Mahabharata
About
.
Volumes
.
Contact
वनपर्व
१.अरण्यपर्व
अध्यायः - १
. कपटद्यूतजितानां पाण्डवानां द्रौपद्या सहारण्यं प्रतिप्रस्थानाम् तेन दुर्योधनतिरस्कारपूर्वकं पौराणां पाण्डवैः सह वनं प्रति गन्तुं प्रस्थानम् - युधिष्ठिरेणानुनयपूर्वकं तेषां पुनः पुरं प्रति निवर्तनम् - जाह्नवीतटगतवटमेत्य तत्रागतब्राह्मणकदम्बेन सह रात्रियापनम् -
अध्यायः - २
. पाण्डवैः सह सुनिगणस्य वनं गन्तुमिच्छा - स्वस्य हृतसवं स्वत्वमाकलयता युधिष्ठिरेण भवतां पोषणमशक्यमिति निवेद्य प्रतिनिवर्तनप्रार्थना ब्राह्मणानां वयं स्वयमेवात्ममरणं कृत्वा केवलं युष्मत्सहवासवंच्छयैव भवतां सार्धमागच्छाम इति वाक्यं श्रुत्वा स्वस्याकिंचनत्वं विचिन्त्य युधिष्टिरस्य परिखेदः - विषीदन्तं युधिष्ठिरं प्रति तच्छोकनिवर्तनाय शौनककृतो ज्ञानोपदेशः - युधिष्ठिरशौनकसंवादः - अन्ततः शममास्थाय तपसा द्विजानां भरणाय सिद्धिमन्विच्छ इति शौनकेन द्विजपोषणोपायनिदर्शनं च
अध्यायः - ३
. युधिष्ठिरप्रार्थितेन पाण्डवपुरोहितेन धौम्येन सूर्याष्टोत्तरशतनामकथनम्। धौम्यप्रेरणया ब्राह्मभरणाय युधिष्ठिरेण सूर्योपासना युधिष्ठिरकृता स्तुतिः - स्तुतिप्रसन्नेन विवस्वता युधिष्ठिरायाक्षयस्थालिप्रदानम् सूर्यदत्ताश्रयस्थाल्याऽगणितद्विजपोषणे युधिष्टिरशाक्तिः- धौम्यपादवन्दनं द्विजैः सहा पाण्डवानां काम्यकवनगमनम् -
अध्यायः - ४
. पाण्डववनवासतः पौरसंतापमालक्ष्य कार्यव्याकुलस्य धृतराष्ट्रस्य नीतिकुशलं विदुरं प्रति पौरानुरंजनं केनोपायेन कार्यमिति प्रश्नः - पाण्डवानां पुना राज्यस्थापनमेव मुख्यः प्रजारञ्जनोपाय इति विदुरेण कथनम् - तच्छ्रुत्वाऽयं पाण्डवपक्षपातीति सञ्चित्य धृतराष्ट्रेण विदुरनिर्भत्सनम् - धृतराष्ट्रकृतापमानस्य विदुरस्याश्रयार्थं पाण्डवान् प्रति प्रस्थानम् -
अध्यायः - ५
. विदुरस्य काम्यके पाण्डवसमागमः – तेन धृतराष्ट्रकृतानिर्भत्सनादिकथनपूर्वकं युधिष्ठिरं प्रति हितोपदेशः –
अध्यायः - ६
. विदुरवियोगविषण्णेन धृतराष्ट्रेण कृतं विदुरानयनाय संजयप्रेषणम् - सञ्जयमुखात् धृतराष्ट्रसंदेशं श्रुत्वा विदुरस्य पुनर्धृतराष्ट्रं प्रत्यागमनम् – धृतराष्ट्रविदुरसंवादः -
अध्यायः - ७
. विदुरस्य पुनरागमनेन खिन्नेन दुर्योधनेन कर्ण-शकुनि-दुःशासनैः सह पाण्डवविषय आलोचनम् वनस्थान् पाण्डवान् हन्तुं कर्णानुमतिः - पाण्डववधार्थ दुर्योधनादीनां वनगमनाय प्रस्थानम् - तत्समालोच्य दिव्यचक्षुषा व्यासेन तेषां प्रतिषेधः -
अध्यायः - ८
. व्यासेन धृतराष्ट्रं प्रति पाण्डवैः सह विरोधस्यानर्थमूलकत्वं प्रदर्श्य शमविधानकथनम् -
अध्यायः - ९
. धृतराष्ट्रवचनात् तस्य पुत्रस्नेहं दुस्त्यजं ज्ञात्वा दृष्टांततया सुरभ्युपाख्यानकथनपूर्वकं कौरवाणां जीवितरक्षणाय पाण्डवैः सह शम एव विधेय इति भगवद्व्यासस्य धृतराष्ट्रं प्रत्युपदेशः -
अध्यायः - १०
. धृतराष्ट्रेण दुर्योधनानुशासनं प्रार्थितेन व्यासेन तत्रागमिष्यन्तं महामुनिं मैत्रेयं प्रति तत्प्रार्थनाविधानपूर्वकं स्ववासं प्रति गमनम् - मैत्रेयागमनम् - तं प्रति धृतराष्ट्रश्नः - दुर्योधनाय हितमुपदिशति मंत्रेये तदुपदेशं स्वोरुताडनपूर्वकं हास्यं कृत्वा अशृण्वनि दुर्योधने भीमगदया तवोरुभदो भवेदिति तं प्रति मैत्रेयशापः- पाण्डवपराक्रमकथनप्रसङ्गेन मैत्रेयेण भीमकृते किर्मीरवधे कथिते मैत्रेयं प्रति विस्तरेण किर्मीरवधविषये धृतराष्ट्रप्रश्नः किर्मीरवधो विदुराच्छ्रोतव्य इत्युक्त्वा मैत्रेयस्य गमनम् -
२.किर्मीरवधपर्व
अध्यायः - ११
. मैत्रेयप्रेरितेन विदुरेण धृतराष्ट्राय भीमकृतकिर्मीरवधप्रकारनिरूपणम् – रात्रौ वनं गच्छत्सु पाण्डवेषु मार्गं निरुध्य स्थितस्य किर्मीरस्य युधिष्ठीरेण संवादः । किर्मीरवधोद्यतमर्जुनं निवार्य वृकोदरस्य किर्मीरेण सह युद्धारंभः । द्वयोर्बाहुयुद्धप्रसङ्गे भ्रामणपूर्वकं भीमेन कृतः किर्मीरवधः -
३.अर्जुनाभिगमनपर्व
अध्यायः - १२
. पाण्डववदर्शनार्थं बोजादिष्वागतेषु दुर्योधनादिमारणोद्यतस्य श्रीकृष्णस्यार्जुनेन कृतं तत्पूर्ववृत्तान्तकथनपूर्वकं निवारणम् - कृष्णस्वरूपं वर्णयित्वा कृष्णाग्रे द्रौपद्या विलपनम् - द्रौपदीकृतं हिडिंबवधादिभीमपराक्रमवर्णनम् - स्वदुःखनिवेदनपूर्वकं विलपन्त्या द्रौपद्याः श्रीकृष्णेन सान्त्वनम् -
अध्यायः - १३
. युधिष्ठिरं प्रति त्वद्व्यासनस्य द्यूतकाले स्वकीयमानर्तेष्वसांनिध्यमेव कारणमित्यादिकथनपूर्वकं सान्त्वनं श्रीकृष्णेन –
अध्यायः - १४
. कपटाद्यूतसभाकाले स्वस्यासन्निधानस्य हेतुतया सौभवधार्थं गमनरूपकार्यकथनं श्रीकृष्णेन -
अध्यायः - १५
. सविस्तरं सौभवघवृत्तं श्रोतुं युधिष्ठिरस्योत्कण्ठया श्रीकृष्णस्य सविस्तरं कथनारंभः - शाल्वसमागमसमये उग्रसेनकृतद्वारकारक्षणादिप्रकारस्य वर्णनम् -
अध्यायः - १६
. शाल्वसैन्यं दृष्ट्वा वृष्णिषु युद्धार्थं निर्गतेषु शाल्वसचिवसाम्बयोर्युद्ध्यतोः साम्बाच्छाल्वसचिवपराजयः- साम्बेन वेगवति दैतेये चारुदेष्णेन विविध्ये च हते पुनः शाल्वस्य युद्धोद्योगः-
अध्यायः - १७
. शाल्वप्रद्युम्नयोर्युद्धम् – तदा शाल्वशरप्रहारेण प्रद्युम्नव्यामोहः -
अध्यायः - १८
. सारथिना रणादपवाहितस्य लब्धसंज्ञस्य प्रद्युम्नस्य पुना रथनिवर्तने सारथिं प्रत्युपदेशः –
अध्यायः - १९
. रणाजिरप्राप्ते प्रद्युम्ने पुनः शाल्वप्रद्युम्नयोर्युद्धप्रसंगे प्रद्युम्नबाणेन शाल्वपतनम् - शाल्वप्राणहरणाय प्रद्युम्नेन गृहीते बाणे नारदवाय्वोरुपदेशात् प्रद्युम्नेन बाणे उपसंहृते शाल्वस्य रणादपयानम् –
अध्यायः - २०
. एतस्मिन्नेव काले राजसूयं समाप्य द्वारकामागतस्य श्रीकृष्णस्याहुकादीनामाश्वासनपूर्वकं युद्धार्थं निर्गमनम् - शाल्वेन सह युध्यता श्रीकृष्णेन हतेषु दानवेषु शाल्वस्य मायायुद्धम् -
अध्यायः - २१
. मायामयाहुकपरिचारकवाक्याद्वसुदेवं हतं श्रुत्वाऽपि मायेयमिति कृष्णस्य निश्चयः –
अध्यायः - २२
. श्रीकृष्णं पुनर्गुध्यति सौभस्य मायया शिलावर्षणादिदारुकवचनं श्रुत्वा आग्नेयास्त्रेण सौभपाटनपूर्वकं कृष्णकृतश्चक्रेण शाल्ववधः - इत्यादि प्रकारेण शाल्ववधवृत्तान्तकथनानतरं श्रीकृष्णस्य युधिष्ठिरानुज्ञया सुभद्राभिमन्युभ्यां द्वारकागमनम् - धृष्टद्युम्नधृष्टकेत्वोर्यथाक्रमं द्रौपदेयान्नकुलभार्यां चादाय स्वस्वपुरगमनम् - युधिष्ठिरस्य द्वैतवनगमनोपक्रमः -
अध्यायः - २३
. दुर्योधनादीन्निन्दतां पाण्डवासमीपमागतानां कुरुजांगलस्थपौराणां पाण्डवैराश्वासनपूर्वकं नगरं प्रति निवर्तनम् -
अध्यायः - २४
. पाण्डवानां चिरावस्थाननि धारणपूर्वकं द्वैतवनप्रवेशः -
अध्यायः - २५
. द्वैतवनवासिनः पाण्डवान्प्रति मार्कण्डेयागमनं युधिष्ठिरसंवादानन्तरं तस्योत्तरदिग्गमनं च -
अध्यायः - २६
. सायाह्ने सुधिष्ठिरं प्रति बकदाक्भ्येन ब्राह्मणस्य क्षत्रवृद्धिकारणत्वकथनम् - द्वैपायनादिमहर्षीणां युधिष्ठिराभिगमनम् -
अध्यायः - २७
. भीमादिसंनिधाने परितप्ताया द्रौपद्याः कौरवापराधस्मारणपूर्वकं युधिष्ठिरमुद्दिश्य सविषादवचनम् –
अध्यायः - २८
. द्रौपद्या युधिष्ठिरं प्रति कालभेदेन क्षमाकोपयोरवश्याश्रयणीयत्वे प्रमाणतया बलिप्रल्हादसंवादानुवादपूर्वकं प्रकृते कोपस्यावश्यादरणीयत्वोक्तिः -
अध्यायः - २९
. युधिष्ठिरस्य क्रोधे दोषकथनपूर्वकं द्रौपद्युपदेशः काश्यपगीतगाथाकथनं च -
अध्यायः - ३०
. भर्तृव्यसनदर्शनदूनया द्रौपद्या धर्माक्षेपेण युधिष्ठिरोपहासपूर्वकं विधातृचरितेतिहासकथनम् -
अध्यायः - ३१
. युधिष्ठिरेण द्रौपदीं प्रति धर्मस्य साफल्योपादानम् -
अध्यायः - ३२
. युधिष्ठिरं प्रति प्रयुक्तिरूपेण कर्मप्रशंसनपरायां ब्राह्मणोक्तबृहस्पतिनीतेः कथनं द्रौपद्या
अध्यायः - ३३
. भीमेन युधिष्ठिरं प्रति नीतिव्युत्पादनपूर्वकं युद्धेन राज्याहरणकर्तव्योक्तिः -
अध्यायः - ३४
. भीमं प्रति युधिष्ठिरेण स्वप्रतिज्ञाया दुस्त्यजत्वात्तत्कालावसानप्रतिपालनविधानम् -
अध्यायः - ३५
. युधिष्ठिरक्रोधसंदीपनार्थं भीमवाक्यम् -
अध्यायः - ३६
. भीमं प्रति युधिष्ठिरस्य दुर्योधनपक्षीयाणामुद्दिश्य प्रशंसोक्तिः - पाण्डवान्प्रत्यागतस्य व्यासभ्य धर्मराजाय प्रतिस्मृतिनामकविद्यां दत्वाऽन्तर्धानम् – युधिष्ठिरेण व्यासवचनात् परिजनैः सह द्वैतवनात् काम्यकवनगमनम् -
अध्यायः - ३७
. एकान्ते युधिष्टिरात् प्रतिस्मृतिविद्यां प्राप्य तदाज्ञयाऽस्त्रसंपादनार्थं प्रस्थितस्यार्जुनस्य ब्राह्मणाद्यांशीर्ग्रहणपूर्वकमिन्द्रकीलपर्वतगमनम् - तत्र तपस्विरूपेणैन्द्रं दृष्टवतोऽर्जुनस्येन्द्राद्वारा लाभानंतरं तदाज्ञया तपश्चरणम् -
४. कैरातपर्व
अध्यायः - ३८
. सविस्तराम--प्रप्तिकथां शुश्रषोर्जनमेजयस्य प्रश्नानंतरं वैशम्पायनस्य विस्तरेण कथनम्। अर्जुनस्येन्द्रकीलगमनानन्तरं स्वर्गात् पुष्पवृष्ट्यादि हिमवद्वनश्रीवर्णनम् - अर्जुनन हिमवच्छिखरे तपश्चरणम् - पार्थनपोभीरुभिर्महर्षिभिः प्रार्थितेन महादेवेनाश्वासनपूर्वकमृषीणां प्रतिनिवर्तनम् -
अध्यायः - ३९
. वराहवधोद्यतस्यार्जुनस्य किरातकृत आक्षेपः उभाभ्यां समकालमेव बाणत्यागे कृते तद्बाणप्रहारेण वराहरूपिणो राक्षसस्य वधः। उभयोः संवादानन्तरमर्जुनेनकृतः किंरातं प्रति शरप्रहारः। युध्यतोस्तयोः किरातकृतोऽर्जुनबाणग्रासः - धनुष्कोट्या आकृष्य मुष्ट्या प्रहरत्यर्जुने किरातकृतो गाण्डीवग्रासः - ततः खड्गेन प्रहरतोऽर्जुनस्य खड्गे भग्ने वृक्षादिना युद्धम्- बाहुयुद्धोद्यतस्यार्जुनस्य किरातेन पराजितस्य भूमौ पतनम् - ततो महादेवं पूजयताऽर्जुनेन स्वार्पितमाल्यानां किरातशिरसि दर्शनेन शंकरबुध्या कृतं तच्चरणवन्दनम् - साक्षादुमामहेश्वरयोः प्रादुर्भावः। अर्जुनकृतः शिवस्तवः – पार्थपूजा-- सन्तुष्टेन महादेवेन तदाश्वासनम्
अध्यायः - ४०
. शंकरेण पार्थाय स्वग्रस्तगाण्डीवादि प्रत्यर्पितेऽर्जुनस्य पाशुपतास्त्रयाचनम् - अर्जुनाय पाशुपतास्त्रं दत्वा तद्गात्रस्पर्शनपूर्वकं शंकरस्य प्रस्थानम् -
अध्यायः - ४१
. अर्जुनदर्शनार्थमागतेषु शचीपतिवरुणकुबेरेषु तेभ्य इन्द्ररहितेभ्योऽर्जुनस्य दिव्यास्त्रप्राप्तिः अर्जुनं प्रति शक्रेण स्वर्गागमनचोदना - देवेषु स्वर्गं गतेषु लोकपालदर्शनेन पार्थस्य संतोषः
५.इन्द्रलोकाभिगमनपर्व
अध्यायः - ४२
. इन्द्रप्रेषितेन मातलिनाऽऽनीतेन रथेन पार्थस्येन्द्रपुरीदर्शनम् -
अध्यायः - ४३
. इन्द्रेणालिङ्गनपूर्वकमर्जुने स्वासनार्थ उपवेशित उभयोरग्रे महोत्सवादिः -
अध्यायः - ४४
. पञ्चसंवत्सरात्मकं कालं स्वर्गे सुखेन न्युष्य नानास्त्रशिक्षाप्राप्त्यनन्तरं शक्राज्ञयाऽर्जुनस्य चित्रसेनान्न संगीतादिशिक्षणम् -
अध्यायः - ४५
. उर्वश्यामर्जुनस्य दृष्टिविशेषेण तस्य तस्यामनुरागोत्प्रेक्षिणो शक्रेण चित्रसेनद्वारा तस्यास्तं प्रति यापनम्-
अध्यायः - ४६
. वेषभूषादिकरणपूर्वकमर्जुनसमीपगतया तया स्वप्रार्थनां व्यर्थीकृतवतेऽर्जुनाय कुपितया क्लीबो भवेतिशापदानम् -चित्रसेनादर्जुनस्योर्वशीशापवृत्तांतश्रवणोत्तरमयं शापो भाव्यज्ञातसमयमात्रोपयोगितया भवत्वितीन्द्रेण शापावसाने 'कथितेऽर्जुनस्य हर्षः -
अध्यायः - ४७
. शक्रेण स्वर्गमागतं लोमशं प्रति पार्थमहिमानुवर्णनपूर्वकं युधिष्ठिराय तद्वृत्तांतकथनप्रार्थना- पाण्डवान्यतीन्द्रसंदेशकथनार्थं लोमशस्य काम्यकवनगमनम् -
अध्यायः - ४८
. अर्जुनस्य पाशुपताद्यस्त्रलाभस्वर्लोकगमनादिवृत्तांतश्रवणेन परिविद्यता धृतराष्ट्रेण सञ्जयाग्रे स्वपुत्रान्प्रति परिशोचनम् -
अध्यायः - ४९
. सञ्जयधृतराष्ट्रसंवादः -
अध्यायः - ५०
. वैशम्पायनेन जनमेजयं प्रति पाण्डवानामरण्ये भोज्यवस्तुकथनम् -
अध्यायः - ५१
. सञ्जयेन धृतराष्ट्रं प्राति चारद्वारा श्रुतस्य पाण्डवदिदृक्षया वनं गतानां कृष्णादीनां दुर्योधनादिवधप्रतिज्ञादिवकारस्य वृत्तान्तस्य कथनम् -
६.नलोपाख्यानपर्व
अध्यायः - ५२
. वैशम्पायनकथितोऽर्जुनरहिततानां पाण्डवानां वृत्तान्तः - भीमयुधिष्ठिरयोरर्जुनमधिकृत्य संवादे प्रवृत्ते पाण्डवान् प्रत्यागतस्य बृहदश्वस्य युधिष्ठिरेण संवादः - युधिष्ठिरं प्रति बृहदश्वेन नलोपाख्यानकथनोपक्रमः -
अध्यायः - ५३
. नलोपाख्यानारंभः – नलवर्णनम् - भीमराजाद्दमयन्त्युत्पत्त्यादिवर्णनम् । दमयन्त्यां समुत्कण्ठितेन नलेन वने विहरत्सु हंसेष्वेऋतमस्य ग्रहणम् - प्रतिक्रियाप्रतिज्ञानेनात्मानं मोचितवता हंसेन नलगुणानुवर्णनेन दमयन्त्या नले रागोत्पादनम् -
अध्यायः - ५४
. सखीद्वारा दमयन्तीविरहकारणं ज्ञात्वा भीमराजेन कृतः स्वयंवरोद्योगः स्वर्गं गतेन नारदेनेन्द्रादीन् प्रति दमयन्नीगुणानुवर्णनपूर्वकं तत्स्वयंवरप्रवृत्तिकथमम् - दमयन्तीस्वयंवरार्थमागच्छद्भिरिन्द्रादिभिः पथिदृष्टस्य नलस्य दमयन्तीदौत्येन वरणम् -
अध्यायः - ५५
. देवानां दौत्यमङ्गीकृत्य दमयन्त्यग्रे गतस्य नलस्य दमयन्त्या सह संवादः
अध्यायः - ५६
. नलदमयन्तीसंवादः - दमयन्तीकथितमुपायं श्रुत्वा प्रत्यागतस्य नलस्य देवसमीपे दमयन्ती वाक्यकथनम् –
अध्यायः - ५७
. स्वयंवरमण्डपे नृपादीन्प्रमा गमनोत्तरमिन्द्राग्नियमवरुणैर्नलसारूप्येण प्रवेशः - पञ्चनलदर्शनेन मोहितया दमयन्त्या कृतां प्रार्थनां श्रुत्वा देवानां स्वस्वरूपधारणम् - इन्द्रादिदेवानां प्रसादेन दमयन्त्या नले वृते नलाय वरान् दत्वा देवेषु स्वर्गे गतेषु नृपादीनामपि स्वस्वनगरगमनम् - विषाहानन्तर स्वनगरं गत्वा दमयन्त्या सह विहरतो नलादमयन्त्यां पुत्रकन्ययोरुत्पत्तिः -
अध्यायः - ५८
. दमयन्तीस्वयंवरानन्तरं दिवं गच्छातामिन्द्रादीनां मध्येमार्गं कलिद्वापरयोर्दर्शनम् – देवैः स्वयंवरे दमयन्त्या नलवरणं निवेदिते द्वापरद्वितीयेन कलिना नलपराभवप्रतिज्ञानम् –
अध्यायः - ५९
. कलिना कृतसंकेतेन पुष्करेणा हुतस्य पणपूर्वकं क्रीडतो नलस्य पराजयः - नलनिवारणार्थमागतानां परादीनां यत्नवैफल्येन निवृत्तिः -
अध्यायः - ६०
. स्वयत्नवैफल्येन चिन्नाकान्तया दमयन्त्या कृतं वार्ष्णेयाख्यसूतद्वारा विदर्भान्प्रति स्वपुत्रकन्ययोः प्रेषणम् - वार्ष्णेयस्य विदर्भगृहे नलपुत्रकन्ययोः स्थापनपूर्वकमयोध्यायामृतुपर्णगृहे वासः -
अध्यायः - ६१
. द्यते सर्वस्वापहारानन्तरं पुष्करवाक्येन कुपितस्यैकवस्त्रस्य दमयन्तीसहितस्य नलस्य पुरान्निर्गमनम् दमयन्त्या सह वने वसता नलेन हिरण्यशकुनग्रहणार्थं तदुपर्याच्छादितं वस्त्रं गृहीत्वोत्पतितानां शकुनानां नलं प्रत्युक्तिः – नलदमयन्तीसंवादः –
अध्यायः - ६२
. एकवस्त्रावृतयोर्नदमयन्त्यो रात्रौ सभाप्रवेशानन्तरं दमयन्त्यां निद्रितायामर्धवस्त्रखण्डनपूर्वकं वने दमयन्तीं त्यक्त्वा कलिप्रविष्टस्य नलस्य गमनम् -
अध्यायः - ६३
. निद्रातो व्युत्थाय विलापपूर्वकं वने चरन्त्या दमयन्त्या अजगरेण ग्रहणम् - अजगरग्रस्ताया दमयन्त्या विलापं श्रुत्वाऽऽगतेन वनचरेणाजगरस्य वधः - दमयन्त्या आत्मकामुकस्य तद्व्याधस्य स्वपातिव्रत्यमहिम्ना शापेन हननम् -
अध्यायः - ६४
. वने विलापपूर्वकं भ्रमन्त्या दमयन्त्यास्तापसाश्रमप्रवेशः - अभिवादनपूर्वकं स्ववृत्तान्तं कथयित्वा विलपन्तीं दमयन्तीमाश्वासयतामृषीणामाश्रमसहितानामन्तर्धानम् - तेन विस्मिताया अनेकपर्वतादिदर्शनपूर्वकं भ्रमन्त्या दमयन्त्या कदाचिद्वणिक्समूहमध्ये प्रवेशः - वणिक्समीपे स्ववृत्तांतं कथयित्वा दमयन्त्याः सार्थवाहेन संवादः -
अध्यायः - ६५
. दमयन्त्याः सार्थेन सह चेदि राजपुरं प्रति प्रस्थानम् वनमध्ये सरस्तीरशायिनि सार्थे निशीथे पानीयपानागतयूथनिहनभूयिष्टे दिष्ट्या दमयन्त्याः शेषीकारः - हतावशिष्टेन जनेन सह चेदिराजपुरं गताया दमयन्त्या राजमात्रा स्वान्तःपुराधिवासनम् -
अध्यायः - ६६
. दमयन्तीं त्यक्त्वाऽटव्यामटन्तं दावानलाक्रांतवनगतार्तनादश्रवणेन वह्निं प्रविशन्तं नलं प्रति वनवह्निवेष्टितेन कर्कोटकेनात्मपरिरक्षणप्रार्थना - कर्कोटकनागेन सह वह्नेर्निर्गत्य गच्छतो नलस्य दशमे पदे कर्कोटकेन दंशनेन वैरूप्यसंपादनम् - कर्कोटकेन सान्त्वनपूर्वकं निजस्वरूपाविष्करणेच्छायां स्वस्मरणेन पुनः पूर्वरूपप्राप्तिमुक्त्वा नलाय वासोयुगदानम् –
अध्यायः - ६७
. कर्कोटकनागवचनान्नलेनायोध्यायां बाहुक इति नाम्ना प्रविश्य ऋतुपर्णनृपसमीपमुपसर्पणम्-- ऋतुपर्णेन तस्य सारथ्यकर्मणि योजना - दमयन्तीं स्मृत्वा विलपतो नलस्य जीवलेन संवादः -
अध्यायः - ६८
. भीमराजेन नलदमयन्त्युपवेषणार्थं नानादिक्षु प्रेषितानां ब्राह्मणानां मध्यात् सुदेवनाम्ना विप्रेण चेदिराजगृहे दमयन्तीदर्शनम् - विप्रेण सह सबाष्पं भाषमाणां दमयन्तीं दृष्ट्वा राजमात्रा विप्रं प्रति दमयन्तीकुलशीलादिप्रश्नः -
अध्यायः - ६९
. राजमातृप्रेरितेन सुदेवेन दमयन्तीवृत्तं कथिते भ्रमध्यस्थपिल्पुचिह्नदर्शनेन राजमातुर्दमयन्तीप्रत्यभिज्ञानम् - प्रणामपूर्वकं दमयन्तीप्रार्थनया राजमात्रा प्रस्थापिताया दमयन्त्याः सुदेवेन सह विदर्भनगरप्रवेशः दमयन्तीप्रेरितया तन्मात्रा प्रेरितेन भीमेन कृतं नलान्वेषणाय ब्राह्मणनियोजनम् - नियुक्तानां ब्राह्मणानां दमयन्तीतो नलं प्रति वक्तव्यान् सप्त श्लोकान् श्रुत्वा नलान्वेषणाय गमनं तत्र तत्र नलान्वेषणं च –
अध्यायः - ७०
. नलान्वेषिणा पर्णादनाम्ना विप्रेण ऋतुपर्णनृपगृहे बाहुकनामनिगूढे नलं शृण्वति दमयन्ती कथितश्लोकपठनम् - बाहुकेन विजने पर्णादं प्रति दमयन्तीवचनस्योत्तरतया पञ्चश्लोकीकथनम् - पर्णादेन पुनर्विदर्भानेत्य दमयन्त्या बाहुकवाचिकनिवेशनम् - बाहुके नलशङ्किन्या दमयन्त्या मात्रनुज्ञया प्रेषितेन सुदेवेनायोध्यां गत्वा ऋतुपर्णं श्वोभूते दमयन्त्याः पुनः स्वयंवरो भवितेति कथनम् -
अध्यायः - ७१
. ऋतुपर्णेन दमयन्तीस्वयंवराय बाहुकं सारथ्यं नियोज्य वार्ष्णेयेन सह विदर्भान्प्रति प्रस्थानम् -. वार्ष्णेयेन बाहुके रूपवयोविद्यादिभिर्विशेषतः सारथ्यकौशलेन नलत्वसम्भावना -
अध्यायः - ७२
. वेगेन गच्छतो रथात् पतितोत्तरीयदर्शनानंतरं तद्ग्रहणविषये नलर्तुषर्णसंवादः - बाहुकस्य सारथ्यसामर्थ्यविस्मितेन ऋतुपर्णेन तं प्रति पुञ्चीभूतवस्तुपरिसंख्याने स्वयिसामर्थ्यनिवेदनम् - मध्येमार्गं दृष्टस्य बिभीतकवृक्षस्य फलपत्रादिगणने ऋतुपर्णेन कथिते सति रथस्थापनपूर्वकं वृक्षच्छेदनेन फलपत्रादि गणयतो बाहुकस्य विरमयः – तेन ऋतपर्णं प्रति अश्वहृदयविद्यादानप्रतिज्ञानम् - बाहुकेन ऋतुपर्णादक्षह्रदयादिविद्यास्वीकरणम् - लब्धाक्षविद्यस्य नलस्य शरीरान्निर्गतस्य कलेर्नलशापभयात्तस्मै वरं दत्वा बिभीतकवृक्षप्रवेशः - नलरथारोहणानंतरं कलेः स्वगृहगम् -
अध्यायः - ७६
. साहान्हे विदर्भनगरं प्रविशतो 'ऋतुपर्णस्य रथध्वनिश्रवणेन नलबुध्या तद्दर्शनार्थं दमयन्त्या हर्म्यारोहणम् - ऋतुपर्णादिषु रथादवरूढेषु रथस्थापनादि कुर्वन्तं बाहुकं दृष्टवत्या दमयन्त्याश्चिन्तोत्पत्तिः - तत्त्वजिज्ञासयां बाहुकं प्रति दृत्याः प्रस्थापनम् -
अध्यायः - ७४
. 'दमयन्त्याज्ञयां गतवत्या केशिन्या बाहुकेन संवादः - बाहुकाग्रे कथिताया दमयन्तीगाथायाः शोकपूर्वकं बाहुकेन दत्तमुत्तरं श्रुत्वा आगतया केशिन्या दमयन्त्ये संभाषणकालिकवाहुकविकारादिनिवेदनम् -
अध्यायः - ७५
. रिक्तघटादिदानरूपनलपक्षोपायकथनपूर्वकं …नबाहुकाग्रे केशिनीप्रेषणम् - पुनः कैशिन्या नलस्योद्भुतवृत्तान्ते कथिते नलपक्वं मांसमानाय्य तद्भक्षणेन दमयन्त्या कृतं परीक्षणम्। पुनर्नलपरीक्षणाय तं प्रति दमयन्त्या कन्यापुत्रयोः प्रेषणम् – तौ कन्यापुत्रौ दृष्ट्वा रुदता नले न केशिनीं प्रति स्वकर्मणः कारणान्तरकथननापह्नवः –
अध्यायः - ७६
. केशन्या कथितं कन्यापुत्रदर्शनोत्तरं जायमानं नलविकारं श्रुत्वा दमयन्त्या मातृद्वारा प्रार्थितस्य समस्याज्ञया नलस्य स्वसमीपानयनम् - परस्परदर्शनोत्तरमुभयोः परस्पराक्षेपवाक्यानि दमयन्त्यां नलानुनयं कुर्वन्त्यामाकाशगतवायुवाक्यश्रवणेन पुष्पवृष्टिदर्शनेन च नलस्य दमयन्तीदोषशङ्कानिरासः बाहुकेन स्वस्य नलत्वोत्कीर्तनपूर्वकं कर्कोटकानुस्मरणेन तद्दत्तवस्त्रद्वयपरिधाने तस्य स्वरूपलाभः - नलं प्रत्यभिजानत्या दमयन्त्या तत्परिरंभणादि - दमयन्तीमात्रा नलदमयन्तीवृत्तान्ते कथिते भीमाज्ञया नलस्य तद्गृहवासः -
अध्यायः - ७७
. परेद्युः प्रभाते भीमराजसमीपं गत्वाभिवादयतोर्नलदमयन्त्योर्भीमकृतमाश्वासनपुरःसरं स्वपुरं महोत्सवादि दलवृत्तांतं श्रुत्वा ऋतुपर्णेन नलं क्षमापयित्वा ततोऽश्वविद्यापरिग्रहणपूर्वकं स्वपुरं प्रति गमनम् –
अध्यायः - ७८
. भीमानुज्ञया नलेन पुनः स्वपुरं प्रत्यागमनम् - नलेन पुष्करेण सह पुनद्यूतकीडा - पुनर्द्यूते पुष्करं पराजित्य तस्य तत्पुरं प्रति यापनम् नलेन कृतं पौरसान्त्वानम् -
अध्यायः - ७९
. दमयन्त्यानयनपूर्वकं नलस्य स्वप्रजापालनम् - युधिष्ठिरायाक्षविद्यामश्वविद्यां च दत्त्वा बृहदश्वे गतेऽर्जुनतपःश्रवणेन युधिष्ठिरस्य शोकादि -
७. तीर्थयात्रापर्व
अध्यायः - ८०
. द्रौपदी-भीमनकुलसहदवैः कृतमर्जुनानुशोचनम् - तेन पाण्डवैः काम्यकवनान्निर्गमननिर्धारणम् -
अध्यायः - ८१
. चिन्ताकान्तस्य युधिष्ठिरस्य नारददर्शनम् - अभ्युत्यानादिना सत्कृतं नारदं प्रति तीर्थयात्राप्रश्नः- नारदेन तत्कथनाय पुलस्त्यगीष्मसंवादानुवादारंभः -
अध्यायः - ८२
. पुलस्त्येन भीमं प्रति पुष्करप्रभृतिस्थाणुतीर्थान्तनानातीर्थगमनफलकथनम् – नर्मदाप्रभृतिसरस्वतीसंगमान्ततीर्थगमनादिफलकथनम् -
अध्यायः - ८३
. कुरुक्षेत्रगमनादिफलकथनम् - रामह्रदगमनफलम् – तत्प्रमङ्गेन रुधिरेण पितृतर्पणादि परशुरामवृत्तकथनम् - वंशमूलादिसप्तसारस्वतांततीर्थगमनादिफलम् - तत्प्रसङ्गेन कुशक्षनकरात् शाकरसस्त्रवणादिमङ्कणकर्षिवृत्तान्तकथनम् – औशनसप्रभृतिकन्याश्रमांतगमनादिफलकथनम् –सन्निहिततीर्थगमनादिफलकथनम् – तत्प्रसङ्गेन कुरुक्षेत्रप्रशंसा च
अध्यायः - ८४
. धर्मतीर्थप्रभृतिरथावतोधारी हणाततीर्थफलकथनं – गङ्गाद्वारादिवैतसिकाद्यंततीर्थगमनादिफलकथनम् - नैमिषक्षेत्रगमनप्रभृति वाराणस्यादिगमनांतफलकथनम् - गयानीर्थादिपञ्चाद्यन्ततीर्थगमनादिफलकथनम्
अध्यायः - ८५
. संवेदादिश्रीपर्वतांतगमनादिफलकथनम् - वृषभपर्वतादिप्रभृतिवेणानद्यन्तगमनादिफलकथनम् - गोदावर्यादिनदीप्रभृति प्रयागान्ततीर्थगमनादिफलकथनम् - युगभेदेन पुण्यतीर्थकथनं भीष्मं प्रत्युपदिशतः पुलस्त्यस्यान्तर्धानं युधिष्ठिरं प्रति कथयतो नारदस्य चान्तर्धानम् -
अध्यायः - ८६
. युधिष्ठिरेण धर्मं प्रति अर्जुनं विना स्वस्य काम्यकवनेऽनभिरुचिकथनपर्वकं निवासाय स्थानान्तरकथनप्रार्थनाः
अध्यायः - ८७
. पाण्डवाश्वासनपूर्वकं धौम्यकृतं प्राचीस्थनानातीर्थकथनम् –
अध्यायः - ८८
. धौम्येन युधिष्ठिरं प्रति दक्षिणदिगवस्थितनानातीर्थकथनम् -
अध्यायः - ८९
. पश्चिमदिग्गततीर्थकथनम्
अध्यायः - ९०
. उदीचीस्थतीर्थकथनम् -
अध्यायः - ९१
. धौम्ये भाषमाणेऽकस्मादागतस्य युधिष्ठिरसत्कृतस्य लोमशस्य युधिष्ठिरं प्रति स्वागमनकारणकथनम् - लोमशकृतं पार्थस्य पाशुपतास्त्रादिप्राप्तिकथनपूर्वकमिन्द्रसंदेशादिनिरूपणम् -
अध्यायः - ९२
. लोमशेन युधिष्ठिरं प्रति स्वसाहित्येन तीर्थयात्राविधायकपार्थवचननिवेदनम् - युधिष्ठिरेण लोमशाज्ञयाऽधिकपरिजनविसर्जनम् -
अध्यायः - ९३
. वनवासिब्राह्मणैः सहगमने प्रार्थित सुविष्ठिरेण तस्मिन्नंगीकृते व्यासादीनामागमनम् - ऋष्युपदिष्टव्रताचरणपूर्वकमृषिसहितानां पाण्डवानां तीर्थयात्रार्थं पूर्वदिग्गमनम् -
अध्यायः - ९४
. लोमशेन युधिष्ठिरं प्रति धर्माधर्मयोः समृद्ध्यसमृद्धिलक्षणोदर्ककारणत्वाभिधाम् -
अध्यायः - ९५
. पाण्डवानां नेमिषारण्यगमनोत्तरं गयशिरःपर्वतगमनम् - तत्राक्षय्यवटे वसतां चातुर्मास्येन यजमानानां पाण्डवानामग्रे शमठकृतं गययज्ञकथनम् -
अध्यायः - ९६
. अगस्त्याश्रमगमनानंतरं युधिष्ठिरं प्रत्यगस्त्यचरितकथनारम्भः - “ब्राह्मणहननादिवातापील्वलवृत्तकथनम् - स्वपितृप्रेरितेनागस्त्येन स्वार्थनिर्मितायाः कन्याया विदर्भराजाय कृतं दानम्” अगस्त्यदत्तायाः स्वगृहे उत्पन्नाया लोपामुद्रानाम्न्याः कन्याया यौवनं दृष्टवती विदर्भस्य चिन्ता -
अध्यायः - ९७
. विदर्भराजेन सन्तानार्थं कन्यां कामयमानायागस्त्याय लोपामुद्राया यथाविधिप्रदानम्- अगस्त्येन लोपामुद्राया महार्हवसनाभरणत्याजनेन वल्कलादिग्राहणपूर्वकं स्वाश्रमं प्रत्यानयनम् - ऋतुकाले समाहूतया तया महार्हवसनाभरणानि या चितेनागस्त्येन तत्संपादनाय प्रस्थानम् -
अध्यायः - ९८
. भिक्षार्थ श्रुतर्वराजसमीपं गतस्यागस्त्यस्य तत्पूर्णायव्ययदर्शनेन याचनयोग्योऽयं न भवतीति निश्चयपूर्वकं श्रुतर्वण सह- बध्नश्वसमीपगमनम् तस्यप्यायव्ययशोधनाद्यनंतरं तेन श्रुतर्वणा च सह त्रसदस्युं प्रत्यगस्त्यगमनम् तस्यापि तथैवायव्यवदर्शनेन चिन्ताक्रान्तस्यागस्त्यस्य नृपाणां वाक्येन तैः सहेल्वलसमीपगमनम्
अध्यायः - ९९
. इल्वलेनागस्त्याय मेषीकृतवातापिमांसपरिवेषणम् – इल्वलेन वातापेराह्वानेऽगस्त्येन स्वेन तस्य जीर्णीकरणोक्तिः - भीनने इल्वलेनागस्त्याय धनदानपूर्वकं तजिघांसया तदनुगमनम् अगस्त्येन हुङ्कारेणेल्वलस्य भस्मीकरणपूर्वकं लोपामुद्रायै बहुधनदानेन तस्यां गुणवदेकापत्योत्पादनम्” - एवमगस्त्यचरितं कथयित्वा तदाश्रमवर्णनपूर्वकं भागीरथीमहिमवर्णनम् - पाण्डवानां भृगुतीर्थगमनम् - लोमशेन युधिष्ठितं प्रति परशुरामस्य दाशरथिरामेण तेजोहरणप्रकारकथनम् - तथा परशुरामस्य पितृनिदेशाद्भृगुतीर्थनिमज्जनेन पुनस्तेजोलाभकथनम् -
अध्यायः - १००
. पुनरगस्त्यचरितशुश्रूषोर्युधिष्ठिरस्य प्रश्नानुरोधेत तत्कथनप्रसङ्गेन लोमशकथितः कालकेयगणवृत्तान्तः - कालकेयसहितवृत्रोपद्रुतानां देवानां ब्रह्मलोकगतानां ब्रह्माज्ञया दधीचाश्रमगमनम् - देवे प्रणामपूर्वकं दधीचाग्रे तदस्थियाचने कृतं तदङ्गीकृत्य दधीचेन कृतः स्वप्राणत्यागः - देवसमर्पितैर्दधीचास्थिभिर्विश्वकर्मणा निर्मितस्य वज्रस्येन्द्रेण कृतं ग्रहणम् -
अध्यायः - १०१
. वृत्रेण युध्यता नारायणकृतबलाधानेनेन्द्रकृतो वज्रेण वृत्रवधः - असुरान्मारयत्सु देवेषु भयात् समुद्रप्रविष्टानां कालकेयानां जगद्विनाशविचारः -
अध्यायः - ९०२
. समुद्रान्तर्हितैर्देत्यैः प्रतिरात्रं बहिर्निर्गत्याश्रमेषु ऋषिगणेषु निहतेषु देवगणैर्नारायणस्य शरणीकरणम् -
अध्यायः - १०३
. विष्णुना समुद्रान्तर्हितदैत्यनिधने समुद्रशोषणोपायत्वं ज्ञापितैर्देवैरगस्त्याश्रममागत्य कृतोऽगस्त्यस्तवः -
अध्यायः - १०४
. अगस्त्यस्तवप्रसङ्गागतविन्ध्याद्रिवृत्तान्तविषये यधिष्ठिरप्रश्ने लोमशकथितोऽगस्त्यवृत्तान्तः - कालेयवधार्थं देवैः समुद्रशोषणप्रार्थनायां कृतायां तदङ्गीकरणपूर्वकं देवैः सहागस्त्यस्य समुद्रतीरगमनम् -
अध्यायः - १०५
. अगस्त्येन समुद्रसलिले निपीते देवैर्दैत्यहननम् - देवैः पुनः समुद्रपूरणाय पीतोदकोत्सर्जनं प्रार्थितेनागस्त्येन तस्य स्वेन जीर्णीकरणोक्तौ तदर्थं ब्रह्माणं प्रति प्रार्थनम् -
अध्यायः - १०६
. भगीरथात्समुद्रपूरणं कालान्तरे भविष्यतीति पितामहवाक्यश्रवणोत्तर देवानां स्वस्थानगमनम् - युधिष्ठिप्रश्नानुरोधेन लोमशकथितं सगराख्यानम् - पत्नीद्वयसहितस्य कैलासे तपस्यतः सगरस्य महादेवादेकपत्न्यां षष्ठिसहस्त्रेषु त्रोत्पत्तिवरलाभोऽपरपत्न्यामेकपुत्रोत्पत्तिवरलाभश्च - वौदर्भीनामकमेकपत्न्यामलाबुप्रसवे शैब्यायामेकपुत्रप्रसवेऽलाबुं त्यक्तुमुद्यतं सगरं प्रत्यशरीरा वाणी -
अध्यायः - १०७
. आकाशवाणीश्रवणोत्तरमलाबुबीजेभ्यः पृथक्कुतघृतकुंभनिहितेभ्यः षष्ठिसहस्रपुत्रोत्पत्तिः - सगरपुत्रोपद्रुतानां लोकानां देवसहितानां ब्रह्माणं प्रति शरणगमनं ब्रह्मवाक्यश्रवणोत्तरं यथास्थानगमनं च - अश्वमेधदीक्षानन्तरं सगरेण मोचिताश्वस्य निस्तोयसमुद्रेऽन्तर्धनम् - अश्वान्वेषणं कुर्वतां समुद्रविलखननेन पातालप्रविष्टानां सगरपुत्राणां कपिलक्रोधदृष्ट्या दहनम् - नारदाद्भस्मीभूतपुत्रश्रवणानन्तरं समस्यां शुमन्तं पौत्रं प्रति वाक्यम् - सगरनिदेशान्निर्गतेनांशुमता कपिलप्रसादनेन हयानयनपूर्वकं पितामहयज्ञसमापनम् - सगर इवांशुमत्यपि स्वर्गते तत्सुतेन दिलीपेन गङ्गावतरणाय यतमानेनापि तदपास्यतैव स्वपुत्रं भगीरथं राज्येऽभिषिच्य त्रिदिवगमनम् -
अध्यायः - १०८
. गङ्गावतरणार्थं हिमालये तपस्यतो दिलीपसुतस्य भगीरथस्य सहस्रवर्षानन्तरं गङ्गावाक्याद्धरणीतलमवतरन्त्या गङ्गाया वेगधारणाय तपसा शङ्करतोषणम् - सन्तुष्टस्य महादेवस्याग्रे भगीरथकृतं गङ्गावतरणवेगसहनरूपवरप्रार्थना -
अध्यायः - १०९
. भगीरथप्रार्थनया शङ्करे हिमालयमागते भगीरथाभ्यर्थनया गङ्गाया महादेवशिरस्यवतीर्णाया भगीरथेन सह समुद्रगमनम्। भगीरथेन गङ्गया पितृभ्य उदकदानपूर्वकं सागरपूरणम् -
अध्यायः - ११०
. युधिष्ठिरेण ऋषभकूटगिरौ नन्दापरनन्दानदीगमनम् - लोमशेन युधिष्ठिरं प्रति ऋषभमुनेर्नन्दायाश्च महिमकथनम् - युष्ठिरेण कोशिकीतीरे ऋष्यशृङ्गाश्रमगमनम् - लोमशेन युधिष्ठिरं प्रति विभाण्डकान्मृग्यामृश्यशृङ्गोत्पत्तिकथनम् लोमपादेनानावृष्टिनिवृत्तये ऋश्यशृङ्गानयनं चोदिताभिर्वेश्याभिस्तद्वनगमनम् –
अध्यायः - १११
. नौकाश्रमादिरचनानंतरं विभाण्डकस्यासंनिधाने तदाश्रमं प्रविश्या वेश्यायुवत्या विलासेन् ऋष्यशृङ्गं प्रलोभ्य पुनः स्थ..सगमनम् - तत आगनेन विभाणण्डकेन वेश्याविलासमुग्धचेतसं सुतं प्रति मोहकारणप्रश्नः -
अध्यायः - ११२
. ऋश्यशृङ्गेण विभाण्डकं प्रति भ्रमाद्वेश्याकुमार्यां मुनिकुमारत्वव्यपदेशेन तदागमनोक्तिपूर्वकं तदङ्गचेष्टाविलासैस्तस्यामेव स्वचित्तासक्त्युक्तिः –
अध्यायः - ११३
. ऋश्यशृङ्गमुपदिश्य वेश्यां मृगयतोऽपि तामनुलपभ्य परावृत्तस्य विभाण्डकस्य फलानयनार्थं वनगमनम् - एतदन्तरे पुनर्विभाण्डकस्यासंनिधानमालक्ष्य 'तदाश्रमं गतया वैश्यया नौकारोपणेन ऋश्यशृङ्गेऽङ्गदेशमानीते महावृष्टेराविर्भावः - अन्तःपुरं प्रविष्टाय ऋश्यशृङ्गाय लोमपादेन कृतं स्वकन्यायाः शान्ताया दानम् - फलान्यादायाश्रमागनस्य क्रुद्धस्य विभाण्डकस्याङ्गानागच्छतश्चम्पापरिसरवर्तिघोषेषु निवसतो घोषवासिभिः संवादः - अङ्गराजपुरे प्रविश्य पुत्रं स्नुषां च दृष्ट्वा शान्तकोपस्य विभाण्डकस्य पुत्रं प्रत्यादेशः - पित्राज्ञाकरणपूर्वकमृश्यशृङ्गस्य शान्तया सह स्वाश्रमगमनम् -
अध्यायः - ११४
. युधिष्ठिरेण गङ्गासागरसङ्गमादितीर्थगमनम् - युधिष्ठिरेण वैतरणीस्नानानन्तरं लोमशकृतस्वस्त्ययनस्य युधिष्ठिरस्य महेन्द्राचलवासः
अध्यायः - ११५
. महेन्द्राचले परशुरामानुचरेणाकृतव्रणेन मुनिना युधिष्ठिरस्य संवादः - अकृतव्रणकृतः परशुरामचरित्रकथनारम्भः “कार्तवीर्यार्जुनवृत्तांतः - कार्तवीर्योपद्रुतैः स्वसमीपागतैर्देवैः सह कार्तवीर्यवधविचारं कृतवतो विष्णोर्बदरीगमनम् - गाधिराजकन्यां वर्गतुमागतस्य चींकस्य गाधिकथितकन्याशुल्कदानस्वीकारः - कन्याशुल्कदानार्थं याचिताद्वरुणान् सहस्रसंख्यान् श्यामकर्णानानीय कन्याशुल्कार्थं दत्तवतो ऋचीकस्य गाधिकन्यया सह विवाहः - विवाहानन्तरमागतस्य भृगोर्वरदानेन चींकभार्यायां जमदग्न्युत्पत्तिः -
अध्यायः - ११६
. जमदग्निनोदायां प्रसेनजिद्राजकन्यायां रेणुकायां तस्मात्पञ्चपुत्रोत्पत्तिः - सरसि स्नानार्थे गतायास्तत्र चित्ररथगन्धर्वदर्शनेनाम्भसि क्लिन्नाया आश्रमागताया रेणुकाया जमदग्निकृतं निर्भर्त्सनम् - मातृहननार्थं जमदग्निकृतामाज्ञामनङ्गीकुर्वतश्चतुरः पुत्रान्प्रति जमदग्निशापः - परशुरामेण रेणुकायां मानसिकव्यभिचारदर्शिनः पितुर्जमदग्नेर्नियोगात्कुठारेण तस्याः स्वमातुः कण्ठच्छेदनम् - जमदग्निना पुत्रप्रार्थनया रेणुकाया पुनरुज्जीवनम्। परशुरामासंनिधाने जमदग्न्याश्रममुपागतेन कार्तवीर्यार्जुनेन तदीयहोमधेनुवत्सारणपूर्वकं तदाश्रमपीडनम् - तत आगतेन परशुरामेण बाहुच्छेदनपूर्वकं कार्तवीर्यवधः। परशुरामरहितमाश्रममागत्य कार्तवीर्यपुत्रर्जमदग्निवधः - पश्चादागतस्य परशुरामसस्य मृतपितृदर्शनेन विलापः -
अध्यायः - ११७
. पितृवधामर्षात् त्रिःसप्तकृत्वः पृथिव्यां निःक्षत्रीकरणानंतरं यज्ञे परशुरामेण कृतं कश्यपाय पृथ्वीदानम् - इत्थमकृतव्रणमुखात्परशुरामचरितं श्रुत्वा युधिष्ठिरस्य चतुर्दश्यां परशुरामपूजनोत्तरं महेन्द्रशैलाद्दक्षिणस्यां दिशि प्रस्थानम् -
अध्यायः - ११८
. युधिष्ठिरस्य प्रशस्तां नदीमारभ्य शूर्पारकपर्यन्तं गच्छतः क्रमेण प्रभासतीर्थगमनम् - तत्र यधिष्ठिरदिदृक्षया कृष्णबलभद्रादीनामागमनम् -
अध्यायः - ११९
. बलभद्रेण वृष्णिपाण्डवसभायां भीष्मधृतराष्ट्रादिगर्हणपूर्वकं पाण्डवान्प्रति शोचनम् -
अध्यायः - १२०
. सात्यकिना पाण्डवानपेक्षयैव स्वैरेव धार्तराष्ट्रादिहननपूर्वकं पाण्डवानामावनवाससमापनमभिमन्यो राज्येऽभिषेचनोक्तिः - कृष्णेन सात्यकिं प्रति पाण्डवानां परबाहुबलानुपजीवित्वादिगुणकथनपूर्वकं तन्निषेधनम् - वृष्णिगमनानन्तरं युधिष्ठिरस्य पयोष्णीगमनम् -
अध्यायः - १२१
. लोमशेन युधिष्ठिरं प्रति गयकृतयागवर्णनं पाण्डवानां पयोष्णीस्नानानंतरं लोमशकथितवैदूर्यपर्वतादिदर्शनफलकथनप्रसङ्गेन च्यवनकथाप्रस्तावः युधिष्ठिरेण लोमशं प्रति सविस्तरं च्यवनचरितकथनप्रार्थना -
अध्यायः - १२२
. च्यवनकथारंभः - च्यवनस्य भृगुमहर्षिपुत्रस्य तपस्याकथनम् - कदाचन शर्यातिराजेन सैन्यादिभिः सह च्यवनाश्रमाभिगमनम् – तत्र शर्यातिकन्यया सुकन्याख्यया चिरतरतपस्यानिरतस्य च्यवनशरीरं पर्यावृत्य विवर्धमानमहावल्मीकावलोकनम् - तया कुतूहलाद्वल्मीकोपरिदृश्यमानच्यवननयनयुग्मस्याज्ञानात्कण्टकेन भेदनम् - ततः च्यवनस्य क्रोधात्सर्वेषां मूत्रपुरीषरोधे जाते सुकन्यावाक्याच्छर्यातेर्वल्मीकसमीपगमनम् - च्यवनवाक्यात्तत्प्रसादनाय शर्यातिना दत्तया सुकन्यया सह च्यवनस्य विवाहः - सुकन्यायाः पतिशुश्रूषा –
अध्यायः - १२३
. कस्मिंश्चित्कालं च्यवनाश्रममुपागताभ्यामश्विनीकुमाराभ्यां भार्यात्वाय सुकन्यां प्रति प्रार्थनम् - तदकामयमानां तामाश्विनीकुमाराभ्यां स्वप्रसादाच्च्यवने रूपयौवनसम्पन्ने सति तुल्यरूपे पुत्रिषु कस्यचिद्वरणचोदना – भर्त्राज्ञया तदङ्गीकारे च्यवनेन सहाश्विभ्यां सरसोऽन्तर्जले निमज्जनम् - निमज्ज्योत्थितेषु तेषु सरूपेषु त्रिषु सुकन्याया स्वपातिव्रत्यमहिम्ना च्यवनस्यैव वरणम् - ततस्तारुण्यप्राप्त्या परितुष्टेन च्यवनेनाश्विनीकुमारयोः सोमरसदापनप्रतिज्ञानम् - ततोऽश्विनीकुमारयोश्च्यवनवाक्यश्रवणानन्तरं स्वर्गगमनम् -
अध्यायः - १२४
. च्यवनस्य यौवनलाभश्रवणदृष्टस्य तरुणं स्वजामातरमवेक्षितुमागतस्य शयातेश्च्यवनवाक्याद्यज्ञकरणम् - तस्मिन्यज्ञ अश्विनीकुमाराभ्यां स्वप्रतिश्रुतसोमरसदानाय सोमग्रहं गृहीतवति च्यवने कोपाद्वज्रप्रहारं कर्तुमुद्यतस्येन्द्रस्य च्यवनकृतं बाहुस्तम्भनम् - इन्द्रमारणार्थं च्यवनेन होमे कृते यज्ञकुण्डान्मदनामकासुरोत्पत्तिः - तेनासुरेण शक्रं प्रत्यभिसरणम् -
अध्यायः - १२५
. मदासुरभीतेन्द्रप्रार्थनया तं ततो निवर्त्य सुरापान-स्त्री-द्यूत-मृगयाव्यसनेषु तस्य विभजनम् – च्यवनकथासमाप्तिः - लोमशकृतं नानातीर्थमहिमावर्णनम् -
अध्यायः - १२६
. युधिष्ठिरप्रश्नानंतरं लोमशकथितं मान्धातृचरितम् -"भृग्वाश्रमगतेन युवनाश्वेन कृतमृषिभिः पुत्रेष्टिं कृत्वा स्थापितजलकुम्भस्थजलपानम् - जलपानेन सगर्भस्य युवनाश्वस्य वामपार्श्वभेदनपुरःसरं पुत्रनिर्गमनम् - इन्द्रादिभिरागत्य कृतं मान्धातेति तत्पुत्रनामकरणं मान्धातृवृत्तांतश्च" –
अध्यायः - १२७
. युधिष्ठिरप्रश्रानन्तरं जन्तृपाख्यानप्रसङ्गेन सोमकवृत्तान्तकथनम् - सोमकनामकेन राज्ञा भार्याशतोद्वाहेऽपि ज्येष्ठायामेव जन्तुनामकैकापत्यजननम्। पिपीलिकादष्टसुतदुःखदर्शननिर्विण्णेन तेन राज्ञा ऋत्विजं प्रति बहुपुत्रोत्पादनोपायप्रश्नः – ऋत्विजा राजानं प्रति जन्तोः पशूकरणेन होमे तद्वपाघ्राणनेन भार्याशते पुत्रजननोक्तिः -
अध्यायः - १२८
. ऋत्विक्प्रेरणया सोमकेन राज्ञा जन्तुनामकपुत्रवपाया होमे तद्गन्धाघ्राणनेन तद्भार्याशते पुंवशतोत्पत्तिः - लोकान्तरं गतेन सोमकेन ऋत्विजा सह तद्भोग्यस्वपुत्रहननजनारकीयदुःखानुभवपूर्वकं तेन सहैव स्वीयसुकृतफलोपभोगः -
अध्यायः - १२९
. प्राजापत्यादियज्ञस्थानादिवृत्तांतकथनानन्तरं पाण्डवानां ल्पक्षतीर्थे स्नानं युधिष्ठिरं प्रति लोमशवाक्यं च -
अध्यायः - १३०
. सरस्वतीनद्यादिमाहात्म्यकथनानन्तरं श्येनकपोतोपाख्यानप्रारम्भः – “शिबिपरीक्षणार्थं श्येनीभूतेनेन्द्रेणानुद्रुतस्य कपोतरूपधारिणोऽग्नेः शिबिं प्रति शरणागतिः -
अध्यायः - २३१
. कपोतरिरक्षिणया राज्ञा श्येनवाक्यात्स्वशरीरोत्कृत्तमांसस्य कपोतेन सह तुलारोपणम् - मांसापेक्षया कपोतस्य गौरवातिरेके राज्ञा स्वयमेव तुलारोहणम् - ततस्तुष्टाभ्यामिन्द्राग्निभ्यां तत्प्रशंसनपूर्वकं स्वलोकगमनम् -
अध्यायः - १३२
. श्वेतकेत्वाश्रमगमनानन्तरं युधिष्ठिरं प्रति कथाप्रसङ्गेनाष्टावक्रवृत्तान्तः - उद्दालकस्य स्वशिष्याय कहोडाय स्वकन्यादानम् - शिष्यसमीपे पत्नीगर्भस्थेन बालकेनाक्षिप्तस्य कोहोडास्य गर्भस्थबालकाय शापदानम् - वित्तार्जनार्थं कहोडे जनकपुरं गतेऽष्टावक्रस्योत्पत्तिः - जनकसमीपं गतस्य कहोडस्य वन्दिना वादे विजित्य जले निमज्जनम् - मातुः सकाशात्पितृवृत्तांतं श्रुतवतोऽष्टावक्रस्य मातुलेन श्वेतकेतुना सह जनकनगरगमनम् -
अध्यायः - १३३
. मार्गविषयेऽष्टावक्रजनकसंवादः श्वेतकेतुना मातुलेन सह जनकयज्ञशाला विविक्षोरष्टावक्रस्य द्वारपालेन रोधः - द्वारपालाष्टावक्रयोः संवादः – राज्ञोऽष्टावक्रस्य वाचिकस्य द्वारपालननिवेदनम् – स्वप्रश्नस्योत्तरदानतुष्टेन राज्ञा सभाप्रवेशानुमतिः -
अध्यायः - १३४
. वन्द्यष्टावक्रयोर्विवदमानयोरष्टावक्राद्वन्दिपराजयः - जनकसमीपे 'वरुणेन सत्कृतानां ब्राह्मणानामुत्थानम् – जलमज्जितेषु विप्रेषूत्थितेषु कहोडकृतपुत्रप्रशंसा - वन्दिनः सागरप्रवेशः - अष्टावक्रेण स्वपित्रा कहोडेन मातुलेन च सार्धं स्वाश्रमगमनम् – पितुराज्ञया समङ्गाप्रवेशादष्ट्वावक्रदेहस्य समीभवनम् -
अध्यायः - १३५
. लोमशकृतं समङ्गावृत्तान्तकथनम् - प्रसङ्गेन युधिष्ठिरस्य यवक्रीतवृत्तान्ते प्रश्नः – यवक्रीतोपाख्यानप्रारम्भः - "भरद्वाजपुत्रेण यवक्रीतेन स्वपितृमित्रे रैभ्ये तत्पुत्रयोरर्वावसुपराव…श्चासूयया विनैवोपदेशं वेदाधिगमायेन्द्रं प्रति तपश्चरणम् - वृद्धब्राह्मणरूपेण बालुकामुष्टिभिर्गंगायां सेतुकरणव्यापारं कुर्वतेन्द्रेण सह यवक्रीतस्य संवादः - इन्द्रनिवारितेनापि यवक्रीतेन बलात्कारेण तस्माद्वरग्रहणम् - भरद्वाजन लब्धवरं यवक्रीतं प्रति गर्वेण रैभ्यपीडाप्रतिषेधाय बालध्युपाख्यानकथनम् - यवक्रीतकृतः पितृवाक्याङ्गीकारः -
अध्यायः - १३६
. रैभ्याश्रमे तत्स्नुषायाः परावसुभार्याया दर्शनाज्जातकामेन यवक्रीतेन एकान्ते बलात्कारेण तदुपभोगः - रुदत्या तथा निवेदितवृत्तान्तेन रैभ्येण क्रुद्धेन यवक्रीतहननाय जटाभ्यां कृत्याराक्षसो निर्माणम् - कृत्यया रूपसंपदा संमोह्य कमण्डलुहरणे राक्षसाभिद्रावितेन यवक्रीतेन स्वपितुरग्निहोत्रगृहप्रवेशः - तदाऽन्धेन द्वाररक्षकशूद्रेण निवारितस्य यवक्रीतस्य राक्षसेन वधः -
अध्यायः - १३७
. रैभ्यनिर्मितेन राक्षसेन यवक्रीते हते सत्याश्रमागतेन भरद्वाजेन गृहपालात्तद्वृत्तान्तश्रवणोत्तरं विलापपूर्वकं कृतौ पुत्रदाहनवह्निप्रवेशौ -
अध्यायः - १३८
. रैभ्ययाज्येन बृहद्युम्नन सत्रे सहायत्वेन वृतयोरर्वावसुपरावस्वोर्यज्ञार्थं गमनम् - एकस्मिन् दिने भार्यादर्शनार्थं रात्रौ पुनराश्रमं गतेन परावसुना मृगभ्रमेण कृष्णाजिनसंवीतस्य रैभ्यस्य हननम् - परावसुचोदनयाऽर्वावसुना कृतं ब्रह्महत्याप्रायश्चित्तम् - परावसुवाक्यात्सुद्युम्नेन यज्ञदर्शनान्निवारितस्यार्वावसोर्वने तपश्चरणम् - तपसा तुष्टान्दवान् प्रत्यर्वावसो रैभ्यभरद्वाजयवक्रीतप्रत्युज्जीवनप्रार्थना - देवैर्यवक्रीतदुःखस्य विनोपदेशं वेदाभ्यासफलत्वकथनपूर्वकं रैभ्यादीनामुज्जीवनम् - देवानां स्वर्गमनम् –
अध्यायः - १३९
. लोमशकृततीर्थवृत्तान्तकथनानन्तरं युधिष्ठिरोक्तिः –
अध्यायः - १४०
. भीमेन दुर्गमे गमनाक्षमतया युधिष्ठिरनिवारितानां द्रौपद्यादीनां वहनाङ्गीकारः - पथि कुलिन्दाधिपतिना सुबाहुना पूजितैर्युधिष्ठिरादिभिस्तस्मिन्भृत्यवस्थापनपूर्वकमर्जुनदिदृक्षया गन्धमादनं प्रति प्रस्थानम् –
अध्यायः - १४१
. अर्जुनादर्शनदुःखितेन युधिष्ठिरेण भीमं प्रति धनञ्जयप्रशंसापूर्वकं तद्दर्शनाय गन्धमादनप्रवेशनिश्चयः -
अध्यायः - १४२
. पाण्डवानां मन्दराचलगमनम् - आकाशगङ्गासेवनम् - नरकासुरास्थिदर्शनम् - लोमशेन पाण्डवान्प्रति विष्णुना नरकासुरवधप्रकारकथनम् -वराहरूपिणो हरिणा भारावमग्नभूम्युद्धारकथनम् -
अध्यायः - १४३
. पाण्डवानां गन्धमादनप्रवेशसमये मध्येमार्गं महावृष्टेः प्रादुर्भावः - ततो वृक्षाद्यन्तरितानां पाण्डवानां वृष्ट्युपरमे पुनः प्रस्थानम् -
अध्यायः - १४४
. गन्धमादनप्रवेशसमये गमनाक्षमतयाऽधःपतनेन मूर्च्छिताया द्रौपद्या नकुलेन धारणे कृते युधिष्ठिरकृतं द्रौपदीसमाश्वासनम् - द्रोपदीक्लेशानालोच्य युधिष्ठिरे परिशोचति धौम्यप्रभृतीनामागमनोत्तरं युधिष्टिराज्ञया भीमेन स्मृतस्य घटोत्कचस्य भीमसमीपागमनसंभाषणे -
अध्यायः - १४५
. युधिष्ठिरवाक्याद्भीमेनादिष्टेन घटोत्कचेन दुर्गमे पथि दौपद्यावहनम् - घटोत्कचानुचरैरानसैः पाण्डवानां विप्राणां च वहनम् - पाण्डवानां नानाविधप्रदेशदर्शनपूर्वकं गन्धमादनस्थनरनारायणाश्रममेत्य तत्र सुखेन वासः -
अध्यायः - १४६
. कास्मंश्चित्काले भीमसंनिधाने वाय्वानीतं दिव्याद्भुतपद्मं दृष्ट्वा द्रौपद्या प्रार्थितस्य भीमस्य तादृशबहुपुष्पानयनार्थं गमनम् - पथि गजादिमर्दनपूर्वकं गच्छतो भीमस्य स्वर्गमार्गं रुद्ध्वा स्थितस्य हनूमतो दर्शनम् - सिंहनादं कुर्वतं भीमं प्रति हनुमदुक्तिः –
अध्यायः - १४७
. भीमहनुमत्संवादमध्ये भीमं प्रति को हनुमानित्यादि हनुमभीमस्योत्तरम् - मत्पुच्छमुत्सार्य गन्तव्यमिति हनुमतोक्ते पुच्छमुत्सारयितुमशक्नुवतो भीमस्य प्रणामपूर्वकं हनूमन्तं प्रति प्रत्युक्तिः - हनूमतो भीमं प्रति स्वप्रभावादिकथनं तत्रैव रामवृत्तान्तकथनारंभः -
अध्यायः - १४८
. रामचरितकथनपूर्वकं वरप्राप्त्यादिवृत्तमुक्त्वा भीमं प्रति हनूमत उपदेशः –
अध्यायः - १४९
. भीमेन समुद्रोल्लङ्घनकालिकविशालरूपदर्शनं प्रार्थितेन हनुमता एतत्कालिकैस्तत्कालिकरूपस्य दुर्निरीक्षनाकथनपूर्वकं कृतयुगादिधर्मकथनम् -
अध्यायः - १५०
. पूर्वरूपदर्शनार्थं पुनर्भीमप्रार्थना - हनुमता दर्शितं समुद्रतरणकालिकपृथुतररूपं दृष्ट्वा विस्मिताय भीमाय चतुर्वर्णधर्मनिरूपणम् - सौगन्धिकवनमार्गं प्रदर्श्य हनुमता कृतो भीमं प्रत्युपदेशः -
अध्यायः - १५१
. पूर्वरूपोपसंहारानन्तरं हनूमतो भीमं प्रति वरयाचनाज्ञा भीमानुनयेन भीमसिंहनादबृंहणप्रतिज्ञामर्जुनध्वजस्थितिसमये शत्रुप्राणहरध्वनिकरणमतिज्ञां च कृतवतो हनुमतोऽन्तर्धानम् –
अध्यायः - १५२
. गन्धमादने नानाविधाश्चर्यदर्शनपूर्वकमटतो भीमस्यापराह्ने सौगन्धिकवनदर्शनम् –
अध्यायः - १५३
. सौगन्धिकसरोरक्षकैः क्रोधवशनामकैः राक्षसैः सौगन्धिकसरो विविक्षुं भीमं प्रति तच्चिकीर्षितप्रश्नः –
अध्यायः - १५४
. भीमस्योत्तरं श्रुतवद्भी राक्षसैः सौगन्धिकार्थं कुबेरं याचस्वेत्युपदिष्टे सति तदनादरकरणपूर्वकं भीमस्य सौगन्धिकाहरणे प्रवर्तनम् - निवारयतो राक्षसान् गदाग्रहारेण हत्वा स्ननपानपूर्वकं भीमेन कृतं पुष्करिणीतेः पद्माहरणम् - हतराक्षसैः कुबेरसमीपं गत्वा 'भीमवृत्ते निवेदिते कुबेरात्पद्माहरणानुज्ञामुपलब्धवतां राक्षसानां भीमसमीपागमनम् -
अध्यायः - १५५
. एतदवसरे प्रचण्डवाय्वाद्युत्पातदर्शनेन चिन्तयतो युधिष्ठिरस्य भीममपश्यतां द्रौपदीं प्रति प्रश्नः - द्रौपद्याः सकाशात्सौगन्धिकाहरणाय प्रस्थितं भीमं श्रुत्वा सर्वैः सह युधिष्ठिरस्य सौगन्धिकसरोगमनं भीमदर्शनं च - भीमं प्रति युधिष्ठिरस्यैतादृशसाहसकरणनिषेधोपदेशः - कुबेरबहुमानितस्तैरर्जुनदिदृक्षया तत्रैव सुखेन विहरणम् -
अध्यायः - १५६
. गन्धमादनादुत्तरं देशं जिगमिषुणा युधिष्ठिरेणाकाशवाणीश्रवणात्ततः प्रतिनिवृत्यानुचरैः सह नरनारायणाश्रमं प्रति गमनम् –
८.जटासुरवधपर्व
अध्यायः - १५७
. कपटब्राह्मणवेषेण जटासुरस्य युधिष्ठिरं प्रत्यागमनम् - कपटे न शस्त्राण्याहृत्य द्रौपद्यादीन् हरतो जटासुरस्य युधिष्ठिरकृतं भर्त्सनम् - जटासुरं प्रति सहदेवे वदति सति आगतस्य भीमस्य जटासुरेण युद्धम् - भीमजटासुरयोर्बहुयुद्धादनन्तरं भीमेन कृतो जटासुरवधः -
९. यक्षयुद्धपर्व
अध्यायः - १५८
. जटासुरवधानन्तरं सपरिवारेण नरनारायणाश्रमोषितस्य युधिष्ठिरस्य भ्रातृभिः सह विचारानन्तरं ब्राह्मणानुज्ञया तैः सहोत्तरस्यां दिशि गच्छतः कैलासादिदर्शनम् – सप्तभिर्दिवसैर्हिमवत्पृष्ठगतस्य युधिष्ठिरस्य वृषपर्वदर्शनम् - वृषपर्वनिकटे सप्तरात्रोषितस्य युधिष्ठिरस्य तदुपदिष्टमार्गेण गन्धमादनगमनम् - तत्रार्ष्टिषेणाश्रमदर्शनं च -
अध्यायः - १५९
. आर्ष्टिषेण राजर्षिणा युधिष्ठिरं प्रति कैलासवर्णनपूर्वकमर्जुनागमनपर्यन्तं स्वाश्रम एव निवास चोदना -
अध्यायः - १६०
. आर्ष्टिषेणाज्ञयार्जुनागमनपर्यन्तं तत्र वसतां पाण्डवानां वृत्तान्तकथनम् - कदाचन गरुडपक्षवातानीताम्बुजदर्शिन्या द्रौपद्या तादृशबहुपुष्पानयनं दुष्टराक्षसक्षपणं च प्रार्थितेन भीमेन तदर्थं गन्धमादनशिखरारोहणम् - तत्र गत्वा सिंहनादं कुर्वतो भीमस्य नादश्रवणेनागतैर्यक्षराक्षसगन्धर्वैः सह युद्धम् राक्षसादींश्छिन्नभिन्नान्कुर्वतं भीमं प्रति कुबेरसखस्य मणिमन्नामस्य राक्षसस्यागमनम् - युद्धे भीमेन गदया मणिमति हते शेषाणां राक्षसानां प्राग्दिग्गमनम् -
अध्यायः - १६१
. संग्रामशब्दश्रवणानन्तरमार्ष्टिषेणाश्रमे द्रोपदीस्थापनपूर्वकं युधिष्ठिरादीनां संग्रामदेशगमनम् - संग्रामे भीमं दृष्ट्वा पाण्डवेष्वालिङ्गनपुरःसरमुपविष्टेषु सत्सु युधिष्ठिरकृतो भीमाधिक्षेपः - हतशेषेभ्यो राक्षसेभ्यां भीमवृत्तं श्रुतवतः कुबेरस्यानुचरैः सह पाण्डवसमीपगमनम् - कुबेरं प्रणम्य परिवार्य स्थितेषु पाण्डवेषु कुबेरेण स्वस्यागस्त्यशापादिवृत्तांतकथनपूर्वकं कृतं पाण्डवसान्त्वनम् - युधिष्ठिरप्रश्नानन्तरं कुबेरेण कृतमगस्त्यशापवृत्तान्तकथनम् -
अध्यायः - १६२
. कुबेरेण युधिष्ठिरानुशासनपूर्वकं स्वभवनगमनम् – कुबेराज्ञया राक्षसपूजितैर्युधिष्ठिरादिभिस्तस्यां रात्रौ तद्गृहे सुखवासः -
अध्यायः - १६३
. धौम्येन युधिष्ठिरं प्रति मेरुमन्दारवृत्तान्तकथनपूर्वकं चंद्रसूर्यादिगतिप्रकारनिरूपणम् –
अध्यायः - १६४
. गन्धमादनपर्वते वसत्सु पाण्डवेष्वर्जुनं चिन्तयत्सु सत्सु स्वर्गादधिगतास्त्रेणार्जुनेन युधिष्ठिरादीन् प्रत्यागमनम् -
१०.निवातकवचयुद्धपर्व
अध्यायः - १६५
. इन्द्ररथदर्शनेन हृष्यत्सु पाण्डवेषु रथादवरूढेनार्जुनेन कृतं धौम्यादिपादवन्दनम् - युधिष्ठिरादिपूजितस्य मातलेः स्वर्गगमनानन्तरमर्जुनेन युधिष्ठिरादीन्प्रति संक्षेपेण स्वकीयस्वर्गनिवासप्रकारकथनम् –
अध्यायः - १६६
. इन्द्रागमनम् - सभ्रातृकं युधिष्ठिरमेत्याशीर्वादपूर्वकं पुनः काम्यकवनगमनमुपदिशत् इन्द्रस्य पुनः स्वर्गगमनम् –
अध्यायः - १६७
. युधिष्ठिरेण पृष्टस्यार्जुनस्य स्ववृत्तान्तकथनम् - अर्जुनकृतं किरातरूपधारिमहादेवेन सह युद्धकथनं पाशुपतास्त्रप्राप्तिकथनं च –
अध्यायः - १६८
. अर्जुनकृतं ब्राह्मणरूपेणागतेन्द्रसमागमादिवृत्तकथनम् - अर्जुनकृतं स्वर्गगमनानन्तरमिन्द्रसमीपगमनास्त्रप्राप्त्यादिकथनम् - अर्जुनकृतमिन्द्रकथितनिवातकवचवृत्तान्तकथनं तद्वधार्थं निर्गतस्य स्वस्य देवाशीर्वादादिकथनं च -
अध्यायः - १६९
. पार्थेन निवातकवचैः सह युयुत्सया मातलिसनाथेनेन्द्ररथेन तत्पुरं प्रति गमनम् - अर्जुनस्य शङ्खशब्दं श्रुतवतां निवातकवचानां युद्धार्थं निर्गमनम् - निवातकवचैर्युद्धार्थं प्रवृत्तस्यार्जुनस्य ब्रह्मर्षिप्रभृतीनामाशिषः –
अध्यायः - १७०
. अर्जुनस्य निवातकवचैः सह युद्धम् –
अध्यायः - १७१
. निवातकवचेषु मायया युध्यमानेषु मायासृष्टतमोदर्शनेन भीतयोर्मातल्यर्जुनयोरुक्तिप्रत्युक्ती -
अध्यायः - १७२
. पुनर्निवातकवचानां मायायुद्धप्रवृत्तौ भीतमर्जुनं प्रति वज्रास्त्रप्रेरणविषयिण्या मातलिप्रेरणयाऽर्जुनेन वज्रास्त्रेण कृतो निवातकवचवधः मातलिकृतप्रशंसनानन्तरमर्जुनस्य मातलिसहितस्य निवातकवचनगरगमनं मातलिकथितस्तन्नगरवृत्तान्तश्चः
अध्यायः - १७३
. स्वर्गं गन्तुं निर्गतस्यार्जुनस्य मध्ये हिरण्यपुरदर्शनं मातलिकृतं तत्पुरवृत्तान्तकथनं च – कालकवधार्थं मातलिप्रेरणानन्तरं तं प्रत्युक्तवतोऽर्जुनस्य कालकञ्जवधार्थं गमनम् - युद्ध्यमानानां कालकञ्जानां रौद्रास्त्रप्रयोगेणार्जुनेन कृतो वधः मातलिना स्तुतस्यार्जुनस्यामरावतीं प्रति प्रत्यागमनम् - इन्द्रसमीपे मातलिनाऽर्जुनपराक्रमे वर्णिते इन्द्रेण कृतमभिनन्दनपूर्वकमाशीर्दानम् -
अध्यायः - १७४
. पूर्वोक्तार्जुनकथितवृत्तान्तश्रवणानन्तरमस्त्रदर्शनार्थमर्जुनं प्रति युधिष्ठिरवाक्यम् -
अध्यायः - १७५
. युधिष्टिराज्ञया दिव्यास्त्राणि योजयित्वा प्रदर्शनम् अस्त्रतेजसा जगत्क्षोभे सति इन्द्रचोदनया नारदेनार्जुनं प्रत्यस्त्रप्रदर्शननिषेधः -
११. आजगरपर्व
अध्यायः - १७६
. युधिष्ठिरं प्रति भीमाद्युक्त्यनन्तरं द्वैतवनगमनार्थं युधिष्ठिरेण पर्वतामन्त्रणे कुते घटोत्कचेनोढेषु सर्वेषु तदामन्त्रणपुरःसरं लोमशस्य स्वर्गगमनम् –
अध्यायः - १७७
. गन्धमादनादवतीर्णैः पाण्डवैः क्रमेण कैलासपर्वतदर्शनादि विधाय यथागतेन पथाऽऽगच्छतां क्रमेण सुबाहुदेशगमनम् - सुबाहुनिकटे स्थापितं सूतादिपरिकरं गृहीत्वा घटोत्कचं च विसृज्य गच्छतां विशाखयूपं प्रत्यागमनादि - पाण्डवानां सरस्वतीतीरे सुखेन विहरणम् –
अध्यायः - १७८
. प्रसङ्गागते अजगरवृत्तान्ते जनमेजयेन पृष्टे वैशम्पायनस्योत्तरम् - धनुष्पाणेर्भीमस्य वने मृगयादि कुर्वतः केनचिदजगरेण गृहीतस्य तन्मोचनासामर्थ्यम् -
अध्यायः - १७९
. अजगरं प्रति भीमस्य 'कस्त्वम् ?' इत्यादिप्रश्नेऽजगरेण भीमं प्रति स्वस्याजगरत्वप्रापककारणकथनम् - दुर्निमित्तदर्शनाद्दुर्मनायमानस्य युधिष्ठिरस्य धौम्येन सहितस्य भीमान्वेषणार्थं निर्गमनम् - शून्यारण्ये भुजगेन्द्रगृहीतस्य भीमस्य दर्शनम् –
अध्यायः - १८०
. युधिष्ठिरभीमयोः संवादानन्तरं भीममोचनार्थमजगरे युधिष्ठिरेण प्रार्थिते तस्योत्तरम् - युधिष्ठिरप्रश्नानन्तरं स्ववृत्तान्तेऽजगरेण कथिते तं प्रति युधिष्ठिरस्य प्रश्नोत्तरकरणार्थं प्रार्थना - सर्पकृतस्य प्रश्नत्रयस्य युधिष्ठिरदत्तमुत्तरत्रयम् -
अध्यायः - १८१
. स्वप्रश्नस्योत्तरदानतुष्टेनाजगररूपिणा नहुषेण युधिष्ठिरं प्रति स्वपूर्ववृत्तान्तकथनानन्तरं नहुषेऽजगरदेहमोचनपूर्वकं स्वर्गं गते भीमधौम्याभ्यां सह युधिष्ठिस्य स्वाश्रागमनम् -
१२. मार्कण्डेय-समास्यापर्व
अध्यायः - १८२
. वर्षाकालसमाप्तिपर्यन्तं द्वैतवने निवासानन्तरं शरदि धौम्यादिसहितानां पाण्डवानां काम्यकवनप्रवेशः –
अध्यायः - १८३
. पाण्डवानां पुनः काम्यकवनागमनं श्रुतवता कृष्णेन सत्यभामया सह पाण्डवदर्शनार्थं तत्रागमनम् - युधिष्ठिराभिवादनाद्यनन्तरं युधिष्ठिरादीन् प्रति कृष्णवाक्यम् - कृष्णं प्रति युधिष्ठिरे वदति मार्कण्डेयागमनानन्तरं पूजादिपूर्वकं मार्कण्डेयं प्रति कृष्णोक्तिः – कृष्णादिसमीपागतस्य नारदस्य पाण्डवकृतपूजनानन्तरं मार्कण्डेयं प्रति नारदोक्तिः - मार्कण्डेयेन कृष्णचोदनया पुराणकथाकथनारम्भः –
अध्यायः - १८४
. युधिष्ठिरस्य ब्राह्मणमाहात्म्यविषयकप्रश्ने मार्कण्डेयकथितो हैहयानां वृत्तान्तः -
अध्यायः - १८५
. पुनर्माकण्डेयस्य ब्राह्मणमाहात्म्यकथनप्रस्तावे वैन्ययज्ञेऽत्रिगौतमसंवादानुवादेन ब्राह्मणमाहात्म्यकथनम् -
अध्यायः - १८६
. मार्कण्डेयेन युधिष्ठिरादीन्प्रति दानाग्निहोत्रमोक्षादिनिरूपकतार्क्ष्यसरस्वतीसंवादानुवादः –
अध्यायः - १८७
. मार्कण्डेयकथितं वैवस्वतमनुचरितम् - तपस्यन्तं मनुं प्रति क्षुद्रमत्स्यवाक्यम् - अलिजरादिषु वर्धमानस्य मत्स्यस्य मनुकृतः समुद्रे क्षेपः - समुद्रक्षेपसमये भाविप्रलयकथनपूर्वकं मनुं प्रति मत्स्योक्तिः - मत्स्योपदिष्टायां नाव्यारूढेन मनुना कृतं नौकासमीपवर्तिमत्स्यशृंगे नौकाबन्धनम् - समुद्रे नौकाकर्षणं कुर्वतो मत्स्यस्याज्ञया मनुना हिमालयशृङ्गे नौकिबन्धने कृते स्वपरिचयकथनपूर्वकं मत्स्यस्यान्तर्धानम् – मनस्तपसा प्रजासर्जनम् - मत्स्योपाख्यानं - श्रवणमाहात्म्यम्-
अध्यायः - १८८
. मार्कण्डेयेन युधिष्ठिरादीन्प्रति कृतादियुगचतुष्टयधर्मकथनपूर्वकं प्रलयवर्णनम् - तथा मार्कण्डेयस्य प्रलयवृत्तान्तकथनपूर्वकं प्रलयकालिकस्ववृत्तांतकथनम् - प्रलयजले परिप्लवता मार्कण्डेयेन वटशाखाशायिनः शिशुरूपस्य हरेरुदरान्तः प्रविश्य ब्रह्माण्डदर्शनपूर्वकं पुनर्बहिर्निर्गमनम् - मार्कण्डेयस्य बालकं प्रति वाक्यम् -
अध्यायः - १८९
. स्वस्वरूपकथनपूर्वकं नारायणकृतो मार्कण्डेयं प्रत्युपदेशः - मार्कण्डेयकृतं श्रीकृष्णमाहात्म्यकथनम्। युधिष्ठिरादिकृताः श्रीकृष्णस्य प्रणामाः श्रीकृष्णेन पाण्डवानां समाश्वासनम् -
अध्यायः - १९०
. युधिष्ठिरप्रश्नानुरोधेन मार्कण्डेयेन कलौ भविष्यल्लोकवृत्तान्तकथनम् - कलियुगान्ते कल्कित्वेनावतरिष्यता हरिणा दुष्टजनसंहारादिकथनम् -
अध्यायः - १९१
. स कल्क्यश्वमेधयज्ञे द्विजेभ्यः पृथिवीं दास्यति ततोऽधर्मक्षयाद्धर्मवृद्ध्य च सत्ययुगधर्मप्रवृत्तिरित्यादिकथनम् - मार्कण्डेयेनोपदिष्टे धर्माचरणे युधिष्ठिरेण स्वीकृते सर्वेषां सन्तोषः –
अध्यायः - १९२
. पुनर्ब्राह्मणमाहात्म्यं कथयता मार्कण्डेयेन कथयितुमारब्धं मण्डूकोपास्यानं तत्प्रसङ्गाद..वाकस्य परीक्षितश्चरितम् - मृगयाश्रान्तस्य सरस्तीर उपविष्टस्य परीक्षितो गतिश्रवणम्। गीतमन्विष्यता परीक्षितः कन्यादर्शनं ततः कन्यां प्रति परीक्षित्प्रार्थनं – उदकादर्शनरूपकन्योक्तसमयाङ्गीकरणेन मण्डूककन्यापरिणयः - तया सह परीक्षितः स्वनगरगमनम्- मण्डूककन्यया सह सर्वदा रहसि स्थितस्य प्रधानादिभिर्दर्शिने सुगृढ़वापीसहिते वने विहरतो राज्ञो वापदर्शनम् - वापीसलिलेऽवतरेति राजवाक्यश्रवणोत्तरं गतायां मण्डूककन्यायां तामन्विष्यता राज्ञा गर्तमुखे मण्डूकं दृष्टवता कृतं मण्डूकानां वधार्थं स्वीयानां दूतानां प्रेरणम् - मण्डूकराजे नायुर्नाम्ना मण्डूकवधे प्रार्थितेऽप्यशृण्वति परीक्षिति मण्डूकराजेन कृतं राज्ञे स्वकन्यायाः सुशोभनाख्याया दानम् - कन्यायै दौशील्याद्द्विजद्वेषिपुत्रप्राप्तिरूपशापदानपुरःसरं मण्डूकराजस्य स्वगृहगमनम् - तस्यां शलदलबलाख्यं पुत्रत्रयमभूत्तेषां ज्येष्ठं शलं राज्येऽभिषिच्य परीक्षिद्वनं जगाम - मृगयायै गतः शलो धावन्तं मृगमन्वेतुं सूतप्रेरणया वामदेवनिकटे वाम्यौ ययाचे - प्रतिदानसमयेन वा मदेवदत्तवाम्यौ गृहीत्वा मृगमन्वगच्छच्छलः - मासानन्तरं वामदेवेन वाम्यर्थं शिष्ये प्रेषितेऽप्यददानः शलो वामदेवशापाद्राक्षसैर्हतः शलभ्राता दलोऽपि वाम्यौ नादात्तदा तत्सुतो नाशमवाप - दलपत्नीप्रार्थनया तुष्टाय वामदेवाय दलो वाम्यौ प्रादात् -
अध्यायः - १९३
. युधिष्ठिरस्य बकवृत्तप्रक्षे मार्कण्डेयकयितः सुखदुःखविषये इन्द्रबकसंवादः -
अध्यायः - १९४
. क्षात्रधर्माविषये युधिष्ठिरप्रश्ने मार्कण्डेयकथितं सुहोत्रौशीनरयोर्वृत्तम् -
अध्यायः - १९५
. मारण्डेयेन पाण्डवान्प्रति ययातिचरितकथनम् -
अध्यायः - १९६
. मार्कण्डेयेन सेदुकवृषदर्भचरितकथनम् -
अध्यायः - १९७
. मार्कण्डेयेन श्येनात्कपोत्तरक्षणरूपाशबिचरितकथनम् –
अध्यायः - १९८
. मार्कण्डेयेनाष्टकप्रतर्दनवसुमनःशिबीनां रथस्थानां नारदेन कथाप्रसङ्गे नारदकथितं शिबिचरितम् -
अध्यायः - १९९
. त्वत्तोऽपि कश्चिच्चिरंजीवी अप्यस्तीति मार्कण्डेयं प्रति युधिष्ठिरप्रश्ने मार्कण्डेय इन्द्रद्युम्नाख्यानोपक्रमेणोत्तरोत्तरचिरंजीविन उलुकादीनाचष्टे -
अध्यायः - २००
. निन्दितदानानां निन्दितजन्मादीनां च कथनम् - कीदृशाः प्रतिग्राहका दातारं तारयन्तीति प्रश्ने तदनुरूपं मार्कण्डेयोत्तरम् - श्राद्धे ग्राह्याग्राह्यब्राह्मणविचारः - प्रतिगृहीतृलक्षणमतिथिभोजनप्रशंसा च - गोदानमाहात्म्यं स्वर्णदानफलं च - अनडुद्दानफलमन्नदनामकथनान्नदानफलं तत्प्रसंगाज्जलाशयदानफलं च - युधिष्ठिरस्य यमलोकपथप्रश्ने तदनुरूपमुत्तरं मार्कण्डेयस्य -विप्रपादधावनफलमर्धप्रसूतधेनुदानफलं च - विप्रशौचविषयके युधिष्ठिरप्रश्ने वाक्शौचादिरूपं मार्कण्डेयस्योतरम् - सायंप्रातर्गायत्रीजपफलं ब्राह्मणावमाननं न कर्तव्यमित्यादिकथनं च - वित्तशुद्धीन्द्रियनिग्रहप्रशंसा दयावत्प्रशंसा च - तप आदिना स्वर्गादिलाभकथनम् - अयनादिषु दानस्य फलाधिक्यम् – स्वर्णगोभूमिदानफलकथनम् -
अध्यायः - २०९
. मार्कण्डेयेन युधिष्ठिरं प्रति धुन्धुमारोपाख्यानकथनारम्भः उदङ्कनामकमुनेस्तपसा परितुष्टेन विष्णुना तस्मै वरप्रदानम् - तथा विष्णुना उदङ्कं प्रति कुवलाश्वेन धुन्धुनामकासुरघातनविधानपूर्वकमन्तर्धानम् –
अध्यायः - २०२
. उदङ्केन स्वपुत्राभिषेचनपूर्वकं वनं प्रस्थितं बृहदश्वं प्रति तन्निवारणपूर्वकं धुन्धुनामकासुरहननचोदना –
अध्यायः - २०३
. बृहदश्वेनोदङ्कं प्रति स्वपुत्रेण कुवलाश्वेन धुन्धुवधस्य भावित्वकथनपूर्वकं वनं प्रति गमनम् - धुन्धूत्पत्तिं पृष्टेन मार्कण्डेयेन युधिष्ठिरं प्रति तदुपद्घाततया मधुकैटभवृत्तान्तकथनम् -
अध्यायः - २०४
. मधुकैटभपुत्रेण धुन्धुना तपस्तोषिताद्ब्रह्मणोऽवध्यत्वादिवरग्रहणेन देवानां पीडनम् - उदङ्कचोदितेन कुवलाश्वेन समुद्रमध्यमधिवसतस्तस्य ब्रह्मास्त्रेण हननम् - तदा देवादिभिः कुवलाश्वस्य धुन्धुसार इति नामकरणेन तस्मै वरदानपूर्वकं स्वस्वस्थानं प्रति गमनम् - मार्कण्डेयेन युधिष्ठिरं प्रति तत्पुत्राणां नामकथनपूर्वकं धुन्धुमारोपाख्यानस्तवनम् -
अध्यायः - २०५
. युधिष्ठिरस्य मार्कण्डेयं प्रति पतिव्रतामाहात्म्यादिप्रश्ने मार्कण्डेयस्योत्तरम् - मातापित्रोरति दुःखेन पुत्रं प्रसूय तद्विषयिणीं चिंतां वहतोरिच्छानुरूपश्चेत्पुत्रः स साधुरित्यादिकथनम् –
अध्यायः - २०६
. कौशिकनामा कोऽपि तपस्वी विप्र आसीत् - वृक्षमूले वेदं पठतस्तस्य शिरसि कयाचिद्वलाकया पुरीषमुत्सृष्टम् - क्रुद्धस्य कौशिकस्य दृष्ट्या बलाका मृता, तेन तस्यानुतापः - अथ कदाचित्कस्यचिद्गृहे भिक्षार्थं गतं कौशिकं प्रति तद्गृहस्था पतिव्रता तिष्ठेत्युक्त्वा पतिभोजनाद्यनंतरं भिक्षामादायाजगाम - ततश्चिरीकरणेन क्रुद्धेन कौशिकेन किमिति विलम्बः कृत इति पृष्ट्वा साध्व्या पतिशुश्रूषानुरोधेमेत्युत्तरितम्। पुनः क्रेधेनोक्तवन्तं कौशिकं प्रति 'नाहं बलाका विप्रर्षे त्यज कोधं तपोधन' इत्यद्युक्त्या स्वशक्तिप्रकाशनपूर्वकं धर्मावगतये धर्मव्याधसमीपं गच्छेत्युक्तवत्याः साध्व्या अनुज्ञां गृहीत्वा स्वात्मानं विनिन्दतः कौशिकस्य स्वाश्रमं प्रति गमनम् -
अध्यायः - २०७
. अनुतापपूर्वकं मिथिलायां कौशिकस्य धर्मव्याधसमीपं गमनम् - व्याधे ब्राह्मणं दृष्ट्वाऽभिवादनपूर्वकं पतिव्रतया त्वं प्रेषित इत्यहं जानामीत्युक्तवति कौतुकाविष्टेन कौशिकेन व्याधकृतसत्काराङ्गीकरणम् - स्वधर्माचरणप्रशंसोपक्रमेण व्याधकृतं वर्णधर्मकथनं जनकराजधर्मकथनं च - कुलधर्मानुरोधेन परहतपशुमांसविक्रयं करोमि न स्वयं पशून्हन्मि' इति व्याधवचनम् - शिष्टाचारज्ञानविषये कौशिकप्रश्ने व्याधकथितानि शिष्टलक्षणानि –
अध्यायः - २०८
. व्याधस्य स्वधर्माचरणानुतापप्रसङ्गे शिबिरतिदेवयोः प्रशंसादि –
अध्यायः - २०९
. धर्मगतेः सूक्ष्मत्वनिरूपणम् - विषमां च दशां प्राप्य इत्यादिना दृष्टान्तपुरःसरमदृष्टप्राबल्यप्रतिपादनम् - यथाश्रुतिरित्यादिना जीवनित्यत्वप्रतिपादनम् - शुभाशुभकर्मभिः शुभाशुभयोर्निवृत्युत्पत्त्यादिकथनम् - इन्द्रियनिग्रहो ब्रह्मपदप्राप्तिहेतुरिति व्याधेनोक्तं इन्द्रियस्वरूपतन्निग्रहविषये कौशिकजिज्ञासा –
अध्यायः - २१०
. इन्द्रियनिग्रहाभावे दोषकथनम् - व्याधकृतं ब्राह्म्या विद्यायाः कथनम् –
अध्यायः - २११
. कौशिकं प्रति धर्मव्याधेन भूतपञ्चकगुणनिरूपणपूर्वकामिन्द्रियजयाजययोः सुखदुःखासाधारणकारणताकथनम् -
अध्यायः - २१२
. इन्द्रियनिग्रहवत एव तपो भवति तद्रहितस्य दोष एवेत्यादि -
अध्यायः - २१३
. पार्थिवधातावाय्वनिलस्थितिविषये ब्राह्मणप्रश्ने व्याधस्योत्तरं मूर्धानमाश्रित इत्यादिना -
अध्यायः - २१४
. स्वाचरितधर्मप्रदर्शनार्थं गृहान्तःप्रवेशिते ब्राह्मणे पश्यति व्याघ्रकृतं स्वपित्रोश्चरणवन्दनादि -
अध्यायः - २१५
. पितृशुश्रूषात्मकतपोबलाद् वेहस्थस्य मम पतिव्रताकृतस्य त्वत्प्रेषणम्य ज्ञानमिति ब्राह्मणं प्रति व्याधेन कथनम् - मातापितृसेवां विना तपश्चरणे दोषं कथयन्तं व्याधं प्रति पशंसापूर्वकं तस्य शूद्रयोनिजन्मकारणप्रश्नः ब्राह्मणशापपर्यन्तं स्वपूर्वजन्मवृत्तान्तकथनं व्याधेन -
अध्यायः - २१६
. ब्राह्मणस्तुत्यनन्तरं सांसारिकदुःखादिविषये शोकाद्यकरणसाधने व्याधेनोपदिष्टे व्याधप्रशंसापूर्वकं ब्राह्मणकृतं स्वगृहगमनं स्वपित्रोः शुश्रूषणं च - मार्कण्डेयेन युधिष्ठिरं प्रति पतिव्रतामाहात्म्यादिकथनोपसंहारः - युधिष्ठिरकृता धर्माख्यानप्रशंसा -
अध्यायः - २१७
. मार्कण्डेयं प्रत्यग्नेर्वनगमनादिविषये युधिष्ठिरप्रश्ने तदुत्तरकथनार्थमाङ्गिरसोपाख्यानकथनारंभः - तपस्यन्तमङ्गिरसं दृष्ट्वा चिन्तयन्तमग्निं प्रत्यङ्गिरसा कृतं पुत्रत्ववरणम् - देवान्प्रति बृहस्पतिकथितमङ्गिरसोऽग्निपुत्रत्वकारणम् -
अध्यायः - २१८
. अङ्गिरसः पुत्राणां कन्यानां च नामादिकथनम् -
अध्यायः - २१९
. बृहस्पतिवंशादिकथनं नानाविधाग्नीनां स्थानभेदेन नामभेदाश्च -
अध्यायः - २२०
. मार्कण्डेयेन युधिष्ठिरं प्रति काश्यपादीनां पञ्चाग्नीनां पाञ्चजन्यः पुत्रः पितॄणां पञ्चसुतानजनयत् इति कथनम् – अन्येषामपि बहूनामग्नीनामुत्पत्त्यादिकथनम् -
अध्यायः - २२१
. प्रजाभरणाद्भरतनामाऽग्निः पुष्टिदः पुष्टिमतिर्नामाग्निर्दुःखिनां शिवकृच्छिवनामाग्निरित्यादयोग्नयः –
अध्यायः - २२२
. मार्कण्डेयेन युधिष्ठिरं प्रत्यग्निवशादिकथनम् -
अध्यायः - २२३
. मार्कण्डेयेन युधिष्ठिरं प्रति कुमारोत्पत्तिप्रकारकथनारंभः - दैत्यजित इन्द्रो मानसं शैलं गत्वा कस्याश्चित् स्त्रिया 'अभिधावतु माम्' इत्यादिकमार्तनादं शुश्राव - 'मा भैषीः' इत्युक्त्वा कन्यां हरन्तं केशिनं दानवं न्यषेधयत् - मयावृतेयमित्युक्त्वा युद्धोद्यते केशिनिन्द्रताडनात्पलायिते कन्यां प्रतीन्द्रप्रश्नः -
अध्यायः - २२४
. प्रजापतिकन्या देवसेनोऽहमिति कन्ययोक्ते तामुवाचेन्द्रो - 'मम मातृष्वसेयी त्वं स्वबलं कथय' इति पितुर्वरदानात्त्वहितानां सर्वेषां जेता मे बलवान्पतिर्भवितेति कन्येन्द्रमब्रवीत् अमावास्यायां रौद्रे मुहर्ते ऋषिषु जुव्हत्सु सोमश्चाग्निश्च यं पुत्रं जनयिष्यतः सोऽस्या पतिर्भावीतीन्द्रचिन्तनम् - ऋषिपत्नीः कामयमानेऽग्नौ तासामलाभाद्विरहेण वनं गते तत्पत्न्याः स्वाहाया ऋषिपत्नीस्वरूपेण तत्तोषणं कर्तुं मन्त्रणम् –
अध्यायः - २२५
. स्वाहयांगिरसः पत्न्याः शिवाया रूपं धृत्वाग्निसमीपं गत्वा तं सन्तोष्य तस्य रेतो गृहीत्वा गरुडीरूपेण निर्गत्य श्वेतपर्वते काञ्चनकुण्डे तत्क्षेपणम् - एवं षण्णामृषिपत्नीनामरुन्धतीवर्जं रूपं धृत्वाग्निसंन्तोषादिकरणानन्तरं प्रतिपदि कुण्डस्थं तद्रेतः पुत्रं जनयामास - सद्वितीयायामभिव्यक्तस्तृतीयायां शिशुश्चतुर्थ्यामङ्गप्रत्यङ्गयुक्तो बभूव - ततः कुक्कुटवाहनेन तेन बाणैः कौंचगिरिविदारणपूर्वकं शक्त्या श्वेतगिरिशिखरविभेदनम् - ततः श्वेतादिपर्वतास्तं नत्वा पृथिवीं जग्मुः -
अध्यायः - २२६
. स्कन्दोत्पत्त्यनन्तरमुत्पातदर्शनेन भीता ऋषयः शांतिं चक्रुः - केचिदग्निना षडृषिपत्नीसङ्गतेनायमनर्थः कृत इत्यूचुः - केचित्त्वयायमनर्थः कृत इति गरुडीमूचुः - सुपर्णीस्कंदमाहाहं तत्र जननीति स्वाहाऽपि तं तथैवाह - लोकापवादभयात् षडृषिभिः स्वपत्नीनां परित्यागः - विश्वामित्रेण कुमारस्य जातकर्मादिना संस्करणम् - विश्वामित्रेण परमार्थतः स्वाहाचेष्टितं ज्ञात्वा षडृषीन् प्रति तत्कथनेन ऋषिपत्नीकलंकदुरीकरणम् - स्कन्दं जहीति देवैरिन्द्रं प्रत्युक्ते तद्भयादिन्द्रेण तस्मिन्नङ्गीकृते स्कन्दं हन्तुं लोकमातरो ययुः भीताभिर्मातृभि़स्त्वमस्मत्पुत्रो भवेति प्रार्थितेन स्कन्देन तथाङ्गीकृतं लोकमात्रादयोऽग्निसहिताः स्कन्दं रक्षुः -
अध्यायः - २२७
. ग्रहादिषु स्कदं परिवार्य स्थितेषु ऐरावतारूढस्येन्द्रस्य स्कन्धजिघांसयाऽऽगमनम् - इन्द्रादीन् दृष्ट्वा स्कन्दो विनदन्नग्निज्वालाः ससर्ज ताभिरग्निज्वालाभिर्दह्यमाना देवास्तं शरणं ययुः - इन्द्रत्यक्तवज्राहता स्कन्ददक्षिणपार्श्वाद्विशाखः संबभूव स्कन्दाद्भीतस्तमिन्द्रः शरणं गतः-
अध्यायः - २२८
. इन्द्रवज्रप्रहारादुत्पन्नाः स्कन्दपारिषदाः कुमारा कुमार्यश्चाद्यापि गर्भस्थानुत्पन्नांश्च बालकान् घ्नन्ति - कावयादि सप्त मातृगणस्तद्वीर्यसम्भव एकः शिशुश्छागवक्त्रश्चेत्येवं नवकोगणः -
अध्यायः - २२९
. श्रिया जुष्टं स्कन्दं भवानिन्द्रोऽस्तु इति ऋषय ऊचुस्तैः सह इन्द्रेण च संवादः कार्तिकेयस्य - इन्द्रवाक्यात्स्कन्देन सेनापतित्वङ्गीकृते स्कन्दस्य देवसहितेन्द्रकृतः सेनापतित्वाभिषेकः - स्कन्दस्य रुद्रसूनुत्वाद्युत्पत्तिकथनम् - केतुस्थानेऽग्निदत्तकुक्कुटद्यलंकृतं स्कन्दं सहस्रशो देवसेनाः समाजग्मुः - इन्द्रेण पूर्वं केशितो मोचिताया देवसेनायास्तत्प्रेरणया स्कन्देन कृतं पाणिग्रहणम् –
अध्यायः - २३०
. पूर्वमृषित्यक्तानामागतानां षण्णामृषिपत्नीनां तत्प्रार्थनया स्कन्दकृतस्तत्परिग्रहः - रोहिणीज्येष्ठतास्पर्धया अभिजिति स्वाधिकारं त्यक्त्वा गते नक्षत्रसंख्यापूर्त्यर्थमिन्द्रप्रार्थनया षट्कृत्तिकानामुपरि गमनम् ब्राह्म्यादिस्पर्धया आगतानां विनतादिमातॄणां तत्प्रार्थनया स्कन्दकृतो मातृत्वेनाङ्गीकारः - ताभिः स्कन्दस्य संवादः - विनतादीनां विशेषसंज्ञा गर्भहरणादि तत्कर्म, स्कन्दग्रहविशेषणां विनतादीनां शान्तयश्च मनुष्याणां षोडशवर्षादूर्ध्वं ये ग्रहास्तेषां संज्ञाकर्मादिकथनम् - शिवभक्तानां ग्रहपीडाभावकथनम् -
अध्यायः - २३१
. आगतया स्वाहया प्रार्थितस्य स्कन्दस्य तस्यै वरप्रदानादि - पितरं शिवं प्रति गन्तुं ब्रह्मणा प्रेरितस्य कुमारस्य महेश्वरं प्रति गमनम् - धनाद्यर्थिभिः स्कन्द्रगणाः सेव्या नमस्याश्चेति कथनम् -अभिषेकसमय आगतस्य शिवस्याज्ञया सप्तममारुतस्कन्धरक्षणाङ्गीकरणं स्कंदेन कार्येषु मया त्वं द्रष्टव्य इत्युक्त्वा शिवेन स्कंदविसर्जनम् - स्कन्दगमनोत्तरं देवदानवयोर्युद्धप्रसङ्गे देवेषु महिषासुरेण विमुखीकृतेषु तत्रागत्य स्कंदेन शक्त्या कृतो महिषवधस्तत्पारिषदैश्च कृतो दानववधः -
अध्यायः - २३२
. स्कन्दनामधेयशुश्रूषया युधिष्ठिरप्रश्ने मार्कण्डेयकथितानि स्कन्दनामानि तत्पाठफलं च - मार्कण्डेयकथितः स्कन्दस्तवस्तत्पाठफलश्रुतिश्च -
१३. द्रौपदीसत्यभामासंवादपर्व
अध्यायः - २३३
. एकत्र मिलिते द्रौपदीसत्यभामे कुरुयदुकथाम् अकथयताम् - केन चरित्रेण पाण्डवेषु त्वं वर्तसे, केन मंत्रादिना पाण्डवास्त्वद्वशगा इत्यादि सत्यभामा द्रौपदीं पप्रच्छ - मन्त्रादिना पतिवशीकरणादिकमसत्स्त्रीसमाचरणमनु पृच्छसि, नाहमसती, येन पाण्डवा मद्वशवर्तिनस्तत्कथयामि शृण्वति द्रौपदीवाक्यम् –
अध्यायः - २३४
. मदुक्तमाचरन्त्यास्ते कृष्णो वशगो भविष्यतीति स्त्रीणां सर्वसुखावाप्तिः पत्युः सकाशाद्भवतीत्यादिश्च सत्यभामां प्रति द्रौपद्या उक्तिः -
अध्यायः - २३५
. प्रियोक्तिभिर्दौपदीं परिसान्त्वितवत्या सत्यभामया सह श्रीकृष्णेन स्वपुरं प्रति गमनम् -
१४. घोषयात्रापर्व
अध्यायः - २३६
. द्वैतवने गृहादि कृत्वा शैलादिषु विचरन्तः पाण्डवा वने समेतान्वेदविदस्तपोधनान्पूजयामासुः - कस्माच्चिद्ब्राह्मणात्पाण्डववृत्तान्तं श्रुतवता धृतराष्ट्रेण पाण्डवान्प्रति परिशोचनम् - तथा पाण्डवपराक्रमानुस्मरणेन स्वपुत्राणां भाविवधनिर्धारणपूर्वकं तान्प्रति परिशोचनम् -
अध्यायः - २३७
. धृतराष्ट्रविलापं श्रुत्वा कर्णशकुनिभ्यां दुर्योधनं प्रति स्ववैभवप्रदर्शनेन पाण्डवानां दुःखजननाय द्वैतवनगमनचोदना -
अध्यायः - २३८
. शकुनिकर्णावाह दुर्योधनः पितुराज्ञां विनैतद्दुर्घटमित्युभाभ्यां युवाभ्यां तथोपायो विधेयो यथा द्वैतवनगमने धृतराष्ट्रानुज्ञा भवदिति - रात्रावागत्य कर्णो दुर्योधनं प्रति द्वैतवनेऽस्मद्घोषा निवसन्ति ते चास्मदागमनं प्रतीक्षन्तेऽतस्तत्र गमनानुज्ञा देयेति प्रार्थितो धृतराष्ट्रः सुस्वमनुज्ञां दास्यतीत्युवाच -
अध्यायः - २३९
. धृतराष्ट्रसमीपं गतेषु सर्वेषु मध्ये शकुनिर्दुर्योधनो घोषयात्रादि कर्तुं द्वैतवनं जिगमिषतीत्युवाच - दोषदर्शनपूर्वकं निवारयन्नपि धृतराष्ट्रः शकुनिवाक्यादनुजज्ञे - ततो दुर्योधनस्य घोषयात्राव्याजेनानुजैः सह द्वैतवनं प्रति प्रस्थानम् -
अध्यायः - २४०
. द्वैतवनसमीपे घोषानभितो दुर्योधनस्तत्परिजनाः कर्णादयश्चावसथांश्चक्रुः - तत्र दुर्योधनो गा दृष्ट्वा वत्सांश्चांकयित्वा गोपादिभ्यो गायद्भ्यो धनादि दत्त्वा मृगयांचकार - द्वैतवने सरोऽभितः क्रीडास्थाननिर्माणायाज्ञप्तानां दुर्योधनभृत्यानां पूर्वमेव तत्रागतैर्गन्धर्वैः प्रति वारणम् - भृत्यैर्गन्धर्वकृतनिवारणे निवेदिते दुर्योधनेन तेषामुत्सारणाय सेनाप्रेषणम् - गन्धर्वैः परुषभाषणैर्भाषितैर्भटैर्दुर्योधनं प्रति तन्निवेदनम् –
अध्यायः - २४१
. भटैः कथितां गन्धर्वोक्तिं श्रुत्वा दुर्योधनेनाज्ञप्तास्तत्सैनिका वारितवतोऽपि गन्धर्वान्प्रमथ्य वनं विविशुः - गन्धर्वेभ्यस्तच्छ्रुत्वा चित्रसेनेनाज्ञप्ता गन्धर्वा दुर्योधनादीन् प्रत्यभ्यधावन् - अभिधावतो गन्धर्वान् दृष्ट्वा सैनिकेषु पलायितेषु सत्सु कर्णो दुर्योधनादयश्च नानास्त्रैस्तान्प्रति योधयामासुः - युद्धे कौरवैस्त्रासितान्गन्धर्वान् दृष्ट्वा मायायुद्धेन युध्यमानस्य चित्रसेनस्य मायया मोहिताः कौरवाः पलायनं, चक्रुः - पराङ्मुखान्कौरवान् दृष्ट्वा कर्णादिषु युद्ध्यमानेषु गन्धर्वैर्विरथीकृतः कर्णोऽप्यपलायत् –
अध्यायः - २४२
. चित्ररथेन रणे पराजितस्य दुर्योधनस्य बन्धनपूर्वकं स्वरथारोपणम् - इतरैर्गन्धर्वैर्दुर्योधनभ्रातॄणां तद्दाराणां च बन्धनम् - दुर्योधनामात्यादिभिर्युधिष्ठिराय तन्निवेदिते भीमेन तदनुमोदनम् -
अध्यायः - २४३
. शरणागतं विपक्षमपि नैवं वदेदिति भीममुक्त्वा युधिष्ठिरो दुर्योधनादिमोचनमनुजज्ञे - भवन्तो दुर्योधनादिरथमारुह्य तान्मोचयंत्विति युधिष्ठिराज्ञानन्तरं तन्मोचनेऽर्जुनप्रतिज्ञा –
अध्यायः - २४४
. युधिष्ठिरदिष्टांश्चतुरः पाण्डवान् सज्जीभूयागतान्दृष्ट्वा युद्धार्थं परावृत्यागतान्गन्धर्वान्प्रत्यर्जुनस्य दुर्योधनादिमोचनाज्ञा तामनङ्गीकुर्वत्सु गन्धर्वेषु दुर्योधनादिमोचनं प्रतिज्ञातवत्यर्जुने च चतुर्भिः पाण्डवैः सह गन्धर्वाणां तुमुलं युद्धम् -
अध्यायः - २४५
. अर्जुनेनेन्द्रजालास्त्रप्रहारेण वासितान् गन्धर्वान्दृष्ट्वा गदाहस्तश्चित्रसेनोऽर्जुनमधावत् - अर्जुनेन गदायां छिन्नायां चित्रसेनेन मुक्तानि दिव्यास्त्राण्यर्जुनः दिव्यास्त्रैर्निवारयति। चित्रसेनान्तर्धानम् - अन्तर्हितं चत्रसेनं शब्दवेदिभिर्दिव्यास्त्रैस्ताडितवत्यर्जुने प्रियसखित्वेनात्मानं चित्रसेनो दर्शयामास - अर्जुनोऽपि सखायं दृष्ट्वाऽस्त्राणि सञ्जहार - ततोऽर्जुनेनास्त्रोपसंहारे कृते भीमादीनां युद्धोपरमपूर्वकं चित्रसेनेन सह संलापः -
अध्यायः - २४६
. कौरवनिग्रहे त्वं कथं प्रवृत्त इत्यर्जुनेन पृष्टे पाण्डवान्प्रति स्वैश्वर्यप्रदर्शनार्थमागतं दुर्योधनं बद्ध्वाऽऽनयेतीन्द्राज्ञया आगतोऽहमेनं बद्ध्वा नेष्यामीत्याह स्म चित्रसेनः। म्म भ्राताऽयं मुच्यतामित्यर्जुने वदति पापोऽयं न मोचनार्ह इति चित्रसेनवाक्यम् - ततो युधिष्ठिरसमीपागतेषु सर्वेषु युधिष्ठिरो दुर्योधनादीन् मोचयित्वा गन्धर्वान्प्रशशंस - युधिष्ठिरानुज्ञया गन्धर्वेषु गतेषु साहसमेवं न कार्यम् । गृहं गच्छ' इति युधिष्ठिरादिष्टस्य दुर्योधनस्य स्वपुरं प्रति प्रस्थानम्
अध्यायः - २४७
. मानी दुर्योधनस्तथावमानितः कथं स्वपुरं जगामेति जनमेजयप्रश्ने वैदशम्पायनस्योत्तरम् - मध्येमार्गं क्वचन रमणीये देशे विश्राम्यन्तं दुर्योधनं प्रत्यागतेन गन्धर्वकृते दुर्योधनबन्धनमोचनऽपरिजनिता कर्णेन भ्रमात्तस्य गन्धर्वजेतृत्वेन रूपेण प्रशंसनम् –
अध्यायः - २४८
. दुर्योधनेन कर्णं प्रति युद्धे सानुजस्य स्वस्य गन्धर्वैर्बन्धनस्य युधिष्ठिरचोदनया भीमादिभिर्गन्धर्वाणां रणे पराजयस्य च कथनम् -
अध्यायः - २४९
. दुर्योधनेन कर्णं प्रति स्वबन्धनविषये चित्रसेनार्जुनसंवादप्रकारकथनपूर्वकं युधिष्ठिरात्स्वस्य बन्धमोचनकथनम् - तथा प्रायोपवेशने निजाध्यवसायकथनपूर्वकं दुःशासनं प्रति राज्यपालनविधानम् - कर्णेन दुर्योधनं प्रति प्रायोपवेशनान्निवर्तनाय सान्त्वोक्तिः -
अध्यायः - २५०
. त्वद्विषयवासिभिस्त्वत्प्रजारूपैः पाण्डवैः कृतं मोचनं न खेदायहमित्याद्युक्त्या कर्णकृतो दुर्योधनानुरञ्जनप्रयत्नः - बहुधा कर्णेन सान्त्वितेनापि दुर्योधनेन प्रायोपवेशाध्यवसायादपरावर्तनम् -
अध्यायः - २५१
. शकुनिना भ्रात्रादिभिश्च बोधितोऽपि दुर्योधनस्तान्सर्वाननादृत्य यथाविधि प्रायोपवेशं चकार - दुर्योधने प्रायोपविष्टे स्वपक्षक्षयं दृष्ट्वा दानवा अथर्ववेदप्रोक्तक्रिययां कृत्यां निर्माय पाताले दुर्योधनानयनाय तामादिदिशुः - दानवैरादिष्टायाः कृत्याया निमेषार्धेन दुर्योधनं गृहीत्वा पातालगमनम् -
अध्यायः - २५२
. पातालवासिभिर्दैत्यदानवैर्दुर्याधनं प्रति हेतॄपन्यासपूर्वकं प्रायोपवेशनिश्चयान्निवर्तनम् - पुनः कृत्यया दुर्योधनस्य पूर्वस्थानं प्रत्यानयनम् - परद्युः कर्णादिप्रार्थनया दुर्योधनेने सर्वैः सह स्वपुरं प्रत्यागमनम् -
अध्यायः - २५३
. पाण्डवेषु वने वसत्सु धार्तराष्ट्राः किमकुर्वतेति जनमेजयप्रश्ने वैशम्पायनस्योत्तरम् - भीष्मे दुर्योधनभर्त्सनपूर्वकं संधिर्भवत्वित्युपदिशति दुर्योधनो विहस्य शकुनिना सह प्रतस्थे – तमनु कर्णादयो निर्जग्मुः – भीष्मोऽपि स्वगृहं विवेश - भीष्मगमनानन्तरं मन्त्रिभिर्मन्त्रयति दुर्योधनेऽहं पृथ्वीं जेष्यामीति प्रतिज्ञातवन्तं कर्णं दुर्योधनो दिग्विजयार्थं प्रस्थापयामास –
अध्यायः - २५४
. दिग्विजयार्थं निर्गतः कर्णोऽखिला दिशो जित्वा हस्तिनापुरमाययौ - दुर्योधनेन कृतप्रशंसः कर्णो दिग्विजयसंपादितं धनं गृहीत्वा धृतराष्ट्रं प्रति जगाम। स चालिंगनपूर्वकं तं व्यसर्जजयत् -
अध्यायः - २५५
. स्वस्य राजसूयकरणेच्छां प्रदर्शयन्तं दुर्योधनं प्रति कर्ण आह स्म योग्यस्त्वमाह्वयस्व द्विजवरानिति - राजसूयकरणे प्रार्थितो दुर्योधनपुरोधास्तमब्रवीत् 'कृतराजसूये युधिष्ठिरे जीवति त्वत्कुलेऽन्यो राजसूयो न भविताऽतस्तत्तुल्यं विष्णुयागं कुरु इति ततो यज्ञभूमिसंस्काराद्यर्थं लांगलादिकरणे शिल्पिन आज्ञापयामास दुर्योधनः –
अध्यायः - २५६
. विदुरादिषु विष्णुयागप्रवृत्तं दुर्योधनं धृतराष्ट्राय निवेदयत्सु धृतराष्ट्रादीनां संतोषः - दुर्योधने निमन्त्रणाय दूतान् प्रेषयति सति दुःशासनः पाण्डवान्प्रति दूतं प्रेषयति स्म - दुःशासनप्रेषितो दूतो युधिष्ठिरवाक्यं भीमसेनवाक्यं च दुर्योधनाय न्यवेदयत् - धृतराष्ट्राज्ञया विदुरेण सत्कृतेषु ब्राह्मणादिषु दुर्योधनोऽपि ब्राह्मणादिसत्कारपूर्वकं पुरं गन्तुमियेष -
अध्यायः - २५७
. बन्दिभिर्जनैश्च स्तूयमानो दुर्योधनः पितरौ भीष्मादश्चाभिवन्द्य हास्तिनपुरं प्रविवेश - त्वामहं राजसूयेन योजयिष्यामीति दुर्योधनं प्रति कर्णे वदति सति कदेदं भविष्यतीत्युक्तवान्दुर्योधनः - अर्जुनवधविषये नियमपूर्वकं प्रतिज्ञां कुर्वति कर्णे धार्तराष्ट्राः पाण्डवान्जितान् मन्यमानाः स्वस्ववेश्मनि प्रविविशुः पाण्डवा दूतमुखात्कर्णप्रतिज्ञां श्रुत्वोद्विग्नाः सन्तो द्वैतवनं त्यक्तुमीषुः -
१५. मृगस्वप्नोद्भवपर्व
अध्यायः - २५८
. द्वैतवनस्थैर्मृगैः स्वप्ने युधिष्ठिरमागत्यास्माकं वंशक्षयस्तवभ्रातृभिः कृतोऽतस्त्वं स्थानान्तरं गच्छेत्युक्ते दयया युधिष्ठिरः काम्यकं वनं जगाम –
१६. व्रीहिदौहिणपर्व
अध्यायः - २५९
. दुःखितं युधिष्ठिरं द्रष्टुमागतो व्यासो दुःखिनः पौत्रान् दृष्ट्वा विमनाः सन्नुवाच - दुःखादेरचिस्थायित्वं तपोमाहात्म्यं च कथयति व्यासे तपोदानयोः किं महदिति युधिष्ठिरप्रश्नः - दानान्न दुष्करं तातेत्याद्युक्त्वा व्रीहिद्रोणदानेन मुद्गलो महत्फलमापेति व्यास आह –
अध्यायः - २६०
. विस्तरेण मुद्गलचरितं श्रोतुं युधिष्ठिरप्रश्ने व्यासकथितं मुद्गलचरितम् - मुद्गल उञ्च्छवृत्यैकेन पक्षेण व्रीहिद्रोणं सम्पाद्य तेन दर्शपौर्णमासौ विधाय शेषमतिथिभ्यो दत्वा स्वयं भुञ्जानः कालमतिवाहयामास - मुद्गलचित्तपरीक्षणाय दुर्वाससा षट्कृत्वो याचनेऽप्यविकृतमनसा तेन तदा तदाऽन्नदानेन तत्तोषणम् - तन्महिम्ना सविमानेन देवदूतेन सशरीरस्यैव मुद्गलस्य स्वर्गं प्रत्याह्वानम् - मुद्गलेन तं प्रति स्वर्गस्वरूपनिरूपणप्रार्थना –
अध्यायः - २६१
. देवदूतात्स्वर्गसुखस्यास्थिरतां परिजानता मुद्गलेन स्वर्गानभिरोचनपूर्वकं देवदूतस्य स्वर्गं प्रति प्रपणम् - व्यासेन युधिष्ठिरं प्रति मुद्गलोपाख्यानकथनपूर्वकं स्वाश्रमं प्रति गमनम् –
१७. द्रौपदीहरणपर्व
अध्यायः - २६२
. कदाचन शिष्यायुतसहितेन दुर्वाससो दुर्योधनगृहं प्रति गमनम् - दुर्योधनेन स्वपरिचर्यासन्तुष्टं तं प्रति ब्राह्मणादीनां द्रौपद्याश्च भोजनावसाने भाजनाय पाण्डवान्प्रति गमनप्रार्थना – दुर्वाससस्तस्मै तद्वरदानपूर्वकं पाण्डवान्प्रति प्रस्थानम् -
अध्यायः - २६३
. दुर्वाससा दुर्योधनप्रार्थनासफलीकरणे द्रौपदीभोजनानन्तरमागत्य पाण्डवान्प्रत्यन्नयाचनम् - ततो युधिष्ठिरानुमत्या शिष्यायुतेन सह दुर्वाससः स्नानाय नदीं प्रति गमनम् अत्रान्तरे द्रौपदीप्रार्थनया श्रीकृष्णेन समीपागमनम् - द्रोपद्या निवेदितदुर्वासोवृत्तान्तेन कृष्णेन स्वीयक्षुन्निवृत्तये द्रौपदीं प्रत्यन्नयाचनम् - तयाऽन्नस्य शेषाभावे निवेदितेऽन्नस्थालीमानाय्य तत्कण्ठलग्नशाकपुलाकभक्षणेन सशिष्यस्य दुर्वाससस्तृप्तिजननम् - ततो भोजनाय कृष्णनिर्देशात्सहदेवेनाह्वाने 'वयं सर्वे तृप्ताः इति शिष्यैर्निवेदितेऽम्बरीषोदन्तं स्मृत्वा शिष्यैः सह लज्जितस्य दुर्वाससः पलायनम् - दुर्वासच्छलाद्भीतान् पाण्डवान् पूर्ववृत्तकथनपूर्वकमाश्वास्य श्रीकृष्णस्य स्वस्थानगमनम् -
अध्यायः - २६४
. एकदा पञ्चस्वपि पाण्डवेषु मृगयार्थं गतेषु सपरिजनेन सैन्धवेन मार्गवशात्तदागश्रमगमनम् - तत्र विजने द्रौपदीदर्शनक्षुभितहृदा जयद्रथेन तत्सन्निधिं प्रति कौटिकास्याख्यस्य स्वानुचरस्य प्रेषणम् -
अध्यायः - २६५
. जयद्रथप्रेरणया द्रौपदीमेत्य - कोटिकास्येन तत्पितृभर्तृकुलादिप्रश्नः -
अध्यायः - २६६
. कोटिकास्यं प्रति द्रौपद्या स्ववृत्तकथनम् –
अध्यायः - २६७
. जयद्रथं प्रति कोटिकास्येन दौपदीवाक्ये कथिते स्वयमेव द्रौपदीमेत्य पाण्डवानां कुशले पृच्छा - द्रौपद्याऽपि कुशलप्रश्नपूर्वकं पाण्डवकुशलं कथयत्वा जयद्रथातिथ्यकरणम् – द्रौपदीं कामयमानं प्रलोभनवाक्यानि वदन्तं जयद्रथं प्रति मैवं, लजस्व, इत्यादि द्रौपदीवाक्यम् -
अध्यायः - २६८
. द्रौपद्या स्वाभिलाषिणो जयद्रथस्य भर्त्सनम् - उभयोरुत्तरप्रत्युत्तरामनन्तरं बलाद्द्रौपदीं हृत्वा गच्छन्तं जयद्रथं प्रति दुर्भाषणपूर्वकं द्रौपद्यनुगमनम् –
अध्यायः - २६९
. मृगयातः परावृत्तानां मध्येमार्गं दुश्चिन्नदर्शनेन खिद्यमानानां पाण्डवानामाश्रमाभिगमनम् - आश्रममागत्य धात्रेयिकां रुदतीं दृष्टवत्सु पाण्डवेष्विंद्रसेनेन पृष्टया धात्रेयिकया दौपदीवृत्तान्तकथनम् - तच्छ्रुत्वा जयद्रथमनुधावतां पाण्डवानां पदातिष्वाक्रोशन्तं धौम्यं सान्त्वयित्वा तं प्रत्याह्वानम् -
अध्यायः - २७०
. पाण्डवानागतान्दृष्टवतो जयद्रथस्य द्रौपद्या सह संवादः -
अध्यायः - २७१
. युद्धप्रसङ्गे भीमादिभिः सैन्योच्छेदपूर्वकं कोटिकास्यादिषु हतेषु भयेन द्रौपदीत्यागपूर्वकं जयद्रथस्य पलायनम् - द्रौपद्या नकुलरथारोहणानन्तरमर्जुनयुधिष्ठिरभीमद्रौपदीनामुक्तिप्रत्युक्तयः - जयद्रथवधार्थं भीमार्जुनयोर्गतयोः सतोर्द्रौपदीसहितस्य युधिष्ठिरस्याश्रमगमनम् - पलायमानं जयद्रथं प्रत्यर्जुनवाक्यादि –
१८.जयद्रथविमोक्षणपर्व
अध्यायः - २७२
. जयद्रथं गृहीत्वा पादप्रहारादि कुर्वन्तं भीमस्यार्जुनेन निवारणम् - दासोऽस्मीत्युक्तिमन्तरा त्वन्मुक्तिनं भविष्यतीति भीमोक्ते तदङ्गीकुर्वन्तं जयद्रथं गृहीत्वा भीमार्जुनयोः स्वाश्रमगमनम् - युधिष्ठिरस्याजातशत्रोरनुमत्या मोचितस्य जयद्रथस्य तपस्तोषिताच्छङ्करात्पाण्डवपराभववरप्रार्थनम् - एकस्मिन् दिनेऽर्जुनरहितान् पाण्डवांस्त्वं जेष्यसि इति वरं दत्वा कृष्णार्जुनयोः प्रशंसादि कृत्वा शिवस्यान्तर्धानम् –
१९.रामोपाख्यानपर्व
अध्यायः - २७३
. जनमेजयप्रश्ने वैशम्पायनस्योत्तरम् - युधिष्ठिरेण मार्कण्डेयं प्रति स्वसदृशान्यदुःखि पुरुषसत्ताप्रश्नः -
अध्यायः - २७४
. मार्कण्डेयेन रामवृत्तकथने उपक्रान्ते युधिष्ठिरप्रश्नानुरोधेन मार्कण्डेयकृतं रामादिजन्मकथनम् - रावणजन्मकथनमुपक्रम्य तत्प्रसङ्गेन कुबेरजन्मादिकथनम् -
अध्यायः - २७५
. पुष्पोत्कटायां रावणकुम्भकर्णयोर्मालिन्यां विभीषणस्य राकायां खरशूर्पणखयोर्जन्मकथनम् – तपश्चरतो रावणादीन् प्रति वरदित्सया ब्रह्मण आगमनम् - रावणस्य मनुष्यातिरिक्तेभ्योऽभयदानं कुम्भकर्णस्य निद्रादानं विभीषणस्यामरत्वादिदानं ब्रह्मणा पुष्पकहरन्तं रावणं प्रति कुबेरस्य शापादि -
अध्यायः - २७६
. रावणोपद्रुतदेवगणप्रार्थितेव ब्रह्मणा श्रीहरे रामत्वेन प्रादुर्भावनिवेदनपूर्वकं देवान् प्रति तत्साहाय्यार्थं वानरादिभावेन जननचोदना -
अध्यायः - २७७
. रामादिवनवासविषये युधिष्ठिरप्रश्ने मार्कण्डेयस्योत्तरम् - रामस्य राज्याभिषेकार्थं दशरथे मन्त्रयति तच्छ्रुत्वा मंथरया बोधितायाः कैकेय्या दशरथस्य चोक्तिप्रत्युक्ती - कैकेयीकृतरामवनवासप्रार्थनया सीतालक्ष्मणसहितस्य रामस्य वनगमनम् - कैकेयीभरतयोः संवादानन्तरं रामानयनार्थं चित्रकूटं गत्वा रामपादुकं गृहीत्वा आगतस्य भरतस्य नन्दिग्रामे राज्यकरणम्। शरभङ्गाश्रमाद्दण्डकारण्यं गतेन रामेण कृतः खरादिराक्षसवधः शूर्पणखाविरूपकरणं च रावणस्य स्वसमीपागतायाः शूर्पणखायाः सान्त्वनपूर्वकं मारीचाश्रमगमनम् –
अध्यायः - २७८
. रावणस्य भिक्षुवेषधारिणो मारीचेन मृगरूपधारिणा सह रामाश्रमं प्रत्यागमनम् - मृगग्रहणाय सीताचोदनया तदनुधाविना रामेण राक्षसबुद्ध्या मृगहननम् - म्रियमाणस्य मारीचस्य 'हा ! सीते ! हा ! लक्ष्मण ! इति रामस्वरसमानस्वरश्रवणेन विषण्णायाः सीतायाः परुषभाषणश्रवणाल्लक्ष्मणेन राममार्गानुसरणम् - अत्रान्तरे रावणेन संन्यासिवेषेणागत्य सीतापहरणम् -
अध्यायः - २७९
. सीतामादाय गच्छता रावणस्य मध्येमार्गं निरोधकस्य जटायुषः पक्षच्छेदपूर्वकं लङ्काप्रवेशः - मृगहननपूर्वकं प्रतिनिवृत्तेन रामेण मध्यमार्गं संगतस्य लक्ष्मणस्य विजने सीतात्यजनेन हेतुना गर्हणपूर्वकं स्वावासगमनम् - सीतान्वेषिणा सलक्ष्मणेन रामेण मार्गे स्वग्राहिणः कबन्धस्य वधः - कबन्धदेहान्निर्गतेन गन्धर्वेण रामं प्रति पम्पातटे सुग्रीवं प्रति गमनवोदना -
अध्यायः - २८०
. रामलक्ष्मणयोः पम्पासरोगमनपूर्वकम् ऋष्यमुकं गतयोः सतोस्तत्र सुग्रीवेण रामस्य सख्यादि रामप्रेरणया सुग्रीवे वालिना सह शुद्ध्यमाने रामेण कृतो वालिवधः लंकां गतेन रावणेनाशोकवनिकासमीपे सीतां निवेश्य तद्रक्षणार्थं योजितासु निवेश्य तां निर्भर्त्स्य तद्वाक्यं कथयितुं रावणं प्रति गनासु त्रिजटाकृतं सीतासान्त्वनम् -
अध्यायः - २८१
. रावणेन सीतासमीपमेत्य बहुधा प्रलोभनेऽप्यविकृतमानसया सीतया प्रत्याख्याने स्वमन्दिरं प्रति गमनम् –
अध्यायः - २८२
. माल्यवत्पर्वते वमता रामेण शरदागमेऽपि विषयासक्त्या स्वानुपसर्पिणं सुग्रीवं प्रति तत्समयस्मारणाय लक्ष्मणप्रेषणम् - सुग्रीवेण सह रामान्तिकमागतेन लक्ष्मणेन तं प्रति सीतान्वेशणाय सुग्रीवकृतवानरप्रेषणनिरूपणम् - ततो लङ्कायाः प्रतिनिवृत्तेन हनुमताऽङ्गदादिभिः सह मधुवनभङ्गपूर्वकं रामाय सीतावृत्तान्तादिनिवेदनपृवकं सीतादत्तचूडामणिदानम् -
अध्यायः - २८३
. वानरसेनापतिभिः स्वसेन्यैः सह रामसुग्रीवोपासनम् - वानरसेनादिभिः सह सागरतीरमुपागतेन रामेण सेनानां सागरतरणाय समुद्रामथनार्थं नियमेन दर्भसंस्तां शयनम् सागरेण रामं प्रति स्वप्ने स्वात्मदर्शनपूर्वकं नलनामकवानरेण सेतुनिर्माणप्रेरणा - रामेण शरणार्थिनो विभीषणस्य लङ्काराज्येऽभिषेचनपूर्वकं सेतुमार्गेण सैन्यैः सह लङ्कागमनम् – दौत्येनाङ्गदं प्रति रावणसमीपे प्रयणम् -
अध्यायः - २८४
. अङ्गदेन रावणाय रामसंदेशनिवेदनं पुना रामसमीपागमनं च वानरे रामाज्ञया लङ्काप्राकारभेदनपूर्वकं राक्षसानां वानराणां च मिथो युद्धम् –
अध्यायः - २८५
. युद्धार्थमागतै रावणादिभिः सह रामादीनां युद्धम् –
अध्यायः - २८६
. विभीषणेन प्रहस्ते हते हनुमदादीनां राक्षसैः सह युद्धप्रसङ्गे हनुमता कृतो धूम्राक्षवधः - रावणः कुम्भकर्णमुत्थाप्य युद्धार्थं गन्तुं तमादिदेश –
अध्यायः - २८७
. यद्धं कुर्वतः कुम्भकर्णस्य लक्ष्मणकृतो वधः –
अध्यायः - २८८
. युद्धार्थं रावणेनाजज्ञप्तस्येन्द्रजितो लक्ष्मणेन सह युद्ध्यमानस्य मायायुद्धम् -
अध्यायः - २८९
. इन्द्रजिच्छरजालबन्धेन मोहाधिगमपूर्वकं भूमौ पतितयो रामलक्ष्मणयोर्विभीषणेन प्रज्ञानास्त्रेण मोहापनोदनम् - तथा सुग्रीवेण महौपध्या तयोर्विशव्यकरणम् - ततो रामादीनां नेत्रषु कुबेरदूतानीतजलमार्जनेनातीन्द्रियवस्तुदर्शनशक्त्युदयः - ततः पुनरुपागतस्येन्द्रजितो लक्ष्मणेन वधः - ततः पुत्रवधामर्षेण सीतावधोद्यतस्य रावणस्याविन्ध्याख्येन वृद्धामात्यैन साम्ना ततो विनिवर्तनम् -
अध्यायः - २९०
. इन्द्रजिद्वधक्रोधाद्रावणेन स्वयमेव युद्धाय रामं प्रत्यभियानम् - युद्धार्थमागतेन रावणेन प्रवर्तितो मायां लक्ष्मणवाक्याद्रामो निराचकार - तदा इन्द्रेण रामाय मातलिसनाथस्य निजरथस्य प्रेषणम् - श्रीरामेण मायायोधिनो रावणस्य ब्रह्मास्त्रेण वधः -
अध्यायः - २९१
. रावणवधानन्तरं सहर्षदेवैः पूजितेन रामेण विभीषणाय लङ्कादानम् - अविन्ध्यनाम्ना राक्षसवृद्धेन रामसमीपं प्रति सीताया आनयनम् - सीतां दृष्ट्वा तच्छीलशङ्कया प्रत्याख्यातवति रामे सीताया भूमिपतनपूर्वकं मूच्छ - मूर्च्छितायां सीतायां विपीदत्सु वानरेष्वन्तरिक्षगतैर्ब्रह्मादिदेवैः सीतायाः सौशील्यख्यापनपूर्वकं रामं प्रति तद्ग्रहणप्रेरणा - रामदशरथयोः संवादानन्तरं रामेण सीताङ्गीकारः रामं प्रति ब्रह्मादीनां वरदानानन्तरं सीतया हनुमंतं प्रति वते दत्ते देवानामन्तर्धानम् - ससैन्यः सलक्ष्मणो रामः पुष्पकमाउह्य निर्गतो मध्येमार्गं सीतां प्रति वनानि दर्शयन् किष्किंधामागत्यांगदं यौवराज्येऽभिषियैच - रामेण सीतालक्ष्मणादिभिः सहायोध्यां प्रति प्रस्थानम् - दौत्येन भरतं प्रति हनुमत्प्रेषणपूर्वकं नन्दिग्राममागतेन रामेण भरतादिभिः सहायोध्यां प्रत्यागमनम् - वसिष्ठादिभिः सीतया सह राज्येऽभिषिक्तेन रामेण सुग्रीवविभीषणादीनां सबहुमानं स्वस्वपुरप्रेषणपूर्वकं सुखेन प्रजापालनम् - रामस्य दशाश्वमेधकरणम् –
अध्यायः - २९२
. मार्कण्डेयेन युधिष्ठिराश्वासनम्
२०. पतिव्रतामाहात्म्यपर्व
अध्यायः - २९३
. पतिव्रताविषये युधिष्ठिरप्रश्ने मार्कण्डेयकृतः सावित्र्युपाख्यानोपक्रमः - पुत्रार्थं तपस्यतोऽश्वपतेः सावित्र्याः सकाशात् कन्याप्राप्तिरूपवरलाभः सावित्रीवरदानेन लब्धायाः कन्याया अश्वपतिना कृतं सावित्रीति नामकरणम् - स्वयमेव प्रतिवरणार्थमश्वपतिप्रेमितायाः सावित्र्या वरान्वेषणार्थं तपोवनगमनम् -
अध्यायः - २९४
. मनसा स्वानुगुणवरनिर्धारणपूर्वकं वनादागतया सावित्र्या नारदेन सह सम्भाषमाणस्य पितुरन्तिकमेत्य तयोः पादाभिवादनम् - नारदसंनिधौ पितुः पृष्टया तया सत्यवतः पतित्वेन मनसा वरणकथनम् - पित्रा नारदवननातस्याल्पायुष्ट्वनिवेदनपूर्वकं वरान्तरवरणं प्रचोदितयाऽपि तया स्वाध्यवसायादनिवर्तनम् - राज्ञाऽपि तस्य निर्बन्धाश्रारदवचनाच्च तस्म एव तस्या दानाध्यवसायः -
अध्यायः - २९५
. वैवाहिकं सज्जीकृत्याश्वपतेर्द्युमत्सेनाश्रमगमनानंतरमुभयोः संवादः - सत्यवता सह सावित्र्या विवाहं कृत्वाश्वपतौ गते सावित्री वल्कलपरिधानादिपुरःसरमाश्रमे न्यवसत् –
अध्यायः - २९६
. कदाचन नारदनिर्दिष्टे सत्यवतो मृतिदिवसे सावित्र्या परशुहस्तस्य वनं गच्छतो भर्तुरनुगमनम्
अध्यायः - २९७
. सावित्र्या सह वनं प्रविष्टेन सत्यवता फलाहरणपूर्वकं काष्ठाविपाटनम् - तथा शिरोवेदनादूनतया काष्ठपाटनादुपरमपूर्वकं भार्योत्सङ्गे शिरोनिधानेन भूतले शयनम् - ततः सत्यवतोऽसुहरणाय समागतं यमं दृष्टवत्या सावित्र्या साञ्जलिबन्धं तदागमनप्रयोजनप्रश्नः यमेन तां प्रति तत्कथनपूर्वकं पाशबन्धनेन सत्यवतस्तदीयशरीरादपकर्षणपूर्वकं स्वलोकं प्रति प्रस्थानम् -तमनुगच्छन्त्याः सावित्र्याः स्तुतिवचनसंतुष्टेन यमन तस्यै वाग्दानपूर्वकं बन्धविमोचनेन सत्यवतो विसर्जनम् – ततः पुनरुज्जीवितेन सत्यवता सावित्र्या सह पितुराश्रमं प्रति प्रस्थानम् -
अध्यायः - २९८
. पुत्रमन्वेष्यन्तं भार्यासहितं द्युमत्सेनं गौतमादिष्वाश्वासयत्सु सत्सु सावित्रीसहितस्य सत्यवत आश्रमागमनम् - गौतमाकख्येन ऋषिणा विलंबकारणं पुष्टा सावित्री वनस्थं यशदर्शनादिकं सर्वं वृत्तान्तमाचख्यौ –
अध्यायः - २९९
. साल्वदेशीयैर्द्युमत्सनं प्रति तन्मन्त्रिणा तच्छत्रुनिबर्हणनिवेदनपूर्वकं निजनगरं प्रत्यागमनप्रार्थना - सभार्येण द्युमत्सेनेन सावित्रीसत्यवद्भ्यां सह मुनिगणाभिवादनादिपूर्वकं स्वपुरं प्रत्यागमनम् –
२१. कुण्डलाहरणपर्व
अध्यायः - ३००
. जनमेजयप्रश्नानुरोधेन वैशम्पायनस्योत्तरम् - पाण्डवहितार्थं कर्णं प्रति कुण्डले याचितुमुद्युक्ते शक्रे कुण्डलदाननिषेधार्थं ब्राह्मणरूपेणागतस्य सूर्यस्य कर्णं प्रत्युक्तिः - कर्णेन कस्त्वमित्युक्ते सूर्योऽहमिति ब्राह्मणेनोक्ते उभयोः संवदतोः कर्णकृता कीर्तिप्रशंसा –
अध्यायः - ३०१
. शरीराविरोधेन कीर्तिसंपादनविषये सूर्यस्योक्तिः -
अध्यायः - ३०२
. कर्णसूर्ययोः संवदतोः कर्णं प्रति सूर्यस्य शक्तिविनिमयेन कुण्डलदानाभ्यनुज्ञा -
अध्यायः - ३०३
. किं तद्गुह्यमित्यादिके जनमेजयप्रश्ने वैशम्पायनस्योत्तरम् - कुन्तिभोजं प्रत्यागतस्य ब्राह्मणस्य सेवार्थं पृथां प्रति कुंतिभोजाज्ञा –
अध्यायः - ३०४
. स्वाज्ञामंगीकुर्वतीं कुंती कुंतिभाजो ब्राह्मणाय सेवार्थमर्पयति स्म - पृथयाप्येकाग्रेण मनसा ब्राह्मणाराधनम् –
अध्यायः - ३०५
. आराधनसंतुष्टाद्दुर्वाससः पृथाया देवाकर्षणमंत्रप्राप्तिः - ततो दुर्वाससः कुन्तिभोजामन्त्रणपूर्वकमन्तर्धानम् –
अध्यायः - ३०६
. ब्राह्मणेऽन्तर्हिते कुन्त्या मन्त्रणाहूतस्य सूर्यस्य तया सह संवादः - सूर्यदत्तेन दिव्यचक्षुषा देवादीन् दृष्ट्वा सूर्यमनुनयंतीं कुन्तीं प्रति तस्यानुनयः -
अध्यायः - ३०७
. चिन्ताक्रान्तया कुन्त्या सह सूर्यस्य संवादः - सूर्येण पुनः कन्यात्वलाभरूपवरदानपूर्वकं तस्यां गर्भाधानम् -
अध्यायः - ३०८
. कतिपयकालातिपाते कर्णस्य सहजकवचकुण्डलधारेणन कुन्त्यां जननम् - कुन्त्या धात्र्या सह मन्त्रपूर्वकं जातमात्रस्य गर्भस्य मञ्जूषायां निक्षेपपूर्वकमश्वनद्यां विसर्जनम् –
अध्यायः - ३०९
. स्नानाय भार्यया सह गङ्गां गते नाधिरथनाम्ना सूतेन तत्रोत्प्लवमानायाः सगर्भमञ्जूषाया ग्रहणम् - मञ्जुषोद्घाटने दृष्टस्य गर्भस्य स्वपुत्रत्वेन परिकल्पनेन ताभ्यां वसुषेणेति नामकरणादिपूर्वकं प्रीत्या पोषणम् - ततः कर्णापरनाम्ना वसुषेणेन दुर्योधनेन सख्यकरणम् - द्रोणादिभ्योऽस्त्रविद्यासम्पन्नं कर्णं प्रति ब्राह्मणरूपेणेन्द्रस्यागमनम् –
अध्यायः - ३१०
. कर्णशक्रयोः संवादः - शक्रादेकमात्रपुरुतिषघातिनीं शक्तिं गृहीत्वा तस्मै कवचकुण्डलदानम् - शक्रे गते कर्णं दृष्ट्वा दुर्योधनादीनां खेदः -
२२. आरण्यपर्व
अध्यायः - ३११
. युधिष्ठिरादीनां काम्यकवनात्पुनर्द्वैतवनं प्रत्यागमनम् - तत्र कस्यचिन्मृगस्य तरुसङ्घर्षवशात्स्वविषाणलग्नेन ब्राह्मणस्यारणिना सह पलायनम् - ब्राह्मणप्रार्थनयाऽरण्यानयनाय पाण्डवैस्तदनुधावनम् - ततस्तैः सुदुरं स्वापकर्षणपूर्वकमन्तर्हिते तस्मिन् श्रांत्या वटमूले समुपवेशनम् -
अध्यायः - ३१२
. पिपासितेषु पाण्डवेषु युधिष्ठिरनियोगाद्द्वृक्षाग्रमधिरूढेन नकुलेन नातिदूरे सरोविलोकनम् - पानीयानयनाय सरोगतेषु नकुलादिषु यक्षवचनावमत्या पानीयपानेन दीर्घनिद्राश्रवणादनागतेषु युधिष्ठिरेनापि तत्सरःसमीपे गमनम् -
अध्यायः - ३१३
. तत्र भूमिपतितान्भ्रातॄन दृष्ट्वा युधिष्ठिरस्य विलापपूर्वकं तत्पतनकारणचिन्तनम् - यक्षयुधिष्ठिरयोः संवादस्तयोः प्रश्नोत्तरे च - प्रश्नोत्तरदानतुष्टेन यक्षेण चतुर्णां मध्ये कस्यचिदेकस्य जीवनं वृण्वित्युक्तो युधिष्ठिरो नकुलजीवनं वव्रे - नकुलजीवनवरणेन तुष्टो यक्षः सर्वजीवनरूपं वरं प्रादात् –
अध्यायः - ३१४
. भीमादीनां जीवनानंतर को भवानिति युधिष्ठिरेण पृष्टो यक्षो धर्मोऽहमित्याह - वरं वृणीष्वेति यक्षनियुक्तेन युधिष्ठिरेण प्रार्थितान्वरान् तस्मै दत्वा यक्षस्यान्तर्धानम् – पाण्डवैः स्वाश्रममागत्य धर्मदत्तमरणीसंपुटं ब्राह्मणाय वितरणम् –
अध्यायः - ३१५
. स्वकर्तव्यमज्ञातवासं तपस्विनः प्रति कथयित्वा चिन्तां कुर्वन्तं युधिष्ठिरं प्रति धौम्योक्तिः -भीमेनाश्वासिते युधिष्ठिरे ब्राह्मणानां पाण्डवेभ्य आशिषो दत्वा स्वान् स्वान् गृहान् प्रति गमनम् - अथ केनचिन्मिषेण द्वैतवनात्क्रोशपरिमितं देशं गतानां पाण्डवानामेकान्तेऽज्ञातवासार्थं मन्त्रणम् –
वनपर्व