्रं मा शुचो राजसिंह" (४१) इत्याह स्म........
- अध्यायः - २५९. "कोऽयं धर्मः कुतो धर्मः (१) इत्यादिके युधिष्ठिरप्रश्ने भीष्मो धर्मस्वरूपं निरूप्य "तस्मादनार्जवे बुद्धिर्न ते कार्या" (२७) इत्याद्याह स्म ।
- अध्यायः - २६०. “सूक्ष्मं साधु समुद्दिष्टम्” (१) इत्यारभ्याध्यायसमाप्तिपर्यन्तेन ग्रन्थेन धर्मतत्त्वस्य दुर्ज्ञेयत्वमाचाराणामनैकाग्र्यं व्यभिचारित्वं च प्रतिपाद्य स्वभावेनैव सुखदुःखादिव्यवस्था न श्रुत्यादिप्रमाणकेन धर्मेणेत्याचिक्षेप युधिष्ठिरः.......
- अध्यायः - २६१. युधिष्ठिरेणैवमुक्तो भीष्मो धर्मे प्रमाणभूतं तुलाधारजाजलिसंवादरूपमितिहासं व्याजहार । वनचरो जाजलिनामा कश्चिद्ब्राह्मणः समुद्रतीरे जले तपः कुर्वन् जल एव सर्वो महीं पश्यन् दूरदर्शित्वसिद्धिप्रात्या गर्वितः सन् "नेमया सदृशोऽस्तीह” (६) इत्याद्युवाच । तदा पिशाचैः "नैवं त्वं वक्तुमर्हसि" (७) इत्यादिना उक्तस्तैरेव बहिर्निष्कास्य दर्शितमार्गो वाराणस्यां तुलाधारं प्रति जगाम । "केन कर्मणा जाजलिः सिद्धिं प्राप" (१२) इति युधिष्ठिरप्रश्ने सिद्धिकारणं तपश्चर्यादिकमाख्याय गर्वितस्य जाजलेराकाशवाणीश्रवणेन वाराणस्यां तुलाधारं प्रति गमनं तं प्रति तुलाधारवाक्यं चाचष्ट भीष्मः.......
- अध्यायः - २६२. "विक्रीणीतः सर्वरसान्” (२) इत्यादिना जाजलिनाऽऽक्षिप्तस्तुलाधारो “वेदाहं जाजले धर्मम्” (५) इत्यादिना हिंसाप्रधानयज्ञकृष्यादिवर्जितान् निवृत्तिधर्मानेवाचख्यौ......
- अध्यायः - २६३. "अयं प्रवर्तितो धर्मः” (१) इत्यादिना जाजलिना पुनराक्षिप्तस्तु लाधारो हिंसाप्रधानान्धर्मान्निरस्याहिंसाप्रधानान्धर्मानेवोपदिदेश । "न वै मुनीनां शृणुमः" (३६) इत्यादिके जाजलियप्रश्ने तुलाधारस्य “उत यज्ञा उतायज्ञाः" (३८) इत्यादि तदुत्तरकथनम्.....
- अध्यायः - २६४. स्वोक्ते अहिंसाधर्मे प्रत्ययोत्पादनार्थं तुलाधारेणादिष्टेन जाजलिनाऽऽहूताः पक्षिणोप्यहिंसाहिंसात्मकधर्मयोरिह परत्र च प्रत्यक्षं फलमित्यभिधाय हिंसायाः श्रद्धाविघातकत्वं चाख्याय श्रद्धामेव प्रशशंसुः । भीष्मस्तुलाधारस्य जाजलेश्च स्वर्गगमनमभिधायोपसंजहार......
- अध्यायः - २६५. एतावत्पर्यन्तमुपपादितमहिंसाधर्ममेव प्रशंसितुं विचख्नुनगीतां कथयन् भीष्मो हिंसाधर्मं निनिंद । "शरीरमापदश्चापि" (१३) इत्यादिना हिंसाशून्यस्य कथं शरीरनिर्वाह इति युधिष्ठिरेणानुयुक्तो भीष्मः शरीराविरोधेन धर्माचरणं कर्तव्यमुपदिदेश....
- अध्यायः - २६६. "कथं कार्यं परीक्षेत" (१) इत्यादिके युधिष्ठिरप्रश्ने भीष्मः किमपि कार्यं चिरेण विचार्य कर्तव्यमित्येतत्तात्पर्यकं चिरकार्युपाख्यानं व्याजहार । अहल्यायाः कस्मिंश्चित्काले व्यभिचाररूपमपचारं दृष्ट्वा चिरकारिणं पुत्रं प्रति "इमां जननीं जहि" इत्युक्त्वा गौतमे वनं गते सति विचारयन् पित्राज्ञानुल्लङ्घने हेतुभूतपितृगौरवमुपपाद्य तथैव मातृगौरवमुद्भाव्यस्त्रीणां निरपराधत्वं पुरुषाणां सापराधत्यं च व्यचिन्तयत् । एवं विचारयति चिरकारिणि बहुकालातिक्रमानन्तरमाश्रममागतो गौतमः पश्चात्तापं कुर्वेश्चिरकारिणं पुत्रं स्वस्त्रियमहल्यां च दृष्ट्वा “चिरकारिक भद्रं ते” (६७) इत्यादिना चिरकारिणं प्रशंसति स्म......
- अध्यायः - २६७. "कथं राजा प्रजा रक्षेत्" (१) इत्यनुयुञ्जानं युधिष्ठिरं प्रति भीष्मो द्युमत्सेनसत्यवत्संवादरूपमितिहासमब्रवीत्........
- अध्यायः - २६८. “अविरोधेन भूतानां” (१) इत्यादिना गार्हस्थ्ययोगधर्मयोः किं श्रेय इति पृच्छति युधिष्ठिरे भीष्म उभयोरपि धर्मयोर्महाफलत्वं सदाचरितत्वं चाभिधाय कपिलगोसंवादरूपमितिहासमभ्यधात् । गृहमागताय त्वष्ट्रे मधुपर्के नहुषे लब्धुं नियुक्तां गां दृष्ट्वा वेदा ३ इत्युक्तवन्तं कपिलं प्रति योगवलेन गवि प्रविष्टः स्यूमरश्मिः "हंहो वेदा३ यदि मताः” (९) इत्याद्युवाच । स्यूमरश्मिवाक्यं श्रुत्वा कपिलो नाहं वेदान् विनिन्दामि इत्यादिना चतुर्णामाश्रमाणां फलेषु जायस्त्वकनीयस्त्वे उपपाद्यानारम्भेऽदोषमारम्भे दोषं चाभ्यधात् । कपिवाक्यं श्रुत्वा स्यूमरश्मिः "स्वर्गकामो यजेतेति सततं श्रूयते श्रुतिः” (१८) इत्यादिना यागीयहिंसाया हिंसात्वाभावं प्रतिपाद्य हिंसारम्भयोरदोषत्त्वादिकमाह स्म.....
- अध्यायः - २६९. कपिलः “एतावदनुपश्यन्ति यतयः” (१) इत्यादिना निर्द्वन्द्वादिविशेषेण विशिष्टानां सनातनलोकप्राप्तिमाख्याय "गार्हस्थ्ये किं प्रयोजनं” (४) इत्याह । स्यूमरश्मिर्जनकादीनां गार्हस्थ्ये एव विद्वत्त्वदर्शनात्कर्म समुच्चितैव विद्या फलदेत्यभिप्रेत्य "यद्येषा परमा काष्ठा” (५) इत्यादिना गार्हस्थ्यस्य सर्वाश्रमाधारत्वं विश्वोत्पत्त्यादिहेतुत्वादिकं प्रतिपाद्य मोक्षो गार्हस्थ्ये एव, सिद्ध्यतीत्याह । कपिलो "दर्शे च पौर्णमासं च” (२०) इत्यादिना चित्तशुध्यर्थं चातुर्मास्यान्तानां कर्मणां कर्तव्यत्वमभिधाय "नाक्षैर्दीव्येत्" (२४) इत्यादिना पाणिवागुदरोपस्थगुप्तिमाख्याय यज्ञादीनामन्तवत्फलत्वं जानन्, ज्ञाननिष्ठामेवाश्रयस्वेत्याह । "यथा च वेदप्रामाण्यं” (३९) इत्यादि पृच्छन्तं स्यूमरश्मिं प्रति "प्रत्यक्षमिह पश्यन्ति” (४०) इत्यादिनोत्तरमाह कपिलः । "स्यूमरश्मिरहं ब्रह्मन्” (४१) इत्यादिना स्वप्रत्यभिज्ञां दत्वा "इमं च संशयं" (४२) इत्यारभ्य "निर्णये किं निरामयम्” (४८) इत्यन्तेन ग्रन्थेन पुनः पृच्छन्तं स्यूमरश्मिं प्रति "यद्यदाचरते शास्त्रं" (४९) इत्यादिनोत्तरमाह कपिलः । "सर्वमेतन्मया ब्रह्मन्” (५७) इत्यारभ्य "यथा ते विदितो मोक्षस्तथेच्छाम्यनुशिक्षितुं” (६९) इत्यन्तेन पुनः प्रश्नं कृतवान् स्यूमरश्मिः....
- अध्यायः - २७०. "वेदाः प्रमाणं लोकानां" (१) इत्यादिना कपिलः कर्मकाण्डस्य ज्ञानाङ्गत्वं प्रतिपादयन् सदाचारं प्रशस्य “निरापद्धर्म आचारः” (२१) इति तल्लाक्षणमाख्याय तस्यैकस्यैव चतुर्धा विभागं प्रदर्श्य प्रश्नप्रत्युत्तरभावेनात्मविद्यामुपदिदेश........
- अध्यायः - २७१. “धर्ममर्थं च कामं च” (१) इत्यादित्रिवर्गमध्ये कस्य लाभः श्रेयान् इति पृच्छति युधिष्ठिरे भीष्मः कुण्डधारोपाख्यानं प्रतिपादयन्नुत्तरमाह् स्म । धनार्थी कश्चिद्ब्राह्मणो बह्वीर्देवता आराध्य धनं प्राप्नुवन् देवानुचरं कुण्डधाराख्यं मेघमन्यैर्मानुषैरनावृतं दृष्ट्वा तमाराधयति स्म । ब्राह्मणतपसा तुष्टे कुण्डधारे उपकारप्रकारप्रवर्तिकां वाचमुदीरयति तत्तेजःप्रभावाद्ब्राह्मणः स्वप्ने सर्वभूतानि पश्यन् देवाज्ञया याचकेभ्यः फलानि समर्पयन्तं मणिभद्रमपश्यत् । कुण्डधारं भूमिपतनपूर्वकं “यदि प्रसन्ना देवा मे” (२०) इत्याद्युक्तवन्तं प्रति मणिभद्रो धनार्थिनेऽस्मै ब्राह्मणाय धनं दीयतामित्युवाच । एतछ्रुत्वा ब्राह्मणस्य धर्मे प्रवृत्यर्थं पुनः पुनः प्रार्थयति कुण्डधारे मणिभद्रः "प्रीतास्ते देवताः सर्वा:" (२९) इत्यादिना तदनुजज्ञे । देवताप्रसादान्निर्विण्णे ब्राह्मणे वनं गत्वा तपश्चरति सति तत्प्रभावाल्लब्धदिव्यचक्षुषि च सति पुनः कुण्डधारस्तमागत्य निरयस्थान् राज्ञः स्वरूपेण स्थितान् क्रोधादींश्च दर्शयित्वा "एतैोर्लोकाः सुसंवृद्धाः" (४८) इत्याद्याह स्म। प्रणामादिपूर्वकं सत्कृते कुण्डधारेऽन्तर्हिते ब्राह्मणस्तत्प्रसादात्सिद्धिं प्राप्य विचचार यथेच्छम्......
- अध्यायः - २७२. "बहूनां यज्ञतपसाम्” (१) इत्यादिना हिंसायज्ञस्वरूपं पृच्छति युधिष्ठिरे भीष्मो नारदकथितमुञ्छवृत्त्युपाख्यानं कथयन्, हिंसात्मकं यज्ञं निनिंद........
- अध्यायः - २७३. “कथं भवति पापात्मा” (१) इत्यादिना युधिष्ठिरेण कृतानां चतुर्णां प्रश्नानामुत्तराणि क्रमेणाह भीष्मः.........
- अध्यायः - २७४. मोक्षोपायजिज्ञासयायुधिष्ठिरेणानुयुक्तो भीष्मो मोक्षोपायानादिदेश........
- अध्यायः - २७५. ब्रह्मपदप्राप्तिविषये नारदासितदेवसंवादं कथयति स्म भीष्मः । “कुतः सृष्टमिदं विश्वं” (३) इत्यादिके नारदप्रश्ने सितः सृष्टिवृत्तान्तं सविस्तरमाचचक्षे.......
- अध्यायः - २७६. “भ्रातरः पितरः पौत्रा:" (१) इत्यादिना तृष्णानिवृत्तिप्रकारं पृच्छति युधिष्ठिरे भीष्मस्तद्विषये जनकगीतं कथयति स्म ।....
- अध्यायः - २७७. "अतिक्रामति काले किं श्रेयः', (१) इति पृच्छति युधिष्ठिरे भीष्म: पूर्वोक्तं पितापुत्रसंवादमाह स्म । "धीरः किं स्वित्तात कुर्यात्” (५) इत्यादिके पुत्रप्रश्ने पिता ब्रह्मचर्याद्याश्रमधर्मान् कथयति स्म । "एवमभ्याहते लोके" (७) इत्यादि ब्रुवन्तं पुत्रं प्रति “कथमभ्याहतो लोकः” (८) इत्यादि पितृप्रश्नः । "मृत्युनाभ्याहतो लोकः" (९) इत्यादेः पुत्रस्योपदेशात् पितुर्ज्ञानमुदेति स्म.......
- अध्यायः - २७८. "किंशीलः किसमाचारः” (१) इत्यादिना मोक्षसाधनानि पृच्छति युधिष्ठिरे भीष्मो "मोक्ष धर्मेषु निरतः” (२) इत्यादिना हारितकथितानि तान्याचष्ट........
- अध्यायः - २७९. "धन्या धन्या इति जनाः" (१) इत्यादिके राज्यविरक्तस्य युधिष्ठिरस्य प्रश्ने भीष्मो दुःखानामन्तवत्त्वमभिधाय भ्रष्टराज्यवृत्रगीतं कथयन्नुपदिदेश । भ्रष्टैश्वर्यो वृत्रासुर उशनसा "काचित् पराजितस्याद्य न व्यथा तेऽस्ति दानव" (१५) इति पृष्टः सन् “सत्येन तपसा चैव" (१६) इत्यादिना संसारमोक्षौ विदित्वा नाहं शोचामीत्याह । तच्छ्रुत्वा तद्बुद्धिपरीक्षार्थं "धीमन् दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाषसे" (२३) इति पृच्छन् तमुशनसं प्रति वृत्रः "प्रत्यक्षमेतद्भवतः” (२४) इत्यादिना वर्मानुरोधेनैश्वर्यप्राप्तिभ्रंशो युद्धकाले विष्णुदर्शनं चाख्याय "ऐश्वर्यं वै महद्ब्रह्म" (३१) इत्यादिकं पप्रच्छ.......
- अध्यायः - २८०. वृत्रप्रश्नं श्रुत्वा तं प्रति विष्णुमाहात्म्यं कथयितुं प्रतिज्ञातवत्युशनसि तत्कालागतः सनत्कुमारस्तत्प्रेरितः सन् “शृणु सर्वमिदं दैत्य” (७) इत्यादिना तत्कथयति स्म । वृत्रः सनत्कुमारोक्तं विष्णुमाहात्म्यं श्रुत्वा "एवं गते मे न विषादोऽस्ति कश्चित्" (५७) इत्याद्युक्त्वा प्राणानुत्सृज्य परमं स्थानमवाप । "अयं स भगवान्देवः" (६०) इत्यादिना पुरोवर्तिनं श्रीकृष्णं निर्दिशति युधिष्ठिरे तत्तत्त्वमुपदिदेश भीष्मः । “वृत्रेण परमार्थज्ञ” (६५)इत्यादिना वृत्रासुरगतिमनूद्य स्वगतिविषये सन्देहमुद्भाव्य भीतं युधिष्ठिरं “शुद्धाभिजनसम्पन्नाः” (६९) इत्यादिनाऽऽश्वासयति स्म भीष्मः........
- अध्यायः - २८१. "अहो ! धर्मिष्ठता तात" (१) इत्यादिना वृत्रप्रशंसापूर्वकं तद्वधप्रकारं ज्ञातुंपृच्छति युधिष्ठिरे तं कथयन्भीष्म इन्द्रवृत्रयोर्युद्धं वर्णयति स्म । युद्धे मोहित इन्द्रो वसिष्ठप्रोत्साहितो विवृद्धतेजाः सन् वृत्रप्रणीतां मायां व्यपाकर्षत् । बृहस्पत्यादिभिः प्रार्थितस्य महेश्वरस्य तेजो ज्वररूपेण वृत्रशरीरमविशत् विष्णुश्चेन्द्रवज्रम् । महेश्वरेण "एष वृत्रो महान् । शक्र" (३४) इत्याद्यभिधाय "एतत्त्वां मामकं तेजः" (३८) इत्यादि व्याजहार । ततो देवा जहृषुः......
- अध्यायः - २८२. माहेश्वरज्वराविष्टो गात्रकंपादियुक्तो वृत्रासुर इन्द्रप्रेषितेन वज्रेण हतः पपात । वृत्रशरीरान्निर्गतया ब्रह्महत्यया गृहीत इन्द्रो ब्रह्माणं शरणं जगाम । तेन चेन्द्रं मोचयितुमाज्ञप्ता सा स्वनिवासस्थानमयाचत । ब्रह्मणा ब्रह्महत्यायाश्चतुर्धा विभागं कृत्वा प्रथमभागग्रहणार्थमाज्ञप्तोऽग्निस्तत्कथितं तन्निवृत्युपायं श्रुत्वैकं भागं जग्राह । एवमेव ब्रह्माज्ञया वृक्षोषधिभिरप्सरोभिरद्भिश्च भागत्रितये गृहीते मुक्त इन्द्रो ब्रह्माज्ञयाऽश्वमेधं कृत्वा श्रिया युक्तः प्रहर्षं लेभे..........
- अध्यायः - २८३. ज्वरोत्पत्तिं श्रोतुमिच्छामीति युधिष्ठिरेणानुपृष्टो भीष्मो ज्वरोत्पत्तिकथनं प्रतिजज्ञे । पुरा देवादिभिरुपास्यमाने महादेवे कैलासे स्थिते सति कदाचिद्दक्षयज्ञं गच्छतो देवान् दृष्ट्वा पार्वत्या पृष्टेन शङ्करेण 'दक्षयज्ञं प्रति गच्छन्ति' इत्युक्ते पुनस्तया त्वं कस्मान्न गच्छसीति पृष्टेन स्वभागाभावान्न गच्छामीत्युक्ता सा तूष्णीं बभूव । पार्वत्या अभिप्रायं ज्ञात्वाऽनुचरैः सह दक्षयज्ञं ध्वंसितुं प्रवृत्ते महादेवे तद्भयान्मृगरूपं धृत्वा पलायमानं यज्ञमनुसरति तस्मिंस्तल्ललाटनिर्गतस्वेदबिन्दोरुत्पन्नः क्रूरःपुरुषो यज्ञमदहत् । देवादयश्च तद्भयादपलायन्त । ब्रह्मणा “भवतोऽपि सुराः सर्वे” (४५) इत्यादिना यज्ञे भागदानं प्रकल्प्य त्वया सृष्टोऽयं पुरुषो ज्वरनामा लोके प्रचरिष्यति इत्युक्त्वैतस्य भागं कुर्वित्युक्ते महादेवस्तुष्टः सन् शीर्षाभितापादिभेदेन ज्वरस्य विभागं चकार । भीष्मः "एतन्माहेश्वरं तेजः" (५७) इत्यादिनोपसंहारं कृत्वा ज्वरोत्पत्तिश्रवणपठनफलमभ्यधात्।.....
- अध्यायः - २८४. दक्षस्याश्वमेधः कथं नष्टः इति जनमेजयेन पृष्टो वैशम्पायनस्तद्वृत्तान्तं व्याजहार । यज्ञे शिवमदृष्ट्वा क्रुद्धस्य दधीचेर्दक्षस्य चोक्तिप्रत्युक्ती । पार्वत्योत्तेजितः शिवो वीरभद्रमुत्पाद्य तं पार्वतीमन्यूद्भवया भद्रकाल्या सह दक्षयज्ञं विहन्तुं प्रेषयामास । यज्ञनाशं कुर्वन्वीरभद्रो ब्रह्मादिभिः प्रार्थितः स्वस्योत्पत्तिं तत्प्रयोजनं चाख्याय शिवं शरणं गच्छेत्युवाच दक्षं प्रति । वीरभद्रवाक्याच्छिवं स्तुतवति दक्षेऽग्निकुण्डात्समुद्भूतः शिवस्तत्प्रार्थनया यज्ञसमाप्तिं तथाऽस्त्वित्यनुजज्ञे दक्षश्च तमष्टोत्तरसहस्रनामभिस्तुष्टाव । सहस्रनामशुश्रूषया युधिष्ठिरेणानुयुक्तो भीष्मो नाम्नां सहस्रं, तेन तुष्टस्य शङ्करस्य वरदानं चाख्याय तत्पाठफलमाचष्ट.........
- अध्यायः - २८५. “अध्यात्मं नाम यदिदम्” (१) इत्यादिके युधिष्ठिरप्रश्ने भीष्मस्तत्कथयन् पृथिव्यादिभूतानि तेषां गुणांश्चाख्याय "इन्द्रियाणि नरे पञ्च" (१५) इत्यादिना बुद्धेः सप्तमीत्वमभिधाय “प्रहर्षः प्रीतिरारम्भः" (२५) इत्यादिना सत्त्वादीनां गुणादिकं व्याख्याय "सत्त्वक्षेत्रयोः” (३३) इत्यादिना तद्भेदं प्रदर्श्य वस्तुतत्त्वमुपदिदेश......
- अध्यायः - २८६. “सुदुःखाच्च सुमृत्योश्च" (१) इत्यादिना सुखं वा दुःखं वा यथाऽस्माकं न स्यात्तथा कथयेति युधिष्ठिरप्रश्ने नारदसमंगसंवादरूपमितिहासमाचख्यौ भीष्मः “'उरसैव प्रणमसे” (३) इत्यादिना सर्वदा विशोकत्वे हृष्टत्वे च कारणं पृच्छति नारदे समङ्गस्तत्कथयति स्म.......
- अध्यायः - २८७. शास्त्रतत्त्वानभिज्ञस्य संशयात्मनोऽकृतव्यवसायस्य च श्रेयो ब्रूहि इति युधिष्ठिरेण पृष्टो भीष्मो गुरुपूजादिना तस्य श्रेयोभिधाय तद्विषये गालवनारदसंवादरूपमितिहासमब्रवीत् । “यैः कश्चित्सङ्गमतो लोके” (५) इत्यादिनात्मश्रेयसि सन्दिहानेन गालवेन पृष्टो नारदः "आश्रमास्तात चत्वारः (१२) इत्यादिना श्रेयस्साधनानि कथयित्वा "यत्रागमयमानानाम्" (४१) इत्यादिना गुरुशिष्यधर्माद्याख्यातवान्........
- अध्यायः - २८८. “कथं न युक्तः पुरुषः” (१) इत्यादिके युधिष्ठिरप्रश्ने भीष्मः सगरारिष्टनेमिसंवादरूपमितिहासं व्याचचक्षे । "किं श्रेयः परमं ब्रह्मन्” (३) इत्यादिके सगरप्रश्ने अरिष्टनेमिः “सुखं मोक्षसुखं लोके" (५) इत्यादिना तदुत्तरमाचचक्षे......
- अध्यायः - २८९. उशना देवर्षिरसुराणां प्रियकरः सुराणां चाप्रियकरः कथमभूत् इति युधिष्ठिरेण पृष्टो भीष्मो देवानामप्रियकरत्वे कारणमभ्यधात् । “किमर्थमुशना महादेवजठरे व्यचरत्” (२१) इति युधिष्ठिरानुयोगे तदुत्तरं वदन् भीष्मो महादेषजठरे तस्य स्थितिकारणमभ्यधात् । स्वजीवितं प्रार्थयन्नुशना महादेववाक्याच्छिश्नद्वारानिर्गतः शुक्रेति नाम प्राप्य देव्या वचनाच्छिवेन मुक्तस्तं प्रणम्य जगाम.........
- अध्यायः - २९०. “किं कर्म पुरुषः कृत्वा श्रेयः प्राप्नोति” (२) इति युधिष्ठिरेण पृष्टो भीष्मो जनकपराशरसंवादरूपेतिहासकथनेन तदुत्तरमाह । "किं श्रेयः सर्वभूतानां” (४) इत्यादिके जनकप्रश्ने "धर्म एव कृतः श्रेयान्" (६) इत्यादिना तदुत्तरं वदति स्म पराशरः.......
- अध्यायः - २९१. “मनोरथरथं प्राप्य” (१) इत्यादिना देहं प्राप्यायुषो दौर्लभ्यं च बुध्वा ब्रह्मभावेन संपश्यन्मुच्यते इत्याद्यभिधाय "स्वयं कृत्वा तु” (११) इत्यादिना बुद्धिपूर्वकृतानां पापानां नाशाभावं प्रदर्श्य राज्ञा जेतव्याः शत्रवः इत्यादिना राज्ञां विशेषधर्मानाचष्ट......
- अध्यायः - २९२. “कः कस्य चोपकुरुते” (१) इत्यादिना सर्वः प्राणी यत्कर्म कुरुते तदात्मार्थमेव कुरुते न परार्थमित्याख्याय विशिष्टस्येत्यादिना निर्धनस्य विशिष्टात्परिग्रहो दानेन तुल्यः सघनस्य तु दानं पुण्यतरमित्याद्यात्महितमनुशासन् रंतिदेवादीनुदाहरणत्वेन प्रदर्श्याग्न्यादीनां सेवादिकमभ्यधात्पराशरः.....
- अध्यायः - २९३. "वृतिः सकाशाद्वर्णेभ्यः” (१) इत्यादिना वृद्धसेवां प्रशस्य ब्राह्मणादीनां धर्मान्व्याख्याय “प्राणसंतापनिर्दिष्टाः" (१६) इत्यादिना दानमेव प्रशशंस.......
- अध्यायः - २९४. "प्रतिग्रहागता विप्रे" (१) इत्यादिना दानार्थमर्थार्जनं नियम्य प्रासङ्गिकानि वृत्त्यन्तराण्यभिधाय "श्रूयन्ते हि पुराणेषु" (८) इत्यादिना कामक्रोधादिद्वारेण प्रजानां बन्धनं प्रदर्श्य "एतस्मिन्नेव काले तु" (१५) इत्यादिना तन्निवृत्युपायं व्याजहार पराशरः.......
- अध्यायः - २९५. “एष धर्मविधिः” (१) इत्यादिना तपोविधिकथनं प्रतिज्ञाय "प्रायेण च गृहस्थस्य” (२) इत्यादिना गृहस्थधर्मं विनिन्द्य तपसः प्रशंसामकरोत् पराशरः.......
- अध्यायः - २९६. "वर्णो विशेषवर्णानां” (१) इत्यादिनोत्तरोत्तरमुत्कर्षः कथमिति पृच्छन्तं जनकं प्रति पराशरः "एवमेतन्महाराज” (३) इत्यादिना ईश्वरस्य वक्त्रादितश्चतुर्णां वर्णानां तेभ्यश्च सङ्करजातीयानामुत्पत्तिं चाभ्यधात् । "ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथं" (१०) इत्याद्यनुयुञ्जानं जनकं प्रति पराशरो "राजन् नैतत् भवेद्ग्राह्यं (१२) इत्यादिना तेषां दुर्ज्ञेयत्वं व्याकुर्वन् मूलगोत्राणि चत्वारि कर्मतोऽन्यानि "गोत्राणि इत्याद्याह स्म । “वर्णानां विशेषधर्मान्सामान्यधर्मांश्चाभिधेहि” (१९) इति जनकेन पृष्टः पराशरस्तान् व्याजहार । "किं कर्म दूषयत्येनम्” (३१) इत्यादिके जनकप्रश्ने कर्म जातिश्चेत्युभयं दोषकारकमित्याह पराशरः । "कानि धर्म्याणि कर्माणि” (३५) इति जनकप्रश्ने तानि न्यरूपयत्पराशरः.....
- अध्यायः - २९७. "पिता सखायो गुरवः" (१) इत्यादिना धर्मकार्याण्युपादिक्षत्पराशरः ।.....
- अध्यायः - २९८. "किं श्रेयः का गतिर्ब्रह्मन्” (२) इत्यादिके जनकप्रश्ने पराशरः "असङ्गः श्रेयसो मूलं" (३) इत्याद्युपदिदेश । एवं पराशरेणाभिहितं सर्वं श्रुतवतो जनकस्य हर्षप्राप्तिमाचष्ट भीष्मः......
- अध्यायः - २९९. "सत्यं दमं क्षमां प्रज्ञां" (१) इत्यादिना पृच्छन्तं युधिष्ठिरं प्रति भीष्मोऽन्नाद्यर्थं यत्नमकुर्वतो यत्कर्तव्यं तन्निरूपयितुं साध्यहंससंवादरूपां हंसगीतामाचचक्षे “शकुने वयं स्म देवा वै” इत्यादिना मोक्षधर्मं पृच्छत्सु साध्येषु हंसरूपेणाविर्भूतः प्रजापतिः “इदं कार्यममृताशाः श्रूणोमि” (७) इत्यादिना तमुपदिदेश । "केनायमावृतो लोकः" (३९) इति साध्यैः पृष्टो हंसः “अज्ञानेनावृतो लोकः" (४०) इत्यादिनोत्तरं जगाद । भीष्मः साध्यानां हंसस्य चोक्तिप्रत्युक्ती अभिधाय "संवाद इत्ययं श्रेष्ठः" (४५) इत्यादिनोपसंजहार.......
- अध्यायः - ३००. सांख्ययोगयोर्विशेषजिज्ञासया युधिष्ठिरेण पृष्टो भीष्मः “सांख्याः सांख्यं प्रशंसन्ति" (२) इत्यादिना तयोर्विशेषमभ्यधात् "यदि तुल्यं व्रतं शौचं” (१०) इत्याद्यनुयुञ्जानं युधिष्ठिरं प्रति भीष्मो "रागं मोहं तथा स्नेहं” (११) इत्याद्युपदिदेश । "आहारान्कीदृशान् कृत्वा” (४२) इत्यादिना कीदृशमाहारं कृत्वा योगी बलमाप्नोतीति युधिष्ठिरेणापृष्टो भीष्मः “कणानां भक्षणे युक्तः” (४३) इत्यादिना बलाधायकानि भक्ष्याणि निगद्य कामक्रोधादिजयादिकमभ्यधात्.....
- अध्यायः - ३०१. "सम्यक्त्वयाऽयं नृपते" (१) इत्यादिना सांख्यविधिं जिज्ञासुना युधिष्ठिरेणानुयुक्तो भीष्मः "शृणु मे त्वमिदं सूक्ष्मम्" (३) इत्यारभ्य "तथा विज्ञाय चाशुभान्" (५२) इत्यन्तेन ग्रन्थेन तमाख्यातवान् । “कान् स्वगात्रोद्भवान् दोषान्पश्यसि” (५३) इति युधिष्ठिरप्रश्रे भीष्मो देहस्य कामादीन्दोषांस्तच्छेदनोपायांश्चाभिधाय "ततो दुःखोदकं घोरं” (६४) इत्यादिना संसारसमुद्रतरणादिकमाख्याय मोक्षप्राप्तिं चाचख्यौ । “स्थानमुत्तममासाद्य” (८०) इत्यादिना मोक्षे विशेषविज्ञानमस्ति न वेत्येतत्तात्पर्यकं युधिष्ठिरप्रश्नमाकर्ण्य भीष्मस्तदभिनन्दनपुरःसरं "यथान्यायं त्वया तात” (८४ ) इत्यादिना तदुत्तरमभिधाय "ज्ञानं महद्यद्धि महत्सु" (१०८) इत्यादिना सांख्याज्ञानं प्रशशंस.....
- अध्यायः - ३०२. अक्षरक्षरयोर्विवेकं ज्ञातुं युधिष्ठिरेणानुयुक्तो भीष्मो वसिष्ठकरालजनकसंवादरूपमितिहासकथनमुखेनोत्तरमाह । “भगवन् श्रोतुमिच्छामि परं ब्रह्म सनातनं" (११) इत्यादिना क्षराक्षरार्विषयकं प्रश्नं कुर्वति जनके क्षराक्षरयोर्विवेकं कथयन् वसिष्ठश्चतुर्विंशति तत्त्वात्मकं क्षरमुपदिश्य पञ्चविंशमक्षरत्वेनोपदिदेश....
- अध्यायः - ३०३. प्रकृतिसंयोगात् पुरुषस्तामेवानुवर्तत इति, पूर्वाध्यायोक्तमेवाभिनयपूर्वकं विस्तरेण व्याचख्यौ वसिष्ठः ........
- अध्यायः - ३०४. "पूर्वोक्तं व्याख्यानं समाप्यान्ते "तत्क्षयान्मोक्ष उच्यते" (७) इत्यनेन प्रकृतिक्षयान्मोक्ष इत्याह......
- अध्यायः - ३०५. प्रकृतिक्षयान्मोक्ष इति श्रुत्वा प्रकृतिपुरुषयोस्तुल्यत्वेन निवृत्यसम्भवं मन्वानस्य जनकस्य "अक्षरक्षरयोरेषः" (१) इत्याद्याक्षेपे वसिष्ठो "यदेतदुक्तं भवता" (११) इत्यादिना आक्षेपं निरस्यान्ते “एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते" (३६) इत्याद्याह.......
- अध्यायः - ३०६. नानात्वैकत्वाविषये सन्देहपूर्वकं" तदेतच्छ्रोतुमिच्छामि" (४) इत्यादिना जनकेन कृतानां प्रश्नानामुत्तराणि वदन् वसिष्ठो "हन्त ते संप्रवक्ष्यामि” (६) इत्यारभ्य "योगदर्शनमेतावत्” (२६) इत्यन्तेन योगदर्शनमुक्त्वा सांख्यज्ञानमित्यादिना सांख्यदर्शनं व्याचष्टे स्म........
- अध्यायः - ३०७. “विद्याविद्ये त्विदानीं मे" (१) इत्यारभ्य "विद्याविद्यार्थत्वेन” (१०) इत्यन्तेन विद्याविद्ये अभिधाय "अक्षरं च क्षरं चैव” (१०) इत्यारभ्य “अक्षरक्षरयोरेतत्” (४२) इत्यन्तेन क्षराक्षरे निरूप्य "यदेव शास्त्रं" (४४) इत्यादिना सांख्ययोगयोरैक्यं बोधयति स्म वसिष्ठः.........
- अध्यायः - ३०८. ’अथ बुद्धमथाबुद्धम्" (१) इत्यारभ्य "प्रोक्तो बुद्धश्च तत्त्वेन" (२२) इत्यन्तेन बुद्धाबुद्ध बुद्धमानान् प्रदर्श्य "नानात्वैकत्व” (२२) इत्यादिनैकत्वनानात्वे निरूप्य “एतावदेतत्कथितं" (३१) इत्यादिनोपसंजहार वसिष्ठः । भीष्म इमं वसिष्ठकरालजनकसंवादमुपदिश्य "एतदुक्तं परं ब्रह्म" (४२) इत्यादिनैतत्प्राप्तिपरम्परामाख्याय “मा शुचः” (४६) इत्यादिकमुपदिदेश........
- अध्यायः - ३०९. अक्षराधिगमेऽधिकारहेतुन्कांश्चिद्धर्मान्वक्तुं भीष्मो “मृगयां विचरन् कश्चित्" (१) इत्यादिना भार्गववसुमत्संवादेतिहासं व्याजहार......
- अध्यायः - ३१०. “धर्माधर्मविमुक्तं यत्" इत्यादिके युधिष्ठिरेण पृष्टे भीष्मो जनकयाज्ञवल्क्यसंवादेतिहासकथनद्वारोत्तरमवदत् । "कतीन्द्रियाणि विप्रर्षे” (५) इत्यादिना जनकेन कृतानां प्रश्नानामुत्तराणि वदन् याज्ञवल्क्यः "श्रूयतामवनीपाल" (८) इत्यादिना जनकं प्रशस्याष्टौ प्रकृतीः षोडशविकारान् महदादीन् नव सर्गांश्चाभ्यधात्.....
- अध्यायः - ३११. “अव्यक्तस्य नरश्रेष्ठ" (१) इत्यादिना कालसंख्यां वर्णयति स्म याज्ञवल्क्यः......
- अध्यायः - ३१२. तत्त्वसंख्यानकालसंख्यानकथनमनूद्य "यथा संहरते" (२) इत्यादिना संहारं व्याजहार याज्ञवल्क्यः.....
- अध्यायः - ३१३. पूर्वाध्यायान्ते “अध्यात्ममधिभूतं च” (१७) इत्यादिना कथनीयत्वेन प्रतिज्ञातान्यध्यात्माधिभूताधिदैवानि "पादावध्यात्ममित्याहुः” (१) इत्यादिना निर्दिश्य प्रकृतिः स्वच्छन्देन गुणान् विकुरुते इत्याह याज्ञवल्क्यः........
- अध्यायः - ३१४. “एते प्रधानस्य गुणाः” (१) इत्यादिना सात्त्विकादिना प्राप्याणि स्थानान्याख्यायाचेतनायाः प्रकृतेश्चेतनपुरुषाधिष्ठितायाः सर्गादिकर्तृत्वमाह याज्ञवल्क्यः । “अनादिनिधनावेतौ" (१३) इत्यादिना प्रकृतेरचेतनत्वमाक्षिप्य “अस्तित्वं केवलत्वं च" (१६) इत्यादीन् प्रश्नांश्चकार जनकः ।........
- अध्यायः - ३१५. तेषां प्रश्नानामुत्तराणि व्युत्क्रमेण वदन् याज्ञवल्क्यो "न शक्यो निर्गुणस्तात" (१) इत्यादिना साङ्ख्यं प्रावोचत्........
- अध्यायः - ३१६. योगं कथयन् याज्ञवल्क्यः साङ्ख्ययोगयोरेकत्वमुपपाद्य मनोधारणादिकं चाख्याय, युक्तयुञ्जानयोर्योगिनोर्लक्षणे अभिदधाति स्म.......
- अध्यायः - ३१७. “तथैवोत्क्रममाणं तु" (१) इत्यादिनोत्क्रममाणस्य स्थानान्यभिधाय "अरिष्टानि प्रवक्ष्याभि” (९) इत्यादिनाऽरिष्टानि चोक्त्वा साङ्ख्ययोगयोर्मुख्यं फलमाख्यातवान् याज्ञवल्क्यः.......
- अध्यायः - ३१८. "अव्यक्तस्थं परं यत्तत्" (१) इत्यादिनोत्तरकथनं प्रतिज्ञाय सूर्यात् सकाशात् स्वस्य वेदप्राप्त्यादिकमभिधाय विश्वावसुगन्धर्वकृतानां “विश्वाविश्वं तथाश्वाश्वं" (२८) इत्यादिना चतुर्विंशतिप्रश्नानां स्वेन दत्तानि तावन्त्युत्तराणि चाख्याय “पञ्चविंशं" (५८) इत्यादिना पुनर्विश्वावसुकृते प्रश्ने तदुत्तरं चाभिधाय "एवमप्रतिबुद्धश्च" (८१) इत्यादिनोपसञ्जहार याज्ञवल्क्यः । एवमुपदिश्य याज्ञवल्क्ये गते जनकेन कृतं, गोकोटिदानादिकमभिधाय युधिष्ठिरमुपदिदेश भीष्मः..
- अध्यायः - ३१९. ऐश्वर्यादिकमवाप्य “कथं मृत्युमतिक्रमेत्" (१) इति युधिष्ठिरप्रश्ने भीष्मः पञ्चशिखजनकसंवादमाचख्यौ स्वधर्ममाचरन् निवृत्तिमार्गनिष्ठो जरान्तकावतिक्रामति इत्यध्यायतात्पर्यम्.......
- अध्यायः - ३२०. “अपरित्यज्य गार्हस्थ्य" (१) इत्यादिना गार्हस्थ्यमपरित्यजतो मोक्षः कथमिति पृष्टो भीष्मस्तद्विषये सुलभाजकसंवादरूपमितिहासमुदीरयति स्म । कदाचित् जगत्यटन्ती सुलभा संन्यासिनां मुखाज्जनकस्य मोक्षशास्त्रनिष्णातत्वं श्रुत्वा सन्दिहाना तत्परीक्षार्थं रूपान्तरेण मिथिलामागता राज्ञा सत्कृता सती योगबलेन तच्छरीरं प्रविश्य तस्य चित्तं बबन्ध | सुलभयैवं निबद्धचित्तो जनकस्तां प्रति "भगवत्या क्व चर्येयं कृता क्व च गमिष्यसि" (२०) इत्यादिप्रश्नान् कुर्वन् जीवन्मुक्तत्वमाख्यातुं स्वस्य पञ्चशिखशिष्यत्वं तत्कृतमुपदेशं चोदीर्य स्वस्यासङ्गत्वं प्रकाश्य “सौकुमार्यं तथा रूपं" (५४) इत्यादिना तस्याः संन्यासविरुद्धाचारप्रदर्शनाय परशरीरप्रवेशेनाश्रमसङ्करादिकरत्वमुद्भाव्य “सा त्वं जातिं श्रुतं वृत्तं” (७५) इत्याद्यब्रवीत् । जनकवाक्यं श्रुत्वा वक्तुं प्रवृत्ता सुलभा प्रथमं “नवभिर्नभिश्चैव" (७८) इत्यादिना वाक्यलक्षणं वाक्यस्य गुणदोषांश्चाख्याय "यथा जतु च काष्ठं च" (९५) इत्यादिना जतुकाष्ठादियोगसंयोगवच्चिदचित्सङ्घातात्मके शरीरे तदन्तर्वर्तिनि चिदंशे च भेदाभावादिकं प्रतिपालयितुं “विंशतिर्दश चैवं हि" (१११) इत्यादिना शरीरस्वरूपं "बिन्दुन्यासादयोऽवस्थाः” (११५) इत्यादिना तदवस्था अभिधाय "यद्यात्मनि” (१२६) इत्यादिना काऽसि कस्यासीति प्रश्नासम्भवमुद्भाव्य "रिपौ मित्रे च” (१२८ ) इत्यादिना मुक्तामुक्तलक्षणानि चाख्याय "तानि तानि” (१३२) इत्यादिना राज्ञोऽस्वतन्त्रत्वं राज्ये दुःखानि चोक्त्वा "ननु नाम त्वया” (१६२ ) इत्यादिना राजानमधिक्षिप्य तदुद्भावितान्याश्रमसङ्करादीनि निरस्य “प्रधानो नाम राजर्षिः” (१८१) इत्यादिना स्वस्य वृत्तान्तमुदीर्य तत्त्वजिज्ञासार्थमहमागतेत्युक्त्वा तव शरीरे अद्य स्थित्वा श्वो गमिष्यामीत्युवाच । सुलभावाक्यं श्रुत्वा जनकस्तूष्णीमासीदित्याह भीष्मः तृष्णींभावे तात्पर्यं तु, गार्हस्थ्ये मुक्तिदौर्लभ्यात्संन्यास एव श्रेयानिति सुलभामतमेव सिद्धान्त इति........
- अध्यायः - ३२१. "कथं निर्वेदमापन्नः शुको वैय्यासिकिः पुरा” (१) इति युधिष्ठिरेणानुयुक्तो भीष्मः पूर्वाख्याने श्रेष्ठत्वेनाभिहितस्य संन्यासस्य धर्मानुपदेष्टुं व्यासेन कृतं शुकानुशासनं व्याकुर्वन्नुत्तरमाह । व्यासः शुकं पुत्रमध्याप्य "धर्मे पुत्र निषेवस्व” (४) इत्यादिना "धनेन किं यन्न ददाति नाश्नुते " (९३) इत्यन्तेन मोक्षसाधनत्वेन संन्यासधर्मानुपादिक्षत् शुकोऽप्येतच्छ्रुत्वा व्यासं परित्यज्य जगाम......
- अध्यायः - ३२२. “यद्यस्ति दत्तमिष्टं वा" (१) इत्याद्यनुयुञ्जानं युधिष्ठिरं प्रति भीष्मः "आत्मनाऽनर्थयुक्तेन” (२) इत्यादिना पुरा कृतस्य कर्मणो जन्मजन्मन्यनुवर्तनमाचख्यौ......
- अध्यायः - ३२३. "कथं व्यासस्य धर्मात्मा” इत्यादिना (१) शुकोत्पत्त्यादिविषये युधिष्ठिरेणानुयुक्तो भीष्मः तत्कथयन् मेरुशृङ्गे पुत्रप्राप्त्यर्थं कर्णिकारवने विहरन्तं महादेवं तोषयितं तत्र शतं वर्षाणि तपो विधाय तुष्टान्महादेवात्पुत्रप्राप्तिरूपं वरमलभत व्यासः.....
- अध्यायः - ३२४. कदाचिद् घृताचीदर्शनेन क्षुभितमनसो व्यासस्यारण्यां स्खलिताद्रेतसः समुत्पन्नः शुको महादेवेनोपनीत इन्द्रेण कमण्डल्वादिना संभावितो बृहस्पतेः सकाशाद्वेदानधीत्य गुरवे दक्षिणां दत्वा समावृत्तस्तपश्चचार........
- अध्यायः - ३२५. मोक्षार्थिनः शुकस्य प्रश्ने व्यासस्तस्मै कापिलं योगं चोपदिश्य मोक्षधर्मज्ञानार्थं जनकं गच्छेत्युवाच । व्यासवाक्यान्निर्गतः शुको मिथिलां गत्वा जनकस्य प्रमदावने तां रात्रिमुवास.......
- अध्यायः - ३२६. द्वितीयेऽह्नि जनकेन सम्मानपुरस्सरं कुशलप्रश्नादिना संभावितः शुकः पित्राज्ञया मोक्षधर्मान् प्रष्टुं समागतोऽस्मीत्युक्त्वा “किं कार्यं ब्राह्मणेनेह” (१३) इत्यादीन् प्रश्नांश्चकार । एवं कृतप्रश्नो जनको “यत्कार्यं ब्राह्मणेनेह” (१४) इत्यादिनोत्तरमाह । “उत्पन्ने ज्ञानविज्ञाने" (२०) त्रिष्वाश्रमेष्ववश्यं वस्तव्यं, न वा इति शुकेनानुयुक्तो जनको ज्ञानविज्ञानप्राप्त्यर्थं ब्रह्मचर्यस्यावश्यकत्वमभिधाय ततः प्रागेव वा तदुत्पत्तौ लोकसङ्ग्रहार्थं तदावश्यकत्वं चाख्याय, चित्तशुद्ध्यर्थमाश्रमधर्माचरणं तच्छुद्धौ तेषां वैयर्थ्यं चोदीर्य शुकस्याधिकारं निरूप्यान्ते किमन्यत् श्रोतुमर्हसीत्युवाच..
- अध्यायः - ३२७. भीष्मो, जनकवाक्यश्रवणानन्तरं शुकस्य हिमालयं प्रति गमनं तद्वर्णनपुरस्सरं कार्तिकेयस्य शक्तिप्रक्षेपादिवृत्तान्तमुत्तरस्यां दिशि व्यासस्याश्रमं तत्र गतस्य शुकस्य व्यासवन्दनपुरस्सरं जनकसमागमवृत्तान्तनिवेदनं चाचष्ट, "षष्ठः शिष्यो न ते ख्याति” (४०) इत्यादि प्रार्थयन्तो व्यासशिष्या व्यासेन कथितं वेदोपदेशादिविधिं श्रुत्वा जहृषुः......
- अध्यायः - ३२८. हृष्टा व्यासशिष्याः शाखाविभागादिना वेदाननकधा कर्तुं व्यासानुज्ञां गृहीत्वा पृथ्वीमवतीर्य चातुर्होत्रमचीक्लॄपन् । शिष्येषु गतेष्वनधीयानो व्यासो "भो मो ब्रह्मर्षिवासिष्ठ’ (१२) इत्यादिना नारदेन पृष्टोऽनध्ययनकारणं शिष्यगमनमभिदधानः पुनर्नारदेनानभ्यासस्य, वेदमूलत्वे कथिते तदुपदेशाच्छुकेन सह वेदाध्ययनं प्रारभत । अधीयानयोर्द्वयोरकस्मान्महति वाते प्रवृत्तेऽनध्यायं कुर्वन्व्यासः शुकेन वायूत्पत्त्यादिविषयेऽनुयुक्तः स तत्सर्वमकथयत्.......
- अध्यायः - ३२९. व्यासाश्रमे पुनरागतो नारदः शुकेन सत्कृतः "केन त्वां श्रेयसा वत्स" (३) इत्यद्युवाच तं प्रति । "अस्मिन्लोके हितं यत्स्यात्तेन मां योकुमर्हसि” (३) इति शुकेन प्रार्थितो नारदस्तं प्रति "तत्त्वं जिज्ञासतां पूर्वमृषीणां भावितात्मनाम् ॥ सनत्कुमारो भगवानिदं वचनमब्रवीत्" (५) इत्यारभ्य एकत्रिंशदधिकत्रिशततमाध्यायस्थैतत्ते परमं गुह्यम् (४५) इत्यादि पञ्चचत्वारिंशत्तमश्लोकपर्यन्तेन हितमुपदिदेश........
- अध्यायः - ३३०. .....................................
- अध्यायः - ३३१. "नारदस्य वचः श्रुत्वा" इत्यादिषट्चत्वारिंशत्तमश्लोकपर्यन्तेन ग्रन्थेन नारदवाक्यश्रवणानन्तरं दीप्ततेजसमादित्यं गत्वा सुखं वत्स्यामीति निश्चित्य, तत्रत्यान्नगादीनापृच्छ्य नारदानुज्ञामादाय पितरं नमस्कृत्य तत्त्यागपूर्वकं कैलासपृष्ठं जगाम शुकः इत्याह स्म भीष्मः.....
- अध्यायः - ३३२. “गिरिशृङ्गं समारुह्य” (१) समे विविक्ते देशे उपविश्य योगधारणयाऽऽत्मानं सर्वसङ्गविनिर्मुक्तं दृष्ट्वा हासं कुर्वाणो नारदेनाभ्यनुज्ञातो विहायसा गच्छन् सर्वैर्भूतैर्विस्मयपूर्वकमालोकितो मलयपर्व ते उर्वश्यादिभिः स्तुतो दिगादीनालोक्य तान्प्रति "मत्पृष्ठतः शुकेत्याह्वानपूर्वकमागच्छन्तं मत्पितरं प्रति प्रत्युत्तरं देयं सर्वैः" इत्युवाच ते च तद्वचनमङ्गीचक्रुः.....
- अध्यायः - ३३३. भीष्मः शुकस्य सिद्धिप्राप्तिं तत्समये उल्कापातादिकं पर्वतभेदनपूर्वकं तस्य गमनं तत्समये देवादीनां कोलाहलादिकं तस्य मन्दाकिनीदर्शनं तत्रत्यानामप्सरसां तद्दर्शने लज्जाभावं तस्य ब्रह्मप्राप्तिं चाभ्यधात् । पुत्रस्य पृष्ठतः आह्वानपूर्वकं गच्छन् व्यासः पर्वतादिभिर्दत्तप्रतिवचनः स्वदर्शनेन लज्जिता अप्सरसो दृष्ट्वा पुत्रप्रभावं निश्चित्य प्रीतो वीडितश्च तत्कालागतेन महादेवेन छायाशुकदर्शनरूपे वरे दत्ते तत्प्रभावाच्छुच्छायां सर्वत्र पश्यन्मुमोद......
- अध्यायः - ३३४. “गृहस्थो ब्रह्मचारी वा" (१) इत्यादिना सिद्धिप्राप्तीच्छुः कां देवतां यजेतेत्यादीन्प्रश्नान्कुर्वति युधिष्ठिरे भीष्मो "गूढं मां प्रश्नावित्प्रश्नं” (५) इत्युक्त्वा नारायणनारदसंवादरूपमितिहासं वर्णयन् उत्तरमाह स्म । नारायणस्य जन्मादिवृत्तान्तमाख्याय बदर्याश्रमे नारदागमनमाचष्ट भीष्मः । “वेदेषु सपुराणेषु” (२५) इत्यादिना "जगद्गुरुस्त्वं कं त्वद्य यजसे देवम्" इत्यादि पृच्छन्तं नारदं प्रति “अवाच्यमेतद्वक्तव्यं" (२८) इत्यादिनोत्तरमुदैरयन्नारायणः......
- अध्यायः - ३३५. "यदर्थमात्मप्रभवेण जन्म" (२) इत्यादिना श्वेतद्वीपस्थामाद्यां मूर्तिं द्रष्टुं प्रार्थयन्नारदो नारायणानुज्ञया श्वेतद्वीपं जगाम भीष्मश्च तत्रत्यान्लोकान् वर्णयति स्म । "अनिन्द्रिया निराहाराः" (१३) इत्यादिना तत्रस्थाः पुरुषाः कथं निरिन्द्रियत्वादिविशिष्टाः कथं जाताः इत्यादि पृच्छन्तं युधिष्ठिरं प्रति तदुत्तरं कथयन् भीष्म उपरिचरराजवृत्तान्तं व्याजहार । उपरिचरराजस्य राज्यस्थितिं संवर्ण्य मरीच्यादयः स्वायम्भूवसहिताः स्वनिर्मितं शास्त्रमशरीरस्य भगवतो वाक्यात् बृहस्पतौ स्थापयित्वा यथेप्सितं देशं जग्मुरित्याह भीष्मः.......
- अध्यायः - ३३६. पुनर्भीष्मः "ततोऽतीते महाकल्पे" (१) इत्यादिना बृहस्पतेरुत्पत्त्या देवानां सुखं तन्नामनिर्वचनं चाख्यायोपरिचरवसोरश्वमेघयज्ञवृत्तान्तमुदीरयन् यज्ञेऽदृश्येन भगवता भागे गृहीते क्रुद्धस्य बृहस्पतेः स्रुचा आकाशताडनाद्यभिदधाति स्म । "किमर्थमिह न प्राप्तो दर्शनं स हरिः” (१६) इत्यादिके युधिष्ठिरप्रश्ने भीष्मस्योत्तरम् । क्रुद्धस्य बृहस्पतेः सान्त्वनं कुर्वन्त एकतद्वितत्रितादय ऋषयो भगवद्दर्शनार्थं स्वतपश्चरणं भगवदाज्ञयाश्वेतद्वीपगमनं, "पुनस्तत्र एतेषां दर्शनेन भगवद्दर्शनम्" इत्याद्यदृश्यपुरुषवाक्यश्रवणं चाचख्यौ । बृहस्पतिना समापितयज्ञ उपरिचरो वसुर्ब्रह्मशापादन्तर्भूमिगतो भगवत्प्रसादादुपर्यागत्य ब्रह्मलोकं जगामेत्याह भीष्मः.......
- अध्यायः - ३३७. भागवतो राजा कथं स्वर्गाद् भ्रष्ट इति, युधिष्ठिरेण पृष्टो भीष्मो देवानामृषीणां च संवादरूपमितिहासमाचष्ट । अजेन यष्टव्यमिति प्रतिपादयत्सु देवेषु बीजैर्यष्टव्यं, न पशुनेति, प्रतिपादयत्स्वृषिषु उभयोर्विवादनिर्णयार्थमुभाभ्यां पृष्टे उपरिचरे देवपक्षपातेन पशुना यष्टव्यमित्युक्तवति तमृषयो “दिवः पत" इत्यादि शेपुः । शापमोचनार्थं देवैरुपदिष्टो वसुर्भूमिविवरगतोऽपि भगवन्तमर्चयंस्तुष्टेन भगवता गरुडेनोर्पयानायितो ब्रह्मलोकं जगाम । भीष्मस्तु नारदस्य श्वेतद्वीपगमनमाख्यातुं प्रतिजज्ञे........
- अध्यायः - ३३८. नारदः श्वेतद्वीपं गत्वा "नमस्ते देवदेवेश" इत्यादिभिः शतनामभिर्भगवन्तं तुष्टाव.....
- अध्यायः - ३३९. स्तवेन तुष्टे नारायणे प्रादुर्भूय वरं याचस्वेत्युक्तवति नारदो भगवतः साक्षाद्दर्शनमभूदेतावानेव वरो नान्यो याचनीय इत्याह । नारायणो नारदं प्रति स्वमाहात्म्यप्रदर्शनपूर्वकमात्मतत्त्वमुपदिशन् आत्मनः सकाशाद्ब्रह्मादिसृष्टिं, ब्रह्मणे स्वदत्तान् वरान्, अनिरुद्धादिचतुर्व्यूहकार्याणि, स्वकर्तव्यकर्माणि चाख्यायान्तर्धानमयासीत् । ब्रह्मा नारायणमाहात्म्यं कथं नाज्ञासीदित्याश्चर्यपूर्वकं पृच्छति युधिष्ठिरे भीष्मस्तदुत्तरमभिधाय नारायणीयोपाख्यानप्राप्तिपरम्परामगादीत् । वैशम्पायनस्य भीष्मस्य सौतेश्च जनमेजययुधिष्ठिरर्षीन् प्रत्युक्तयः.....
- अध्यायः - ३४०. "कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः" (१) इत्यादिषु शौनकप्रश्नेषु सौतेस्तदुत्तरकथनप्रतिज्ञा । "इमे सब्रह्मका लोका:” (७) इत्यादि पृच्छन्तं जनमेजयं प्रति वैशम्पायनो व्यासोक्तिकथनेनोत्तरं वक्तुं प्रतिजज्ञे । व्यासः सुमन्तुप्रभृतीन् शिष्यान्प्रति त्रैकालिकज्ञानं कथयितुं प्रतिज्ञाय पृथिव्यादिसृष्टिप्रकारमुदैरय रुद्रादिभिर्देवैः “किमस्माकं हितं” इति पृष्टो ब्रह्मा तेषां हितोपायमुपदिश्य तैः सह क्षीरसमुद्रं गत्वा तपश्चचार । तपसा तुष्टेन भगवता यज्ञकरणार्थमाज्ञप्ता देवा वैष्णवयज्ञानुष्ठानमारभ्य स्वं स्वं भागं परिकल्पयाञ्चक्रुः । कल्पितदेवयज्ञभागान् देवान्प्रति कल्पितो भागः" (५९) इत्याद्युक्त्वा सत्यादियुगधर्मानाचष्ट भगवान् । “कलियुगे किं कर्तव्यमस्माभिः" इति देवैः पृष्टेन भगवता "यत्र वेदाश्च यज्ञाश्च” (८८) इत्यादिना सेव्यदेशे कथिते ते सर्वे स्वस्वस्थानान्यभ्ययुः । एतेषु देवेषु गतेष्वेकाकी स्थितो ब्रह्मा हयग्रीवं भगवन्तं दृष्ट्वा प्रणनाम भगवांश्च तमालिङ्ग्योपविश्य चान्तरधात्। वैशम्पायनो व्यासकृतं भगवत्स्तवं तच्छ्रवणादिफलं चोदीर्योपसञ्जहार.....
- अध्यायः - ३४१. भगवन्नामनिरुक्तीः श्रोतुं जनमेजयेन पृष्टो वैशम्पायनः श्रीकृष्णार्जुनयो: प्रश्नोत्तरकथनेन ता व्याख्याय हृषीकेशनामनिर्वचनप्रसङ्गेनाग्नीषोमयोरेकयोनित्वमाचख्यौ......
- अध्यायः - ३४२. “अग्नीषोमौ कथं पूर्वमेकयोनी प्रवर्तितौ” (१) इत्यर्जुनेन पृष्टः श्रीकृष्णस्तदुत्तरं कथयन् “सम्प्रक्षालनकाले” (३) इत्यादिना प्रलयान्ते तमसः प्रादुर्भूतस्य हरेः प्रजाः सिसृक्षमाणस्य नेत्राभ्यामनीषोमोत्पत्तिमभिधाय "यः सोमस्तद्ब्रह्म” (९) इत्यादिना ब्राह्मणश्रैष्ठ्यमाचष्ट । ब्राह्मणश्रैष्ठ्ये एवोदाहरणान्यभिधास्यन् "अहल्याधर्षणनिमित्तं हि" (२३) इत्यादिना अहल्याधर्षणादीन्याख्यायैतत्प्रसङ्गादेव "विश्वरूपो हि वै त्वाष्ट्रः” (२८) इत्यादिना त्वाष्ट्रवधादिकमिन्द्रवृत्तान्तादिकमुक्त्वा, एवं विधं माहात्म्यं ब्राह्मणानाम् इति व्याहृत्य हृषीकेशपदनिर्वचनं निगमय्य हर्यादिपदानां निर्वचनान्यभिदधदन्ते खण्डपरशुनामनिर्वचनप्रसङ्गेनार्जुनप्रश्नमुखेन रुद्रनारायणयोर्युद्धवृत्तान्तमभिधाय रुद्रमाहात्म्यमुपदिशति स्मार्जुनं कृष्णः.......
- अध्यायः - ३४३. शौनकस्य सौतेश्च प्रश्नोत्तरानन्तरं "भगवद्वाक्यं ध्यायता नारदेन किमाचरितम्” इत्यादिषु जनमेजयप्रश्नेषूत्तरं वदन् वैशम्पायनो भगवत्तत्त्वमाचष्ट । नारदस्य बदर्याश्रमगमनादिविषये पृच्छन्तं जनमेजयं प्रति वैशम्पायन उत्तरं वदन् नारदस्य बदर्याश्रमागमनं कथयित्वा नरनारायणयो रूपं वर्णयति स्म । “अपीदानीं स भगवान्” (४६) इत्यादिना श्वेतद्वीपे आवयोः प्रकृतिर्दृष्टा किमिति नरनारायणाभ्यां पृष्टो नारदः श्वेतद्वीपस्थवृत्तान्तमभिदधाति स्म......
- अध्यायः - ३४४. नारदः स्वप्रशंसासहितं नरनारायणवाक्यं श्रुत्वा जपादिकं कुर्वन्, बदर्याश्रम एवावसत्.......
- अध्यायः - ३४५. नारदो दैवं पितृत्र्यं च कर्म कुर्वन् "क इज्यते द्विजश्रेष्ठ” (२) इति पृच्छन्तं नारायणं प्रति "त्वयैतत्कथितं” (४) इत्यादिनोत्तरमभिधाय “त्रीन् पिण्डान्न्यस्य वै पृथ्व्याम्” (११) इत्यादि पप्रच्छ । एवं पृच्छन्तं नारदं प्रति नरनारायणौ “इमां हि धरणीं पूर्वं" (१२) इत्यादिनोत्तरमभिदधानो पृथिव्युद्धरणानन्तरं दंष्ट्रालग्नांस्त्रीन् पिण्डान्भूमौ निधाय लोकमर्यादास्थापनार्थं "अहं हि पितरः स्रष्टुं” (१८) इत्यादिकां तदुक्तिमभ्यधात्.....
- अध्यायः - ३४६. नरनारायणोपदेशलब्धभक्तिर्नारदस्तयोराश्रमे सहस्रं वर्षाणि निरुष्य हिमालयस्थं स्वमाश्रमं जगाम । सौतिर्नारायणीयोपाख्यानमुपसंहृत्य नरनारायणमाहात्म्यकथनपूर्वकमाशिषमाह स्म.........
- अध्यायः - ३४७. हयग्रीवावतारशुश्रूषया शौनकेन पृष्टः सौतिस्तत्कथनं प्रतिजज्ञे, हयग्रीवावतारविषये जनमेजयप्रश्ने तदुत्तरं कथयन्, वैशंपायनो "यत्किंचिदिह लोके वै" (१२) इत्यादिना सर्वेषां पञ्चभूतात्मकत्वं प्रलयं चाभिधाय तदवसाने अनिरुद्धात्पद्मे ब्रह्मणः प्रादुर्भाव मधुकैटभयोरुत्पत्तिं चाकथयत् । मधुकैटभयोर्वेदानादृत्य रसातलं गतयोब्रह्मणो विलापपूर्विकया स्तुत्या तुष्टो भगवान् हयग्रीवरूपेणाविर्भूय रसातलं ततो वेदानाहृत्य ब्रह्मणे समर्प्य स्वप्रकृतिस्थो बभूव । मधुकैटभौ वेदस्थानं शून्यं दृष्ट्वा तान् शोधयन्तौ शेषतल्पशायिनं भगवन्तं दृष्ट्वा अयमेव वेदहर्तेति निश्चित्य तं प्रबोधयामासतुः । स च ताभ्यां युद्धं कुर्वंस्तौ हत्वा ब्राह्मणे लोकसर्जनमतिं दत्वाऽन्तर्दधे । हयग्रीवावतारवृत्तांतश्रवणफलं निर्दिश्य नारायणमाहात्म्यं जगाद वैशम्पायनः.......
- अध्यायः - ३४८. “अहो ! ह्येकान्तिनः सर्वान्" (१) इत्यादिना ऐकान्तधर्मिणः प्रशस्य “केनैष धर्मः कथितः" (६) इत्यादिना तद्विषयकान् प्रश्नान्कुर्वति जनमेजये वैशम्पायनः "समुपोढेष्वनीकेषु” (८) इत्यादिना कृष्णभीष्मसमीपे पार्थं प्रति नारदोक्तस्य कथनं प्रति जज्ञे । “यदासीन्मानसं जन्म” (१३) इत्यारभ्य "यत्र वैकान्तिनो यान्ति नारायणपरायणाः" (६६) इत्यन्तेन मानस-चाक्षुष-वाचिक-श्रावण-नासत्याण्डज-पाद्माख्यानि ब्रह्मणः सप्त जन्मानि प्रतिजन्मानि नारायणादेतद्धर्मप्राप्तितत्परम्परादिकं च विवृत्य प्रशंसापूर्वकं तद्धर्मप्राप्यां गतिमाचष्ट । "एवं बहुविधं धर्मं” (६६) इत्यादिना जनमेजयवैशम्पायनयोरुत्तरप्रत्युत्तरे....
- अध्यायः - ३४९. "साङ्ख्यं योगः पाञ्चरात्रं” (१) इत्यादिना सांख्ययोगपाञ्चरात्रोपनिषदामेकनिष्ठत्वं पृथङ्निष्ठत्वं वेति सन्देहपूर्वके जनमेजयप्रश्ने वैशम्पायनस्तदुत्तरं वदन्, प्रथमं नारायणो व्यासं ससर्जेत्यवोचत् । "त्वयैव कथितं पूर्वं" (६) इत्यादिना नारायणो व्यासं ससर्जेत्युक्तिमाक्षिप्य पृच्छति जनमेजये वैशम्पायनस्तत्समाधानं वदन्नुत्तरमाह मत्सहितैः सुमन्तुप्रभृतिभिः पञ्चभिः शिष्यैः सह हिमवत्पादे साङ्गान्वेदान् भारतार्थांश्चावर्तयन् स्थितो व्यासो नारायणाद्यज्जन्म, तद्विपये शिष्यैरनुयुक्तः सन्भगवतः प्रथमं ब्रह्मणो निर्माणं तस्य प्रजासर्गविषये तत्प्रवर्तनं चाध्याय वाचः सकाशादपान्तरतुमनाम्नः पुत्रस्य निर्माणं तत्कृतं वेदविभागं च प्रतिपाद्य कलियुगे पराशरात्ते जन्म भविष्यति तदा पुनर्वेदान् विभजेति भगवदाज्ञां चाभिधाय स्वजन्मवृत्तान्तमुपसञ्जहारेत्याह वैशम्पायनः । एतदाख्याय सांख्ययोगपाञ्चरात्रादीनां तत्तद्वक्तृप्रशंसापूर्वकं प्रामाण्यं प्रतिपाद्य सर्वेषामवान्तरतात्पर्यभेदेपि परमतात्पर्यं त्वेकमेवेत्यभिप्रायेण तेषां नारायणनिष्ठत्वमवादीद्वैशम्पायन.......
- अध्यायः - ३५०. “बहवः पुरुषा ब्रह्मन्" (१) इत्यादिके जनमेजयप्रश्ने तदुत्तरं व्याहरन् वैशम्पायनो "बहवः पुरुषा लोके" (२) इत्यादिना साङ्ख्ययोगमते पुरुषबहुत्वं स्वम-तेन पुरुषैकत्वं च प्रतिपाद्यैतद्विषये ब्रह्मरुद्रसंवादरूपमितिहासमाचचक्षे । वैजयन्तपर्व तमधिष्ठितो ब्रह्मा स्वसमीपागतं रुद्रं स्वागतप्रश्नादिना सदाकार्षीत्, ततो रुद्रेण "को ह्यसौ चिन्त्यते ब्रह्मन् त्वयैकः पुरुषोत्तमः” (२४) इत्यनुयुक्तो ब्रह्मा एकं पुरुषं प्रत्यपादयत्........
- अध्यायः - ३५१. ब्रह्मा पुनः पुनः पुरुषस्य वस्तुत एकत्वमुपाधिभेदात् बहुरूपत्वं चाख्याय तदनुसंदधानो "मन्तामन्तव्यम् प्राशिताप्राशितव्यम्" (१७) इत्यादिना भेदं रूपयामास......
- अध्यायः - ३५२. “धर्माः पितामहेनोक्ताः" (१) इत्यादिना आश्रमिणां श्रेष्ठधर्मं वकुमर्हसीति युधिष्ठिरेण पृष्टो भीष्मः "सर्वत्र विहितो धर्मः” (२) इत्यादिना गृहस्थधर्मस्य श्रेष्ठ्यं प्रतिपादयितुमिन्द्रं प्रति नारदकथितमुञ्छवृत्त्युपाख्यानमाह स्म...........
- अध्यायः - ३५३. गङ्गादक्षिणतीरे महापद्मनगरे अत्रिगोत्रसमुत्पन्नः कश्चिद्ब्राह्मण आसीत्स च धर्मविषये निश्चयमलभमानो यावत् चिन्तयति तावदागतमतिथिं सत्कृत्य तमपृच्छत्........
- अध्यायः - ३५४. "समुत्पन्नाभिधानोऽस्मि" (१) इत्यादिकं ब्राह्मणवाक्यमाकर्ण्यातिथि: "अहमप्यत्र मुह्यामि" (९) इत्यादिना मोक्षधर्मादि प्राशस्त्यबोधकानि मतान्तराण्युपन्यस्य स्वस्याप्यनिश्चयमुद्भावयति स्म.......
- अध्यायः - ३५५. पुनरतिथिः "उपदेशं तु ते" (१) इत्यादिना गोमततिरिस्थनैमिषारण्यगतनागाह्वये पुरे स्थितं पद्मनाभाव्यं नागं गच्छ स ते परमं धर्मं प्रवक्ष्यति इत्याह ब्राह्मणं प्रति......
- अध्यायः - ३५६. ब्राह्मणोऽतिथिनोक्तं श्रुत्वाऽभिनन्द्याद्य रात्रावत्र निरुष्य प्रभाते गमिष्यसीति प्रार्थितोऽतिथिस्तथाऽकरोत् ब्राह्मणश्च प्रभातेऽतिथिं पूजयित्वा तत्कथितस्य भुजगेन्द्रस्य गृहं जगाम....
- अध्यायः - ३५७. नागगृहं गतो ब्राह्मणो नागपत्न्या सत्कारपूर्वकं सूर्यरथं वोढुं नागो गतः सप्ताष्टभिर्दिवसैरागमिष्यति, इत्युक्ते "अहं तदागमनावधि स्थास्यामि, ममागमनं तस्मै निवेदय" इति तामादिश्य गोमतीपुलिने न्यवात्सीत्.....
- अध्यायः - ३५८. गोमतीतीरे निराहारतया स्थितो ब्राह्मणो नागबन्धुभिराहारार्थं प्ररितो "नागदर्शनार्थं ममैतद्वृत्तमस्ति तदागमनोत्तरमाहारं ग्रहीष्यामि” इत्युवाच तान् प्रति ते च तच्छ्रुत्वा स्वस्वगृहाणि जग्मुः......
- अध्यायः - ३५९. गृहमागतं नागं प्रति तद्भार्या “भवद्दर्शनार्थं कश्चिद्ब्राह्मण आगत्य सप्ताष्टदिनानि गोमतीतीरे निराहारस्तिष्ठति तं प्रति गत्वा स्वात्मानं दर्शय" इत्युवाच......
- अध्यायः - ३६०. नागनागभार्ययोरुक्तिप्रत्युक्ती...........
- अध्यायः - ३६१. भार्यावाक्यात्तत्रागतस्य नागस्य ब्राह्मणस्य च प्रश्नोत्तरयोः प्रचलतोर्ब्राह्मणो नागं प्रति "मत्प्रश्नस्योत्तरं वद तदनन्तरमागमनकारणं कथयिष्यामि” इत्युवाच..........
- अध्यायः - ३६२. “सूर्यरथं वोढुं गतेन भवता तत्र किमाश्चर्यं दृष्टं तत्कथय" इति ब्राह्मणेन पृष्टो नागो नानाविधान्याश्चर्याण्यभिधायान्ते, मध्याह्ने कश्चित् स्वतेजसा सर्वान् लोकानवभासयन् सूर्येण दत्तहस्तो रश्मिमण्डलप्रविष्टः सूर्येणैकीभावमवाप । तद्दृष्टवन्तो वयं कोयमिति सूर्यमपृच्छाम इत्युवाच ।....
- अध्यायः - ३६३. अस्माभिः पृष्ट सूर्यः "उञ्छवृत्तिवते सिद्धो मुनिरेष दिवं गतः” (१) इत्याद्युवाच एतदाश्चर्यं दृष्टमिति कथयति स्म नागः.......
- अध्यायः - ३६४. “एतदाश्चर्यं कथयता भवता ममाभीष्टः पन्था दर्शितः" इत्युक्त्वा गन्तुमुद्यतो ब्राह्मणो “भवता प्रतिज्ञातं स्वागमनकारणमनुक्त्वा कथं गच्छसि" इति नागेनाक्षिप्तः सन् "पुण्यसंशयमापद्य त्वत्समीपागतोऽहं त्वत्कथितेन वृत्तेनोजञ्छवृत्तिं पुण्यसाधनभूतां चरिष्यामि" इत्युक्त्वा तमामन्त्रयति स्म....
- अध्यायः - ३६५. नागमापृछ्य निर्गतो ब्राह्मणश्च्यवनभार्गवाद्दीक्षामवाप्योञ्छवृत्त्याश्रयणेन धर्मं चचार” इत्यभिधाय एतत्कथाप्राप्तिपम्परामुद्भाव्योञ्छवृत्युपाख्यानमुपसञ्जहार भीष्मः........
शान्तिपर्वणि