Mahabharata
About
.
Volumes
.
Contact
विराटपर्व
१. पाण्डवप्रवेश पर्व
अध्यायः - १
. प्रकरणादौ नारायणं नमस्कृत्येऽत्यादि मङ्गलम् - पाण्डवानामज्ञातवासप्रकारविषयके जनमे -जयप्रक्षे वैशम्पायनस्योत्तरं युधिष्ठिरेण भ्रातृभिः सह मन्त्रणेन विराटनगरे निवासनिर्धारणम् – युधिष्ठिरेण स्वस्य यतिवेषग्रहणपूर्वकं विराटसभास्तारीभवनं कथयित्वा भीमं प्रति तत्कर्तव्यविषयकः प्रश्नः-
अध्यायः - २
. भीमसेनः सूदवेषेणाहं विराटनगरे चरिष्यामीत्यब्रवीत् - ततो युधिष्ठिरस्य भीमं प्रत्यर्जुनकर्तव्यकर्मविषये प्रश्नः - षण्डवेषेण बृहन्नलेति स्वनाम प्रख्याप्यन्तःपुरस्त्रियो गीत-नृत्य- वादित्रादि शिक्षयविराटनगरे विहरिष्यामीत्यर्जुनेन स्वकर्तव्यकर्मणः कथनम् -
अध्यायः - ३
. धर्मो नकुलं कर्तव्यकर्मविषये पप्रच्छ - ततो “ग्रन्थिक” इति नाम प्रख्याप्याश्वबन्धो भूत्वा मत्स्याश्वशिक्षादि कर्म कुर्वन्विराटनगरे विहरिष्यामीति नकुलः प्रत्यवोचत् तथा च “तन्तिपाल नाम्ना गोपालको भूत्या चरिष्यामीति सहदेवः प्रोवाच - सैरन्ध्रीवेषेण राजभार्यां सुदेष्णामुपस्थास्ये इति द्रौपद्यब्रवीद्युधिष्ठिरं प्रति –
अध्यायः - ४
. युधिष्ठिरस्य भीमादिभ्रातॄन् प्रति स्वाग्निरक्षण – सूतादिप्रस्थापन-विषयिण्युक्तिः – धौम्यो युधिष्ठिरादीन्प्रति राजगृहवासविषयिणीं नीतिमभ्यधात् - वैशम्पायनकथितः पाण्डवानां प्रस्थानवृत्तान्तः –
अध्यायः - ५
. द्रौपदीसहिताः पाण्डवाः स्वान्यस्त्राण्यादाय पदातय एव शूरसेनादीन् देशानतिक्रम्यात्मनो व्याधान् ब्रुवाणा विराटनगराभ्याशं प्रापुः - तत उत्पथे गहने महतीं शमीं दृष्ट्वा तस्यामायुधानि समासज्य तत्र मायाशवं च निर्मायास्माकं कुलधर्मोऽयं यच्छवस्योद्बन्धनमिति मार्गे गोपालादीन् कथयन्तः परस्परव्यवहारार्थं गुह्यानि नामानि धृत्वा राजधानीसमीपमाजग्मुः –
अध्यायः - ६
. युधिष्ठिरकृतो दुर्गास्तवः प्रसन्नायास्तस्याः सकाशाद्वरलाभाश्च –
अध्यायः - ७
. युधिष्ठिरस्य विप्ररूपेणाक्षान्कक्षे निक्षिप्य विराटसभायां प्रवेशः - तस्य महानुभावतां वीक्ष्य विराटेन सभास्तारीकरणम् -
अध्यायः - ८
. भीमस्य सूदवेषेण विराटसभायां प्रवेशः - सत्कृत्य विराटेन तत्काम्यया स्वमहानसाधिपत्ये नियोजनम् –
अध्यायः - ९
. द्रौपद्याः सैरन्ध्रीवेषेण विराटनगरे प्रवेशः - राजभार्यया सुदेष्णया समाहूय स्ववेश्मनि तस्या निवासनम् –
अध्यायः - १०
. गोपालवेषधारणपूर्वकं सहदेवस्य विराटसभायां प्रवेशः - विराटेन सत्कृत्य तस्य गोरक्षणे नियोजनम् –
अध्यायः - ११
. अर्जुनस्य षण्डवेषेण विगटसभायां प्रवेशः विराटेन राज्ञा तस्य प्रमदाभिरपुंस्त्वं परीक्ष्य कन्यकान्तःपुरे कन्यानाटने विनियोजनम् –
अध्यायः - १२
. हयानीक्षमाणं नकुलं प्रेक्ष्य विराटेन नूनमयं अयज्ञो भवितेति वितर्क्य तमाहूय शिल्पं च पृष्ट्वाऽश्वपालने तस्य नियोजनम् –
२. समयपालनपर्व
अध्यायः - १३
. पाण्डवाचरणविषयके जनमेजयप्रश्ने वैशम्पायनस्योत्तरम् - सर्वैः पाण्डवैः स्वकर्मणा नृपं तोषयित्वा लब्धद्रव्यस्य विक्रयव्याजेन यथार्हं भ्रातृषु विभजनम्। वसत्सु पाण्डवेषु चतुर्थे मासे उत्सवप्रसङ्गेनागतानां मल्लानां मध्ये प्रधानेन जीमूतेन सह युद्धार्थं विराटाज्ञया भीमसेनस्य रङ्गप्रवेशः - युद्धं कुर्वतः सर्वमाल्लोपमार्दिना भृशमुत्सिक्तस्य जीमूतमल्लस्य बाहुयुद्धे भीमेन कृतो वधः –
३. कीचकवधपर्व
अध्यायः - १४
. सुदेष्णागृहे कदाचिद्द्रौपदीं सैरन्ध्रीवेषेण परिचरन्तीमालोक्योन्मादमुपगतवता कीचकेन सुदेष्णां प्रति तस्याः प्रार्थनम् - ततो द्रौपदीमेत्य त्वत्सङ्गमसङ्कल्पविवृद्धेन कामाग्निना दह्यमानमात्मप्रदानेनोद्धरेति प्रार्थना - द्रौपद्या परदाराभिमर्शने दोषान्, स्वस्य दुर्लभत्वं चोक्त्वा स्वात्मानं कामयमानस्य कीचकस्य परुषभाषणैः प्रत्याख्यानम् –
अध्यायः - १५
. कीचकेन सुदेष्णां प्रति द्रौपद्याः स्ववशीकरणप्रार्थना - कीचकप्रियचिकीर्षया तद्भवने सुराहरणव्याजेन हाठाद्द्रौपद्याः प्रेषणम् - द्रौपदीप्रार्थितेन सूर्येण तद्रक्षणार्थं निगूढं रक्षसो नियोजनम् –
अध्यायः - १६
. स्वसमीपागतया द्रौपद्या सह कीचकस्य संवादः कीचकेन द्रौपद्याः स्वशयनारोहणप्रार्थनामगृह्णन्त्याः प्रसह्योत्तरीये ग्रहणम् - तं समाक्षिप्य शरणार्थं राजसभां प्राप्तां तां पृष्ठतो धायता कीचकेन केशेष्याकृष्य भूमौ पातयित्वा पदा हननम् - सूर्यप्रेषितेन रक्षसाऽपवाहितस्य कीचकस्य मूर्च्छाप्राप्तिः- पदाघातं कुर्वता कीचकेनावमानितां द्रौपदीं दृष्ट्वा कृद्धस्य भीमस्य युधिष्ठिरेण कृतं सङ्केतेन सान्त्वनम् - द्रौपद्या विलपनपूर्वकं सभ्यानभिक्षिपन्त्या युधिष्ठिरवचनात् सुदेष्णाभवने गमनम् - द्रौपद्याः सुदेष्णया सह संवादः –
अध्यायः - १७
. द्रौपद्या कीचकवधं चिन्तयन्त्या महानिशि महानसं गत्वा भीमस्य प्रबोधनम् - भीमेन तां प्रत्यागमनप्रयोजनप्रश्नः –
अध्यायः - १८
. द्रौपद्या भीमस्यामर्षजननाय द्यूतसभायामाकर्षणादिस्मारणपूर्वकं कीचककृतस्वाभिभवनिरूपणम् - पूर्वविभवमनुस्मृत्य पाण्डवान्प्रत्यशोचनम् –
अध्यायः - १९
. विराटगृहस्थान् युधिष्ठिरादीन्प्रति प्रत्येकं नामनिर्देशपूर्वकमनुशोचनम् –
अध्यायः - २०
. पूर्वविभवमनुस्मृत्य सम्प्रति परिशोचन्त्या दासीभूतामात्मानं परिशोचन्त्या द्रौपद्याः किणवन्तौ पाणी मुखमानीय भीमस्य रोदनम् -
अध्यायः - २१
. भीमसेनेन सुकन्यादिदृष्टान्तैः परिसान्त्वितया द्रौपद्या कीचककृतं स्वपराभवमुपवर्ण्य भीमस्य कीचकवधे प्रेरणम् –
अध्यायः - २२
. भीमेन कीचकवधमङ्गीकृत्य द्रौपदीं प्रति तदुपायकथनम् - पुनःप्रार्थितवता कीचकेन द्रौपदीसमयेऽङ्गीकृते तं प्रति द्रौपद्या सङ्केतस्थानादिकथनम् - पुनर्भीममागत्य द्रौपद्या कीचकमारणोपाये कथिते तयोर्मिथः संवादः - पूर्वमेव भीमे नर्तनागारं प्रविष्टेऽनन्तरं द्रौपदीसङ्गमाशयाऽऽगतस्य कीचकस्य पूर्वमागत्य स्थितं भीमं प्रत्युक्तिः - उपहासोक्तिपूर्वकं भीमे मारणायोद्यते सत्युभयोर्बाहुयुद्धम् - श्रान्तस्य कीचकस्य भ्रामणादिपुरःसरं भीमेन वधः - भीमस्तत्राग्निं प्रज्वाल्य मांसपिण्डाकृति कीचकशरीरं द्रौपद्यै दर्शयित्वा तामामन्त्र्य पुनर्महानसं ययौ - द्रौपद्या निवेदितं कीचकवधं श्रुत्वा सभापाला आगत्य तथाविधं कीचकं ददृशुः –
अध्यायः - २३
. कीचकमन्त्यसंस्कारेण संस्कर्तुं बहिर्नयन्तो रुदन्तः कीचकबान्धवा उपकीचकाख्यया प्रसिद्धास्तत्र स्तम्भमालिङ्ग्य तिष्ठन्तीं द्रौपदीं दृष्ट्वाऽस्याः कृते कीचको हत इति रोषात्तामपि तेन सह दग्धुमिच्छन्तस्तस्मिन्नेव याने तां निबध्य श्मशानाभिमुखं जग्मुः – ततो द्रौपद्या आक्रोशमात्रेण भीमस्यामार्गेण द्रौपद्यभयदानपूर्वकं तद्रक्षार्थं वेषं परिवर्त्य श्मशानाभिमुखं गमनम् - श्मशानस्थं महान्तं वृक्षमुत्पाट्य तेनोपकीचकानां द्रौपदीं त्यक्त्वा प्राद्रवतां निःशेषं हननम् - ततो द्रौपद्या बन्धनं विमुच्य सुदोष्णभवने प्रेषणं मार्गान्तरेण भीमस्य स्वस्थाने गमनं च –
अध्यायः - २४
. पौरैर्गन्धर्वकृते कीचकवधे कथितं विराटस्तान्दग्धुं भृत्यानाज्ञाप्य द्रौपदीनिर्वासनार्थं सुदेष्णामब्रवीत् द्रौपदी विराटनगरं प्रत्यागत्य महानसद्वारि स्थितं भीमं प्रति सङ्केतेनोक्त्या नर्तनागारेऽर्जुनं ददर्श-राजक-न्याभिराश्वासितायाः सैरन्ध्याः कटाक्षपूर्वकं बृहन्नलया संवादः - राजगृहप्रविष्टां द्रौपदीं प्रति 'सैरन्ध्रि गच्छ भद्र ते” इत्याद्युक्तवतीं सुदेष्णां प्रति द्रौपदी त्रयोदशाहपर्यन्तं राजा श्राम्यत्वित्याद्यब्रवीत् –
४. गोहरणपर्व
अध्यायः - २५
. दुर्योधनप्रयुक्तैश्चरैश्चिरमन्विषद्भिरपि पाण्डप्रवृत्तिमलभमानैविराटनगरे सैरन्ध्रीनिमित्तं गन्धर्वैरदृश्यमानैर्निश सानुजस्य कीचकस्य वधं श्रुतवद्भिर्हस्तिनपुरं गत्वा राज्ञे तस्य वृत्तान्तस्य निवेदनम् -
अध्यायः - २६
. चाराणां पाण्डवाज्ञाद्दुर्योधनस्य विषादः - कर्णेन चारान्तरप्रेषणविधानं दुःशासनेन तदनुमत्यापि पाण्डवानां विनाशसम्भावनम् –
अध्यायः - २७
. दुर्योधनं प्रति न तादृशा विनश्यन्तीत्यादिप्रकारेण द्रोणोपदेशः
अध्यायः - २८
. पाण्डवानां धर्मनित्यतया यत्र सर्वतः शुभान्येव सन्निपतन्ति स नदधिष्ठितो देश इति भीष्मेण पाण्डवनिवासलक्षणाभिधानम् –
अध्यायः - २९
. नीत्युपदेशपूर्वकं कृपस्योपदेशः -
अध्यायः - ३०
. त्रिगर्तराजेन सुशर्मणा कीचकवधं श्रुत्वा विराटनगराभियानस्य प्राप्तकालत्वकथनम् - तथा भीष्माद्यनुमत्या सुशर्मणो विराटनगरमेत्य दक्षिणभागो गोहरणम् -
अध्यायः - ३१
. गोपैर्द्रुततरमागत्य विराटं प्रति सुशर्मणा गोहरणनिवेदनम् - विराटादिभिर्युद्धाय निर्गमोद्यमः – विराटाज्ञया शतानीकेन दत्तं रथादि स्वीकृतवतां पाण्डवानां गोप्रत्याहरणाय त्रिगर्तान्प्रत्यभियानम् –
अध्यायः - ३२
. विराटसुशर्मसैन्ययोर्युद्धवर्णनम् – शतानीकादिनिहतानां परिसङ्ख्यानम् – विराटसुशर्मणोर्युद्धम् –
अध्यायः - ३३
. भ्रातृसहितेन सुशर्मणा पराजित्य विराटे गृहीते पलायमानेषु मत्स्येषु युधिष्ठिराज्ञया युद्धार्थं भीमस्य सुशर्मसमीपगमनम् - युद्धप्रवृत्तं भीमं दृष्ट्वा परावृत्ते विराटसैन्ये युधिष्ठिरादीनां युद्धम् -युद्धप्रसङ्गे पलायमानं भीमवाक्यात् परावृत्य युध्यमानं सुशर्माणं गृहीतवति भीमे त्रिगर्तानां पलायनम् -बद्धं सुशर्माणं युधिष्ठिरसमीपमानीय तदाज्ञया तं भीमो मुमोच -
अध्यायः - ३४
. तां रात्रिं सङ्ग्रामभूमावेव निवसता विराटेन पाण्डवानां वित्तादिना पूजनम् - पाण्डवैस्तत्प्रतिनन्दनम् - युधिष्ठिरवचनान्मत्स्येन प्रेरितैर्दूतैः सूर्योदये विराटनगरे राज्ञो जयघोषणा -
अध्यायः - ३५
. दुर्योधनेन भीष्मद्रोणादिभिः सह विराटनगरमेत्योत्तरभागे गोपान् विद्राव्य गवां हरणम् - गोपाध्यक्षेण राजसदनं प्रविश्यान्तःपुरस्थितमुत्तरं प्रति कौरवैर्गोहरणस्य निवेदनपूर्वकं युद्धाय प्रोत्साहनम् —
अध्यायः - ३६
. गोपवाक्यश्रवणानन्तरमन्तःपुरे कुशलसारथ्यभावकथनयुक्तामुत्तरस्य शैर्योक्तिं श्रुतवतोऽर्जुनस्य द्रौपदीं प्रत्युक्तिः - द्रौपद्यः बृहन्नलायाः सारथ्यकर्मनिपुणत्वे कथिते भगिनीं प्रत्युत्तरवाक्यम् –
अध्यायः - ३७
. भ्रातृवाक्येन नर्तनागारमागतयोत्तरयाऽतिनिर्बन्धेन भ्रातृसारथ्यकरणे प्रार्थिताया बृहन्नलाया उत्तरसमीपगमनम् - उत्तरप्रार्थनया बृहन्नलया सारथ्येऽङ्गीकृते युद्धार्थं निर्गच्छत्युत्तरे कुरुवस्त्रानयनार्थं प्रेरयन्ती उत्तरादिकन्याः प्रत्युदीर्यार्जुनेनोत्तररथहयानां प्रेरणम् -
अध्यायः - ३८
. कुरुसैन्यदर्शनेन भीतमुत्तरं नोत्सहे कुरुभिर्योद्धुम् इत्याद्युक्तवन्तं प्रत्यर्जुनस्योत्तेजनवाक्यम् – “कामं हरन्तु मत्स्यानाम्” इत्याद्युक्त्या रथात्प्रस्कन्द्योत्तरस्य पलायनम् - तदनु पार्थेन रथादवप्लुत्यास्य केशेषु ग्रहणम् - तदवलोकयतां कुरूणामर्जुनविषये विमर्शः - अर्जुनेनाहं कुरुभिर्योस्ये त्वं केवलं मदीयं सारथ्यं कुर्वित्यादिवचनैः समाश्वास्योत्तरस्य रथे आरोपणम् –
अध्यायः - ३९
. रथारूढार्जुनदर्शनेन भीष्मादिषु चिन्तयत्सूत्पातदर्शनोत्तरं वदतो द्रोणस्य युद्धार्थं क्लीबवेषेणागतोऽयमर्जुन एवेति निश्चयः - दुर्योधनेनायमर्जुनश्चेन्मम कार्यसिद्धिरेवेति द्रोणं निर्भर्त्सयन्तं कर्णं प्रति कथनम् –
अध्यायः - ४०
. शमीवृक्षसमीपमुपागत्योत्तरं प्रत्यर्जुनेन शमीवृक्षाद्धनुरवरोषणचोदना –
अध्यायः - ४१
. शम्यां शवनिधानश्रवणेन तामारोढुं विचारयत उत्तरस्यार्जुनोपदेशाच्छमीमारुह्य धनुरवरोषेणे प्रवृत्तिः –
अध्यायः - ४२
. पाण्डवकार्मुकाद्यवलोकनविस्मितस्योत्तरस्यार्जुनं प्रति तत्तदायुधवर्णनपूर्वकं तत्तत्स्यामिविषयकः प्रश्नः –
अध्यायः - ४३
. अर्जुनेनोत्तरं प्रति युधिष्ठिराद्यायुधानां पृथक् पृथङ्निर्देशेन तत्तत्स्वामिकत्वकथनम् –
अध्यायः - ४४
. अर्जुनेनोत्तरं प्रति स्वस्यार्जुनत्वकथनपूर्वकं कङ्कादीनां युधिष्ठिरादित्वकथनम् - तत्प्रत्ययार्थं स्वकीयनामदशककथनं तन्निर्वचनं च –
अध्यायः - ४५
. बृहन्नलायामर्जुनत्वविज्ञानेन शीघ्रं गाण्डीवाद्यायुधानां रथे निधानम् - पार्थेन तदाश्वसनम् - अर्जुनेनोत्तरं प्रति स्वस्य क्लैब्यत्वप्राप्तिहेतुकथनम् - अस्त्रणामभिध्यानम् - अस्त्रदेवतासन्निधानम् – प्रणिपातपूर्वकं तासां युद्धे मनसि सन्निधानप्रार्थना -
अध्यायः - ४६
. उत्तरेण सह युद्धार्थं प्रस्थितेनार्जुनेन स्मृतमात्रस्य वानरलक्षणध्वजस्य रथे प्रादुर्भावः - स्वशङ्खनिनादश्रवणसंत्रस्तमुत्तरं समाश्वास्य पुनरर्जुनेन शङ्खाध्मापनम् – रथनिर्घोषश्रवणेन निमित्तदर्शनेन चार्जुनागमनं शंसता द्रोणाचार्येण सेनां व्यूह्यावस्थानविधानम् –
अध्यायः - ४७
. द्रोणवचनादर्जुनस्यार्जुनत्वावधारणेन विषादात्तूष्णींभूतेषु स्वीयेषु दुर्योधनेन तेषां विभ्रान्तमनसां सैनिकानां प्रोत्साहनम् - कर्णेन द्रोणोपालम्भः –
अध्यायः - ४८
. कर्णेनात्मश्लाघापूर्वकं सर्वेषां तिरस्कारोऽर्जुनपराभवप्रतिज्ञानं च –
अध्यायः - ४९
. कृषेणार्जुनचरित्रप्रशंसनपूर्वकं कर्णगर्हणम् - तथा स्वेषु एकैकेनार्जनस्य दुर्जयत्वकथनपूर्वकं सम्भूपाभियाननिधारणम् –
अध्यायः - ५०
. द्रोणनिन्दाश्रयणेन क्रुद्धेनाश्वत्थाम्ना कर्णदुर्योधनयोररुन्तुदेन वचसाऽधिक्षेपः –
अध्यायः - ५१
. कर्णकृतद्रोणकृपाचिक्षेपसङ्क्रुद्धस्याश्वत्थाम्नो भीष्मेण द्रोणादिप्रशंसनपूर्वकं परिसान्त्वनम् - कर्णदुर्योधनाभ्यां द्रोणादिसमापनम् –
अध्यायः - ५२
. भीष्मेण दुर्योधनं प्रति पाण्डवानामज्ञातकालवासश्चान्द्रमानेन पूर्ण इति कथनम् - पाण्डवपराक्रमशंसनपूर्वकं सङ्ग्रामराज्यप्रदानयोरन्यतरानुष्ठाननिर्णयचोदना - राज्यदानं प्रतिषेधन्तं दुर्योधनं गोभिः सह नगरं प्रस्थाप्य व्यूह्यावस्थानम् –
अध्यायः - ५३
. व्यूहसमीपागतस्यार्जुनस्य ध्वजादिदर्शनोत्तरमयमर्जुन एवेति निश्चिन्वतो द्रोणस्य बाणद्वारार्जुनकृतस्वपादवंदनादिकथनम् - दुर्याधनरहितं कुरुसैन्यं दृष्टवतोऽर्जुनस्याज्ञयोत्तरोऽर्जुनरथं दुर्योधनं प्रति प्रस्थापयामास - अर्जुनाभिप्रायं विदित्वा तत्पार्ष्णिग्रहणविधानम् – तत्र गत्वाऽर्जुनेन सैनिकेषु शरैस्ताडितेषु गवां विराटनगराभिमुखं प्रतिनिवर्तनम् –
अध्यायः - ५४
. दुर्योधनं प्रति प्रयान्तमर्जुनं दृष्ट्वा कुरुवीरेष्वागच्छतसूत्तरोऽर्जुनवाक्यात् कर्णं प्रति रथं प्रेरयामास - चित्रसेनादिभिर्युध्यमानेनार्जुनेन पराजिते विकर्णेऽपयाते युध्यमानस्य शत्रुन्तपस्यार्जुनकृतो वधः - कुरुसैन्यं घातयताऽर्जुनेन हतं स्वभ्रातरं श्रुत्वा कर्णोऽर्जुनमभिययौ - कर्णार्जुनदर्शनार्थं कुरुष्ववस्थितेष्वर्जुनेन युद्धपराजितस्य कर्णस्यापयानम् –
अध्यायः - ५५
. कर्णेऽपयाने सत्यागतानां दुर्योधनादीनां सैन्यमाच्छाद्याश्चर्ययुद्धं कुर्वत्यर्जुने सैनिकैस्तत्प्रशंसनम् - द्रोणादिताडनपूर्वकं कौरवसैन्यं भङ्क्त्वाऽर्जुनेन कृपसैन्यं प्रति रथं नेतुमुत्तरं प्रति प्रेरणा - अर्जुन उत्तरं प्रति द्रोणप्रदक्षिणकरणमादिश्याश्वत्थामादीस्तत्तद्भ्यजादिचिह्नदर्शनपूर्वकमभिज्ञापयांचक्रे –
अध्यायः - ५६
. अर्जुनस्य कुरुभिः सह युद्धं द्रष्टुमाकाशे देवर्षिसिद्धानां विमानै सम्प्राप्तिः –
अध्यायः - ५७
. अर्जुनाज्ञया कृपं प्रति रथे नीते उभावपि दध्मतुः - कृपार्जुनयोर्युध्यमानयोरर्जुनेन विरथीकृतं कृपं योद्धारो रणादन्यत्र निन्युः –
अध्यायः - ५८
. ततो युद्धार्थमागतं द्रोणं प्रत्यर्जुनाज्ञायोत्तरेण रथे नीते द्रोणः शङ्खं वादयति स्म - अर्जुनप्रार्थनं श्रुत्वा पूर्वं द्रोणो बाणांस्तत्याज - द्रोणार्जुनयोर्युध्यमानयोरर्जुनेन द्रोणे पराजितेऽश्वत्थाम्ना सहार्जुने युध्यमानं नदन्तरं द्रोणापयानम् –
अध्यायः - ५९
. अर्जुनाश्वत्थाम्नोर्युद्धे प्रसक्ते बाणक्षयादश्वत्थाम्नः पराजयः - धनुर्विस्फारयन्तं कर्णं प्रति युद्धायाभिद्रवणं च –
अध्यायः - ६०
. कर्णार्जुनयोराहोपुरुषिकापूर्वको युद्धारंभः - अर्जुनेनाश्वादिहननपूर्वकं बाणेनोरसि विद्धस्य कर्णस्य पलायनम् –
अध्यायः - ६१
. भीष्मसैन्यं प्रति रथवाहनार्थं प्रेरितस्योत्तरस्यासामर्थ्यंसूचकं वाक्यं श्रुत्वाऽर्जुनः पुनस्तमाश्वास्य रथवाहनार्थं प्रेरितवान् - उत्तरेण भीष्मसैन्यं प्रति रथे नीते वारयतो भीष्मस्यार्जुनो ध्वजं चिच्छेद - दुःशासनादीनामर्जुनेन सह युध्यमानानामर्जुनबाणाघातेन पीडितस्य दुःशासनस्य पलायनम् - अर्जुनशरविद्धे विकर्णे रथात्पतिते युध्यमानयोर्विविंशतिदुःसहयोरर्जुनेनाश्वेषु हतेषु तयोः पलायनम् -
अध्यायः - ६२
. संहत्य युध्यतः कुरुवीरान् रणे निपात्यार्जुनेन लोहितनदीप्रवर्तनम् –
अध्यायः - ६३
. पुनर्दुर्योधनादिष्वर्जुनेन सङ्गतेषु मिलितानां कृपादीनां युद्धे प्रसक्तेऽर्जुनेनैन्द्रास्त्रेण रथिषु मोहितेषु सत्सु कौरवसैन्यस्य पलायनम् –
अध्यायः - ६४
. प्रभग्नबलदर्शनेन युद्धार्थमागतस्य भीष्मस्यार्जुनेन सह युद्धम् - भीष्मधनुश्छेदनादि कुर्वन्तमर्जुनं गन्धर्वादयस्तु ष्टुवुः- अर्जुनबाणाघातेन पीडितस्य भीष्मस्य युद्धादपयानम् –
अध्यायः - ६५
. भीष्मापयानानन्तरमागतस्य दुर्योधनस्यार्जुनेन सह युद्धम् - दुर्योधनरक्षार्थं महता जवेन हस्तिनमारुह्य युद्धार्थमागतस्य विकर्णस्यार्जुनेन हस्तिनि निहते विकर्णस्य पलायनम् - अर्जुनेन पीडिते दुर्योधने युद्धात्पलायमाने सति तं प्रत्यर्जुनेन भुजास्फालमपूर्वकं निर्भर्त्स्य पुनर्युद्धायाह्वानम् –
अध्यायः - ६६
. अर्जुनवाक्यात्प्रत्यावृत्ते दुर्योधने तद्रक्षणार्थं कर्णभीष्मद्रोणादीनामपि प्रत्यावृत्तिः - मिलितैः सर्वैः सह युद्धप्रसङ्गेऽर्जुनः सम्मोहनास्त्रेण भीष्मवर्जं सर्वान्मोहयामास - अर्जुनप्रेरितेनोत्तरेण कौरवाणां वस्त्रेषु हृतेषु युद्धान्निर्गमनम् - अर्जुनस्य भीष्मेण युद्धप्रसङ्गे भीष्मस्याश्वान् साराथिं च विद्ध्वा रथसङ्घान्निर्गत्य स्थितिः - चैतन्यं लब्धवत्सु कौरवेषु पुनर्युद्धार्थं प्रवृत्तस्य दुर्योधनस्य भीष्मकृतं निवारणम् - युद्धनिवर्तनानुमतिं दत्वा प्रस्थितेषु कौरवेषु भीष्मादीन् प्रत्यर्जुनस्य प्रणामः - तथाऽर्जुनेन दुर्योधनस्य किरीटच्छेदनम् – अर्जुनाज्ञायोत्तरेण रथनिवर्तनम् –
अध्यायः - ६७
. भीतकुरुसंन्यस्यार्जुनेनाभये दत्तं तं प्रति तस्याशीर्वादादि - अर्जुनेनोत्तरं प्रति पाण्डवप्रकाशनप्रतिषेधपूर्वकं कौरवजयस्यात्मकृतत्वख्यापनचोदनम् - उत्तरेणाप्रकाशनमङ्गीकृत्यापरस्यानङ्गीकारः- शमीमागत्य रथस्थितं कपिध्वजं विसर्ज्य पूर्वं रथे स्थापितं विराटीयं सिंहध्वजं स्थापयित्वा शस्त्राणां यथास्थाननिधानं पूर्ववेषस्योपादानमुत्तरस्य जयमाख्यातुमग्रे गोपालानां प्रेषणं स्वयमपराह्णे गमनं च –
अध्यायः - ६८
. विराटस्य युधिष्ठिरादिभिः सह स्वनगरप्रवेशः पौरैस्तत्सं माननं च - अन्तःपुरगतेन राज्ञा कुरूनभियातमुत्तरं श्रुत्वा तद्रक्षणाय योधप्रेषणम् - अत्रान्तरे उत्तरप्रेषितैर्दूतैर्नगरमागत्य तद्विजयसमावेदनम् - ततः प्रहृष्टेन राज्ञा नगरालङ्कारायादिश्य कुमारानयनाय तूर्याणि राजकुमारादींश्च प्रस्थाप्य कङ्कं प्रति द्यूतवर्तनचोदना - हृष्टेन राज्ञा देवितुमनिच्छतापि कङ्केन राज्ञोऽत्यन्ताभिनिवेशं ज्ञात्वा द्यूतप्रवर्तनम् – ततो राज्ञा विराटेन “पश्य मे पुत्रेण कुरवो जिताः” इति स्ववचनमाकर्ण्य बृलन्नलासहायेनेति ब्रुवतो युधिष्टिरस्य मुखे क्रोधादक्षेण ताडनम् - तेन युधिष्ठिरस्य नासातो रुधिरस्रावः - दौपद्या जलपूर्णे हेमपात्रे तद्रुधिरधारणम् - उत्तरस्य सभायां प्रवेशः - उत्तरवाक्येन विराटेन कङ्कस्य क्षमापनम् - विरते कस्य क्षतजस्रावे बृहन्नलाप्रवेशः – राज्ञः कुमारं प्रति कर्णादिभिः सह युद्धप्रकारप्रश्नः –
अध्यायः - ६९
. उत्तरेण कौरवजयस्य देवपुत्रकृतमुक्त्वा तत्पराक्रमं चोपवर्ण्य तं दिदृक्षते राज्ञे स सम्प्रत्यन्तर्हितो द्वित्रैरहोभिः प्रादुर्भविष्यतीत्यभिधानम् - पार्थेनोत्तरायै रणाहृतवस्त्रभूषणादिसमर्पणम् - उत्तरेण सह पाण्डवैरग्रेतनकर्तव्यमन्त्रणम् -
५. वैवाहिकपर्व
अध्यायः - ७०
. कुरुविजयदिनात्तृतीये दिवसे प्रभाते युधिष्ठिरादिभी राजलक्षणानि श्रुत्वा सदोगतैर्नुपासने पृषवेशनम् - ततः सभां प्रविष्टेन विराटेन राज्ञा तांस्तथावस्थितान्वीक्ष्य कङ्कउद्ध्य सरोपं युधिष्टिरस्य राजासनोपवेशनाधिक्षेपः - अर्जुनेन विराटं प्रति युधिष्ठिरस्य याथातथ्यकथनेनेन्द्रासनारोहणार्हत्वमभिधाय राजासनारोहणारहत्वप्रतिपादनम् –
अध्यायः - ७१
. भीमादीन्पृच्छते विराटायार्जुनेन बल्लवादीन् भीमत्वादिना निरूप्य सर्वेषां तद्गृहे सुखेन निवासाभिधानम् - पुनहृर्ष्टेनोत्तरेणासाधारणाकारेण युधिष्ठिरादीन्निर्दिश्यार्जुनपराक्रमवर्णनम् - उत्तरेण सह सम्मन्त्र्य राज्ञा सकोशदण्डराज्यनिवेदनेन युधिष्ठिरं प्रसाद्य मुदा सर्वाश्चाभिनन्द्योन्तराया अर्जुनभार्यात्वेन प्रतिग्रहप्रार्थनम् - स्नुषात्वेनार्जुनेन तस्याः स्वीकारः –
अध्यायः - ७२
. राज्ञा पृष्टेनार्जुनेनोत्तराया भायत्वेनापरिग्रहे लोकान्यथाशङ्कापाकरणरूपहेत्वभिधानम् - विराटेनार्जुनप्रशंसनपूर्वकमभिमन्यवे कन्यादानाङ्गीकारः- युधिष्ठिरेण तदनुज्ञानम् - विराटेन युधिष्ठिरेण च श्रीकृष्णाय सुहृद्भ्यश्च दूतप्रेषणम् - पाण्डवानामुपप्लव्यनगरगमनम् - तत्र सर्वेषां पाण्डवपक्षीयाणां राज्ञां समागमनमभिमन्युना सहोत्तराया विवाहोत्सवश्च –
विराटपर्व