- १ . कर्णपर्व
- अध्यायः - १. ’ततो द्रोणे हते' इत्यादिना कर्णस्य सैनापत्याभिषेकानन्तरं विनिर्गतेषु कौरवेषु पाण्डवकौरवयोर्दिनद्वयं यावद्युद्धे प्रवृत्तेऽर्जुनेन कर्णो हत इत्यादिकमाचष्टे जनमेजयं वैशम्पायनः । कर्णं हतं श्रुत्वा धृतराष्ट्रः कथं प्राणानधारयदित्यादिको जनमेजयप्रश्नः.......
- अध्यायः - २. वैशम्पायनस्योत्तरम्- कर्णहननानन्तरं सञ्जयो धृतराष्ट्रं प्रत्यागत्य कुशलप्रश्नपूर्वकं तं तिरश्चकार । भीष्मादीनां मरणेन विलपतो धृतराष्ट्रस्य नारायणास्त्रनिवारणानन्तरं मदीयैः किं कृतमिति पृच्छतः सञ्जयेन सहोक्तिप्रत्युक्ती.......
- अध्यायः - ३. द्रोणे हते शोचतो योधानाश्वास्य दुर्योधनेन सैनापत्येऽभिषिक्तः कर्णो युद्धं कुर्वन्नर्जुनेन निपातित इत्याह सञ्जयः ......
- अध्यायः - ४. कर्णवधश्रवणेन धृतराष्ट्रस्य वैषादिकमाह वैशम्पायनः । सञ्जयधृतराष्ट्रयोरुक्तिप्रत्युक्ती ......
- अध्यायः - ५. 'के जीवन्ति के च मृताः’ इति धृतराष्ट्रप्रश्ने मृतानां भीष्मादीनां नामानि निगदन्नानाविधोपमानेन कर्णनिधनमाह सञ्जयः........
- अध्यायः - ६. हतानां पाण्डवसम्बन्धिनां नामान्याख्याहीति धृतराष्ट्रप्रश्ने तान्याह सञ्जयः......
- अध्यायः - ७. के जीवन्तीति धृतराष्ट्रप्रश्ने सञ्जयेन कथिताञ्जीवतो द्रोणपुत्रादीञ्श्रुत्वा स मुमोह.........
- अध्यायः - ८. कर्णवधमसम्भावितं मन्यमानो धृतराष्ट्रश्चिन्तातुरो विललापेत्याह वैशम्पायनो जनमेजयप्रश्नानुरोधेन.....
- अध्यायः - ९. सञ्जयेन समाश्वासितोऽपि धृतराष्ट्रः पुनर्विलप्य कर्णप्रशंसापूर्वकं तद्वधमविश्वसन् कर्णवधं दृष्ट्वा दुर्योधनः किञ्चिदब्रवीदित्यादि पप्रच्छ..........
- अध्यायः - १०. द्रोणहननाद्यनन्तरं दुर्योधनोऽवहारं कृत्वा शिबिरमागत्य राज्ञां मतानि जिज्ञासुस्तान्पप्रच्छेत्याह सञ्जयः । राज्ञामिङ्गितादिना युद्धाभिप्रायं बुद्ध्वाऽश्वत्थामा कर्णं सैनापत्येऽभिषेक्तुं दुर्योधनं प्रत्युवाच । अश्वत्थामवाक्याद्दुर्योधनेनाभिषेकार्थं प्रार्थितः कर्णस्तदङ्गीचकार । ततो दुर्योधनकृतं कर्णाभिषेकं कथयित्वा तत्कालिकीं कर्णस्य सभां वर्णयति स्म सञ्जयः........
- अध्यायः - ११. सैनापत्यं प्राप्य कर्णः किमकरोदिति धृतराष्ट्रप्रश्ने सञ्जयस्योत्तरम् । कर्णमतेन तव पुत्रेषु योगमाज्ञापयत्सु कर्णो मकरव्यूहं रचयामास । तं दृष्ट्वा युधिष्ठिरेण प्रेरितोऽर्जुनोऽप्यर्धचन्द्रव्यूहमरीरचत्तदोभये सैनिकाः शङ्खादीन्वादयामासुः.......
- अध्यायः - १२. ।। षोडशदिवसयुद्धम् ।। उभयसैन्ययोर्युद्धारम्भे गजारूढयोर्भीमक्षेमधूर्त्योर्युद्ध्यमानयोर्भीमः क्षेमधूर्तिं जघान......
- अध्यायः - १३. कर्णस्य पाण्डवानां च परस्परसैन्यनाशने प्रसक्ते कणादीन्प्रति नकुलादिषु चागतेषु कैकेयाभ्यां विन्दानुविन्दाभ्यां सह युद्धं कुर्वन्सात्यकिस्तौ जघान........
- अध्यायः - १४. श्रुतकर्माभिसाराधिपतिचित्रसेनयोर्युद्धे प्रवृत्ते श्रुतकर्मा चित्रसेनं जघान । प्रतिविन्ध्यचित्रसेनयोर्युद्ध्यमानयोः प्रतिविन्ध्यश्चित्रं धृतराष्ट्रपौत्रमवधीत् । चित्रे हते प्रतिविन्ध्यं प्रति तावकेषु सर्वेषु गतेषु द्रौणिर्भीममाजगाम.......
- अध्यायः - १५. द्रौणिभीमयोस्तुमुले युद्धे प्रवृत्ते सिद्धादिषु प्रशंसत्सु परस्परबाणप्रहारेण मूर्च्छितावुभावुभयसारथी रणादपोहतुः......
- अध्यायः - १६. अर्जुनादियुद्धशुश्रूषया धृतराष्ट्रप्रश्ने सञ्जयस्तत्कथयन् प्रतिजज्ञे । संशप्तकान्नाशयन्तमर्जुनं सिद्धादिषु स्तुवत्सु श्रीकृष्णार्जुनप्रशंसारूपामशरीरिणीं वाणीं श्रवणसरणिगोचरां कृत्वाऽश्वत्थामा प्रत्यागच्छति स्म । अश्वत्थाम्नो युद्धार्थमाह्वानं श्रुत्वाऽर्जुनेनोक्तः श्रीकृष्णोऽश्वत्थामानं प्रति स्थिरो भव युद्ध्यस्वेत्याद्याह । केशवार्जुनौ बाणैराच्छाद्य सिंहवन्नदतोऽश्वत्थाम्नो बाणगणं छित्त्वा पुनः संशप्तकैर्युद्ध्यमानमर्जुनं प्रति स पुनर्बाणान्ववर्ष, ततः संशप्तकांस्त्यक्त्वाऽर्जुनो द्रौणिं पुनरभ्ययात्..........
- अध्यायः - १७. अश्वत्थाम्ना युद्धं कुर्वन्नर्जुनः साश्वध्वजं तमाच्छाद्य संशप्तकान्गत्वा तेषां धनुरादिंश्चिच्छेद । पुनरागत्य युद्ध्यमानस्य द्रौणेः पराक्रमं दृष्ट्वा श्रीकृष्णेन प्रेरितोऽर्जुनस्तद्रश्मींश्चिच्छेद, ततो भ्रान्तानश्वान्स्वयमेव निवार्य कर्णसैन्यं प्राविशद्द्रौणिः । पुनरर्जुनः संशप्तकानगच्छत् .....
- अध्यायः - १८. उत्तरतः पाण्डुसेनाध्वनिं श्रुत्वा श्रीकृष्णेन प्रेरितोऽर्जुनस्तत्र गतो मागधराजेन दण्डधारेण तुमुलं युद्धं कुर्वंस्तं जघान । दण्डधारं हतं दृष्ट्वा आगतं तद्भ्रातरं दण्डमप्यर्धचन्द्रेण बाणेनावधीदर्जुनस्तदा सैनिकास्तं प्रशशंसुः......
- अध्यायः - १९. अर्जुनः पुनः संशप्तकान् प्राप्य तैः सह मन्दमन्दं युद्धं कुर्वञ्श्रीकृष्णप्रेरणया सत्वरं तान् हत्वा दुर्योधनसैन्यमागतः पाण्ड्येनाभ्यर्दितं तत् सैन्यं ददर्श......
- अध्यायः - २०. पाण्डवयुद्धशुश्रूषया धृतराष्ट्रप्रश्ने सञ्जयस्तत्पराक्रमवर्णनपूर्वकं तद्युद्धं वर्णयति स्म । पाण्ड्यपराक्रमं दृष्ट्वा आगतस्याश्वत्थाम्नस्तेन सह युद्धम् । अश्वत्थामा पाण्ड्यस्य केतुं छित्त्वा सारथ्यादीन्हत्वा तदनुचरैर्युद्ध्यमानस्तं जघान......
- अध्यायः - २१. पाण्ड्ये हतेऽर्जुनः किमकरोदिति धृतराष्ट्रप्रश्ने सञ्जयस्तत्कथयति स्म । कर्णेन हन्यमानां सेनां विलोक्य श्रीकृष्णेन प्रेरितोऽर्जुनस्तत्समीपमाजगाम । ततस्तस्य पाण्डवानां च तुमुलं युद्धमभूत् । कर्णं प्रत्यागतानां पाञ्चालराजादीनां सङ्कुलं युद्धम्.......
- अध्यायः - २२. धृष्टद्युम्नं प्रति प्राच्यादिष्वागतेषु तत्साहाय्यं कर्तुं पाण्डुपञ्चालेषु चागतेषूभयोः सङ्कुलं युद्धम्.....
- अध्यायः - २३. सहदेवं प्रत्यागतो दुःशासनस्तेन सह युद्धं कुर्वंस्तद्बाणेन मोहितः सूतेनापवाहितस्तदा सहदेवः कौरवसैन्यं ममर्द......
- अध्यायः - २४. नकुलं प्रत्यागते कर्णे उभयोरुक्तिप्रत्युक्त्यनन्तरं तुमुलं युद्धं कुर्वन्तौ द्वावपि परस्परसैन्यं हत्वा द्रावयतः स्म । कर्णेन सारथ्यादिहननपूर्वकं पराजित्य वशीकृतोऽपि नकुलः कुन्तीवाक्यं स्मृत्वा विसर्जितस्तेन सव्रीडः स युधिष्ठिररथमारुरोह । पञ्चालान्प्रविश्य गजानां नाशादि कुर्वतः कर्णस्य बाणप्रहारेण पीडितानां योधानां महान्व्यतिकरः संवृत्तः......
- अध्यायः - २५. युयुत्सूलूकयोर्युद्धे प्रवृत्ते उलूकोऽश्वादिहननपूर्वकं युयुत्सुं निर्जित्य पञ्चालादीञ्जगाम । शतानीकश्रुतकर्मणोः शकुनिसुतसोमयोश्च युद्धम्.......
- अध्यायः - २६. कृष्णधृष्टद्युम्नसमागमे योधेष्वार्तवाक्यं ब्रुवत्सु कृपबाणप्रहारेण मोहितं धृष्टद्युम्नं तस्य सभयं वाक्यं श्रुत्वा तत्सारथिरपोवाह । शिखण्डिकृतवर्मणोर्युद्धे प्रवृत्ते कृतवर्मबाणाभिघातेन मोहितं शिखण्डिनं तत्सारथिरपोवाह........
- अध्यायः - २७. आगतैस्त्रिगर्तादिभिर्युद्धं कुर्वन्नर्जुनः शत्रुञ्जयादीञ्जघान । पुनः संशप्तकैरावृतोऽर्जुन ऐन्द्रास्त्रेण तेषां धनादींश्छित्वा तान्पराजिग्ये........
- अध्यायः - २८. युधिष्ठिरदुर्योधनयोर्युद्ध्यमानयोर्युधिष्ठिरेण विरथीकृतं दुर्योधनं दृष्ट्वा कर्णादिष्वागतेषु युधिष्ठिरसहाय्यार्थं पाण्डवादिषु चागतेषु सैन्यद्वयस्य द्वन्द्वयुद्धपूर्वकं सङ्कुलं युद्धम्.........
- अध्यायः - २९. युधिष्ठिरदुर्योधनयोर्युद्धं श्रोतुं धृतराष्ट्रस्य प्रश्ने सञ्जयस्योत्तरकथनम् । रथान्तरमारुह्यागत्य युद्धं कुर्वन्दुर्योधनो युधिष्ठिरशक्तिप्रहारेण सुमोह । मुग्धं दुर्योधनं दृष्ट्वा भीमेन प्रतिबोधितो युधिष्ठिरस्तद्वधान्निववृते, ततः कृतवर्मभीमौ सञ्जग्मतुः........
- अध्यायः - ३०. कर्णं पुरस्कृत्य युज्यमानेषु कौरवेषु सात्यकिं प्रत्यागतेषु सत्सु तेन सह कर्णस्य युद्धम् । केशवार्जुनयो: कौरवबलमागतयोः सतोरागते च दुर्योधनेऽर्जुनस्तदादीनां धनुरादीनि चिच्छेद । सात्यकिं हित्वाऽर्जुनं प्रतिगच्छन्तं कर्णं प्रति सात्यकिप्रभृतिषु बाणान्वर्षत्सु तान्निवार्य पाण्डवीं सेनां नाशयति स्म कर्णः | अर्जुनास्त्रप्रतापेन मोहितेषु कौरवसैन्येष्वपयातेषु पाण्डवाः स्वशिबिरं जग्मुः । अत्र षोडशदिवसयुद्धं समाप्तम् ......
- अध्यायः - ३१. धृतराष्ट्रोऽर्जुनं प्रशस्य दुर्योधनः किमकरोदिति पप्रच्छ, सञ्जयश्च तद्वक्तुमुपचक्रमे-शिबिरं गत्वा कौरवेषु विचारयत्सु 'श्वोऽर्जुनसङ्कल्पं हन्ता’ इति कर्णस्य सक्रोधं वाक्यं श्रुत्वा दुर्योधनोनुज्ञाताः सर्वे योद्धाः स्वस्वभवनानि गत्वा प्रातर्युद्धाय निर्जग्मुः । कर्णयुद्धविषये प्रश्नं कृत्वा दुर्योधनं निन्दन्तं धृतराष्ट्रं प्रति तन्निन्दारूपं सञ्जयवाक्यम् । कर्णोऽर्जुनवधप्रतिज्ञापूर्वकमात्मानं श्लाघयञ्शल्यं सारथ्यकर्मणि नियोक्तुं दुर्योधनं प्रति प्रार्थयित्वाऽऽत्मानं शल्यं च प्रशशंस । कर्णवाक्यं श्रुत्वा हृष्टो दुर्योधनस्तदुक्तमङ्गीचकार.......
- अध्यायः - ३२. दुर्योधनः शल्यसमीपं गत्वा सविनयं कर्णस्य सारथ्यं भवान्करोत्वित्याह । दुर्योधनवाक्येन क्रुद्धः शल्य आत्मानं श्लाघयन् 'कथं युनक्षि सारथ्ये' इत्याद्युक्त्वा सभायां निर्जगाम, क्रोधात्सभाया निर्गच्छन्दुर्योधनेन गृहीतः शल्यो विनयपूर्विकां 'भवानधिकः कृष्णात्’ इत्यादिकां तद्वाणीं श्रुत्वा हृष्टः सन् कर्णसारथ्यं स्वीकृत्य स्वसमयमाह, दुर्योधनश्च तदङ्गीचकार..........
- अध्यायः - ३३. पुनर्दुर्योधनो ’यथा पुरा वृत्तमिदम्' इत्याद्युक्त्वा त्रिपुरवधाख्यानं कथयति स्म । युद्धे निर्जितास्तारकासुरपुत्रास्ताराक्ष-कमलाक्ष-विद्युन्मालिनामानोऽवध्यत्वसम्पादनार्थं तपश्चेरुः । तपसा तुष्टेन ब्रह्मणा तैः प्रार्थितमवध्यत्वमनङ्गीकृत्य वरान्तरं याचध्वमित्युक्तास्ते त्रीणि पुराण्ययाचन्त, येषु स्थित्वा महीं विचरिष्याम इत्याद्याहुश्च । ब्रह्मणा तथेत्यङ्गीकृते प्रार्थितेन मयेन निर्मितानि काञ्चन-रौप्य-कार्ष्णायसमयानि त्रीणि पुराण्यवाप्य तारकाक्षपुत्रेण हरिणा तपसा ब्रह्मणः सम्पादिताममृतवाणीं च प्रापुः । पुराण्यास्थाय लोकान्बाधमानेषु तेषु तन्नाशोपायजिज्ञासवो देवा ब्रह्मसमीपं प्राप्य तेन सह महादेवं प्रति गत्वा स्तुत्या तं प्रसादयामासुः....
- अध्यायः - ३४. प्रसन्नेन महादेवेनाभये दत्ते ब्रह्मा त्रिपुरवधं प्रार्थयामास । महादेवेन मत्तेजोऽर्धं गृहीत्वा यूयमेवैकमत्येन तान्हतेत्यादिष्टैर्देवैस्तदनङ्गीकृत्यास्मत्तेजोर्धसहाय्येन भवानेवैतान्हन्त्विति प्रार्थितः स तदङ्गीचकार । रथादिकल्पनार्थमाज्ञप्तैर्देवैः कल्पितं रथमारूढः सिद्धादिभिः स्तुतः शिवः कः सारथिर्भवेदित्याद्याह । देवैः प्रार्थितेन ब्रह्मणा सारथ्येऽङ्गीकृते महादेवो रथमारुह्य देवानाश्वास्य त्रिपुरवधार्थं निर्जगाम । गवादीनां खुरद्वैधीभावेऽश्वानां स्तनाभावे च कारणं कथयित्वा त्रिपुरवधप्रकारं चाभिधाय प्रकृतिमापन्नानां देवानां स्वस्थानगमनमभ्यधाद्दुर्योधनः। शिवस्य सारथ्यं यथा ब्रह्मणा कृतं तथा त्वमपि कर्णस्य सारथ्यं कुर्वित्युक्त्वा पुनर्दुर्योधनः शल्यं प्रति परशुरामवृत्तान्तं कथयति स्म-जामदग्न्यो रामोऽस्त्रप्राप्त्यर्थं तपः कुर्वंस्तुष्टेन महादेवेनाज्ञप्तः पुनस्तपश्चकार । पुनस्तत्तपसा तुष्टेन महादेवेन दैत्याञ्जहीत्याज्ञप्तः स तैः सह युद्धं कृत्वा तान्हतवान् दैत्यैः क्षतगात्रो महादेवस्पर्शेन निर्व्रणोऽभूच्च । ततस्तस्मै शिवो वरदानपूर्वकमस्त्राण्यदात्स च लब्धास्त्रः शिवं प्रणम्य तदनुज्ञया जगाम । ततो दुर्योधनः कर्णं प्रशंसन् रामेण दत्तास्त्रस्तच्छिष्य इत्याह शल्यं प्रति.........
- अध्यायः - ३५. दृष्टान्तपूर्वकं सारथ्यकरणार्थं प्रार्थयन्तं दुर्योधनं प्रति ’मयाऽप्येतन्नरश्रेष्ठ’ इत्याद्युवाच शल्यः । कर्णशल्यौ प्रशंसन्तं दुर्योधनं प्रति शल्यो 'यन्मां ब्रवीषि गान्धारे' इत्याद्युवाच । शल्योक्तिमङ्गीकृत्यागतस्य दुर्योधनस्यालिङ्गनपूर्वकं कर्णेन सह सम्भाषणम् । कर्णप्रेरणया पुनरागतं दुर्योधनं शल्य आलिङ्गनपूर्वकं ’एवं चेन्मन्यसे' इत्याद्युवाच । कर्णशल्ययोरुक्तिप्रत्युक्ती.......
- अध्यायः - ३६. कर्णं प्रति शल्यप्रशंसारूपं वाक्यमुक्त्वा हयसंयमनार्थं शल्यं प्रेरयति दुर्योधने शल्यकर्णौ रथमारुरुहतुः । रथारूढे कर्णेऽश्वान्प्रेषयितुं प्रेरयति शल्यः पाण्डवान्प्रशशंस......
- अध्यायः - ३७. ।।सप्तदशदिवसयुद्धम् ।। कर्णं दृष्ट्वा हृष्टानां कौरवाणां दुन्दुभिनिर्घोषादिकं कथयित्वा युद्धार्थं निर्गमसमये सञ्जातानि दुर्निमित्तान्याह सञ्जयः । शल्यं सम्बोध्य कौरवान्प्रति किञ्चिदुक्त्वा तं प्रत्यप्यात्मानं श्लाघयन्नुवाच कर्णः । अवहासपूर्वकं प्रत्युत्तरं भाषमाणः शल्योऽर्जुनं प्रशस्य कर्णनिर्भर्त्सनं कुर्वन् परुषं कर्णवाक्यं श्रुत्वा निरुत्तरो बभूव । ततः कर्णः शल्यसारथिर्धनञ्जयध्वजिनीं प्रति गत्वा धनञ्जयं पर्यपृच्छत्.......
- अध्यायः - ३८. कर्णस्य पाण्डवानुद्दिश्य प्रत्येकविषयं प्रश्नमाख्याति स्म सञ्जयः । 'यो मामद्य महात्मानं दर्शयच्छ्वेतवाहनम् । तस्मै दद्यामभिप्रेतं धनं यन्मनसेच्छति' इत्यादि कर्णवाक्यं श्रुत्वा दुर्योधनादयो जहृषुः....
- अध्यायः - ३९. 'मा सूतपुत्र दानेन सौवर्णं हस्तिपुङ्गवम् । प्रयच्छ पुरुषायाद्य द्रक्ष्यसि त्वं धनञ्जयम्' इत्यादिना शल्येन कर्णभर्त्सने कृते उभयोरुक्तिप्रत्युक्ती.......
- अध्यायः - ४०. क्रुद्धः कर्णः शल्यं निर्भर्त्स्यात्मश्लाघां कुर्वन् मद्रदेशोद्भवान् विनिन्द्य पुनः शल्यं निनिन्द......
- अध्यायः - ४१. कर्णवाक्यं श्रुत्वा निदर्शनं कथयञ्शल्यः प्रथमं कर्णमधिक्षिप्यात्मनः श्रैष्ठ्यं प्रकाश्य हंसकाकीयोपाख्यानमाह । समुद्रतीरे वसतो धनिकस्य कुमारैः पालितः काकस्तेषामुच्छिष्टभक्षणेन मत्तः सन्नितरान्पक्षिणोऽधिचिक्षेप । ते कुमाराः कदाचित्तत्रागतान्हंसान् दृष्ट्वा काकं प्रति ’भवानेव विशिष्टो हि' इत्याद्यूचुः । कुमारवाक्येनोत्पतनार्थं हंसानाह्वयन्तं काकं प्रति ते स्वस्वरूपं कथयित्वा गतिप्रकार पप्रच्छुः । निजोड्डीनादिगतीः कथथित्वाऽऽत्मश्लाघां कुर्वन्तं काकं प्रति तन्मध्यवर्ती कश्चिद्धंसः 'शतमेकं च पातानां' इत्याद्युवाच । स्पर्धयोत्पततोः काकहंसयोः समुद्रमतिक्रामन्तं हंसं दृष्ट्वा भयेन समुद्रमध्ये पतन्तं काकं प्रति हंसस्य सोपहासं वाक्यम् । आर्तः काको जलं स्पृशन्नात्मरक्षार्थं सभयं यावत्प्रार्थयति तावत्तं पृष्ठे धृत्वोत्पतनप्रदेशे निक्षिप्य हंसो यथेष्टं देशं जगाम । एतद्दृष्टान्तेन कर्णमधिक्षिप्य पुनरुत्तरगोग्रहणादिवृत्तान्तमनूद्य तिरश्चकार......
- अध्यायः - ४२. शल्यवाक्यं श्रुत्वा विकत्थमानः कर्णः परशुरामदत्तशापकारणादि कथयित्वा भीमादिपराजयमिच्छंश्चक्रपातरूपब्राह्मणशापान्तरादिकं शशंस...
- अध्यायः - ४३. कर्णस्य शल्याधिक्षेपरूपं वाक्यम्.......
- अध्यायः - ४४. शल्यवाक्यं श्रुत्वा द्विगुणं परुषं वदन् कर्णो वाहीकादिदेशनिन्दाविषये धृतराष्ट्रब्राह्मणसंवादरूपमितिहासं कथयञ्शल्यं तिरश्चकार । 'वाहीकेष्वविनीतेषु’ इत्यारभ्य 'वसातिसिन्धुसौवीरा' इति 'प्रायोऽतिकुत्सिताः’ इत्यन्तन पुनर्वाहीकान्निनिन्द.........
- अध्यायः - ४५. पुनर्वदन्कर्णः स्वगृहागतब्राह्मणमुखाच्छ्रुतानां वाहीकादिदेशानां निन्दां कुर्वन्यत्र देशे दस्युभिर्हृतायाः सत्याः शापात्सर्वा बन्धक्य इत्याद्याह स्म । अन्येतिहासमिषेण शल्यं तिरस्कुर्वन् कल्माषपादसरसि निमज्जतो राक्षसस्य वाक्यमभिदधाति स्म । पुनः प्रशंसापूर्वकं मद्रदेशं निन्दति कर्णे शल्योऽङ्गदेशनिन्दापूर्वकं तं तिरश्चकार। दुर्योधने सखिभावेनाञ्जलिकर्मणाकर्ण शल्यं च निवारयत्युभयोस्तूष्णीं स्थितयोः कर्णः प्रहस्याश्वान्प्रेषयितुं शल्यमचोदयत्....
- अध्यायः - ४६. सञ्जयेन कर्णस्य पाण्डवव्यूहदर्शनादौ कथिते व्यूहरचनादिप्रकारे धृतराष्ट्रेण पृष्ठे स तं कथयति स्म । सेनामुखं दृष्ट्वा युधिष्ठिरेणोक्तोऽर्जुनस्तदुक्तमङ्गीचकार । कर्णादिभिर्योद्धुमर्जुनादिषु युधिष्ठिरेणाज्ञप्तेष्वर्जुनस्तदनुरोधेन सर्वानादिश्य स्वयं चमूमुखं जगाम । अर्जुनरथं दृष्ट्वा ’अयं सरथ आयातः श्वेताश्वः कृष्णसारथिः। दुर्वारः सर्वसैन्यानां विपाकः कर्मणामिव’ इत्याद्युक्त्वा दुर्निमित्तानि कथयित्वाऽर्जुनं प्रशंसन्तं शल्यं प्रति क्रुद्धस्य कर्णस्य वाक्यम् । शल्योऽर्जुनस्याजेयत्वं कथयित्वा भीमादीन्प्रशशंस.....
- अध्यायः - ४७. कर्णार्जुनयोः सविस्तरयुद्धश्रवणार्थं धृतराष्ट्रप्रश्ने सञ्जयोऽर्जुनकृतव्यूहरचनादिकं कथयति स्म । संशप्तकैरर्जुनस्य कौरवैः पाञ्चाल्यादीनां च दारुणं युद्धम्......
- अध्यायः - ४८. कर्णयुद्धं श्रोतुं धृतराष्ट्रस्य प्रश्ने सञ्जयः पञ्चालान्प्रति कर्णस्य गमनं शशंस । पाञ्चालैर्युद्ध्यमानः कर्णो भानुदेवादीन्पञ्च जघान । कर्णरक्षकेषु तत्पुत्रेषु सुषेणादिषु युद्ध्यमानेषु कर्णेन सह युद्धार्थं भीमाद्यागमनम् । सुषेणादिभिर्युद्धं कुर्वन्भीमो भानुसेनं कर्णपुत्रं जघान । वृषसेनसात्यकयोर्युद्ध्यमानयोः सात्यकिना विरथीकृतो दुःशासनेनापवाहितो वृषसेनः पुनरागत्य द्रौपदेयादिभिः सह युयुधे ........
- अध्यायः - ४९. कर्णो युधिष्ठिरमागत्य द्रविडादिसैन्यं नाशयति स्म । 'कर्ण कण वृथादृष्टे' इत्यादि सक्रोधमुक्त्वा युद्धं कुर्वतो युधिष्ठिरस्य बाणप्रहारेण कर्णो मुमोह । पुनर्युधिष्ठिरकर्णयोर्युद्धे प्रवृत्ते युधिष्ठिरसाहाय्यार्थमागतः सात्यक्यादिभिर्युयुधे कर्णः । भयेन पराङ्मुखं युधिष्ठिरं ग्रहीतुमिच्छन्तं कर्णं शल्यो निवारयामास । युधिष्ठिरं प्रागल्भ्येनाधिक्षिप्य युद्ध्यमाने कर्णे पाण्डवसैन्ये पराङ्मुखे कौरवा जहृषुः । युधिष्ठिराज्ञया पुनर्भीमादिष्वागतेषुभयोः सैन्ययोः सङ्कुलं युद्धम्.......
- अध्यायः - ५०. आगच्छता भीमादीन्दृष्ट्वा कौरवसैन्ये पलायमाने भीमो युधिष्ठिररक्षार्थं सात्यक्यादीनादिश्य कर्णं प्रत्याजगाम । आगच्छन्तं भीमं दृष्ट्वा तत्प्रशंसागर्भं वाक्यं ब्रुवतः शल्यस्य कर्णस्य चोक्तिप्रत्युक्ती । भीमकर्णयोस्तुमुलं युद्ध्यमानयोर्भीमबाणप्रहारेण मूर्छितं कर्णं गृहीत्वा शल्योऽपययौ.......
- अध्यायः - ५१. कर्णापयानं श्रुत्वा विस्मयपूर्वकमपाते कर्णे दुर्योधनः किमकरोदिति पृष्टवति धृतराष्ट्रे सञ्जयस्योत्तरम् । दुर्योधनाज्ञया आगतैस्तद्भ्रातृभिः श्रुतर्वप्रभृतिभिर्युद्ध्यमानो भीमस्तेषां मध्ये विवित्सुप्रभृतीञ्जघान । हतांस्तान्दृष्ट्वा आगतेन कर्णेन युद्धं कुर्वंस्तेन विरथीकृतो गदायुद्धं कुर्वन्सैन्यं ममर्द । अन्यं रथमास्थायागतस्य भीमस्य कर्णस्य च तुमुले युद्धे प्रवृत्ते उभे सेने अपि सङ्कुलं युयुधाते.......
- अध्यायः - ५२. सञ्जयः परस्परवधैषिणां सैन्यानां युद्धं कथयित्वा हतसैन्यादिभिर्युद्धभूमिशोभां वर्णयन् परस्परभीतानां सैन्यानां पलायनं कथयञ्शोणितनद्यादिकमाह स्म..........
- अध्यायः - ५३. गाण्डीवशब्दश्रवणाद्युक्त्वासंशप्तकैरर्जुनस्य युद्धं वर्णयति स्म सञ्जयः । संशप्तकानां पराक्रमं दृष्ट्वा श्रीकृष्णं प्रत्यभिधायार्जुनो देवदत्तं दध्मौ श्रीकृष्णश्च पाञ्चजन्यम् । उभयोः शङ्खशब्देन भीतान्योधान्नागपाशेन पादबन्धनपूर्वकं नाशयामासार्जुनः । सुशर्मप्रयुक्तः सौपर्णास्त्रेण मुक्तवन्धेषु योधेष्वस्त्रवृष्टिं कुर्वत्सु सुशर्मबाणप्रहारेण मोहितोऽप्यर्जुनो लब्धसंज्ञः सन्नैन्द्रास्त्रेण तान्नाशयामास..........
- अध्यायः - ५४. सैन्यं विद्रुतं दृष्ट्वा आगतानां कृपादीनां युद्धे प्रवृत्ते शिखण्डिकृपौ युयुधाते । कृपेण पराभूतं शिखण्डिनं दृष्ट्वाऽऽगच्छन्तं धृष्टद्युम्नं कृतवर्मा निवारयामास । आगच्छत्सु युधिष्ठिरादिषु द्रौणिप्रभृतिभिर्निवारितेषु पुनः शिखण्डिकृपयोर्युद्ध्यमानयोः कृपपराक्रमदर्शनेन शिखण्ड्यपयययौ । सुकेतुकृपयोर्युद्ध्यमानयोः कृपः सुकेतुं जघान । धृष्टद्युम्नकृतवर्मणोर्युद्ध्यमानयोर्धृष्टद्युम्नः कृतवर्माणं पराजिग्ये.........
- अध्यायः - ५५. युधिष्ठिरं प्रत्यागत्याश्वत्थाम्ना बाणैराकाशे आच्छादिते तत्पराक्रमं दृष्ट्वा आगतैः सात्यक्यादिभिस्तस्य महद्युद्धम् । "नैव नाम तब प्रीतिर्नैव नाम कृतज्ञता । यतस्त्वं पुरुषव्याघ्र मामेवाद्य जिघांसति" इत्याद्युक्तवन्तं युधिष्ठिरं प्रत्यनुक्त्वैव बाणान्वर्षत्यश्वत्थाम्नि स रणादपायाञ्चक्रे.........
- अध्यायः - ५६. भीमादीनावृत्य तेषां समक्षं कर्णेन चेदिराजप्रभृतिषु हतेषु भीमः कर्णं विहाय कौरवसेनां नाशयितुं जगाम । दुर्योधनेन बाणैर्नकुलसहदेवावाच्छादितौ दृष्ट्वाऽऽगतेन धृष्टद्युम्नेन तस्य धनुरादिषु छिन्नेषु तं तद्भ्रातरो ररक्षुर्दण्डधारश्च तमपाहरत् । कर्णः सात्यकिं जित्वा धृष्टद्युम्नमागत्य पञ्चालैः सह युद्धं कुर्वञ्जिष्ण्वादीञ्जघान । पञ्चालान्हतवन्तं कर्णं दृष्ट्वा आगतैर्युधिष्ठिरादिभिः सह स युयुधे । भीमे कौरवसेनां नाशयति ते सर्वे निरुत्साहा बभूवुः । कर्णपराक्रमदर्शनानन्तरमर्जुनप्रेरितेन श्रीकृष्णेन रथे प्रेषिते सेनां नाशयन्तं तं प्रति दुर्योधनः संशप्तकान्प्रेषयामास । अर्जुनः संशप्तकैर्युद्धं कुर्वंस्तेषां दशसहस्त्रान्पार्थिवान्हत्वा यावत्काम्बोजबलं नाशयति तावदश्वत्थामा आजगाम । अर्जुनकृष्णयोर्बाणैराच्छादितयोरर्जुनस्य शैथिल्यं दृष्ट्वा श्रीकृष्णेन सक्रोधमुक्तः स द्रौणिं धनुरादिच्छेदनपूर्वकं विसंज्ञं चकार, ततस्तं च तत्सारथिरपोवाह । प्रहारैर्गाढं व्यथितो युधिष्ठिरः क्रोशमात्रमपक्रम्य तस्थौ .....
- अध्यायः - ५७. दुर्योधनवाक्यादृष्टेषु योधेषु तत्समक्षमश्वत्थामा, धृष्टद्युम्नं शयितुं प्रतिजज्ञे.....
- अध्यायः - ५८. द्रवन्तीं सेनां दृष्ट्वा ’न च पश्यामि दाशार्ह धर्मराजम्’ इत्याद्युक्तवतोऽर्जुनस्य प्रेरणया श्रीकृष्णो युधिष्ठिरसमीपगमनार्थं रथं प्रेषयति स्म । युधिष्ठिरादीन् दृष्ट्वाऽर्जुनं प्रत्याह श्रीकृष्णः.........
- अध्यायः - ५९. कुरुसृञ्जयादीनां सङ्कुलयुद्धे प्रवृत्ते धृष्टद्युम्नसात्यक्योः कर्णेन सह युद्ध्यमानयोरागतस्य क्रुद्धस्याश्वत्थाम्नो धृषद्युम्नस्य चोक्तिप्रत्युक्ती । श्रीकृष्णप्रेरणया धृष्टद्युम्नं रक्षितुं बाणान्वर्षन्तमर्जुनं प्रत्यश्वत्थाम्न आगमनम् । अर्जुनाश्वम्नोर्युद्ध्यमानयोरर्जुनबाणप्रहारेण मुग्धं द्रौणिं गृहीत्वा तत्सारथिरपययौ........
- अध्यायः - ६०. श्रीकृष्णोऽर्जुनं प्रति युधिष्ठिरनाशार्थं दुर्योधनादीनां चेष्टादिकमभिधाय कर्णकृतपाण्डवसेनानाशादिकथनपूर्वकं कर्णेन सह युद्धं कर्तुं प्रेरयति स्म । भीमेन कृतं धार्तराष्ट्रसेना विद्रावणादिकं गजादीनां नाशादिकं च कथयति श्रीकृष्णेऽर्जुनोऽपि भीमस्य तत्कर्म दृष्ट्वा शत्रुसेनां नाशयितुं प्रववृते.....
- अध्यायः - ६१. मदीये सैन्ये द्रवति कुरवः किमकुर्वन्निति धृतराष्ट्रप्रश्ने भीमं प्रति कर्णस्यागमनादिकं शशंस सञ्जयः । कर्णादीन्प्रति शिखण्डिप्रभृतिष्वागतेषु कर्णशिखण्डिनोर्धृष्टद्युम्नदुःशासनयोश्च युद्धे प्रवृत्ते धृष्टद्युम्नरक्षणार्थं पञ्चालानां गमनादि । नकुलवृषसेनयोर्युद्धं तथा सहदेवोलूकयोर्युद्ध्यमानयोः सहदेवकृतमुलूकस्याश्वनाशनं च । सात्यकिशकुन्योर्युद्ध्यमानयोः सात्यकिना विरथीकृतः शकुनिरपयानं चक्रे । भीमदुर्योधनयोर्युद्ध्यमानयोर्भीमेन विरथीकृतो दुर्योधनस्तत्समीपादपययौ । युधामन्युकृपयोर्युद्ध्यमानयोः कृपेण हतसूतो युधामन्युरपायात् । हार्दिक्योत्तमौजसोर्युद्धे प्रवृत्ते हार्दिक्येन मूर्छां प्रापितमुत्तमौजसं तत्सारथिरपवाहयामास । दुर्योधनं विजित्य गजानीकं निघ्नति भीमे तद्भयाद्गजानां पलायनादि......
- अध्यायः - ६२. अर्जुनगमनानन्तरमुभयसेनयोः सङ्कुले युद्धे प्रवृत्ते सहदेवास्त्रविद्धं दुर्योधनं दृष्टवतः कर्णस्यास्त्रत्यागादि । कर्णयुधिष्ठिरयोर्युद्धं कुर्वतोः कर्णेनोरसि विद्धे युधिष्ठिरे सूतं प्रति याहीत्युक्तवति पञ्चालादय आगत्य धार्तराष्ट्रान्निवारयामासुः.....
- अध्यायः - ६३. केकेयैः सह युद्धं कुर्वन्कर्णस्तेषां पञ्चशतं वीरान्हत्वैकरथेन युधिष्ठिरं प्रत्याजगाम । कर्णबाणेन विरथौ युधिष्ठिरनकुलौ सहदेवरथारूढौ दृष्टवतः कृपाविष्टस्य शल्यस्य कर्णं प्रति वचनम् । अर्जुनेन युद्धं कर्तुं तथा भीमग्रस्तं दुर्योधनं मोचयितुं शल्येन प्रेरिते कर्णे भीमं प्रति गते युधिष्ठिरो जवनैरश्वैः सह देवेन सहापायात् । भीमसाहाय्यार्थं युधिष्ठिरेण प्रेरितौ नकुलसहदेवौ भीमं प्रति जग्मतुः........
- अध्यायः - ६४. आगतेनाश्वत्थाम्ना युद्धं कुर्वन्नर्जुनस्तस्याश्वान् हत्वा कौरवबलं नाशयति स्म । पुनरागतोऽश्वत्थामाऽर्जुनेन हतसूतोऽपि स्वयमेव रश्मीन् गृहीत्वा यदा युयुधे तदाऽर्जुनोऽपि रश्मींश्छित्वा तमपीडयत् । पाण्डवभयात्सैन्यं पलायमानं दृष्टवतो दुर्योधनस्य वाक्यं श्रुत्वा कर्णः शल्यं प्रति स्वपराक्रमप्रशंसावाक्यमुक्त्वा भार्गवास्त्रेण पञ्चालान्नाशयामास........
- अध्यायः - ६५. भार्गवास्त्रभीतं स्वबलं दृष्टवता श्रीकृष्णेन बोधितोऽर्जुनो युधिष्ठिरं द्रष्टुं निर्गतः स्वसैन्यमवलोकयन्भीममागत्य ’अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः । कर्णबाणाभितप्ताङ्गो यदि जीवेत्कथञ्चन’ इति तद्वाक्यं श्रुत्वा युधिष्ठिरं प्रति गन्तुं श्रीकृष्णं प्रेरयामास । एवमर्जुनप्रेरितः श्रीकृष्णो युधिष्ठिरं प्रति जगाम । स्वपादवन्दनं कुर्वतोः कृष्णार्जुनयोः कर्णं हतं मत्वा तावभ्यनन्दद्युधिष्ठिरः........
- अध्यायः - ६६. युधिष्ठिरो ’हतः कर्ण’ इत्याद्युक्त्वा कर्णपराक्रमं वर्णयन् ’स कथं हतस्त्वया' इत्यादि पृष्ट्वा चिन्ताक्रान्तः कर्णकृतपराजयप्रयुक्तं खेदमुद्भाव्य कर्णमरणं निश्चित्य कर्णप्रतिज्ञाकथनपूर्वकं पुनः ’स कथं त्वया हतः' इत्याद्युवाच.....
- अध्यायः - ६७. युधिष्ठिरवाक्यं श्रुत्वाऽर्जुनोऽश्वत्थाम्ना सह कृतं युद्धं कर्णादीनां पराक्रमं च कथयत्कर्णं हन्तुं प्रतिजज्ञे.....
- अध्यायः - ६८. जीवन्तं कर्णं श्रुत्वा क्रुद्धो युधिष्ठिरोऽर्जुनं तिरस्कुर्वंस्तज्जन्मकालभवामाकाशवाणीमनूद्य धिक् ते गाण्डीवादिकमित्युवाच.....
- अध्यायः - ६९. युधिष्ठिरवाक्यं श्रुत्वा तं हन्तुमसिं गृह्णन्तमर्जुनं दृष्ट्वा तं प्रति श्रीकृष्णः ’इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया’ इत्याद्युवाच । अन्यस्मै देहि गाण्डीवमित्यादिना स्वव्रतं कथयन्तमर्जुनं धिक्कृत्य तस्मै धर्मरहस्यं कथयञ्श्रीकृष्णः सत्यानृताभ्यां पुण्यपापविषये बलाकोपाख्यानं कौशिकोपाख्यानं चाकथयत् । धर्मपदार्थमुपदिशन्तं श्रीकृष्णं प्रशंसन्नर्जुनो ’मम व्रतं जानासि’ इत्याद्युवाच । अर्जुनप्रतिज्ञारक्षणार्थमुपायं ब्रुवञ्श्रीकृष्णो 'मानार्हं प्रति त्वमित्युक्ते तस्य मरणम्’ इत्याद्युपदिदेश.......
- अध्यायः - ७०. श्रीकृष्णवाक्यं प्रशस्य युधिष्ठिरं भर्त्सयन्भीमं च प्रशंसन् पुनः परुषवाक्यानि श्रावयित्वाऽनुतप्तोऽर्जुनः पुनरसिं जग्राह । किमिदमित्यादिकृष्णप्रश्नानन्तरम् 'अहं हनिष्ये स्वशरीरमेव’ इत्याद्युक्तवन्तमर्जुनं प्रति जीवतोऽप्यात्मवधोपायं कथयञ्श्रीकृष्ण आत्मप्रशंसां कुरु इत्याद्याह । कृष्णोपदेशेनात्मश्लाघां कृत्वा कर्णवधं प्रतिज्ञाय शस्त्राणि परित्यज्य प्राञ्जलिः सन् युधिष्ठिरं प्रति प्रसीद राजन्नित्याद्युवाच । अर्जुनं प्रति सखेदवाक्यान्युक्त्वा वनाय गन्तुमुद्यन्तं युधिष्ठिरं प्रति श्रीकृष्णः प्रणामपूर्वकं विनयवाक्यान्युक्त्वा कर्णवधार्थं प्रतिजज्ञे । युधिष्ठिरः प्रणतं कृष्णमुत्थाप्यानुनयवाक्यान्यब्रवीत्........
- अध्यायः - ७१. श्रीकृष्णोपदेशात्पादौ गृहीत्वा प्रसीदेत्यादि वदन्नर्जुनो युधिष्ठिरेणोत्थापनालिङ्गनपूर्वकमनुनीतस्तत्समीपे पुनः कर्णवधं प्रतिजज्ञे । श्रीकृष्णवाक्यात्पुनः पादग्रहणादि कुर्वन्तमर्जुनमुत्थाप्य युधिष्ठिरो युद्धार्थमनुज्ञां दत्त्वाऽऽशिषस्तस्मै ददौ.....
- अध्यायः - ७२. रथसज्जीकरणार्थं प्रेरितेन श्रीकृष्णेन सज्जीकृते रथ आरुह्य गच्छन्नर्जुनः स्वशरीरे स्वेदं दृष्ट्वा चिन्तयामास । चिन्तयन्तमर्जुनं प्रशस्य कर्णमपि प्रशंसन्नेवंविधमप्येनं जहीत्युवाच......
- अध्यायः - ७३. पुनरर्जुनं प्रति वदञ्श्रीकृष्णो भीमयुद्धादिकमनूद्य तं प्रशंसन्कर्णनिन्दां विधाय पुनरभिमन्युवधार्थमुपदिश्य कर्णार्णवात्पञ्चालानुद्धरेत्याद्याह स्म.......
- अध्यायः - ७४. कृष्णवाक्येन विशोको हृष्टश्चार्जुनः कर्णवधं प्रतिज्ञाय सक्रोधवाक्यान्युक्त्वाऽऽत्मानं श्लाघयन्भीमं मुमोचयिषुः कर्णशिरो जिहीर्षुश्च प्रययौ.....
- अध्यायः - ७५. कर्णयुद्धश्रवणार्थं धृतराष्ट्रप्रश्ने सञ्जयः पाण्डवसेनासमृद्धिं वर्णयित्वा सङ्कुलं युद्धं वर्णयामास....
- अध्यायः - ७६. कौरवबलैर्युद्धं कुर्वन्भीमः सारथिं प्रति स्वस्य स्वपरज्ञानाभावं कथयित्वा युधिष्ठिरार्जुनयोरदर्शनप्रयुक्तं दुःखं प्रकाशयन्युद्धसामग्रीशेषं च पप्रच्छ । विशोकाख्यसारथिभीमयोः संवादः....
- अध्यायः - ७७. रथप्रेषणार्थमर्जुनेन प्रेरितः श्रीकृष्णो यत्र भीमस्तत्र गच्छामीत्युवाच । कुरुसैन्यमध्ये प्रविश्य युद्धं कुर्वतोऽर्जुनस्य भयात्कौरवसैन्ये पलायिते स सूतानीकं प्रति जगाम । अर्जुनागमनं श्रुत्वा कौरवसैन्यं मर्दयति भीमे तं प्रति दुर्योधनप्रेरितानि सैन्यान्यावव्रुः । भीमनाशितसैन्यसंख्यां कथयन्सञ्जयस्तत्कृतां शोणितनदीं वर्णयामास । भीमस्य कर्म दृष्ट्वा दुर्योधनेन प्रेरितः शकुनिस्तेन सह युद्धं कुर्वंस्तद्बाणेन मूर्छितो धृतराष्ट्रपुत्रेणापवाहितः । तस्मिन्निर्जिते दुर्योधनोऽप्यपयानं चक्रे, तं दृष्ट्वा कुरुसैन्यमपि व्यद्रवत्......
- अध्यायः - ७८. भग्नेषु सैन्येषु दुर्योधनादयः किमब्रुवन्निति धृतराष्ट्रप्रश्ने सञ्जयस्योत्तरम् । सोमकैः सह युद्धं कुर्वन्कर्णः पञ्चालान्प्रति गन्तुं शल्यं संप्रेर्य रथध्वनिना सर्वान् सन्त्रास्य पाण्डवसैन्यं नाशयति स्म । आगताञ्शिखण्डिसात्यकिप्रभृतीन् विमुखीकृत्य पञ्चालादिभिर्युद्ध्यमानस्य कर्णस्य पराक्रमं देवादयः प्रशशंसुः । पाण्डवसेनाभङ्गं दृष्टवतां दुर्योधनादीनां हर्षं तत्कृतपाण्डवसैन्यनाशनं च कथयति स्म सञ्जयः ......
- अध्यायः - ७९. सञ्जयो रणेऽर्जुनप्रवर्तितां शोणितनदीमवर्णयत् । कर्णस्य रथकेतुं दृष्ट्वा श्रीकृष्णं प्रति 'एष केतूरणे पार्थ' इत्याद्युवाचार्जुनः । कर्णसमीपगमनार्थं कृष्णप्रेरितरथोऽर्जुनः कौरवसेनां निर्जयन्नभ्यधात् । अर्जुनरथकेतुं दृष्ट्वा शल्यः कर्णं प्रति ’अयं सरथ आयाति’ इत्याद्युक्त्वाऽर्जुनं प्रति गन्तुं प्रशंसापूर्वकं तं प्रति प्रोत्साहयामास । आत्मश्लाघां कुर्वन्कर्णोऽर्जुनस्याजेयत्वविषयकं शल्यवाक्यं श्रुत्वा खाण्डवदाहाद्यनुवादपूर्वकमर्जुनं कृष्णं च प्रशस्य ’एतौ च हत्वा’ इत्याद्युवाच। अर्जुनः कर्णप्रेरणया वारयितुमागतैः कौरवैः सह युद्धं कुर्वन्नश्वत्थामप्रभृतिभिः सङ्कुलं युद्धं चकार । शिखण्डिप्रभृतयश्च युयुधिरे......
- अध्यायः - ८०. सैन्यसागरमध्यस्थं भीममुज्जिहीर्षुणाऽर्जुनेन कृतं सैन्यनाशादिकं हतसैन्यादिभिर्युद्धभूमिशोभादिकं च कथयति स्म सञ्जयः । कुरुषु भग्नेष्वर्जुनो भीमेन सह सन्मन्त्र्य तदनुज्ञां गृहीत्वाऽग्रे जगाम....
- अध्यायः - ८१. आवरीतुमागतान्संशप्तकान्नवतिवीरान्नित्यार्जुनो गजयोधिभिर्म्लेच्छैः सह युयुधे । अर्जुनसाहाय्यार्थमागतो भीमो गदया कौरवसैन्यं नाशयन्गजानीकं जघान । अर्जुनबाणपीडितानार्तनादं कृत्वा पलायमानान्कौरवानाश्वास्य कर्णः पञ्चालाञ्जगाम.........
- अध्यायः - ८२. पञ्चालादिभिर्युद्धं कुर्वतः कर्णस्य पुत्रे प्रसेने सात्यकिना हते क्रुद्धः स धृष्टद्युम्नपुत्रं जघान । धृष्टद्युम्नपुत्रं हतं दृष्ट्वा श्रीकृष्णं प्रेरयन्नर्जुनः कर्णसमीपं जगाम, तमनु भीमसेनोऽपि । उत्तमौजःप्रभृतिभिः कर्णस्य कृपादिभिः सात्यकेर्दुःशासनेन भीमस्य च युद्धम्..........
- अध्यायः - ८३. सञ्जयकृतं दुःशासनभीमयोर्युद्धवर्णनम् । दुःशासनेन प्रेषितां शक्तिं निहन्तुं भीमेन प्रेषिता गदा तच्छक्तिं भङ्क्त्वा तं मूर्ध्नि ताडयामास । पुनर्भीमप्रेषितया गदया ताडितो दुःशासनो विह्वलः सन्भूमौ पपात । पतितं दुःशासनं दृष्ट्वा पञ्चालादिषु सिंहवन्नदत्सु भीमो रथादवप्लुत्य, द्रौपदीकेशग्रहणादिकं स्मृत्वा क्रुद्धः सन् कर्णादीनाह्वयन् 'निहन्मि दुःशासनमद्य’ इत्याद्युवाच । भीमो दुःशासनं प्रत्याक्षेपवाक्यान्युक्त्वा तद्वक्षः पाटयित्वा पूर्वप्रतिज्ञातं तद्रुधिरपानमकरोत् । गतासु दुःशासनं प्रति क्रोधवाक्यानि ब्रुवन्तं भीमं राक्षसं मत्वा कौरवसैन्यानि पलायनं चक्रुः । भीमो दुःशासनं हत्वा प्रमाणकोट्यां कालकूटभक्षणादिकमनूद्य कौरवानधिक्षिप्य कृष्णार्जुनसमीपे पूर्वसभायां कृतायाः प्रतिज्ञायाः सत्यत्वं कथयामास.......
- अध्यायः - ८४. आवृण्वानान्निषङ्गिप्रभृतीन्दश धृतराष्ट्रपुत्रानवधीद्भीमः । भीमपराक्रमं दृष्ट्वा भीतं कर्णं प्रत्युपदिशतः शल्यस्य वाक्यं श्रुत्वा क्रुद्धो वृषसेनो युद्धार्थं भीमं प्रति जगाम । नकुलवृषसेनयोर्युद्ध्यमानयोर्विरथे नकुले भीमरथारूढे उभाभ्यां सह वृषसेनस्य युद्धम् । वृषसेनेन युद्धं कर्तुमर्जुनं प्रति भीमस्योक्तिः.........
- अध्यायः - ८५. उभयसैन्ययोस्तुमुले युद्धे प्रवृत्तार्जुनादीन्वृषसेने बाणान्वर्षति पीडितान्नकुलादीन्दृष्ट्वा धावतार्जुनेन सह तस्य युद्धम् । क्रुद्धोऽर्जुनो दुर्योधनादिसहितं कर्णं प्रति “भवत्समक्षमेनं हनिष्यामि” इत्याद्युक्त्वा कर्णादिषु पश्यत्सु वृषसेनं जघान । पुत्रवधं दृष्ट्वाऽभितप्तः कर्णः कृष्णार्जुनौ प्रत्यधावत्.....
- अध्यायः - ८६. आगच्छन्तं कर्णं दृष्ट्वा श्रीकृष्णोऽर्जुनं प्रति ’अयं सरथ आयाति' इत्याद्युक्त्वा कर्णेन सह युद्धं कर्तुं तं प्रशशंस । कर्णस्य वधं प्रतिज्ञाय तं प्रति गन्तुमर्जुनेन प्रेरितः कृष्णो हयान्संचोद्य क्षणेन तत्समीपमाजगाम ...
- अध्यायः - ८७. पुत्रवधाभितप्तः कर्णोऽर्जुनमाहूय तदभिमुखं ययावित्याह सञ्जयः । कर्णार्जुनसमागमं दृष्ट्वा सैन्यानां विस्मयादिकमुभयसैन्ययोर्वाद्यवादनं कर्णार्जुनयो रूपं पराक्रममुभयोः साहाय्यार्थमुभयसैन्ययोरागमनं चाह सञ्जयः । कर्णार्जुनसमागमदर्शनार्थमागतानां देवादीनां पक्षप्रतिपक्षभावे सतीन्द्रसूर्ययोर्विवादः । उभयोः समागमे त्रिलोक्याः कम्पादिकं दृष्ट्वा देवेषूभयोर्जयसाम्यार्थं ब्रह्माणं प्रति प्रार्थयत्सु सत्स्विन्द्रेणार्जुनजये प्रार्थिते ब्रह्मेशानावर्जुनस्य विजयध्रौव्यमभिधाय कृष्णार्जुनौ प्रशशंसतुः । इन्द्रवाक्यश्रवणेन सर्वभूतानां विस्मयादिकं, कर्णार्जुनध्वजवर्णनपूर्वकं मिथो युद्धं चाभ्यधात्सञ्जयः । कर्णेन, मयि हते त्वं किं करिष्यसीति पृष्टः शल्यः कृष्णार्जुनवधं प्रतिजज्ञे । एवमेवार्जुनेन श्रीकृष्णः पृष्टः । ततः 'पतेद्दिवाकरः स्थानात्' इत्यादिवाक्यं वदति श्रीकृष्णेऽर्जुन आत्मानं श्लाघयामास.......
- अध्यायः - ८८. युद्धदर्शनार्थं देवनागासुरादिष्वागतेषूभयसैन्ययोर्वादित्रादीनि वादयतोः कर्णार्जुनौ स्वस्वास्त्रैर्दिगादिकं प्रावृणुताम् । बाणान्वर्षतां दुर्योधनादीनां धनुरादिष्वर्जुनेन छिन्नेष्वश्वत्थामा दुर्योधनं प्रति पाण्डवैः शमं कुर्वित्युवाच । दुर्योधनोऽश्वत्थामवाक्यमङ्गीकृत्य कर्णं प्रशंसन्सैन्यमादिदेश......
- अध्यायः - ८९. सञ्जयः कर्णार्जुनयोः समागमं, तत्काले तयो रूपादिकमुभयपक्षपातिनां वाक्यानि, तयोर्युद्धारम्भं च कथयामास । पञ्चालादिभिर्युद्धं कुर्वतः कर्णस्य पराक्रमं दृष्ट्वा पूर्वं सभायामुक्तं कर्णवाक्यं स्मृत्वा भीमे 'एनं जहि' इत्युक्तवति श्रीकृष्णोऽपि तथैवाब्रवीत् । अर्जुनेन श्रीकृष्णमामन्त्र्य प्रयुक्ते ब्रह्मास्त्रे कर्णेन निवारिते सति क्रुद्धेन भीमेन प्रेरितोऽर्जुनस्तेन सह तुमुलं युद्धमकरोत् । अर्जुनबाणपीडितेषु कौरवेष्वर्जुनं हन्तुं प्रेरयत्सूभयोः परस्परं प्रति बाणान्वर्षतोः सतोरर्जुनास्त्रभयात्कर्णं त्यक्त्वा कौरवाः पलायनं चक्रुः......
- अध्यायः - ९०. "सञ्जयः कौरवप्रयाणमुभयोर्मध्ये क्वचित्कस्यचिदाधिक्यमाकाशस्थितैः कृतमुभयोः प्रशंसनं चाचकथत् । अर्जुनेन कृतवैरोऽश्वसेननामा नागः पातालादागत्य कर्णेनाज्ञातस्तत्तूणीरे तस्थौ । शराभितप्तः कर्णोऽर्जुनवधार्थं बहुदिनपर्यन्तं पूजितं सर्पमुखमश्वसेनेन कृतप्रवेशं बाणं धनुषि सन्दधे । कर्णस्य धनुषि प्रविष्टं नागं दृष्ट्वा देवादिषु हाहाकारं कुर्वत्सु 'हतोऽसि फाल्गुन' इत्युक्त्वा तं बाणं मुमोच कर्णः । कर्णसन्धितं बाणं दृष्ट्वा पूर्वमेव श्रीकृष्णेन पृथिव्यां रथे मज्जिते सति स बाणोऽर्जुनस्य किरीटं चिच्छेद । पुनरागतोऽश्वसेनस्तूर्णं प्रविशन्कर्णेन प्रत्याख्यातः स्वयमेव घोरं रूपं कृत्वार्जुनं हन्तुं प्रययौ । आगच्छन्तं नागं दृष्ट्वा तन्नाशं कर्तुमादिशता कृष्णेन तत्प्रत्यभिज्ञायां दत्तायामश्वसेनं नाशयति स्मार्जुनः । कर्णार्जुनयोः परस्परं बाणान्वर्षतोर्बाणप्रहारेण मोहितं कर्णं प्रति बाणांस्त्यक्तुमनिच्छन्नप्यर्जुनः श्रीकृष्णवाक्यात्पुनर्बाणान्वर्ष ।धैर्यं धृत्वा बाणान्वर्षतः कर्णस्य भार्गवशापादस्त्रविस्मरणमभूद्ब्राह्मणशापाद्रथचक्रं च भूमौ ममज्ज । पुनरर्जुने बाणान्वर्षति चक्रमुद्दिधीर्षुः कर्णो युद्धधर्मं कथयन्मुहूर्तं प्रतिपालयेति तमुवाच......
- अध्यायः - ९१. श्रीकृष्णः परुषवाक्यानि वदन्यदा द्रौपदीवस्त्रहरणाद्यनूद्य 'क्व ते धर्मस्तदा गतः' इत्याद्युक्तवांस्तदा सलज्जः कर्णो निरुत्तरो बभूव । त्वरां कर्तुं श्रीकृष्णे प्रेरयति पुनरुभयोर्युद्धे प्रवृत्ते मोहितमर्जुनं दृष्ट्वा चक्रोद्धारणार्थं यत्नं कुर्वति कर्णे लब्धसंज्ञोऽर्जुनस्तस्य रथध्वजं चिच्छेद । कर्णवधार्थमर्जुनेन धनुषि संहतस्य शरस्य प्रभामर्जुनशपथं चाकथयंस्तेन कृतं कर्णशिरश्छेदनं, पाण्डवानां शङ्खादिवादनं, छिन्नमस्तकस्य कर्णशरीरस्य शोभां चाभ्यधात्सञ्जयः। कर्णे हते शल्ये च प्रतिनिवृत्ते कौरवाः पलायनं चकुः......
- अध्यायः - ९२. सञ्जयः शल्यस्य गमनं दुयोंधनादीनां शोकादिकं भीमादीनां नादेन रोदस्योः कम्पनं दुःखितदुर्योधननिकटे शल्यवाक्यं च कथयति स्म.......
- अध्यायः - ९३. कर्णार्जुनयुद्धे कुरुसृञ्जयानां रूपं कीदृगिति धृतराष्ट्रप्रश्ने सञ्जयः कुरुपाण्डवयोर्बलक्षयं कथयति स्म । कर्णे हते कौरवबले पलायमाने शोकाकुलो दुर्योधनः शल्यं प्रति प्रागल्भ्यगर्भं वाक्यमुवाच । भीमो गदायुद्धं कुर्वन्गदया पञ्चविंशतिसहस्रं सैनिकाञ्जघान । आयान्तमर्जुनं दृष्ट्वा कौरवेषु पलायमानेषु संकुलयुद्धे च प्रवृत्ते स्वसैन्यं भज्यमानं दृष्ट्वा पाण्डवैः सह युद्ध्यमानो दुर्योधनो योधान्प्रत्युवाच... ...
- अध्यायः - ९४. दुर्योधनेन परावर्त्यमानं सैन्यं दृष्ट्वा शल्यस्तं प्रति वदन्वलक्षयादिकं कथयित्वा हतैर्नरादिभिरगम्यरूपां पृथ्वीं वर्णयित्वा युद्धावहारं कुर्वित्याह । द्रोणिप्रभृतिभिर्दुर्योधनस्याश्वासने कृतेऽर्जुनभीतानां कौरवाणां शिबिरगमनादि । सञ्जयो मृतस्य कर्णस्य शरीरप्रभां कथयित्वा तं प्रशंसन् नद्यादीनां प्रस्रवणाभावादिकं कृष्णार्जुनयोः शङ्खध्वनिं तयो रूपं च वर्णयामास.......
- अध्यायः - ९५. अर्जुनभयात्कौरवसैन्येषु पलायमानेषु तद्दिवसीययुद्धावहारे कृते कृपवर्मादयः स्वस्वशिबिराणि जग्मुः.......
- अध्यायः - ९६. हृष्टः श्रीकृष्णोऽर्जुनं प्रति 'हतो वज्रभृता वृत्रस्त्वया कर्णो धनञ्जय’ इत्याद्युक्त्वा सैनिकान्प्रति च 'परानभिमुखा यत्तास्तिष्ठध्वम्' इत्याद्युक्त्वा युधिष्ठिरं प्रति गत्या अर्जुनेन सह तत्पादवन्दनं कृत्वा च कर्णवधादिवृत्तान्तं कथयति स्म । हृष्टो युधिष्ठिरः श्रीकृष्णं प्रति ’त्वया सारथिना पार्थो यत्नवानाहनच्च तम्' इत्याद्युक्त्वा कृष्णार्जुनौ स्तुत्वा च युद्धभूमिदर्शनार्थं जगाम । रणे शयानं कर्णं दृष्ट्वा श्रीकृष्णं प्रति ’अद्य राजाऽस्मि गोविन्द’ इत्याद्युवाच युधिष्ठिरः । हृष्टा नकुलादयः कृष्णार्जुनौ स्तुत्वा स्वस्वशिबिराणि जग्मुः । जनमेजयं प्रति वैशम्पायनः कर्णनिधनप्रयुक्तं धृतराष्ट्रविलापादिकं, कर्णार्जुनयुद्धश्रवणफलं, कर्णपर्वश्रवणफलं च कथयामास...
कर्णपर्व