Mahabharata
About
.
Volumes
.
Contact
सौप्तिकपर्व
१.सौप्तिकपर्व
अध्यायः - १
. अश्वत्थामादीनां शिबिराभ्याशगमनादिकं शशंस सञ्जयः । विलपन्धृतराष्ट्रोऽधर्मेण हते दुर्योधने कृतवर्मादयः किमब्रुर्वन्निति पप्रच्छ। पाण्डवेभ्यो भीताः कृतवर्मादयो वनं गत्वा न्यग्रोधमूल उपविष्टाः सन्तो वृत्तं कुरुपाण्डवक्षयं चिन्तयामासुः । कृपकृतवर्मर्णोर्निद्रितयोर्जगारितोऽश्वत्थामा तस्मिन्नेव वने बहुवायसावृते न्यग्रोधे वायसेषु सुप्तष्वेकेनोलूकेनागत्य कृतं बहुवायसनाशादिकं ददर्श । उलूककृतं सोपधं कर्म दृष्ट्वा चिन्तयन्नश्वत्थामा रात्रौ सुप्तानां पाण्डवानां नाशकरणं निश्चित्य कृपकृतवर्मणौ प्रबोध्य तौ प्रति 'हतो दुर्योधनो राजा' इत्याद्युवाच -
अध्यायः - २
. अश्वत्थामानं प्रत्युपदेशवाक्यानि कथयन्कृपो दुर्योधनं विनिन्दन् 'धृतराष्ट्रादीन्प्रति गत्वा ते यथा कथयिष्यन्ति तथा कुर्मः' इत्याद्याह -
अध्यायः - ३
. कृपवाक्यं श्रुत्वा शोचन्द्रौणिः कृपकृतवर्माणौ प्रति 'पुरुषे पुरुषे बुद्धिः' इत्याद्युक्त्वा क्षत्रधर्मावलम्बिनमात्मानं विनिन्दन्सुप्तान्पञ्चालादीन्हनिष्यामीत्याह स्म -
अध्यायः - ४
. ’अद्य रात्रौ विश्रमस्व' इत्याद्युक्त्वा प्रशंसति कृपेऽश्वत्थामा क्रुद्धः सन्दुर्योधनोरुभङ्गमनूद्यात्मानं विकत्थयामास....
अध्यायः - ५
. सप्तानां विश्वस्तानां पञ्चालादीनां वधनिवारणायोपदिशति कृपेऽश्वत्थामा पाण्डवकृतान्याय्यंवधमनूद्य तेषां नाशार्थं निर्गतः सन्स्वाभिप्रायं कथयामास । कृपकृतवर्मभ्यामनुगतोऽश्वत्थामा पाण्डवशिबिरद्वारि तस्थौ.......
अध्यायः - ६
. द्रौणिमवस्थितं दृष्ट्वा कृपकृतवर्माणौ किमकुर्वतामिति धृतराष्ट्रप्रश्ने कृपकृतवर्माणावामन्त्र्य गच्छन्द्रौणिः शिबिरद्वारमाश्रित्य तत्र स्थितं रूपान्तरधारिणं महादेवं ददर्श । अश्वत्थामा स्वप्रेरितेष्यस्त्रेषु महादेवेन ग्रस्तेषु निरायुधः कृपवाक्यमनुस्मृत्य 'ब्रुवतामप्रियं पथ्यम्’ इत्याद्युक्त्वा महादेवं शरणं गन्तुं चिन्तयामास.....
अध्यायः - ७
. रथादवतीर्य महादेवं स्तुवत्यश्वत्थाम्नि तत्समीपे काञ्चनवेदिः प्रादुरभूत्तत्स्थाश्चोत्पन्ना महाभूतगणास्तं प्रत्यभाषन्त । धावतो भूतगणान्दृष्ट्वाऽप्यव्यथमानोऽश्वत्थामा स्वदेहमेवोपहारत्वेन दास्यामि इति निश्चित्य 'इममात्मानमद्याहम्' इत्याद्युवाच महादेवं प्रति । ततो महादेवोऽश्वत्थामानं प्रति 'सत्यशौचार्जवत्यागैः' इत्याद्युक्त्वा तच्छरीरम् आविश्य तस्मै खड्गं च ददौ......
अध्यायः - ८
. अश्वत्थाम्नि प्रयाते कृपकृतवर्माणौ भयार्तौ न व्यवर्तेतां कच्चिदित्यादिके धृतराष्ट्रप्रश्ने सञ्जयस्तयोः शिबिरद्वारस्थितिं कथयति स्म । द्वारस्थितौ कृपकृतवर्माणौ प्रति 'शिबिरात्पलायमानो न कञ्चिन्मोचनीयः' इत्यादिश्य शिबिरं प्रविष्टोऽश्वत्थामा प्रथमं धृष्टद्युम्नशिबिरं प्रविश्य पादताडनेन तमबोधयत् । उत्तिष्ठन्तं घृष्टद्युम्नं पाणिभ्यां पिंषञ्शस्त्रेण मां जहि इति तेनः प्रार्थितोऽप्यश्वत्थामा 'आचार्यपातिनां लोका न सन्ति शुभाः’ इत्याद्युक्त्वा तं पशुवन्मारयित्वा शिबिरान्तरं जगाम । एवमुत्तमौजसं, युधामन्युं च हत्वा सुप्तान्योधान्प्रति धावन्नश्वत्थामा द्रौपदीपुत्रान्दृष्ट्वा बाणान्वर्षतस्तानपि हत्वा शिखण्डिनं जघान । सञ्जयोऽश्वत्थामकृतं पाण्डवीयबहुसैन्यानां नाशनं निद्रान्धानां तेषां व्याकुलत्वं द्वास्थादीनां पलायनादिकं चाचष्टा । द्वारि स्थितौ कृपकृतवर्माणौ पलायमानान् हत्वा शिबिरस्य प्रदेशत्रयेऽग्निं ददतुस्तस्मिन्नेव प्रकाशेऽश्वत्थामा खड्गेन बहून् वीरान्नाशयामास सञ्जयो हतैर्वीरैः पृथिव्यावरणं भयार्यानामाक्रोशादिकं, रुधिरेण धरित्रीरजःशान्तिं, नरमांसभोजनार्थं रक्षः पिशाचानामागमनं चाब्रवीत् । अश्वत्थामा शिबिरस्थान्सर्वान्हत्वा बहिरागत्य कृपकृतवर्माणौ प्रति तत्सर्वं कथयामास । द्रौणिः पूर्वमेवैतत् कुतो नाकरोदिति धृतराष्ट्रप्रश्ने भयात्पाण्डवानां मम सान्निध्ये कृतवानेतदित्याद्याह सञ्जयः । कृपादीनां परस्परालिङ्गनानन्तरमश्वत्थामा स्वकीयं कार्तार्थ्यं कथयति स्म .....
अध्यायः - ९
. सञ्जयो दुर्योधनसमीपे कृपादीनामागमनं तात्कालिकीं दुर्योधनस्यावस्थां चाकथयत् । दुर्योधननिकटे कृपविलापानन्तरमश्वत्थामा विलापपूर्वकमर्जुनं निन्दन्दुर्योधनं प्रशस्यात्मानमपि निन्दन्सौप्तिके धृष्टद्युम्नादीनां नाशवृत्तान्तं कथयति स्म । द्रौणिवाक्यश्रवणानन्तरं तत्प्रशंसावाक्यं ब्रुवतो दुर्योधनस्य प्राणत्यागादिकं तत्समकालं स्वस्य दिव्यदर्शित्वनाशं च जगाद सञ्जयः । पुत्रवधं श्रुतवतो घृतराष्ट्रस्य चिन्तां चागदद्वैशम्पायनः......
२. ऐषीकपर्व
अध्यायः - १०
. युधिष्ठिरः सौप्तिकवृत्तान्तं कथयतो धृष्टद्युम्नसारथेः सकाशाद्द्रौपदेयादीनां नाशं श्रुत्वा पतितः पुनर्लब्धसंज्ञो विलपन्द्रौपदीमानेतुं नकुलमाज्ञाप्य शिबिरमागत्य हतान्पुत्रादीन्दृष्ट्वा पुनर्मूर्छितः सन्यपात ........
अध्यायः - ११
. शोकाकुलं युधिष्ठिरं दृष्ट्वा सुहृत्सु सान्त्वयत्सु नकुलेनानीता द्रौपदी पुत्रादिनाशं श्रुत्वा शोकार्ता सती भूमौ न्यपतत् । भीमेनाश्वासिताया द्रौपद्या अश्वत्थामनाशार्थकं वाक्यं श्रुत्वा 'दूरगतमश्वत्थामानं हतं त्वं कथं ज्ञास्यसि' इति युधिष्ठिरेणानुयुक्ता सा ’द्रौणिं हत्वा प्रत्यभिज्ञार्थं तस्य मणिमाहर' इत्याह स्म । 'त्रातुमर्हसि मां भीम' इत्यादिकं द्रौपदीवाक्यं श्रुत्वा भीमोऽश्वत्थामानं हन्तुं जगाम.....
अध्यायः - १२
. भीमनिवारणार्थं युधिष्ठिरं प्रति वदन् श्रीकृष्णोऽश्वत्थाम्नो ब्रह्मशिरोऽस्त्रप्राप्तिवृत्तान्तं स्वनिकटे चक्रवाचनवृत्तान्तं चाकथयत्.....
अध्यायः - १३
. निर्गतं भीमं वारयितुं रथमारुह्य पृष्ठतो धावत्स्वपि कृष्णादिषु तं वाररितुमक्नुवत्सु वेगवद्भिरश्वैर्गच्छन्स गङ्गातीरे व्यासेन सहितं स्थितमश्वत्थामानं दृष्ट्वा तं प्रति सशरं धनुर्गुहीत्वाऽधावत् । आगच्छन्तं भीमं तत्पृष्ठत आगच्छन्तौ कृष्णार्जुनौ च दृष्ट्वोपायान्तरमनालोचयन्नश्वत्थामा पाण्डवाभावायेषीकामादाय तस्यां ब्रह्मशिरोऽस्त्रमुदीरयंश्चिक्षेप....
अध्यायः - १४
. अश्वत्थाम्नोऽभिप्रायं ज्ञातवता कृष्णेन प्रेरितोऽर्जुनोऽपि तदेव दिव्यास्त्रं प्राक्षिपत् । उभयोरस्त्रतेजसा त्रस्ते त्रैलोक्ये तत्रागतौ व्यासनारदावश्वत्थामार्जुनौ प्रति 'नानाशस्त्रविदः पूर्वे’ इत्याद्यूचतुः......
अध्यायः - १५
. व्यासनादयोर्वाक्यं श्रुत्वाऽर्जुनः ’प्रमुक्तमस्त्रमस्त्रेण’ इत्याद्युक्त्वा स्वास्त्रमुपसञ्जहार । अस्त्रं संहर्तुमसमर्थेन द्रौणिना 'उत्तमव्यसनातन’ इत्याद्युक्तो व्यास 'अस्त्रं ब्रह्मशिरस्तात' इत्यारभ्य 'मणिं चैव प्रयच्छाद्य’ इत्याद्यस्तमुवाच । पुनरश्वत्थाम्नो मणिप्रशंसापूर्वकं तद्दानमङ्गीकृततोऽमोघमेतदस्त्रं पाण्डवगर्भे विसृजामीति वाक्यमनुजज्ञे व्यासस्ततः स तदस्त्रमुत्तरागर्भे व्यसृजत्.......
अध्यायः - १६
. श्रीकृष्णाश्वत्थाम्नोरुतक्तिप्रत्युक्त्यनन्तरं श्रीकृष्णोऽश्वत्थाम्ने शापं दत्वोत्तरागर्भरक्षणं प्रतिजज्ञे, व्यासश्च तदन्वमोदत । मणिं दत्वाऽश्वत्थाम्नि वनं गते शिबिरमागतेषु पाण्डवेषु भीतद्रौपद्योक्तिप्रत्युक्ती.....
अध्यायः - १७
. सौप्तिके हतेषु सैन्येषु शोचन्युधिष्ठिरः श्रीकृष्णं प्रति मम पुत्रा द्रौणिना कथं हता इत्यादि पप्रच्छ । श्रीकृष्णोऽपि महादेवस्य प्रसादं कथयन्स्तं प्रशंसन् सृष्टिकारणार्थं ब्राह्मकृततत्प्रेरणादिवृत्तान्तं कथयामास......
अध्यायः - १८
. पुनर्महादेवप्रभावं कथयन्श्रीकृष्णो देवानां यज्ञकल्पनं, तत्र स्वभागमदृष्टवतो रुद्रस्य कोपं, तद्भयाद्यज्ञस्य मृगरूपेण पलायनं देववाक्येन महाप्रसादादिकं चाह स्म । भविष्यत्पर्वसूचनपूर्विका सौप्तिकपर्वसमाप्तिः .........
सौप्तिकपर्व