- १ . शल्यवधपर्व
- अध्यायः - १. कर्णे निपातितेऽल्पावशिष्टाः कुरवः किमकुर्वन्निति धृतराष्ट्रप्रश्ने तदुत्तरं वदन्वैशम्पायनो दुर्योधनस्य शिबिरगमनादिकं, शल्यं सेनापतिं कृत्वा युद्धाय निर्गमनं, युधिष्ठिरकृतशल्यवधादिकं च कथयामास । दुःखितः सञ्जयः पुरं प्रविश्य धृतराष्ट्रं प्रत्यनुतापवाक्यानि वदन्शल्यादीनां दुर्योधनस्य च नाशं कथयंस्तरपक्ष्याणामश्वत्थामकृपवर्मणां पाण्डवपक्षीयाणां पाण्डवकृष्णसात्यकीनां च शेषमभिदधाति स्म । सञ्जयवाक्येन धृतराष्ट्रादिषु मूर्छितेषु लब्धसंज्ञो धृतराष्ट्रो विदुरं प्रति ’विद्वन्क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ’ इत्याद्युक्त्वा पुनर्मुमूर्छ । राजानमातुरं दृष्ट्वा सञ्जयादिषु रूदत्सु पुनर्लब्धसंज्ञस्य धृतराष्ट्रस्य विदुरं प्रति स्त्रीणां विसर्जनार्थमाज्ञाकरणादि......
- अध्यायः - २. दुर्योधनस्य नाशं श्रुत्वा तद्वाक्यं भीमादीनां च वधमनूद्य विलपन् धृतराष्ट्रः ’सोऽहं वनं गमिष्यामि’ इत्याद्युक्त्वा पुनर्दुर्योधनादिवधमनूद्य विललाप । शोकसंतप्तो विलपन्धृतराष्ट्रः सञ्जयं प्रति पुनः ’को वा मुखमनीकानाम्’ इत्यादिकं पप्रच्छ.......
- अध्यायः - ३. कौरवाणां क्षयं कथयन्सञ्जयः कर्णे हते कौरवाः कर्तव्यमूढाः सन्तः सर्वत्र भीमार्जुनौ पश्यतोऽन्योन्यं निघ्नन्तः पलायनपरा बभूवुरित्याद्याह । भीमभयात्सैन्ये द्रवति सति प्रेरितेन सारथिनाऽऽनीतं रथमारुह्य पञ्चविंशतिसहस्रसंख्यैः पदातिभिः सह भीमादिभिर्योद्धुमाजगाम दुर्योधनः । कौरवसैन्यैः सह युद्ध्यमानयोः पार्षतभीमयोर्भीमो गदामादाय रथादवप्लुत्य पञ्चविंशतिसहस्रवीरान्हत्वाऽन्यानपि जघान । उभयसैन्ययोः सङ्कुलयुद्धे प्रवृत्ते पाण्डवान्योद्धुमाह्वयन्पलायमानं कौरवबलं दुर्योधन आश्वासयामास........
- अध्यायः - ४. रणभूमौ पतितान्रथादीन् दृष्ट्वा विमुखं दुर्योधनं प्रति कृपाविष्टः कृपोऽर्जुनादीन्प्रशशंस | कृपः पुनः 'क्व नु ते सूतपुत्रोऽभूत् क्व नु द्रोणः सहानुगः । अहं क्व च क्व चात्मा ते हार्दिक्यश्च तथा क्व नु’ इत्याद्युक्त्वाऽर्जुनस्याजेयत्वं कथयन्सन्धिकरणमुपदिदेश.....
- अध्यायः - ५. कृपवाक्यं श्रुत्वा दुःखितो दुर्योधनो ’यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम् । कृतं च भवता सर्वं प्राणान्संत्यज्य युद्ध्यताम् ।’ इत्याद्युक्त्वा सन्धिमनिच्छन्क्षत्रियस्य युद्धमरणं कीर्त्यावहमिति वदन् भीष्मादिप्राप्तमार्गस्य श्रेयस्त्वं जगाद । एतद्दुर्योधनवाक्यं श्रुत्वा सर्वे क्षत्रियास्तदभिनन्दन्त । ऊनद्वियोजने गत्वाऽरुणासरस्वत्यां स्नानपानादि विधाय पुनर्युद्धाय सज्जा बभूवुः........
- अध्यायः - ६. पुनर्युद्धोद्यतेषु योधेषु शल्यसमक्षं 'सेनापतिं कृत्वा योद्धुमर्हसि’ इत्याद्युक्तवत्सु दुर्योधनोऽश्वत्थामानं प्रति कः सेनापतिर्भवेदिति पप्रच्छ । शल्यः सेनापतिः कर्तव्य इत्यश्वत्थामवाक्यं श्रुत्वा दुर्योधनेन प्रार्थितः शल्यस्तदङ्गीकार.......
- अध्यायः - ७. ’यावेतौ मन्यसे कृष्णौ रथस्थौ रथिनां वरौ । न मे तुल्यावुभावेतौ वाहुवीर्ये कथञ्चन' इत्यादिकं शल्यस्यात्मश्लाघावाक्यं श्रुत्वाऽभिषिक्ते तस्मिंस्तं प्रशंसन्तो योधाः सिंहनादादि चक्रुः । कौरवाणां शब्दं श्रुत्वा युधिष्ठिरं प्रति ’त्वमेवैनं जहि’ इत्याद्युक्त्वा श्रीकृष्णः शिबिरं जगाम.......
- अध्यायः - ८. ।। अष्टादशदिवसयुद्धम् ।। प्रभाते दुर्योधनेन प्रेरिता योधा ’न न एकेन योद्धव्यम्’ इत्यादि समयं कृत्वा शल्यं पुरस्कृत्य युद्धाय निर्जग्मुः । शल्यः कथं हत इति धृतराष्ट्रप्रश्ने शल्ययुद्धवृत्तान्तं कथयंस्तत्कृतं सर्वतोभद्रव्यूहं कथयति स्म सञ्जयः । धृष्टद्युम्नादिषु शल्यानीकं प्रति गतेषु सेनावृतो युधिष्ठिरः शल्यं जगामार्जुनादयश्च कृतवर्मादीन्प्रति । कुरुपाण्डवयोरशिष्टबलशुश्रूषया धृतराष्ट्रप्रश्ने सञ्जय उभयोरवशिष्टबलसंख्यां कथयति स्म.......
- अध्यायः - ९. कुरुसृञ्जयानां सङ्कुलयुद्धे प्रवृत्ते भीमार्जुनौ योधान्मोहयित्वा शङ्खवादनादि चक्रतुः, पाण्डवशरपीडिता योधाश्च प्रदुद्रवुः.......
- अध्यायः - १०. प्रभग्नं बलं दृष्ट्वा शल्यः सारथिं प्रेरयित्वा युधिष्ठिरं प्रति जगाम । युधिष्ठिरं प्रति गच्छन्तं शल्यं दृष्ट्वा योधेषु पुनरागतेषु सत्सु नकुलश्चित्रसेनं जघान । नकुलस्य सुषेणसत्यसेनाभ्यां कर्णपुत्राभ्यां युद्धे प्रवृत्ते नकुलः सत्यसेनं जघान । भ्रातृवधं दृष्ट्वा युद्ध्यमानेन सुषेणेन विरथीकृते नकुले सुतसोमरथमारूढे उभाभ्यां युद्धं कुर्वन् सुषेणो नकुलेन हतः । तत उभयोः सङ्कुलं युद्धम्.....
- अध्यायः - ११. सञ्जय उभयसेनयोर्युद्धं कथयित्वा पाण्डवान्प्रत्यागत्य युद्धं कुर्वति शल्ये जातानि दुर्निमित्तानि कथयति स्म । शल्ययुधिष्ठिरयोर्युद्धे प्रवृत्ते युधिष्ठिरसाहाय्यार्थं भीमादीनामागमनं शल्यसाहाय्यार्थं कृतवर्मादीनां च । उभयसैन्ययोः सङ्कुलयुद्धे प्रवृत्ते गदया युद्धं कुर्वन्भीमः शल्यस्याश्वान्सारथिं च हतवान् ।........
- अध्यायः - १२. सारथिं पतितं दृष्ट्वा गदां गुहीत्वा भीमेन सह गदायुद्धं कुर्वन्शल्यो भीमगदाप्रहारपीडितः कृपेणापवाहितः । पाण्डवान्प्रत्यागतेषु कौरवेषु दुर्योधनेन चेकिताने हते पुनः शल्ययुधिष्ठिरयोर्युद्धम्।......
- अध्यायः - १३. सञ्जयो युधिष्ठिरे शल्येन पीडिते सात्यक्यादीनामागमनं, भीमादिभिर्युद्धं कुर्वतः शल्यस्य पराक्रमदर्शनेन दुर्योधनस्य पाण्डवपराजयप्रयुक्तं सन्तोषं च कथयति स्म ।.........
- अध्यायः - १४. द्रौण्यर्जुनयोर्युद्धं कथयन्नर्जुनकृतं कौरवबलनाशनादिकं वर्णयामास । द्रौणिः पाञ्चाल्येन सुरथेन युद्धं कुर्वंस्तं हत्वा पुनरर्जुनं प्रति गत्वा तेन सह युयुधे....
- अध्यायः - १५. सञ्जयो धृष्टद्युम्नदुर्योधनयोर्युद्धां कथयित्वा युधिष्ठिरादिभिर्युद्धं कुर्वतः शल्यस्य सात्यकिना सह युद्धादिकं शशंस.......
- अध्यायः - १६. मद्रराजं पुरस्कृत्य पाण्डवान्प्रत्यागतेषु कौरवेषु कृपादीन्प्रत्यर्जुने बाणान्वर्षत्युभयसैन्ययोः सङ्कुलं युद्धम् । शल्यपराक्रमं दृष्ट्वा क्रुद्धो युधिष्ठिरोऽर्जुनादीनाहूय तत्समक्षं शल्यहननादिकं प्रतिजज्ञे । पञ्चालादिषु शङ्खनादनादिकं कुर्वत्सु शल्यं प्रत्यागत्य युधिष्ठिरस्य तुमुलं युद्धम् । भीमदुर्योधनयोर्युद्ध्यमानयोर्भीमेन दुर्योधनं मोहयित्वा तत्सारथौ हते साहाय्यार्थं द्रौण्यादय आजग्मुः । कौरवसैन्यं नाशयता युधिष्ठिरेण शल्यस्याश्वादिषु हतेषु तं गृहीत्वाऽश्वत्थाम्न्यपयाते मुहूर्तेन रथान्तरमारुह्य शल्यः पुनराजगाम.......
- अध्यायः - १७. सञ्जयो युधिष्ठिरादिभिः सह शल्यस्य युद्धं वर्णयति स्म । युधिष्ठिरो गोविन्दवाक्यं विचिन्त्य शल्यवधार्थं शक्तिं जग्राह । सञ्जयो युधिष्ठिरगृहीतायाः शक्तेः प्रभावं वर्णयति स्म । शक्तिं प्रक्षिप्य शल्यं हत्वा कौरवसैन्यं नाशयन्युधिष्ठिरो भ्रातृवधं दृष्ट्वाऽऽगतं तद्भ्रातरमपि जघान । शल्यानुजं हतं दृष्ट्वा पलायमाने कौरवसैन्ये कृतवर्मसात्यक्योर्युद्ध्यमानयोः सात्यकिना विरथीकृतं कृतवर्माणं स्वरथ आरोप्यकृपोऽपययौ । पराङ्मुखं स्वबलं दृष्ट्वा दुर्योधन आगते पुनरागतं कृतवर्माणं युधिष्ठिरबाणपीडितं गृहीत्वाऽश्वत्थाम्न्यपयाते पाण्डवाः शङ्खवादनादि चक्रुः ...
- अध्यायः - १८. युधिष्ठिरं हन्तुं शल्यानुगेषु सप्तशतवीरेष्वागतेषु युधिष्ठिरं रक्षितुमर्जुनादिषु चागतेषु पञ्चालादयः शल्यबलं नाशयामासुः । बलक्षयं दृष्ट्वा शकुनिना प्रेरिते दुर्योधने युद्धार्थमागते सङ्कुलं युद्धम्......
- अध्यायः - १९. शल्ये हते कौरवाणां विमुखत्वादिकं, पाण्डवानामभिगमनादिकं, परस्परालापादिकं चाकथयत्सञ्जयः । पलायमानान्योघान्दृष्ट्वा दुर्योधनः सारथिं संप्रेर्यैकविंशतिसहस्रपदातिभिर्भीमं प्रत्याजगाम । भीमेन तावत्सु पदातिषु हतेषु पलायनोद्यतानि सैन्यानि दुर्योधनवाक्येन पराववृतिरे.....
- अध्यायः - २०. पाण्डवान्प्रत्यागते शाल्वे तद्भयात्सैन्येषु पलायमानेषु कौरवाः शङ्खादिवादनं चक्रुः । करवशङ्खध्वानिं श्रुत्वा आगतो धृष्टद्युम्नः शाल्वेन युद्धं कुर्वन्यदा तद्गजेनातिपीडितस्तदा भीमादिष्वागतेषु गदया शाल्वगजमनाशयत् । सात्यकिश्च भल्लेन शाल्वं जघान........
- अध्यायः - २१. सैन्यभङ्गं दृष्ट्वा आगतं कृतवर्माणं सात्यकिना विरथीकृतं गृहीत्वा कृपोऽपयानं चक्रे । कौरवबले पलायमाने दुर्योधनः पाण्डवान्प्रति जगाम......
- अध्यायः - २२. सञ्जयो युधिष्ठिरादिभिर्दुर्योधनस्य युद्धमश्वत्थामभीमयोः शकुनियुधिष्ठिरयोः कृतवर्मादिभिः सात्यक्यादीनां च युद्धं कथयामास.......
- अध्यायः - २३. सञ्जयः कौरवसैन्यभङ्गं, युधिष्ठिरस्य युद्धं, तत्साहाय्यार्थं शिखण्ड्यादीनामागमनमुभयोः सङ्कुलयुद्धे प्रवृत्ते जातान्दैविकाद्युत्पातांश्च कथयामास । सैनिकान्परावर्त्य युद्धं कुर्वतः शकुनेर्बाणैर्भग्नं स्वबलं दृष्ट्वा युधिष्ठिरेण प्रेरितः सहदेवः शकुनिं प्रति जगाम । शकुनिसैन्यैः सह सहदेवसैन्यानां युद्धे प्रवृत्ते पाण्डवीयां सेनां निघ्नञ्शकुनिर्धृष्टद्युम्नमाजगाम । तत उभयोः सङ्कुलं युद्धं बभूव.....
- अध्यायः - २४. पाण्डवबलैः कौरवबले नाश्यमानेऽवशिष्टैः सप्तशताश्वः सहागतः शकुनिर्योधान्प्रति 'क्व नु राजा' इत्यादि पृष्ट्वा दुर्योधनं जगाम । दुर्योधनं प्रति शकुनिनोक्तं वाक्यं श्रुत्वाऽऽगतानुद्यतकार्मुकान्योधान्दृष्ट्वाऽर्जुनः श्रीकृष्णं प्रति दुर्योधनादीन्निन्दन्याहीत्युवाच। अर्जुनो दुर्योधनसैन्यं प्रविश्य बाणैर्दिश आच्छादयंस्तन्नाशयामास......
- अध्यायः - २५. युद्धं कुर्वत्यर्जुने तद्भयात्कौरवसैन्ये पलायमाने धृष्टद्युम्नदुर्योधनयोर्युद्ध्यमानयोर्विरथो दुर्योधनोऽश्वमारुह्यापयानं चकार । भीमयुधिष्ठिरादिषु गजानीकं निघ्नत्सु दुर्योधनमपश्यतां कौरवाणां भाषणानि श्रुत्वाऽश्वत्थामादयः शकुनिं जग्मुः । कौरवबलं नाशयतां धृष्टद्युम्नादीनां सङ्कुले युद्धे प्रवृत्तेऽश्वत्थामादयो दुर्योधनमन्वेषयामासुः........
- अध्यायः - २६. अर्जुनादिषु गजानीकं निघ्नत्सु समागतैर्दुर्मर्षणप्रभृतिभिरेकादशभिर्दुर्योधनभ्रातृभिर्युद्धं कुर्वन्भीमः क्रमेण सर्वानवधीत् । श्रुतवर्मवधानन्तरं कौरवकृतं भीमावरणं, भीमहतानां योधानां संख्यादिकं चाभिदधाति स्म सञ्जयः.......
- अध्यायः - २७. दुर्योधनसुदर्शनयोर्भ्रात्रोरश्वसेनायां स्थितयोर्दुर्योधनं दृष्ट्वाऽर्जुनेन श्रीकृष्णवाक्यं श्रुत्वा प्रतिवदता, अवशिष्टकौरवबलसंख्यां कथयित्वा तद्वधे प्रतिज्ञाते श्रीकृष्णो रथं प्रेषयामास । सुदर्शनादिभिर्भीमादीनां युद्धे प्रवृत्ते सुशर्मार्जुनयोर्युद्ध्यमानयोरर्जुनः सुशर्माणं तदीयानन्यांश्च जघान । सुदर्शनादिभिर्युद्धं कुर्वन्भीमः सुदर्शनं तत्पदानुगांश्च निजघान.....
- अध्यायः - २८. सञ्जयः सहदेवं प्रति शकुनेरागमनं, भीमसहदेवाभ्यामुलूकस्य युद्धं, हतसैन्यैर्युद्धभूम्याच्छादनं चाभिदधाति स्म । सहदेवं शकुनिबाणपीडितं दृष्ट्वा कौरवसैन्यं निवारयति भीमे तद्भयाद्द्रवत्सु योधेषु दुर्योधनवाक्यात्प्रत्यागतेषु सत्सूभयोः सङ्कुलं युद्धम् । सहदेवेनोलूके हते विदुरवाक्यं स्मरन्शकुनिः सहदेवेन युयुधे । भीतं शकुनिं दृष्ट्वा कौरवेषु पलायमानेषु सहदेवो द्यूतवृत्तमनूद्य परुषमुक्त्वा तं जघान । हतं शकुनिं दृष्टवतां कौरवाणां पलायनं, पाण्डवानां शङ्खवादनादि च.......
- २. ह्रदप्रवेशपर्व
- ३. गदापर्व
शल्यपर्व