Mahabharata
About
.
Volumes
.
Contact
महाप्रस्थानिकपर्व
महाप्रस्थानिकपर्व
अध्यायः - १
. पूर्वं मौसले हतेषु वृष्ण्यन्धकेषु दिवं गते च भगवति श्रीकृष्णे पण्डुपुत्राः किमकुर्वतेति जनमेजयप्रश्ने वैशम्पायनस्योत्तरम् । युधिष्ठिरो महाप्रस्थानगमनं निश्चित्य भ्रातृभिर्द्रौपद्या च सह स्वर्गं जगमिषू राज्यभारं युयुत्सौ निक्षिप्यार्जुनानुमत्या परीक्षितं चाभिषिच्य सुभद्रां प्रति ’एष पुत्रस्य पुत्रस्ते कुरुराजो भविष्यति । यदूना परिशेषश्च’ (८) इत्याद्यादिश्य श्रीकृष्णप्रभृतीनामुदकदानपूर्वकं श्राद्धानि कृत्वा परीक्षितं शिष्यत्वेन कृपाचार्याय ददौ । ततः कृच्छ्रात्पौरानुमतिसम्पादनेन वल्कलधारणादि कृत्वोत्सर्गेष्टिपूर्वकमग्नीनुत्सृज्य भ्रातृभिर्द्रौपद्या शुना च सह प्रथितो लौहित्यं सलिलार्णवं ययौ । तत्र पुरुषविग्रहमाग्निं दृष्ट्वा तदाज्ञयाऽर्जुनेनाक्षय्येषुश्रिसहिते गाण्डीवे वरुणोद्देशेनार्णवे त्यक्ते दक्षिणामुखा निर्गताः पृथिवीं प्रदक्षिणीकृत्योत्तरा दिशं पाण्डवा ययुः
अध्यायः - २
. उदीच्यां दिशि हिमालयं प्राप्य तमप्यतिक्रामत्सु तेषु प्रथमं भूमौ पतितां द्रौपदी दृष्ट्वा भीमेन पतनकारणं पृष्ठो युधिष्ठिरोऽर्जुने तस्या विशेषेण पक्षपातं कारणत्वेनोवाच । एवं क्रमेण सहदेवादिषु पतत्सु भीमप्रश्नानुरोधेन तत्तत्पतनकारणान्यभिदधानो युधिष्ठिरो भीमपतनानन्तरमेकेन शुना सहाग्रे जगाम
अध्यायः - ३
. शुना सह गच्छन्तं युधिष्ठिरं स्वर्गं नेतुं रथेन सहागतं रथमारोहेत्युक्तवन्तं चेन्द्रं प्रति ’न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर’ (३) इत्याद्युवाच युधिष्ठिरः। ततः 'मानुषं देह त्यक्त्वा स्वर्गं गतान्भ्रातॄंस्त्वमनेनैव शरीरेण तत्र गतो द्रक्ष्यसि’ इत्याह शक्रः । शुना सह स्वर्गं जिगमिषोर्युधिष्टिरस्येन्द्रेण सहोक्तिप्रत्युक्त्योः प्रचलितयोः शुना विना रथारोहणमरोचयमानस्य युधिष्ठिरस्य निश्चयं दृष्ट्वा सुप्रसन्नः साक्षाद्धर्मो निजस्वरूपप्रकाशनेन युधिष्ठिरं प्रशस्य 'अभिजातोऽसि राजेन्द्र पितुर्वृत्तेन मेधया । अनुक्रोशेन चानेन’ (१८) इत्याद्युवाच । ततो धर्मादयो युधिष्ठिरं रथमारोप्य स्वैः स्वैर्विमानैर्युधिष्ठिरोऽपि खर्गं गतो नारदेन स्तुतो तत्र भीमादिभ्रातॄणामदर्शनाद्देवानामन्त्र्य ’यत्र मे भ्रातरो 'द्रौपदी च गतास्तत्रैव गन्तुमिच्छामि’ इत्याद्यब्रवीत्
महाप्रस्थानिकपर्व