- १.दानधर्मपर्व
- अध्यायः - १. 'शमो बहुविधाकारः (1) इत्यादिना हतान्भीष्मादीनुद्दिश्य विलपता युधिष्ठिरेण 'नूनं हि पापकर्माणः' (13) इत्यादिना किल्बिषाद्यथा मुच्येम तथाऽनुशाधि इत्यनुयुक्तो भीष्मो मृत्युगौतमीकाललुब्धकपन्नगसंवादरूपमितिहासं व्याजहार । कस्याश्चिद्गौतम्याः पुत्रं घातितवन्तं सर्पं पाशेन बद्ध्वा तेन सह गौतमीसमीपमागत्य लुब्धकः 'अय ते पुत्रहा पन्नगाधमः' (19) इत्याद्युवाच । गौतमीलुब्धकयोः संवदतोर्गौतमी स्वस्य सर्पहननाभावाभिप्रायं प्रकटीचकार । सर्पलुब्धकयोः संवदतोर्गौतमीलुब्धकपन्नगसमीपमागतो मृत्युः पन्नगं प्रति ’प्रचोदितोऽहं कालेन' (50) इत्याद्युवाच । सर्पश्च 'निर्दोषं दोषवन्तं वा' (58) इत्यादिना मृत्युं प्रत्युक्त्वा लुब्धकं प्रति 'श्रुतं ते मृत्युभाषितम्’ (61) इत्याद्युक्तवतो लुब्धकस्य मृत्युना सह संवादे प्रवृत्ते समागतः कालो लुब्धकादीन् प्रति 'न ह्ययं नाप्ययं मृत्यु:' (70) इत्याद्याचष्ट । कालवाक्यं श्रुत्वा लुब्धकं प्रति 'नैव कालो न भुजगो न मृत्युरिह कारणम् । स्वकर्मभिरयं बालः कालेन निधनं गतः' (78) इत्याद्युक्तवत्या गौतम्या वाक्यं श्रुत्वा मृत्युप्रभृतयः सर्वेऽपि स्वस्वस्थानानि जग्मुः ।........
- अध्यायः - २. 'केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः। इत्येतत्सर्वमाचक्ष्व तत्त्वेनापि च पार्थिव' (3) इति युधिष्ठिरेणानुयुक्तो भीष्म इक्ष्वाकुवंशविस्तारमभिधाय तद्वंश्याद्दुर्योधनात्सुदर्शनानाम्न्याः कन्याया जन्मादिवृत्तान्तमवदत् । सुदर्शनारूपेण मोहितोऽग्निर्ब्राह्मणरूपेण तां याचमानो दुर्योधनेन प्रत्याख्यातो विततेऽस्य यज्ञे विनाशमवाप । नष्टेऽग्नौ राजप्रार्थनयाग्निं शरणं गतैर्ब्राह्मणैस्तस्याभिप्रायमवबुद्ध्य ज्ञापितो राजा हृष्टः सन्नग्नेर्नित्यसान्निध्यरूपं शुल्कमवाप्य विधिपूर्वकं तस्मै कन्यां ददौ । अग्नेः सकाशात्सुदर्शनायामुत्पन्नः सुदर्शन ओघवतो नृपस्यौघवतीं कन्यां परिणीय गृहस्थधर्मानाचरन् कदाचित् 'गृहस्थश्चावजेष्यामि मृत्युमित्येव’ (41) इति प्रतिज्ञायौघवती प्रति 'अतिथेः प्रतिकूलं ते न कर्तव्यम्' (42) इत्याद्यादिश्य समिदाहरणार्थं जगाम । सुदर्शनप्रतिज्ञाश्रवणेन तद्रन्ध्रान्वेषिणि मृत्यौ तस्मिन्समिदाहरणार्थं धर्मो ब्राह्मणरूपेण तद्गृहमागत्य 'प्रदानेनात्मनो राज्ञि कर्तुमर्हसि मे प्रियम्’ (54) इत्युवाच, सा च भर्तृवाक्यं स्मृत्वा तथाऽकरोत् । समिधो गृहीत्वा गृहमागत्यौघवतीमाह्वयति सुदर्शने लज्जया प्रत्युत्तरमददत्यां तस्यामतिथिना निःशङ्कं लज्जाकारणे निवेदितेऽपि ईर्ष्यारहितं यथा स्यात्तथा तदभिनन्दति सति तं प्रति धर्मः 'धर्मोऽहमस्मि भद्रं ते' (79) इत्यादिना स्वप्रत्यभिज्ञाकथनपूर्वकं ’विजितश्च त्वया मृत्युः' इत्याद्युवाच । भीष्म ’एतत्ते कथितं पुत्र' (94) इत्यादिना गृहस्थस्यातिथिसत्कारं विना नान्यत्किमप्याचरणीयमित्याद्युवाच ......
- अध्यायः - ३. त्रिभिर्वर्णैर्यदि दुष्प्रापं ब्राह्मण्यं तर्हि विश्वामित्रेण कथं तत्प्राप्तम् ? इत्यादीन् प्रश्नांश्चकार युधिष्ठिरः.........
- अध्यायः - ४. 'श्रूयतां पार्थ तत्त्वेन' (1) इत्यारभ्य क्षत्रियः सोऽप्यथ तथा ब्रह्मवंशस्य कारकः' (48) इत्यन्तेन ग्रन्थेन विश्वामित्रोपाख्यानमाख्याय 'तस्य पुत्रा महात्मानः' (49) इत्यादिना गोत्रप्रवर्तकान् मधुच्छन्दःप्रभृतींस्तत्पुत्रान्नामतोऽकथयद्भीष्मः.......
- अध्यायः - ५. 'आनृशंस्यस्य भक्तजनस्य गुणान् श्रोतुमिच्छामि'इति युधिष्ठिरेणापृष्टो भीष्मो वासवशुकसंवादेतिहासकथनेनोत्तरमाह स्म, काशिराजविषयस्थेन लुब्धकेन सविषबाणेन विद्धे महति वृक्षे शोषमाप्नुवत्यपि तत्कोटरस्थः शुको यदा भक्त्या तं नाजहात्तदा तेन सह शुष्यन्त तं दृष्ट्वा चिन्तयन्निन्द्रो ब्राह्मणवेषेणागत्य 'कस्मादेनं न त्यजसि’ (13) इति पप्रच्छ । उत्तरं ददतः शुकस्य ’अनतिक्रमणीयानि' (21) इत्यादिकं वाक्यं श्रुत्वा तुष्टेनेन्द्रेणोज्जीवितो वृक्षः श्रीमत्तामवाप । शुकोऽप्यायुषोऽन्ते स्वर्गमवाप.........
- अध्यायः - ६. 'दैवे पुरुषकारे च किंस्विच्छ्रेष्ठतरं भवेत्’ (1) इति युधिष्ठिरप्रश्ने भीष्मः पुरुषकारस्य श्रेष्ठ्यं प्रतिपादयितुं वसिष्ठब्रह्मणोः संवादरूपमितिहासं व्याजहार । दैवपुरुषकारयोः श्रेष्ठत्वविषये वसिष्ठेन पृष्टो ब्रह्मा 'नाबीजं जायते किञ्चित्' (5) इत्यादिना कर्मणः श्रेष्ठत्वमभिधाय पुण्यपापकर्मणोर्गतिं ययातिप्रभृतिनिदर्शनं दर्शयित्वा कर्मव्यतिरेकेण धनाद्युपपभोगाभावमभिदधाति स्म........
- अध्यायः - ७. 'कर्मणां च समस्तानां शुभानां भरतर्षभ । फलानि महता श्रेष्ठ प्रब्रूहि परिपृच्छतः’ (1) इति युधिष्ठिरप्रश्ने भीष्मस्तान्युपदिश्य 'या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्' (21) इत्यादिनाऽऽशात्यागमुपदिदेश्.......
- अध्यायः - ८. 'के पूज्याः के नमस्कार्या:’ (1) इत्यादिके युधिष्ठिरप्रश्ने 'स्पृहयामि द्विजातिभ्यः’ (3) इत्यादिना ब्राह्मणानां पूज्यत्वादिकमभ्यभाषत भीष्मः......
- अध्यायः - ९. 'ब्राह्मणेभ्यः प्रतिश्रुत्य ये न ददति तेषां का गतिः’ (1) इति पृच्छन्तं युधिष्ठिरं प्रति प्रतिश्रुत्यादातुर्गतिमभिधातुं शृगालवानरसंवादरूपमितिहासमुदैरयद्भीष्मः । पूर्वजन्मनि सखिभावापन्नयोः केनचित्कर्मणा शृगालवानरयोनी प्राप्नुवतोः कदाचित् श्मशाने मृतमांसं भक्षयञ्शृगालो वानरेण 'किं त्वया पापकं पूर्वं कृतं कर्म सुदारुणम्’ (11) इति पृष्टः सन् 'ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाहृतम्’ (12) इत्याद्युवाच । एवमेव शृगालेन पृष्टो वानरः 'सदा चाहं फलाहारो ब्राह्मणानाप्लवङ्गमः' (15) इत्याद्याख्याय ब्राह्मणस्वं कदापि न हर्तव्यमित्याह स्म । इत्यभिधाय भीष्मो युधिष्ठिरं प्रति ’न हर्तव्यं विप्रधनं क्षन्तव्य तेषु नित्यशः' (18) इत्याद्युपदिदेश.......
- अध्यायः - १०. 'हीनजातेरुपदेशं कुर्वतो दोषो भवति वा न वा’ (1) इति युधिष्ठिरप्रश्ने राजपुरोहितसंवादरूपमितिहासं व्याहरन्नुत्तरमाह स्म भीष्मः । हिमालयस्य पार्श्वे पूर्वमेकदा ब्रह्माश्रमे तपस्यन्तं कुलपतिं प्रति कश्चिच्छूद्रः आगत्य ’त्वं मां प्रति धर्मान्वक्तुं प्रव्राजयितुं चार्हसि' (15) इत्युवाच ततः कुलपतिना 'न शक्यमिह शूद्रेण लिंगमाश्रित्य वर्तितुम्’ (16) इत्यादिना प्रत्याख्यातः शूद्रः स्थानान्तरे आश्रमं निर्माय तत्र तपश्चचार । ततः कदाचिदृषिरेकस्तदाश्रमम् आजगाम । ततः स ऋषिः 'अहं श्राद्धं करोम्यनुगृहाण’ (27) इति शूद्रेण प्रार्थितः सन् पित्र्ये कर्मणि तमादिदेश । कालान्तरेण तपःप्रभावात्स शूद्रो राजाऽभूत् ब्राह्मणश्च तत्पुरोहितोऽभवत् । राजपुरोहितभावेन वर्तमानयोस्तयोः पुण्याहकर्मणि पुरोहितं दृष्ट्वा सर्वदा राजा हसन् पुरोहितेनैकान्ते पृष्टः पूर्वजन्मवृत्तान्तमाख्याय 'पुरोहितत्वमुत्सृज्य यतस्व त्वं पुनर्भवे' (61) इत्याद्युपदिदेश । एवमुपशिशिक्षितो बहु धनं दत्वा राज्ञा विसर्जितः पुरोहितस्तीर्थादिषु ब्राह्मणेभ्यो गवादीनि दत्वा तपःकुर्वन्सिद्धिमवाप । इममितिहासमाख्याय भीष्मोऽधमं प्रत्युपदेशो न कर्तव्यः इत्याद्युपदिदेश.......
- अध्यायः - ११. ’कीदृशे पुरुषे कीदृश्यां स्त्रियां वा लक्ष्मीर्वसति’ (1) इति युधिष्ठिरेण पृष्टो भीष्मः श्रीरुक्मिणी संवादरूपमितिहासं कथयति स्म । श्रीकृष्णाङ्कगता श्रीः रुक्मिण्या 'कानीह भूतान्युपसेवसे त्वम्’ (4) इत्यादि पृष्टा सती 'वसामि नित्यं सुभगे प्रगल्भे' (6) इत्यादिना स्वनिवासयोग्यानि स्थानान्याचख्यौ......
- अध्यायः - १२. 'स्त्रीपुंसयोः संप्रयोगे स्पर्शः कस्याधिको भवेत्’ (1) इति युधिष्ठिरेण पृष्टो भीष्मो भंगास्वनशक्रसंवादरूपमितिहासं व्याहरन्नुत्ततरमाह स्म- शक्रमायया स्त्रीत्वं प्राप्तो भङ्गास्वनश्चिन्तयन्पौरान्प्रति स्त्रीत्वप्राप्तिवृत्तान्तमाख्याय पुत्रेषु राज्यं न्यस्य वनं जगाम । राज्यं कुर्वत्सु भङ्गास्वनपुत्रेषु वैरमुत्पाद्य तान्नाशयामासेन्द्रस्तच्छ्रुत्वा शोचन्ती तापसी ब्राह्मणरूपिणा तेन पृष्टा स्वस्य पूर्ववृत्तान्तं कथयति स्म । पूर्ववृत्तान्तं कथयित्वा प्रणामपूर्वकं क्षमां याचित्वा इन्द्रः प्रसन्नः सन् 'स्त्रीभावे जातान्पुत्राञ्जीवयाम्युत पुरुषभावे जातान्' (43) इति पृष्टा स्त्रीभावे जातान्पुत्रान्सञ्जीवयेत्युवाच तापसी । 'स्त्रीभावे जातेषु पुत्रेषु कथमभ्यधिकः स्नेहः’ (46) इतीन्द्रेण पृष्टा तापसी 'स्त्रियास्त्वभ्यधिकः स्नेहो न तथा पुरुषस्य' (47) इत्युवाच । तापसीवाक्येन तुष्टो देवेन्द्रः सर्वान्पुत्रान्सञ्जीव्य 'पुनः स्त्रीत्वं पुरुषत्वं वा वृणु' (49) इति तेन उक्ता सा स्त्रीत्वमेव वव्रे । तत इन्द्रेण 'पुरुषत्वं कथं त्यक्त्वा स्त्रीत्वं चोदयसे' (51) इति पृष्टा सा 'स्त्रियाः पुरुषसंयोगे प्रीतिरभ्यधिका सदा' (52) इत्युवाच .........
- अध्यायः - १३. ’किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना’ (1) इत्यादिके युधिष्ठिरेण भीष्मः 'कायवाङ्मनोभिरशुभं कदापि न विधेयम्' (2-6) इत्याद्युपदिदेश ........
- अध्यायः - १४. 'त्वयाऽऽपगेय नामानि' (1) इत्यादिना महादेवस्य नामानि कथयेत्यनुयुक्तो भीष्मः स्वस्य महादेवगुणकथनासामर्थ्यमुद्भाव्य तत्कथनार्थं श्रीकृष्णं प्रेरयति स्म । भीष्मेण प्रेरितः श्रीकृष्णः श्रीमहादेवस्य माहात्म्यं कथयन् जाम्बवत्या पुत्रार्थं प्रार्थितस्य स्वस्योपमन्योराश्रमे गमनं कथयति स्म । तत्र गतं मां प्रत्युपमन्युर्महादेवमाराधय तत्प्रसादात्ते पुत्रो भाविष्यति इत्युक्त्वा तस्य माहात्म्यं कथयन् महादेवाराधनाद्धिरण्यकशिपुप्रभृतीनां वरलाभादिकमाख्याय 'पुरा कृतयुगे तात ऋषिरासीन्महायशाः’ (111) इत्यारभ्य 'ईशानः स वरान् दत्वा तत्रैवान्तरधीयत' (363) इत्यन्तेन ग्रन्थेन जनन्युपदेशात्स्वस्य महादेवाराधनं, तत्स्तवनं, तुष्टात्तस्माद्वरलाभादिकं चोदीर्य त्वमपि षष्ठे मासि षोडश वरान् सपत्नीकात्तस्मात्प्राप्स्यसि; जप्यमुपदेक्स्यामीत्युक्त्वा मां दीक्षयामास, उपमन्युना दत्तदीक्षस्य मम तपसा तुष्टः प्रत्यक्षमागतो महादेवो 'नमोऽस्तु ते शाश्वत सर्वयोने’ (407) इत्यादिना स्तुतः सन् 'वृणीष्वाष्टौ वरान्कृष्ण' (429) इत्याद्यभ्यधान्माम् .......
- अध्यायः - १५. 'धर्मे दृढत्वम्’ (2) इत्यादिषु मत्प्रार्थितेष्वष्टसु वरेषु शिवेन दत्तेषु तदनन्तरमुमापि मत्प्रार्थितान् 'द्विजेष्वकोपम्' (6) इत्यादीनष्ट वरानदात् । तत उभयोरन्तर्हितयोः सतोरुपमन्युर्मत्कथितवरवृत्तं श्रुत्वा 'नास्ति शर्वसमो देवः’ (11) इत्याद्युवाच......
- अध्यायः - १६. पूर्वं जप्यमुपदेक्ष्यामीत्यनेन प्रतिज्ञातं शिवसहस्रनामस्तोत्रमाख्यातुमुपोद्धाततया तण्डिनस्तपःकरणं 'पवित्राणां पवित्रस्त्वम्’ (12) इत्यारभ्य ’यत्पुरा लोककृज्जगौ' (66) इत्यन्तेन तत्कृतं स्तवमभिधाय विशेषेण शिवदत्तवरादिकं चाचष्टोपमन्युः......
- अध्यायः - १७. उपमन्युः सहस्रनाम्नां वेदसारत्वं ब्रह्मलोकात्प्रथमं तण्डिना प्राप्तत्वात्तंडिकृतत्वादिकं चोदीर्य 'स्थिरः स्थाणुः' (31) इत्यारभ्य 'श्रीवर्धनो जगत्' (153) इत्यन्तेन तान्युपदिश्यैतत्प्रशंसापूर्वकं प्राप्तिपरंपरां चाख्यायैतत्पाठफलमन्वाचष्ट........
- अध्यायः - १८. ’महायोगी ततः प्राह कृष्णद्वैपायनो मुनिः । पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः’ (1) इत्यादिनाऽध्यायेन व्यासादीनां शिवमाहात्म्यकथनं कृष्णस्य च तत्कथनपूर्वकं सहस्रनामपाठफलकथनं चाख्यातवान्वैशम्पायनः...
- अध्यायः - १९. यदिदं सहधर्मेति प्रोच्यते भरतर्षभ । पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम्’ (1) इत्यादिके युधिष्ठिरप्रश्ने भीष्मो दिशाष्टावक्रसंवादरूपमितिहासमभिदधदुत्तरमाह स्म- वदान्यनामकः कश्चिदृषिः स्वकन्यां याचितुमागतायाष्टावक्राय 'उत्तरां दिशं गत्वा तत्र स्थितां वृद्धां स्त्रियं दृष्ट्वा ततो विनिवृत्तो मत्कन्यायाः पाणिं ग्रहीष्यसि’ (24) इत्यभ्यभाषत । वदान्यवाक्यान्निर्गतोऽष्टावक्र उत्तरस्यां हिमालयमारभ्य कैरातस्थानपर्यन्तं गत्वा ततोऽधस्ताद्रमणीये वनोद्देशे काञ्चनगृहमपश्यत् । कुत्र मम वासो भवेदिति चिन्तनपूर्वकं काञ्चनगृहद्वार्यागतस्याष्टावक्रस्य 'अतिथिं समनुप्राप्तम्’ (67) इत्यादिकं वाक्यं श्रुत्वा पूर्वोक्ताद्गृहान्निर्गताः सप्त कन्या 'गृहं प्रविश'इत्यूचुस्तं प्रति । ततोन्तर्गृहगतोऽष्टावक्रः स्ववाक्यान्निर्गतासु कन्यासु निद्रां कुर्वंस्तत्र स्थितामेकाकिनीं वृद्धां प्रति 'रजन्यतिवर्तते त्वमपि स्वपिहि’ (76) इत्युवाच, तच्छ्रुत्वा सापि द्वितीये शयने सुष्वाप । रात्रौ शीतजामार्तिं व्यपदिश्याष्टावक्रशयनमारुह्य तमालिंग्य मां भजस्वेत्याद्युक्तवतीं 'परदारानहं भद्रे’ (88) इत्यादिना प्रत्याख्याय 'वत्स्येऽहं यावदुत्साहः' (97) इत्यादिना तत्र निवासमंगीकृत्य 'देवतेयं गृहस्यास्य' (100) इत्यादि चिन्तयंस्तां रात्रिमतिवाहयति स्म ......
- अध्यायः - २०. ततः प्रभाते स्त्रिया आनीतेनोदकादिना स्नानादि विधाय रात्रौ शयने सुप्तेऽष्टावक्रे पुनस्तच्छयनमागताया वृद्धायास्तस्य चोक्तिप्रत्युक्तयः.....
- अध्यायः - २१. 'न बिभेति कथं सा स्त्री शापाच्च परमद्युतेः’ (1) इत्यादि युधिष्ठिरप्रश्ने तदुत्तरमाह भीष्मः । 'रूपं विकुरुषे कथम्’ (2) इत्यष्टावक्रेण पृष्टा वृद्धा 'जिज्ञासेयं प्रवृत्ता मे’ (4) इत्यादिना त्वद्बुद्धिस्थिरीकरणार्थमागतां मामुत्तरां दिशं विद्धि स्त्रीणां चापलं त्वया दृष्टं, कन्यापित्रा प्रेषिताहं त्वामुपदिष्टवती, गच्छ इत्याद्युवाच । तच्छ्रुत्वा परावृत्तोऽष्टावक्रो वदान्यकन्यां परिणीय स्वाश्रमे सुखं वसति स्म ......
- अध्यायः - २२. 'किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनाः । ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाऽप्यलिङ्गिनम्’ (1) इति युधिष्ठिरप्रश्ने भीष्मः ’स्ववृत्तिमभिपन्नाय लिङ्गिने चेतराय च' (2) इत्यादिना ब्राह्मणानां पात्रत्वं तद्विषये पृथ्वीकाश्यपाग्निमार्कण्डेयानां मतं व्याजहार । 'यदि ते ब्राह्मणा लोके' (16) इत्यादिनाऽध्यायशेषेण युधिष्ठिरभीष्मयोः प्रश्नोत्तराणि......
- अध्यायः - २३. 'श्राद्धकाले च दैवे च पित्र्येऽपि च पितामह। इच्छामीह त्वयाऽख्यातं विहितं यत्सुरर्षिभिः' (1) इति युधिष्ठिरप्रश्ने भीष्मो दैवादिकर्मणां कालम्, श्राद्धे योग्यायोग्यब्राह्मणान्, श्राद्धे अदेयं द्रव्यम्, श्राद्धाद्यवसाने ब्राह्मणदेयप्रतिवचने विशेषं, दातृप्रतिग्रहीत्रोर्धर्माधर्मौ च निरूपयति स्म । 'दैवं पित्र्यं वा केषु दत्तं महाफलम्' (48) इति युधिष्ठिरप्रश्ने भीष्मो दानयोग्यं पात्रं, निरयस्वर्गयोः साधनभूतानि कर्माणि चाचष्ट.......
- अध्यायः - २४. 'हिंसां विनाऽपि केन कर्मणा ब्रह्महत्या भवति’ (1) इति युधिष्ठिरप्रश्ने ब्राह्मणघातिनो जनान्न्यरूपयद्भीष्......
- अध्यायः - २५. 'पृथिव्यां यानि तीर्थानि तानि वक्तुमर्हसि’ (1) इति युधिष्ठिरप्रश्ने भीष्मो गौतमगिरःसंवादमुखेन तान्यभ्यधात्.....
- अध्यायः - २६. शरशय्याधिष्ठितं भीष्मं द्रष्टुमागतानत्रिवसिष्ठप्रभृतीनभिवाद्य युधिष्ठिरः 'के देशाः के जनपदाः’ (25) इत्यादि पप्रच्छ भीष्मं प्रति । भीष्मः शिलोञ्छवृत्तिसिद्धयोः संवादमुखेन सर्वप्रश्नोत्तराण्यभिधाय तद्दृष्टान्तेन युधिष्ठिरमुपदिदेश.....
- अध्यायः - २७. युधिष्ठिरो भीष्मं प्रशस्य 'ब्राह्मण्यं प्राप्नुयाद्येन तन्मे व्याख्यातुमर्हसि' (3) इति पप्रच्छ । भीष्मो ब्राह्मणस्य दुष्प्राप्यत्वमाख्याय बहुषु योनीषु भ्रमतः कस्मिश्चिज्जन्मनि तत्प्राप्यते इत्येतद्विषये मतङ्गगर्दभीसंवादरूपमितिहासं व्याजहार । गर्दभयुक्ते रथे स्थित्वा गच्छन् मतङ्गो गर्दभं नासिकायां प्रतोदेनातुदत्तदा दुःखव्याकुला गर्दभी 'मा शुचः पुत्र चाण्डालस्त्वधितिष्ठति' (11) इत्याद्युवाच गर्दभं प्रति । मतङ्गः प्रश्नमुखेन स्वजन्मवृत्तान्तं तस्याः श्रुत्वा स्वगृहमागत्य स्वपित्रे तन्निवेद्य तपश्चचार । तपसा तुष्ट इन्द्रो ब्राह्मण्यं वृण्वानं तं प्रत्याचख्यौ ........
- अध्यायः - २८. पुनर्ब्राह्मण्यप्रेप्सया कठोरं तपः कुर्वन्तं मतङ्गं प्रति पुनरिन्द्र आगत्य ब्राह्मण्यं प्राप्ते दौर्लभ्यं प्रत्यपादयत्.....
- अध्यायः - २९. पुनस्तपः कुर्वन् मतङ्गः 'चण्डालयोनौ जातेन नावाप्यं वै कथञ्चन' (4) इतीन्द्रेणोक्तस्तं ’किं मां तुदसि दुःखार्तम्’ (13) इत्याद्युवाच । वरार्थं प्रार्थितेनेन्द्रेण वृणीष्वेत्युक्तो मतङ्गः 'यथा कामविहारी स्याम्' (22) इत्यादिकं वरं ययाचे । 'छन्दोदेव इति ख्यातः' (24) इत्यादिना छन्दोदेवनाम्ना प्रसिद्धस्त्रीणां पूज्यो भविष्यसीति वरदत्वेन्द्रोऽन्तर्दधे.....
- अध्यायः - ३०. 'वीतहव्यश्च नृपतिः श्रुतो मविप्रतां गतः । तदेव तावद्गाङ्गेय श्रोतुमिच्छाम्यहं विभो’ (3) इत्यादियुधिष्ठिरप्रश्ने तत्कथयति स्म भीष्मः। मनुवंशे शर्यातिमारभ्य प्रचलिते तत्र सुदेवस्य तनयो दिवोदासो राज्येऽभिषिको वैतहव्यैः पराजितः पलायमानो भरद्वाजाश्रमं जगाम । तत्र गत्वा दिवोदासेन भगवन्वैतहव्यैर्मे युद्धे वंशः प्रणाशितः । अहमेकः परिद्यूनो भवन्तं शरणं गतः' (26) इत्युक्तो भरद्वाजः पुत्रेष्टिं चकार । तत्प्रसादाद्दिवोदासादुत्पन्नः प्रतर्दननामा पुत्रो जातमात्रस्त्रयोदशवर्षवयस्को वैतहव्यैः सह युद्धार्थं जगाम । वैतहव्यैः सह युद्धे प्रवृत्ते प्रतर्दनेन पराजितो वीतहव्यो भृगोराश्रमं जगाम । तमनुगच्छता प्रतर्दनेन 'विसृज वीतहव्यम्' (50) इत्युक्तो भृगुः 'नात्र कश्चित्क्षत्रियः' (53) इत्युवाच । भृगुवाक्यं श्रुत्वा 'मया स्वजातिं त्याजितो वीतहव्यः' (56) इति सहर्षं वदन् प्रतर्दनो भृगुणानुमोदितो यथागतमगच्छत् । भृगुवचनात्प्राप्तब्राह्मणण्याद्वीतहव्याद्गृत्समदमारभ्य शौनकपर्यन्तां ब्राह्मणसृष्टिमभिधायैवमित्यादिनोपसंजहार भीष्मः.....
- अध्यायः - ३१. 'के पूज्या वै त्रिलोकेऽस्मिन्' (1) इति युधिष्ठिरेणानुयुक्तो भीष्मो नारदवासुदेवसंवादानुवादमुखेनोत्तरमभ्याचष्ट । ब्राह्मणान् संपूज्य बद्धाञ्जलिर्नारदः श्रीकृष्णेन 'भगवन्कान्नमस्यसि' (3) इति पृष्टो नमस्करणयोग्यान् निर्दिश्य तेषां पूजनार्थमुपदिदेश.....
- अध्यायः - ३२. 'शरणागतं ये रक्षन्ति' (2) इत्यनेन शरणागतरक्षकस्य किं फलमिति पृच्छति युधिष्ठिरे भीष्मः श्येनकपोतीयाख्यानं विवृण्वन्नुत्तरमुदैरयत् । श्येनभयात्स्वसमीपे शरणागतं कपोतं मोचयितुं वृषदर्भे राजनि श्येनं प्रार्थयति स तं प्रति 'एतत्तुल्यं तुलया धृतं स्वमांसं देहि' (22) इत्युवाच । तथा कर्तुं प्रवृत्तो राजा यदा स्वमांसं तत्पर्याप्तं नाभवत्तदा स्वं देहं तुलायामधृत । तेन तुष्टैरिन्द्रादिभिरमृतवर्षणेनोज्जीवितो राजा विमानमारुह्य स्वर्गं जगाम । एतदृष्टान्तेनान्यस्यापि शरणागतरक्षकस्यैवं फलं भविष्यतीत्युक्त्वैतदाख्यानश्रवणपठनफलमपि व्यादिशद्भीष्मः....
- अध्यायः - ३३. ’किं राज्ञः सर्वकृत्यानां गरीयः' (1) इति पृच्छन्तं युधिष्ठिरं प्रति भीष्मो ब्राह्मणपूजायाः कृत्यतमं वक्तुं ब्राह्मणानां पूज्यत्वं विवृण्वन् प्रशंसामाहस्म.......
- अध्यायः - ३४. पुनर्ब्राह्मणानां माहात्म्यं कथयन् भीष्मो ’मातरं सर्वभूतानाम्' (21) इत्यादिनाऽध्यायशेषेण वासुदेवपृथ्वीसंवादरूपमितिहासमाख्यायैतन्निदर्शनेन ’त्वमपि ब्राह्मणान् पूजयेथाः’ (31) इत्युपदिदेश.....
- अध्यायः - ३५. 'जन्मनैव महाभागो ब्राह्मणो नाम जायते । नमस्यः सर्वभूतानामतिथिः प्रसृताग्रभुक्' (1) इत्यादिनाऽध्यायेन ब्राह्मणानेव प्रशशंस भीष्मः ......
- अध्यायः - ३६. पुनर्ब्राह्मणप्रशंसामेव कुर्वन्नसुराणामपि श्रीर्ब्राह्मणप्रसादलभ्येत्यभिप्रायेण शक्रशंबरसंवादरूपमितिहासं व्याजहार भीष्मः.......
- अध्यायः - ३७. 'अपूर्वश्च भवेत्पात्रम्’ (1) इत्यादिना पात्रविशेषं पृच्छति युधिष्ठिरे भीष्मः 'क्रिया भवति केषांचित्'इत्यादिना अपूर्वादीनां सर्वेषां पात्रत्वमाख्यातवान् ।'अपीडया च भूतानां इत्यादिना' दीयमानद्रव्याभिमानिनी देवता न दुःखं कुर्यात्तादृशं पात्रं किमिति पृच्छन्तं युधिष्ठिरं प्रति भीष्मः 'ऋत्विक्पुरोहिताचार्याः’(6) इत्यनेन मुख्यं तथाविधं पात्रमभिधाय 'अतोऽन्यथावर्तमानाः’ (7) इत्यादिनाऽपात्रताबीजं च विवृत्य 'एवं नरो वर्तमानः' इत्यादिनोपसंजहार.......
- अध्यायः - ३८. 'स्त्रीणां स्वभावं श्रोतुमिच्छामि' (1) इति युधिष्ठिरप्रश्ने तदुत्तरं वदन् भीष्मो नारदपंचचूडासंवादमुदीरयति स्म । स्त्रीस्वभावं परिज्ञातुं नारदेन पृष्टा पञ्चचूडा स्त्रीणां स्वभावमकथयत् .......
- अध्यायः - ३९. 'इमे वै मानवा लोके’ (1) इत्यादिना स्त्रीनिन्दापूर्वकं 'कस्ताः शक्तो रक्षितुं स्यात्’ (13) इति युधिष्ठिरः पप्रच्छ.....
- अध्यायः - ४०. पूर्वाध्यायगतप्रश्नोत्तरं वदन् भीष्मः स्त्रीणां स्वभाषादिकं विवृत्य 'प्रमदाश्च यथा सृष्टाः’ (3) इत्यादिना तासां सर्जनादिविधानं सकारणमभिधाय तद्रक्षणस्याशक्यत्वं निरूप्य 'यथा रक्षा कृता पूर्वम्’ (16) इत्यादिना विपुलकृतगुरुस्त्रीरक्षणाख्यानमाचख्यौ । देवशर्मा कश्चिदृषिर्यज्ञार्थमन्यत्र गच्छन् स्वभार्यां रुचिनाम्नीमिन्द्राद्रक्षितुं स्वशिष्यं विपुलमादिश्येन्द्रस्य वञ्चकत्वत्वस्फुटीकरणार्थं तस्यानेकविधानि रूपाणि व्याचख्यौ । गुरुवाक्यं श्रुत्वा रुचिरक्षणोपायं चिन्तयन् विपुलो योगधारणया तस्याः शरीरमलक्षितः प्रविश्य सर्वाण्यङ्गान्यरुणत् ......
- अध्यायः - ४१. देवशर्मण आश्रममागत इन्द्रो विपुलयोगबलेन रुद्धाया रुच्या उत्थानासामर्थ्यं दृष्ट्वा दिव्यचक्षुषा तच्छरीरे विपुलमालोच्य शापभीतः 'अजितेन्द्रिय दुर्बुद्धे' (20) इत्यादिकं विपुलवाक्यं श्रुत्वाऽन्तर्दधे । इन्द्रे गते मुहूर्तानन्तरं यज्ञं निर्वर्त्याश्रममागताय देवशर्मणे शरीरप्रवेशवर्ज्यं सर्वमिन्द्रवृत्तं निवेद्य भार्यामनिन्दितां न्यवेदयद्विपुलः । तेन तुष्टेन गुरुणा वरदानपूर्वकमनुज्ञातोऽनुत्तमं तपश्चचार......
- अध्यायः - ४२. अथ कदाचिद्रुचिभगिन्या चित्ररथपत्न्या प्रभावत्या विवाहोत्सवार्थमाहूता रुचिर्गच्छन्ती मध्येमार्गं कस्याश्चिद्विहायसा गच्छन्त्या अप्सरसः शरीरात्पतितानि दिव्यपुष्पाणि धृत्वा तद्गृहममत् । तया धृतानि पुष्पाणि दृष्टवत्या भगिन्या प्रेरिता सा भर्तारं व्यजिज्ञपत् । तद्वाक्याद्देवशर्मा पुष्पाण्यानेतुं स्वशिष्यं विपुलमादिदेश । गुरुणा प्रेरितो विपुलः पुष्पपतनदेशं गत्वा स्वतपःप्रभावात्पुष्पाण्यादाय परावृत्तः पथि विवदमानस्य मिथुनस्य 'यद्यावयोर्मध्ये योऽनृतं ब्रूयात्स विपुलप्राप्यां गतिं गच्छेत्’ (21) इति शपथं श्रुत्वाग्रे गच्छन्नक्षैर्दीव्यमानानां षण्णां पुरुषाणां तथैव शपथं श्रुत्वाऽनुतप्तश्चंपानगरीमेत्य गुरवे पुष्पाणि ददाति स्म......
- अध्यायः - ४३. मार्गे त्वया किं दृष्टमिति गुरुणा पृष्टो विपुलो ’ब्रह्मर्षे मिथुनं किं तत्के च ते पुरुषा विभो’ (3) इत्याद्युवाच । शिष्योक्तिं श्रुत्वा देवशर्मा 'यद्वैतन्मिथुनं ते रात्र्यहनी, ये च ते पुरुषास्ते षट् ऋतवः, एते पुरुषस्य रहस्यकृतं जानन्ति’ (7) इत्याद्याख्याय भार्यया शिष्येण च सह स्वर्गमास्थाय मुमोद । भीष्म इदमाख्यानं मार्कण्डेयेन मां प्रति कथितमित्युक्त्वा स्त्रीणां रक्षणस्यावश्यकर्तव्यत्वमुपदिश्य पुनः स्त्रीरक्षणस्याशक्यत्वमभिदधाति स्म.....
- अध्यायः - ४४. 'यन्मूलं सर्वधर्माणाम्’ (1) इत्यादिके युधिष्ठिरप्रश्ने भीष्मः शीलवृत्तादिसम्पन्नाय कन्या देयेति प्रतिपाद्य ब्राह्मादीन् विवाहभेदान् ब्राह्मणादिवर्णान् विवाहसंख्यादिकं चाचष्ट । 'शुल्कमन्येन दत्तं स्यात्' (19) इत्यादिके युधिष्ठिरप्रश्ने 'यत्किञ्चित्कर्म मानुषम्' (21) इत्यादिनोत्तरं व्याजहार भीष्मः । ’कन्यायां प्राप्तशुल्कायाम्’ (28) इत्यादि पृच्छन्तं युधिष्ठिरं प्रति ’नैव निष्ठाकरं शुल्कम्' (31) इत्यादिना विवाहनिष्ठां प्रतिपाद्य 'अहं विचित्रवीर्यस्य’ (38) इत्यादिना वीर्यस्यापि शुल्कत्वं निरूप्य बाल्हीकेनोक्तं सत्यवज्जनसंवादं कथयति स्म भीष्मः....
- अध्यायः - ४५. ’कन्यायाः शुल्कं दत्वा तत्पतिर्नागतश्चेत्तदा तस्याः का गतिः ?’ (1) इति युधिष्ठिरप्रश्ने याऽपुत्रकस्य ऋद्धस्य’ (2) इत्यादिना तदुत्तरमभ्यभाषत भीष्मः । 'अथ केन प्रमाणेन’ (10) इत्यादिना कन्यायाः पितृधनहारित्वविषयके युधिष्ठिरप्रश्ने 'यथैवात्मा तथा पुत्रः' (11) इत्यादिना तदुत्तरं कथयन्भीष्मः कन्यायाः पुत्रतुल्यत्वेन तस्यास्तत्पुत्रस्य दौहित्रस्य च धनहारित्वं प्रतिपाद्य विक्रयपूर्वकमासुरेण विधिना परिणीतायां कन्यायां तत्पुत्रो धनहारी नेत्युक्त्वाऽसुरविवाहनिन्दाविषये यमगीतां गाथामाह स्म.......
- अध्यायः - ४६. 'प्राचेतसस्य वचनम्’ (1) इत्यादिना कन्याज्ञातयो धनं स्वयं न गृह्णन्ति किन्तु कन्यालङ्काराद्यर्थं विनियुञ्जते स न विक्रय इति प्रतिपाद्य 'पितृभिर्भ्रातृभिश्चैव' (3) इत्यादिना स्त्रियं प्रशशंस भीष्मः .......
- अध्यायः - ४७. 'यथा नरेण कर्तव्यम्’ (3) इत्यादिना ब्राह्मणस्य वर्णचतुष्टयसम्बन्धिनीषु चतसृषु भार्यासूत्पन्नानां पुत्राणां कथं दायभागत्वमिति पृच्छति युधिष्टिरे भीष्मस्तत्प्रकारं कथयित्वा तत्र शूद्रापुत्रस्य दशमभागहारित्वमाख्याय स्त्रीणां भर्तृदाय उपभोगफलम् इत्याद्याह स्म । 'शूद्रायां जातस्य कथं दशमो भागः' (27) इति युधिष्ठिरेण पृष्टो भीष्मो 'दारा इत्युच्यते लोके नाम्नैकेन परन्तप । प्रोक्तेन चैव नाम्नाऽयं विशेषः सुमहान् भवेत्' (30) इत्यादिना शूद्र्या अपि दारत्वाविशेषात्तत्पुत्रस्य दशमभागहारित्वमिति फलतोऽभिधाय युधिष्ठिरप्रश्नानुरोधेन क्षत्रियादीनामपि विभागनियमं व्याजहार......
- अध्यायः - ४८. अर्थाल्लोभाद्वा कामाद्वा' (1) इत्यादिना वर्णसङ्करकारणकथनपूर्वकं सङ्करजातानां धर्म-कर्मविषयेऽनुयुञ्जाने युधिष्ठिरे भीष्मो 'भार्या तस्रः' (4) इत्यादिना पारशवादि नामकथनपूर्वकं सङ्करजातीयानाख्याय तद्धर्माणामनियतत्वं प्रदर्श्य ’आनृशंस्यमनुक्रोशः’ (34) इत्यादिना तेषां साधारणधर्मानाभाष्य स्त्रीषु प्रसङ्गर्जनमुपदिशति स्म । 'सङ्करयोनिजो नरः कथं ज्ञेयः’ (39) इति युधिष्ठिरप्रश्ने भीष्मः कर्मानुरोधेन योनिशुद्ध्यादिकं जानीयादित्याचष्ट......
- अध्यायः - ४९. ’ब्रूहि तात कुरुश्रेष्ठ वर्णानां त्वं पृथक् पृथक् । कीदृश्याः कीदृशाश्चापि पुत्राः कस्य च के च ते’ (1) इति युधिष्ठिरप्रश्ने भीष्म 'आत्मा पुत्रश्च विज्ञेयः' (3) इत्यादिना विंशतिप्रकारान् पुत्रान् प्रदर्श्य पुनः प्रश्नोत्तरभावेन तेषां स्वरूपादिकं वर्णयति स्म...
- अध्यायः - ५०. 'दर्शने कीदृशः स्नेहः' (1) इत्यादिना परपीडादर्शने परैः सह संवासे च कीदृश: स्नेह अनुशंस्यं च कर्तव्यं तत् गवां माहात्म्यं चेति युधिष्ठिरेण कृते प्रश्नद्वये तन्त्रेणोभयोरुत्तरं वदन्नहुषच्यवनसंवादरूपमितिहासं व्याहरद्भीष्मः । द्वादशवर्षपर्यन्तं जले निरुष्य तपः कुर्वंश्च्यवनः कदाचिन्निषादैर्जालं प्रसार्य मत्स्यैः सहाकृष्टो व्याकुलान्मत्स्यानालोक्य कृपाविष्टो बभूव । च्यवनं दृष्ट्वा प्रसादं प्रार्थयन्तो निषादाः 'प्राणोत्सर्गं विसर्गं वा मत्स्यैर्यास्याम्यहं सह’ (25) इत्यादिकं तद्वाक्यं श्रुत्वा नहुषाय राज्ञे न्यवेदयन्......
- अध्यायः - ५१. निषादवाक्यं श्रुत्वा च्यवनसमीपमागत्य 'करवाणि प्रियं किं ते’ (4) इत्याभिधानो नहुषो 'मूल्यं दत्वा निषादेभ्यो मां मोचय' (5) इति तेनोक्तो मुख्यत्वेन स्वराज्यं सर्वं कल्पयति स्म । 'समग्रमपि ते राज्यं न मम मूल्यमतोऽपि भूयः प्रकल्पय' (13) इत्युक्तवति च्यवने तद्वाक्यं श्रुत्वा चिन्तयति नहुषे तं प्रति गवि जातो वनचरो मुनिरागत्य गां मूल्यत्वेन कल्प्येत्यब्रवीत् । गवि जातस्य मुनेरुपदेशाद्धृष्टेन नहुषेणागत्य 'उत्तिष्ठोत्तिष्ठ विप्रर्षे गवा क्रीतोऽसि भार्गव' (25) इत्युक्तश्च्यवनस्तदङ्गीकृत्य गोमाहात्म्यं वर्णयामास । च्यवनप्रसादान्मत्स्यैः सह निषादेषु स्वर्गं गतेषु विस्मितो नहुषश्च्यवनगविजाताभ्यां वरं लब्ध्वा स्वकीयं पुरं जगाम......
- अध्यायः - ५२. 'संशयो मे महाप्राज्ञ' (1) इत्यादिना परशुरामविश्वामित्रयोरुत्पत्तिविषये पृष्टो भीष्मश्च्यवनकुशिकसंवादरूपमितिहासं कथयितुमारेभे । च्यवनः स्ववंशे क्षत्रधर्मिणो रामस्य जननं कुशिकवंशे ब्राह्मणस्य विश्वामित्रस्य जननं च पूर्वमेवागत्य कुशिकवंशं दग्धुकामः कुशिकमागत्य त्वद्गृहे वस्तुमिच्छामीत्यवादीत् । तच्छ्रुत्वा कुशिकेन मधुपर्कसमर्पणादिना सत्कृत्य प्रार्थितश्च्यवनः 'अहं कंचिन्नियममारप्स्ये' (21) इत्याद्युवाच । दंपतीभ्यां तदङ्गीकृत्य निवेदिते गृहोद्देशे प्रवेशितच्यवनो रात्रौ स्वाभिलषितमन्नं भुक्त्वा स्वप्स्याम्यहं युवाभ्यां पादसंवाहनं कार्यं न चाहं बोधयितयः' (31) इत्युक्त्वा सुष्वाप, तौ च यथाज्ञप्तमकुरुताम् । एवमेकविंशतिदिनान्येकपार्श्वे सुप्तो निराहाराभ्यां दम्पतीभ्यां सेव्यमानोऽकस्मादुत्थाय गृहान्निष्क्रम्य ताभ्यामनुगतो गच्छन्नकस्मादन्तर्हितो बभूव.......
- अध्यायः - ५३. च्यवनेऽन्तर्हिते राजा किमकरोदिति युधिष्ठिरप्रश्ने भीष्मस्तदुत्तरमाह अन्तर्हिते च्यवने तं गवेषयन्तौ दम्पती श्रान्तौ यदा स्वगृहमागत्य पश्यतस्तदा शयनस्थं तं दृष्ट्वा पूर्ववदेव तत्पादसंवाहनं चक्रतुः । पुनः प्रतिबुद्धश्च्यवनः स्वाज्ञया राजानीतामभ्यङ्गसामग्रीमनादृत्यान्तर्धाय पुनः स्नातं सिंहासनारूढमात्मानं दर्शयन् राज्ञा प्रार्थनापूर्वकं समानीतान्नानाविधान्भोज्यपदार्थान् शयनासनादिभिः सह दाहयामास । एवमप्यविकृतौ तौ दंपती दृष्ट्वा 'भार्यया सह त्वं मां साग्रामिक रथेन वह' (27) इत्याज्ञप्तेन राज्ञा सज्जीकृते रथे आरुह्य तौ दंपती धुर्यस्थाने संयोज्य गच्छन् कशाप्रहारादिकं सहन्तावपि निर्विकारौ तावालोच्य राज्ञोऽनेकविधं वसु विततार । एवमप्यविकृतौ तावालोक्य प्रसन्नश्च्यवनो 'रमणीये गंगातीरेऽद्य वसामि त्वं गृहं गच्छ श्वो मामत्रैव द्रक्ष्यसि’ (57) इत्युक्तो राजा भार्यया सह गृहं गत्वा सुखं सुष्वाप........
- अध्यायः - ५४. प्रातरुत्थितो राजा भार्यया सह पूर्वसङ्केतिते वने यावदागच्छति तावत्तस्मिन्वने दिव्यप्रासादं पर्वतसरिद्वृक्षप्रभृतीन् दिव्यभावसमन्वितान् दृष्ट्वा भार्यायै तत्रत्यमाश्चर्यं कथयति स्म । अनेकेषु स्थलेषु दृश्यमानं पुनर्वनादिना सहान्तर्हितमालोच्य विस्मितं राजानमाहूय वरं याचस्वेत्युवाच च्यवनः । कुशिकस्तु 'अग्नि मध्य इव त्वत्सन्निधौ वसन्नदग्धो यच्च मे कुलं तत्त्वया त्रातमयमेव मे वरः' (37) इत्यभिधाय यदि प्रसन्नस्त्वं तर्हि मे कश्चित्संशयोऽस्ति तं व्याख्यातुमर्हसीत्युवाच .....
- अध्यायः - ५५. 'वरश्च गृह्यतां मत्तः’ (1) इत्यादि च्यवनवाक्यं श्रुत्वा ’यदि प्रीतोऽसि भगवन्’ (2) इत्यादिना स्वगृहवासादिविषये कारणं पृच्छति कुशिके च्यवनः 'शृणु सर्वमशेषेण’ (10) इत्यादिना तत्कथयित्वा ’एवमेतद्यथाऽऽत्थ त्वम्’ (30) इत्यादिना त्वत्तस्तृतीयो ब्राह्मणो भविष्यतीत्याह । मे कुलं विप्रत्वं कथमेष्यतीति पप्रच्छ कुशिकश्च्यवनम्......
- अध्यायः - ५६. 'अवश्यं कथनीयं मे' इत्यादिना च्यवनस्तत्कथयति सर्वम्......
- अध्यायः - ५७. 'मुह्यामीष निशम्याद्य’ (1) इत्यादिना अनुतापपूर्वकं ’शरीरं योक्तुमिच्छामि’ (5) इत्यादि युधिष्ठिरवाक्यं श्रुत्वा भीष्मो 'रहस्यमद्भुतं चैव' (7) इत्यादिना मरणानन्तरं यत्फलं येन साधनेन प्राप्यते तत्कथयामीति प्रतिजज्ञे । 'तपसा प्राप्यते स्वर्गः' (8) इत्यादिना तपःफलं 'पानीयस्य प्रदानेन' (20) इत्यादिना पानीयदानादिफलं 'सुवर्णशृङ्गैस्तु' (27) इत्यादिना गवादिदानफलं चाभ्यधाद्भीष्मः.........
- अध्यायः - ५८. "आरामाणां तडागानाम्’ (1) इत्यादिना आरामतडागादिकरणे फलं पृच्छति युधिष्ठिरे भीष्मस्तडागकरणफलमभिधाय 'अत ऊर्ध्वं प्रवक्ष्यामि’ (22) इत्यादिना षड्विधवृक्षजातीनां रोपणे फलं चोक्त्वा तडागारामयज्ञानां करणस्य स्वर्गावाप्तिरूपं फलमुपदिदेश.........
- अध्यायः - ५९. "यानीमानि बहिर्वेद्याम्’ (1) इत्यादिना दानानां मध्ये श्रेष्ठतमं दानं किमिति युधिष्ठिरानुयुक्तो भीष्मः 'अभयं सर्वभूतेभ्यः’ (3) इत्यादिना श्रेष्ठानि दानान्यभिधाय दानपात्रत्वेन ब्राह्मणानां श्रैष्ठ्यं वर्णत्रयपूज्यत्वं चाभ्यभाषत....
- अध्यायः - ६०. आचरणादिना तुल्ययोर्याचमानायाचमानयोर्मध्ये कस्मै दानं श्रेष्ठमिति युधिष्ठिरेणानुयुक्तो भीष्मोऽयाचमानाय यद्दानं तच्छ्रेष्ठमित्याचख्यौ.....
- अध्यायः - ६१. "दानयज्ञयोर्मध्ये परलोके महाफलं किम्’ (1) इत्यादिके युधिष्ठिरप्रश्ने भीष्मो दानश्रैष्ठ्यकथनपूर्वकं 'समृद्धः संप्रयच्छ त्वम्' (12) इत्यादिना देयानि दानान्याख्याय राज्ञोऽवश्यकर्तव्यं चोपदिश्यारक्षतो राज्ञः पापचतुर्थांशभागित्वं जगाद ......
- अध्यायः - ६२. 'इदं देयमिदं देयम्' (1) इत्यादिना बहुदेयानां राज्ञां किंस्विच्छ्रेष्ठं दानमिति युधिष्ठिरेणापृष्टो भीष्मो भूमिदानस्य श्रेष्ठत्वमभिदधत्तद्विषये भूमिगीता गाथाः शक्रबृहस्पतिसंवादरूपमितिहासं भूमिदानफलादिकं चाचष्ट......
- अध्यायः - ६३. 'कानि दानानि लोकेऽस्मिन्’ इत्यादिके युधिष्ठिरप्रश्ने भीष्मो नारदोपदिष्टमन्नदानस्य श्रेष्ठत्वमुपदिश्य त्वमप्येतत्कुर्वित्यभिधायान्नदानप्राप्यान् लोकान् कथयति स्म.......
- अध्यायः - ६४. 'नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे’ (1) इति पृच्छन्तं युधिष्ठिरं प्रति भीष्मो देवकीनारदसंवादेतिहासकथनमुखेन तमुपादिक्षत्.........
- अध्यायः - ६५. "सुवर्णादिदानफलानि......
- अध्यायः - ६६. उपानद्दानविषये युधिष्ठिरप्रश्ने तत्फलमभिधाय पुनर्युधिष्ठिरप्रश्नानुरोधेन तिलोत्पत्तिकथनपूर्वकं तिलदानफलं ब्रह्मदत्तभूमिमागे देवानां यज्ञकथनपूर्वकं भूमिदानफलं गोदानफलमन्नदानफलं चाभ्यधाद्भीष्मः......
- अध्यायः - ६७. विस्तरेणान्नादिदानफलं श्रोतुं युधिष्ठिरेण पृष्टो भीष्मस्तदब्रवीत् ........
- अध्यायः - ६८. तिलादीनां दानफलश्रवणार्थं पुनर्युधिष्ठिरेणानुयुक्तो भीष्मस्तद्विषये यमब्राह्मणसंवादरूपमितिहासमाचख्यौ । मध्यदेशे गङ्गायमुनयोर्मध्ये पर्णशालाख्यग्रामे निवसन्तं शर्मिनामानं ब्राह्मणमानय, तन्निकटवासिनं तत्सदृशं तन्नामानं नानय' (7) इति यमाज्ञां गृहीत्वा निर्गतेन दूतेनाज्ञाविपरीतमानीतं ब्राह्मणं संपूज्य तत्प्रक्षानुरोधेन तिलदानादिमाहात्म्यमुपदिश्य तं विसर्जयति स्म यमः । पुनरानीतमभीष्टं शर्मिणं प्रतिपूज्य तथैवोपदिश्य विसर्जयित्वा दीपादिदानं प्रशशंस यमः .......
- अध्यायः - ६९. 'भूय एव कुरुश्रेष्ठ दानानां विधिमुत्तमम् । कथयस्व महाप्राज्ञ भूमिदानं विशेषतः’ (1) इत्यादिके युधिष्ठिरप्रश्ने गोभूमिसरस्वतीनां दाने तुल्यफलत्वमभिधाय गोदानं प्रशशंस । 'देयाः किंलक्षणा गावः' (14) इत्यादिना किंलक्षणा देयाः कीदृशा न देयाः इत्यनुयुञ्जाने युधिष्ठिरे ’असद्वृत्ताय पापाय लुब्धायानृतवादिने । हव्यकव्यव्यपेताय न देया गौः कथञ्चन' (15) इत्यादिनान्त्ययोरुत्तरमभिधाय ब्राह्मणस्वापहारे दोषमाह स्म......
- अध्यायः - ७०. ब्राह्मणस्वापहारविषये नृगोपाख्यानमाख्यायान्ते यादवान्प्रति 'ब्राह्मणस्वं न हर्तव्यम्' (31) इत्यादिकं श्रीकृष्णेन कृतमुपदेशं कथयति स्म भीष्मः......
- अध्यायः - ७१. विस्तरेण गोदानफलं श्रोतुं युधिष्ठिरेण पृष्टो भीष्म उद्दालकनाचिकेतसंवादरूपमितिहासं व्याजहार । कदाचिदुद्दालको नियमं समाप्य 'नदीतीरे विस्मृतं मदीयमिध्मादिकमानय' (5) इत्याज्ञापयत्स्वपुत्रं नाचिकेतम् । स च नद्या प्लावितं तदनुपलभ्यागत्य 'तत्र तन्न पश्यामि' (6) इत्युवाच पितरम् । ततः स कुद्धेन पित्रा यमं पश्येत्याज्ञप्तो तं जगाम । ततः पिताऽनुतप्तः सन् यावदश्रूण्यमुञ्चत्तावद्यमेन सत्कारपूर्वकं विसर्जितो नाचिकेत आजगाम । ततः पित्रा पृष्टस्तत्रत्यं यमसंवादादिकं तत्र यमेनोक्तं गोदानमाहात्म्यं गवामभावे घृतधेन्वादिदानादिकं च व्याजहार नाचिकेतः.....
- अध्यायः - ७२. 'उक्तं ते गोप्रदानं वै' (1 ) इत्यादिनोक्तानुवादपूर्वकं गोप्रदातॄणां प्राप्यान् लोकान् ज्ञातुं युधिष्ठिरेण पृष्टो भीष्मः शक्रब्रह्मसंवादरूपमितिहासमाख्यात् । 'स्वर्लोकवासिनां लक्ष्मीम्' (6) इत्यादिना 'कीदृशां गवां लोकाः’ (7) इत्यादीन् प्रश्नान्श्चकारेन्द्रः......
- अध्यायः - ७३. एतत्प्रश्नाभिनन्दनपूर्वकमुत्तरं ददद्ब्रह्मा गोलोकं तत्र वसतां सुखं च निरूप्य तत्र गमनागमनाधिकारिणो गोप्रदानफलं, गोदानपात्रमनडुद्दानं तत्फलं चाख्यातवान् ......
- अध्यायः - ७४. 'जानन् यो गामपहरेत्' (1) इति शक्रप्रश्ने ब्रह्मा गवामपहारादौ दोषमभिधाय गोदाने दक्षिणात्वेन सुवर्णं देयमित्यब्रवीत् । भीष्म एतदाख्यानप्राप्तिपरम्परामाख्यायैतत्पठनफलं कथयति स्म युधिष्ठिरं प्रति......
- अध्यायः - ७५. 'व्रतानां किं फलं प्रोक्तम्’ (2) इत्यादिना युधिष्ठिरेण कृतानां प्रश्नानां भीष्मेण दत्तान्युत्तराणि .......
- अध्यायः - ७६. गोदानविधिश्रवणार्थं युधिष्ठिरेणानुयुक्तो भीष्मो गोदानं प्रशस्य तद्विधिमाख्याय गोदातुः फलं तद्विषये निदर्शनार्थमुशीनरादीनां गोदानेन स्वर्गप्राप्तिं चाभ्याचष्ट ......
- अध्यायः - ७७. 'गोप्रदानगुणान् सम्यक् पुनर्मे ब्रूहि भारत' (1) इति युधिष्ठिरेणानुयुक्तो भीष्मो 'वत्सलां गुणसम्पन्नाम्’ (4) इत्यादिनोत्तरं वदन् कपिलादानस्य श्रैष्ठ्यमाह । कपिलादानस्य विशेषफलश्रवणार्थं युधिष्ठिरानुयोगे भीष्मस्तत्कथयन्कपिलाया गोरुत्पत्त्यादिविषये वृद्धकथितमितिहासमाह । अमृतं पिबता प्रजापतिना निर्मितया सुरभ्या सौरभेयीषु निर्मितासु तद्वत्समुखनिर्गते फेने महादेवस्य शिरसि पतिते क्रुद्धं तं ध्वजवाहनयोर्वृषप्रदानेन पशुपतिं चक्रे प्रजापतिः । ’एवमव्यग्रवर्णानाम्’ (30) इत्यादिना कपिलादानमाहात्म्यमाख्यायोत्पत्याख्यानपठने फलं व्याजहार भीष्मः.......
- अध्यायः - ७८. एतद्विषय एव भीष्मो वसिष्ठसौदाससंवादरूपमितिहासमाचष्ट । ’त्रैलोक्ये परम पवित्रं किम्’ (3) इति सौदासेन पृष्टो वसिष्ठो गवां परमपवित्रत्वं व्याहृत्य तद्दानफलमभिदधाति स्म......
- अध्यायः - ७९. श्रेष्ठत्वप्राप्त्यर्थं गवां तपश्चरणं ताभ्यः प्रजापतेर्वरदानं चाख्याय कपिलादिगोदानफलं कथयति स्म वसिष्ठः......
- अध्यायः - ८०. 'घृतक्षीरप्रदा गावः’ (1) इत्यादिना पुनर्वसिष्ठेन कथितं गोदानमाहात्म्यं श्रुत्वा सौदासो ब्राह्मणेभ्योः बहु धनं दत्वा लोकानवापेत्याह भीष्मः .....
- अध्यायः - ८१. 'पवित्राणां पवित्रं यत्' (1) इत्यादिके युधिष्ठिरप्रश्ने भीष्मो गवां परमपवित्रत्वं प्रतिपाद्य तद्विषये व्यासशुकसंवादरूपामतिहासं व्याजहार.....
- अध्यायः - ८२. गवां पुरीषस्य पावित्र्यमुद्दिश्य युधिष्ठिरेणापृष्टो भीष्मो गोभिः श्रियाः संवादरूपमितिहासमभ्यधात् । गोभिः 'काऽसि देवि कुतो वा त्वम्’ (4) इति पृष्टा श्रीः स्ववृत्तान्तमाख्याय स्वनिवासार्थं स्थानमयाचत । गवां श्रियाश्चोक्तिप्रत्युक्त्यनन्तरमस्मच्छकृन्मूत्रयोर्निवस’ (24) इति गोभिरुक्ता श्रीः सहर्षं तदङ्गीचकार......
- अध्यायः - ८३. भीष्मः पुनर्गोदानं प्रशस्य गवां परमपवित्रत्वविषये पितामहशक्रसंवादरूपमितिहासमाचष्ट । 'गवां लोको देवानामुपरिष्टात्कृतः’ (13) इति शक्रेण पृष्ठो ब्रह्मा दक्षदुहितुः सुरभ्यास्तपश्चरणं वरप्रदानादिकं चाचख्यौ तच्छ्रुत्वेन्द्रोऽपि गाः संमानयति स्म.....
- अध्यायः - ८४. 'उक्तं पितामहेनेदम्' (1) इत्यादिना पूर्वोक्तानुवादपूर्वकं सुवर्णस्योत्पत्त्यादिविषयके युधिष्ठिरानुयोगे भीष्मः सुवर्णोत्पत्तिकथनं प्रतिज्ञाय स्वस्य शांतनौ मृते तत्पिण्डदानार्थं गङ्गाद्वारगमनं पिण्डग्रहणार्थं भुवं भित्वा पित्रा निष्कासितो हस्तं शास्त्रविचारेणनादृत्य कृतं दर्भेषु पिण्डदानं तेन तुष्टानां पितॄणां स्वप्ने दर्शनं तत्कथितं पित्रुद्धारफलकं स्वर्णदानं च कथयित्वा तदुपदेशेनाहं तथाऽकरवमित्युक्त्वैतद्विषये एव जामदग्न्यर्षिसंवादेतिहासमाह । जामदग्न्य एकविंशतिवारं निःक्षत्रियां पृथ्वीं विधाय पावनार्थं हयमेधेनेष्ट्वाप्यात्मनोऽपावित्र्यं मन्वानो मुनीनापृच्छ्य तदनुज्ञया वसिष्ठादीन् प्रति स्वपावित्र्यसाधनं पप्रच्छ । वसिष्ठादयः प्रशंसापूर्वकं सर्वदानेभ्यः श्रेष्ठं सुवर्णदानं पावित्र्यहेतुत्वेनाभिधाय सुवर्णमाहात्म्यविषये इतिहासं कथयन्तो हिमालये शिवपार्वत्योर्विवाहेन निर्वृत्ते तत उभयोः समागमे उत्पद्यमानादपत्यात्पराभवमाशङ्कमानैर्देवैः प्रार्थिते रुद्रे ऊर्ध्वरेतसि संपन्ने प्रजोत्पादननिरोधेन कुपिताया: पार्वत्या अग्निरहितान् देवान् प्रति प्रजोच्छेदरूपं शापं चाभ्यदधुः । रुद्रेण धृतं रेतः किञ्चिद्भुवि स्कन्नमग्नौ पतितं सद्ववृधे । एतस्मिन्काले तारकासुरतापिता देवा ब्रह्माणं शरणं जग्मुः .....
- अध्यायः - ८५. तारकासुरवृत्तान्तं श्रुतवता ब्रह्मणा ’हुताशनो न तत्रासीत्' (8) इत्यादिना पार्वतीशापकालेऽग्निस्तत्र नासीदिति 'सोऽपत्यमुत्पाद्य युष्माकं कार्यं करिष्यति' (12) इति कथितं श्रुत्वाऽग्निशोधार्थं देवा निर्जग्मुः । अग्निमन्विष्यन्तो देवा जलेऽश्वत्थे शमीगर्भे चाग्निस्थितिं क्रमेणाख्यातवतोऽग्निशप्तान् मण्डूकाद्विरदशुकान्वरदानेनानुगृह्य शमीगर्भेऽग्निं ददृशुः । ’ब्रूत यद्भवतां कार्यम्' (50) इत्याद्यग्निवाक्यं श्रुत्वा दैत्यवधसमर्थापत्योत्पादनार्थं देवैः प्रार्थितेनाग्निना गङ्गया मिश्रीभूय निहितं गर्भं सोढुमसमर्था सा मेरुपर्व ते तमुत्सृज्याग्निप्रश्नानुरोधेन 'जातरूपः स गर्भो वै' (72) इत्यादिना तद्वृत्तान्तमाख्यायान्तरधात् । अग्निरपि देवकार्यं विधायेष्टं देशं जगाम । स एव गर्भः शरवण प्राप्य वृद्धः सन् स्कन्नत्वात्स्कन्द इति कृत्तिकाभिः पोषितत्वात्कार्तिकेय इति गुहावासाद्गुहावास इति नामान्यवापेत्यभिधाय ’एव सुवर्णमुत्पन्नम्' (83) इत्यादिना सुवर्णोत्पत्तिमुपसंजहार वसिष्ठः । 'अपि चेद पुरा राम श्रुतं मे ब्रह्मदर्शनम्' (87) इत्यादिना वारुणीं तनुं बिभ्रतो युधिष्ठिरस्य यज्ञवृत्तान्तं तत्र प्रकारान्तरेणाग्नेः सकाशात्सुवर्णोत्पत्तिं चाभिधाय सुवर्णदानं प्रशस्य कार्तिकेयस्य सेनापतित्वेन तत्कृतं तारकासुरवधवृत्तान्तं वरणं चाचष्ट वसिष्ठः । एवं वसिष्ठेनोपदिष्टं सुवर्णदानं विधाय जामदग्न्यो निष्किल्विषोऽभवदित्याह भीष्मः.......
- अध्यायः - ८६. तारकासुरवधप्रकारं श्रोतुं युधिष्ठिरेणापृष्टो भीष्मस्तं कथयति स्म.......
- अध्यायः - ८७. श्राद्धविधिशुश्रूषया युधिष्ठिरेण प्रश्ने कृते भीष्मः श्राद्धविधिं प्रशस्य प्रतिपदादितिथिषु श्राद्धकरणे फलानि कथयति स्म......
- अध्यायः - ८८. 'किं स्विद्दत्तं पितृभ्यो वै' (1) इत्यादि युधिष्ठिरप्रश्ने भीष्मो द्रव्यविशेषेण पितॄणां तृप्तिविशेषमाख्याय 'अपि नः स्वकुले’ (12) इत्यादिकाः पितृगीता गाथाः कथयति स्म......
- अध्यायः - ८९. भीष्मो यमेन शशबिन्दवे कथितानि कृत्तिकादिभरण्यन्तेषु कर्तव्यानि काम्यानि श्राद्धानि व्याजहार....
- अध्यायः - ९०. 'कीदृशेभ्यः प्रदातव्यम्’ (1) इत्यादिके युधिष्ठिरप्रश्ने श्राद्धे वर्जनीयत्वेनापाङ्क्तेयान्ब्राह्मणानुक्त्वा 'इमे तु भरतश्रेष्ठ’ (24) इत्यादिना पंक्तिपावनान्ब्राह्मणांश्चामिधीयोभयोः श्राद्धे नियोजने दोषादोषावभ्यधाद्भीष्मः......
- अध्यायः - ९१. 'केन सङ्कल्पितं श्राद्धम्’ (1) इत्यादिके युधिष्ठिरप्रश्ने भीष्मः श्राद्धोत्पत्तिं कथयति स्म । स्वायभुवस्यात्रेः पुत्रस्य दत्तात्रेयस्य पुत्रो निमिः श्रीमन्नामान स्वपुत्रं मृतमुद्दिश्य शोचन् फलमूलादिभिरमावास्यायां श्राद्धं चकार । कृत्वा चैतदद्यावधि ऋषिभिरनाचीर्णं मया चरितमिति चिन्तयानं तं प्रत्यत्रिरागत्य श्राद्धविधिं श्राद्धभागार्हाणां देवानां नामान्यश्राद्धेयानि धान्यादीनि चाकथयत्......
- अध्यायः - ९२. निमिप्रवर्तितं श्राद्धविधिं कुर्वाणेषु मुनिषु निवापान्नं निषेव्याजीर्णेन पीडिता देवाः पितरश्च सोमप्रेरणया ब्रह्माणं गत्वा निवाषान्नेन वयं पीड्यामह इत्यूचुः । ततोऽग्निर्युष्मच्छ्रेयो विधास्यतीति तद्वाक्यं श्रुतवतोऽग्नेः 'सहितास्तात भोक्ष्यामः' (10) इत्यादि वाक्यं श्रुत्वा सर्वे विज्वरा अभवन् । अतो हेतोः पूर्वमग्नये ददति' (11) इत्यभिधाय पिण्डदानक्रमं चान्वाख्याय 'रजस्वला च या नारी’ (15) इत्यादिना रजस्वछादर्शननिषेधादिकं कथयतिस्म भीष्मः......
- अध्यायः - ९३. 'द्विजातयो व्रतोपेताः’ (1) इत्यादिना युधिष्ठिरभीष्मयोरुक्तिप्रत्युक्त्योः प्रवृत्तयो: 'दातृप्रतिग्रहीत्रोर्वै को विशेषः पितामह' (18) इति युधिष्ठिरप्रश्ने तदुत्तरं वदन् भीष्मो वृषादर्भे राज्ञः सप्तर्षीणां च संवादरूपमितिहासमाचष्ट । कश्यपात्रिवसिष्ठभरद्वाजगौतमविश्वामित्रजमदग्नयः सप्तर्षयोऽरुन्धती चेत्येते गण्डानाम्न्या दास्या पशुसखनामकपतिसहितया सह महत्यामनावृष्टयां क्षुधापीडिता भ्रमन्तः पूर्वं कस्मिश्चिद्यज्ञे शैब्येन दक्षिणात्वेन दत्तं मृतं पुत्रं परिवार्य स्वशरीराणि रक्षितं तमपचन्त । एतस्मिन्काले शैब्यो राजा वृषादर्भिरागत्य ’परिग्रहस्तारयति पुष्टिर्वै प्रतिगृह्यताम् । मयि यद्विद्यते वित्तं तच्छ्रुणुध्वं तपोधनाः’ (30) इत्याद्युवाच । तच्छ्रुत्वा राजप्रतिग्रहं विनिन्द्य 'कुशलं सह दानेन' (37) इत्यादिना राजोक्तं प्रत्याख्यायापक्वं राजपुत्रमांसं परित्यज्याहारकांक्षिणो निर्जग्मुः । राजाज्ञया तन्मन्त्रिषु हिरण्यगर्भाण्युदुम्बरफलान्यर्पयत्सु तानि गुरूणि दृष्ट्वा इमान्युपधियुक्तानीत्युक्त्वा तानि परित्यज्य ययुः । राजा च मन्त्रिभिराख्यातमिमं वृत्तान्तं श्रुत्वा क्रुद्धः सन्नभिचारेण कृत्यां निर्माय तेषां नामानि ज्ञात्वा सर्वान्मारयेत्यादिदेश तां प्रति । सा च राजाज्ञया यत्र बने सप्तर्षयो विचेरुस्तद्वनं जगाम । वने चरतो मुनीन् प्रति कश्चित्परिव्राट् शुना सहित आजगाम । तं दृष्ट्वाऽरुन्धत्या पृष्टास्ते तस्य परिव्राजः पीनत्वकारणान्याख्याय तेन प्रार्थितां स्वपरिचर्यामङ्गीकृत्य भ्रमन्तो घनवृक्षमध्यस्थां पद्मयुतां पद्मिनीं दृष्ट्वा तत्रागत्य तद्रक्षणकर्त्रीं राक्षसीं दृष्ट्वा का त्वमित्यादिप्रश्नपूर्वकं बिसान्ययाचन्त । तया राक्षस्या 'स्वस्वनामानि कथयित्वा यथेच्छं बिसान्याहरत' (84) इत्युक्तास्ते सर्वे गण्डतत्पतिपशुसखसहिताः स्वस्वनामनिर्वचनान्याचख्युः । सा च नामार्थमनवबुद्ध्यानुजज्ञे । एवं शुनः सखेनापि स्वनाम्नि कथिते सत्यपि पुनः कथयेत्युक्तवतीं राक्षसीं त्रिदण्डप्रहारेण घातयति स्म सः । तत ऋषयो बिसान्याहृत्य तीरे निक्षिप्य तर्पणं कृत्वा बहिरागतास्तान्यपश्यन्तोऽभिशंकमानाः शपथाञ्चक्रुः । तथैव शुनः सखस्य शपथं श्रुत्वा तरिमन् बिसस्तैन्यमारोपयामासुः । सोऽपि तदङ्गीकृत्य 'अहं युष्मत्परीक्षार्थमागतो वृषादर्भिप्रयुक्तां कृत्यामहनं, मां वासवं वित्त, लोभपरित्यागेन संपादितान् लोकानवाप्नुत' (143) इत्याद्युवाच । ते चेन्द्रेण सह सर्गं जग्मुः । स्वधर्मनिष्ठः कुप्रतिग्रहपराङ्मुखो निषिद्धवर्जितो मुख्यं पात्रमित्यध्यायतात्पर्यम् ......
- अध्यायः - ९४. शपथेन निषिद्धार्थप्रकाशनविषये ब्रह्मर्षिराजर्ष्यादितीर्थयात्रेतिहासमकथयद्भीष्मः । प्रभासक्षेत्रे मिलिताः शुकाङ्गिरःप्रभृतयो ब्रह्मर्षयो नारदप्रभृतयो देवर्षयः शिबिप्रभृतयो राजर्षयश्च पृथ्वीतीर्थयात्रां सङ्कल्प्य निर्गतास्तीर्थान्यटन्तो ब्रह्मसर एत्य तत्र बिसादीनि भुक्त्वाऽगस्त्यहृतं पुष्करमिन्द्रेण ह्रियमाणं ददृशुः । पुष्करमपश्यतागस्त्येनापहारशङ्का- याऽऽक्षिप्तेषु शुक्रप्रभृतिषु देवर्षिब्रह्मर्षिराजर्षिषु शपथान्विदधत्सु हृष्टः इन्द्र: 'अध्वर्यवे दुहितरं ददातु' (44) इत्यादीरूपं शपथमकरोत् । 'आशीर्वादस्त्वया प्रोक्तः’ (46) इत्यादिनाऽगस्त्येन पुष्करं याच्यमान इन्द्रो ’न मया भगवঁल्लोभात्’ (47) इत्यादिना क्षमापनपूर्वकं तस्मै ददाति स्म । पुष्करप्राप्त्या हृष्टेऽगस्त्ये ते सर्वे तीर्थानि जग्मुः .....
- अध्यायः - ९५. श्राद्धादिषु छत्रोपानहदानं केन प्रवर्तितमित्यादिकेषु युधिष्ठिरप्रश्नेषु भीष्मस्तदुत्तराभिधानं प्रतिज्ञाय जमदग्निसूर्यसंवादरूपमितिहासमुवाच । पुरा किल जमदग्निर्धनुषा क्रीडन् संधाय संधाय शरान्मुमोच रेणुका च क्षिप्तान् क्षिप्तान् शरानानीय तस्मै प्रादात् । एवं क्रीडायां प्रवृत्तायां शरानानयन्ती रेणुका सूर्यतापव्याकुला किञ्चिच्छायायां विश्रम्यागता क्रुद्धेन तेनाक्षिता सती 'सूर्यतापतप्ताह किञ्चिद्विश्राममकरवम्' (17) ततः क्रुद्धो जमदग्निः सूर्यं हन्तुं बाणं यावत्संदधे तावद्भीतः सूर्यो ब्राह्मणरूपेणागत्य 'किं ते सूर्योपराध्यते' (20) इत्यादिना तं प्रसादयामास.......
- अध्यायः - ९६. जमदग्निसूर्ययोरुक्तिप्रत्युक्त्योः प्रचलितयोः सूर्यस्य 'अपकारिणं मां विद्धि’ (7) इति वाक्यं श्रुत्वा प्रसन्नेन जमदग्निना 'यथा सुखगमः पन्थाः’ (12) तापनिवृत्त्युपाययोजने प्रेरितः सूर्यस्तस्मै छत्रं चर्मपादुके च दत्वा तद्दानं प्रशशंस । भीष्मश्चेतदाख्याय त्वमपि छत्रोपानहदानं कुर्वित्युपदिदेश युधिष्ठिरं प्रति । .......
- अध्यायः - ९७. गृहस्थधर्मं जिज्ञासोर्युधिष्ठिरस्य प्रश्ने भीष्मो वासुदेवपृथ्विसंवादरूपेतिहासं व्याहृत्य तमुपदिदेश ......
- अध्यायः - ९८. आलोकदानस्योत्पत्त्यादिशुश्रूषया युधिष्ठिरेण पृष्टो भीष्मस्तदुत्तरं कथयन् मनुसुवर्णर्षिसंवादरूपमितिहासमाचचक्षे । ’सुमनोभिर्देवतार्चनं कथमुत्पन्नम्’ (9) इति सुवर्णर्षिणा पृष्टो मनुः शक्रबलिसंवादरूपेतिहासनिदर्शनेन तदुत्तरमाह स्म । 'सुमनोधूपदीपानां प्रदाने किं फलम्’ (15) इति बलिनाऽनुयुक्तः शक्रः सुमनसामुत्पत्त्यादिकमसुरादिप्रियत्वेन तद्भेदान् धूपानां नानाप्रकारान् दीपदानस्य फलादिकं बलिकर्मगुणांश्चाब्रवीत्.....
- अध्यायः - ९९. पुनः पुष्पादिदानफलशुश्रूषया युधिष्ठिरेण पृष्टो भीष्मोऽगस्त्यनहुषसंवादेतिहासं कथयन्नुत्तरमाह स्म । स्वर्गं गत्वा देवराज्यमनुप्राप्तो नहुषो दैवीर्मानुषीश्च क्रिया दीपदानादिकं च कुर्वन् देवेन्द्रोऽहमित्यभिमानमावहन् सर्वक्रियाभ्यो भ्रंशं प्राप्त ऋषीन् वाहयामास । ऋषिचाहनक्रमेणागस्त्यस्य पर्याये प्राप्ते भृगुस्तदाश्रममागत्य ’एवं वयमसत्कारम्' (15) इत्याद्युवाच । अगस्त्येन नहुषस्य वरप्रदानादिकथनपूर्वकं तद्भ्रंशस्याशक्यत्वेऽभिहिते ततो भृगुः पुनस्तद्ब्रंशकरणं प्रतिजज्ञे......
- अध्यायः - १००. ’कथं वै स विपन्नश्च' (1) इत्यादिना युधिष्ठिरेणानुयुक्तो भीष्मो नहुषभ्रंशप्रकारं ब्रवीति स्म । वाहनार्थं नहुषेणाहूतोऽगस्त्यः स्वजटानिविष्टभृगुस्तं प्रत्यागत्य क्षिप्रं मां योजयेत्युवाच । ततो योजितेऽगस्त्ये तेन शिरसि पादेन ताडिते तत्रस्थो भृगुः 'सर्पो भूत्वा मही गच्छ’ (25) इति तं शशाप । ततोऽगस्त्यद्वारा तेन प्रसादितो भृगुः शापान्तमभिधाय ब्रह्माणं प्रति जगाम । स च तच्छ्रुत्वेन्द्रं स्वाराज्येऽभिषिषेच........
- अध्यायः - १०१. 'ब्राह्मणस्वापहारिणां का गतिः' (1) इति युधिष्ठिरानुयुक्तो भीष्मः क्षत्रबन्धुचाण्डालसंवादेतिहासकथनेन तदुत्तरमाह स्म । ’श्वखररजोव्याप्तशरीरस्त्वं गोरजोव्याप्तं शरीरं किमिति क्षालयसि’ (3-4) इति राजन्येन पृष्टश्चाण्डालो गोग्रहे हृतानां ब्राह्मणगवीनां दुग्धेन मिश्रीभूतेन रजसा व्याप्तं सोमं पिबतामृत्विजां दीक्षितस्य राज्ञश्च नरकपातं गोहर्तृपुरे वसतां दुग्धभोक्तॄणामल्पायुष्ट्वादिकं तत्र स्थितस्य ब्रह्मचारिणः स्वस्य तद्रजोमिश्रभिक्षाभक्षणेन चाण्डालत्वप्राप्तिं चाख्याय ब्रह्मस्वहरणदोषानुद्भाव्य चाण्डालयोनितः स्वमुक्त्युपायं प्रश्नमुखेन राज्ञः सकाशात्छ्रुत्वा ब्राह्मणार्थे स्वशरीरं परित्यज्येष्टां गतिमवाप ......
- अध्यायः - १०२. ’सुकृतिनामेके लोका उत भिन्ना:’ (1) इति युधिष्ठिरेण पृष्टो भीष्मः कर्मानुरोधेन लोकानां नानात्वमभिधाय तदेव विवरीतुं गौतमवासवसंवादरूपमितिहासमाख्याय तन्मुखेन ब्रह्मलोकं गतमपि ब्राह्मणस्वं न मुञ्चतीति तात्पर्यविधयाऽऽह......
- अध्यायः - १०३. 'दानं बहुविधाकारम्’ (1) इत्यादिनोक्तानुवादपूर्वकं तपसां मध्ये यत्परं तत्कथयेति युधिष्ठिरेणानुयुक्तो भीष्मोऽनशनस्य परमतपस्त्वमाख्याय तद्विषये भगीरथब्रह्मणोः संवादं कथयति स्म । ब्रह्मलोकं गतो भगीरथः ’केन साधनेनात्र त्वमगाः' (7) 'निष्काणां वै ह्यददं ब्राह्मणेभ्यः शतम्' (8) इत्यादिना 'साधनान्तराणि निरस्यान्तेऽनशनं परमं तपः’ (42)”एतदाख्याय भीष्मः 'तस्मादनशनैः’ (44) इत्यादिना युधिष्ठिरमुपदिदेश.......
- अध्यायः - १०४. ’शतायुरुक्तः पुरुषः शतवीर्यश्च जायते’ (1) इत्यादिना आयुष्मान् केन भवत्यल्पायुश्च केन भवतीत्यादिके युधिष्ठिरप्रश्ने भीष्मः ’आचाराल्लभते ह्यायुराचाराल्लभते श्रियम् । आचारात्कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च’ (6) इत्यादिना आचारस्यायुःश्रीकीर्तिकामहेतुत्वमनाचारस्यायुरादिनाशकत्वं चाभिधाय 'ब्राह्मे मुहूर्ते बुद्ध्येत धर्मार्थौ चानुचिन्तयेत् । उत्थायाचम्य तिष्ठेत पूर्वां सन्ध्यां कृताञ्जलिः’ (16) इत्यादिनाऽऽचारलक्षणं प्रतिपादयन् मध्ये आयुरादिनाशहेतुनप्याख्यायान्ते ’एष ते लक्षणोद्देशः’ (54) इत्यादिनोपसञ्जहार ।.......
- अध्यायः - १०५. 'यथा ज्येष्ठः कनिष्ठेषु' (1) इत्यादिके युधिष्ठिरप्रश्ने 'ज्येष्ठवत्तात वर्तस्व’ (2) इत्यादिना ज्येष्ठकनिष्ठयोर्वर्तनमभिदधाति स्म भीष्मः......
- अध्यायः - १०६. 'सर्वेषामेव वर्णानाम्’ (1) इत्यादिके युधिष्ठिरप्रश्ने भीष्मोऽङ्गिरसा कथितमुपवासविधिं व्याजहार....
- अध्यायः - १०७. ’पितामहेन विधिवद्यज्ञाः प्रोक्ता महात्मना । गुणाश्चैषां यथातथ्यं प्रेत्य चेह च सर्वशः’ (1) इत्यादिनोक्तयज्ञानुवादपूर्वकं दरिद्राणामर्थन्यूनत्वादिविशिष्टानां कर्तुं योग्यं यज्ञतुल्यफलकं विधिं कथयेति युधिष्ठिरेणानुयुक्तो भीष्मो 'यस्तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत् । अहिंसानिरतो नित्यं जुह्वानो जातवेदसम्' (6) इत्यादिनाऽध्यायशेषेण तथाविधमुपवासविधिं व्याजहार......
- अध्यायः - १०८. 'यद्वरं सर्वतीर्थानां, यत्र चैव परं शौच तन्मे व्याख्यातुमर्हसि’ (1) इति युधिष्ठिरेण पृष्टो भीष्मो 'अगाधे विमले शुद्धे’ (3) इत्यादिना प्रश्नद्वयस्योत्तरं जगाद.....
- अध्यायः - १०९. 'सर्वेषामुपवासानां यच्छ्रेयस्सुमहत्फलम् । यच्चाप्यसंशयं लोके तन्मे व्याख्यातुमर्हसि’ (1) इति युधिष्ठिरप्रश्ने तदुत्तरमभिधास्यन् भीष्मः स्वयंभुगीतकथनसुखेन मार्गशीर्षप्रभृतिद्वादशमासेषु केशवादिद्वादशनामभिरर्चनादि कथयित्वा 'अतःपरं नोपवासः’ (17) इत्यादिनोपसञ्जहार......
- अध्यायः - ११०. 'अङ्गानां रूपसौभाग्यम्’ (2) इत्यादिके युधिष्ठिरप्रश्रे तदुत्तरं कथयन् भीष्मो ’मार्गशीर्षस्य मासस्य’ (3) इत्यादिना चान्द्रव्रतमुपदिदेश.......
- अध्यायः - १११. ’श्रोतुमिच्छामि मर्त्यानां संसारविधिमुत्तमम्’ (1) इत्यादिषु युधिष्ठिरप्रश्नेषु भीष्मस्तत्कालमागच्छन्तं बृहस्पतिं दृष्ट्वैनमनुयुङ्क्ष्वेत्यब्रवीत् । तत आगतं बृहस्पतिं संपूज्य 'मर्त्यस्य कः सहायो वै’ (9) इत्यादिना मर्त्यस्य कः सहायः की वैनं मृतमनुगच्छतीति पृच्छन्तं युधिष्ठिरं प्रति सः ’एकः प्रसूयते राजन्' (11) इत्यादिनाऽसहायत्वं प्रतिपाद्य 'धर्म एकोऽनुगच्छति' (14) इत्युवाच । 'शरीरनिचयं ज्ञातुं बुद्धिस्तु मम जायते' (20) इत्यादिना धर्मानुगमनमाक्षिपति युधिष्ठिरे 'पृथिवी वायुराकाशमापो ज्योतिर्मनोन्तगः । बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा’ (21) इत्यादिना तदुपपत्तिं व्याजहार बृहस्पतिः । ’कथं रेतः प्रवर्तते’ (27) इति युधिष्ठिरेणापृष्टो वृहस्पतिः’ अन्नमश्नन्ति यद्देवा:’ (28) इत्यादिना रेतःप्रादुर्भावादिकमाचचक्षे । 'जातः पुरुषो यथा प्रपद्यते तदुच्यताम्' (31) इति युधिष्ठिरेण पृष्टो बृहस्पतिः ’आसन्नमात्रः पुरुष:’ (32) इत्यादिना तदुत्तरमाह स्म । 'जीवः स भगवन्क्वस्थः सुखदुःखे समश्नुते’ (34) इति युधिष्ठिरेण पृष्टो वृहस्पतिः 'कर्मणा येन येनेह यस्यां योनौ प्रजायते । जीवो मोहसमायुक्तस्तन्मे निगदतः शृणु’ (41) इत्यादिना जीवस्य सुखदुःखभागित्वमाख्याय कर्मानुरोधेन प्राप्यान् गतिविशेषानप्याचष्ट.....
- अध्यायः - ११२. 'धर्मस्य गतिं श्रोतुमिच्छामि' (1) इति युधिष्ठिरेणानुयुक्तो बृहस्पतिः ’कृत्वा पापानि कर्माणि’ (3) इत्यादिनाऽधर्मगतिमनूद्य धर्मगतिं प्रदर्श्य दानप्रशंसापूर्वकमन्नदानादिना शुभगतिप्राप्त्यादिकं व्याहार्षीत्.....
- अध्यायः - ११३. 'अहिंसादीनां मध्ये किं श्रेयः’ (1) इति पृच्छन्तं युधिष्ठिरं प्रति 'सर्वाण्येतानि धर्म्याणि’ (2) इत्याद्यभिधाय स्वर्गं जगाम बृहस्पतिः ......
- अध्यायः - ११४. 'कर्मणा मनसा वाचा' हिंसां कुर्वन् कथं दुःखान्मुच्यते' (2-3) इति युधिष्ठिरेण पृष्टो भीष्मः 'चतुर्विधेयं निर्दिष्टा’ (4) इत्यादिना अहिंसाधर्ममाख्याय मांसभक्षणनिषेधं तद्भक्षणे दोषं चाभ्यघात् .......
- अध्यायः - ११५. 'अहिंसा परमो धर्मः' (1) इत्यादिना इदानीमहिंसाधर्मं प्रतिपादयतः पूर्वं मांसैर्बहुविधैः श्राद्धविधिं प्रतिपादितवतश्च विरोधमुद्भाव्य 'दोषो भक्षयतः कः स्यात्’ (3) इत्यादि पृच्छति युधिष्ठिरे भीष्मः 'मांसस्याभक्षणाद्राजन्’ (7) इत्यादिना अहिंसाधर्मं प्रतिपादयन्मांसभक्षणाभक्षणयोर्दोषगुणावभ्यधात्.....
- अध्यायः - ११६. 'इमे वै मानवा लोके’ इत्यादिना मांसभक्षणे ये गुणास्तद्भक्षणे ये च दोषास्तान् कथयेति पुनर्युधिष्ठिरप्रश्ने भीष्मः 'न मांसात्परमं किञ्चित्' (7) इत्यादिना मांसस्य गुणान् ’विवर्जिते तु बहवः' (10) इत्यादिना तद्विवर्जने गुणांस्तद्भक्षणे बहून् दोषांश्चाभिधाय मृगयायां क्षत्रियाणां तद्भक्षणे दोषाभावं सर्वेषु दयावतः प्रशंसापूर्वकं मांसमभक्षयतः स्वर्गादिफलं च प्रतिपाद्य 'अहिंसा परमो धर्मः' (38) इत्याद्युपदिदेश......
- अध्यायः - ११७. युद्धे मृतानां गतिज्ञानार्थं युधिष्ठिरेण पृष्टो भीष्मः 'समृद्धौ वाऽसमृद्धौ वा’ (3) इत्यादिनाऽस्मिन्संसारे समायाताः प्राणिनो येन भावेन शुभे वाऽशुभे वा निरतास्तत्र कारणं कथयामीत प्रतिज्ञायैतद्विषये व्यासकीटसंवादरूपमितिहासमाह स्म । शकटमार्गे सन्त्रस्तो धावन् कीटः सर्वज्ञेन व्यासेन ’कीट सन्त्रस्तरूपोऽसि’ (9) इति पृष्टः ’शकटो मां न हन्यादिति भयेन पलायनं करोमि’ (11) इत्युवाच । पुनः 'कीटयोनौ ते कुतः सुखम्' (15) इति व्यासेन पृष्टः स तद्योनावपि सुखं प्रतिपाद्य स्वस्य पूर्वजन्मनो वृत्तान्तं तत्स्मृतिकारणं चाख्याय स्वस्यागाभिसुखं पप्रच्छ....
- अध्यायः - ११८. 'शुभेन कर्मणा यद्वै' (1) इत्यादिना व्यासेनोपदिष्टः कीटश्चक्रेण भिन्नशरीरः क्षत्रियकुले जन्म प्राप । तत्रापि पुनर्व्यास आगत्य 'गोब्राह्मणकृते सङ्ग्रामे प्राणांस्त्यक्त्वा ब्राह्मण्यं प्राप्य ब्रह्मभूतो भविष्यसि’ (22-23) इत्युवाच.....
- अध्यायः - ११९. व्यासप्रसादाद्राजत्वं प्राप्तः कीटस्तपस्यस्तुष्टेन व्यासेन प्रजापालने नियुक्तस्तत्कुर्वंस्ततो वनं गतः प्रेत्य ब्राह्मण्यामवाप । तत्रापि व्यासोपदेशाद्धर्माचरणं कुर्वन्सनातनं ब्रह्म प्राप........
- अध्यायः - १२०. 'विद्यातपोदानानां किं विशिष्यते’ (1) इति युधिष्ठिरानुयुक्तो भीष्मो मैत्रेयव्याससंवादरूपेतिहासकथनमुखेनोत्तरमाह स्म । यदृच्छया चरन्व्यासः कदाचिद्वाराणस्यां मैत्रेयमागत्य तेन सत्कारपूर्वकं दत्तमन्नं भुक्त्वा विस्मितः सम्प्रातिष्ठत । तदा तेन विस्मयकारणं पृष्टस्तदाख्याय दानं प्रशशंस......
- अध्यायः - १२१. व्यासादनुज्ञां संप्रार्थ्य भाषमाणो मैत्रेयः 'निर्दोषं निर्मलं चैवं वचनं दानसंहितम्’ (4) इत्यादिना पात्रगुणाधीनत्वं दानफलस्याभिधाय ’तपः श्रुतं च योनिश्च’ (7) इत्यादिना तात्पर्यविधया तपःश्रुते प्रशशंस.....
- अध्यायः - १२२. व्यासो मैत्रेयप्रसंसापूर्वकम् ’अहं दानं प्रशंसामि’ (5) इत्यादिना तपोविद्ये अपि प्रशस्य दानप्रशंसापूर्वकं पुनरूपदिदेश । मैत्रेयश्च तं प्रणम्य प्रदक्षिणीकृत्य च गमनमनुजज्ञे......
- अध्यायः - १२३. 'सत्स्त्रीणां समुदाचारम्' (1) इत्यादिना सत्स्त्रीसमुदाचारं पृच्छति युधिष्ठिरे भीष्मः सुमनानाम्न्याः कैकेय्याः शाण्डिल्याश्च संवादं द्वारीकृत्य तं व्याजहार.......
- अध्यायः - १२४. 'सामदानयोर्मध्ये किं ज्यायः’ (1) इति युधिष्ठिरेण पृष्टो भीष्मः साम्नो गुणानभिधाय तद्विषये केनचिद्रक्षसा घृतस्य साम प्रयोजयतो ब्राह्मणस्य 'केनास्मि हरिणः कृशः’ (7) इति राक्षसप्रश्नोत्तरं दानाख्यानमाख्याति स्म....
- अध्यायः - १२५. ’श्रेयोर्थिना दरिद्रेण किं कर्तव्यम्’ (1) इति युधिष्ठिरेणानुयुक्तो भीष्मः ’शृणुष्वावहितो राजन् धर्मगृह्यानि भारत' (4) इत्यादिना धर्मगुह्यानि कथयन् देवदूतपितृसंवादमुखेन श्राद्धविधिं शक्रविद्युत्प्रभबृहस्पतिवाक्यानि तथा देवर्षिपितृसंवादमुखेन पितृतृप्तिप्रदं नीलवृषोत्सर्गं तद्विधिं चाचष्ट.....
- अध्यायः - १२६. 'केन ते च भवेत्प्रीतिः’ (1) इत्यादिनेन्द्रविष्णुसंवादमुखेन ब्राह्मणादिपूजनस्य विष्णुतुष्टिहेतुत्वं बलदेववाक्यात्प्रातर्गवादिस्पर्शस्य पापनाशहेतुत्वं देवानां वाक्यादुपवासग्रहणव्रतसंकल्पादिविधिं धर्मवाक्यादतिथिपूजनमग्निवाक्याद्गोब्राह्मणाग्नीनां पादस्पर्शनिषेधं विश्वामित्रवाक्याद्गजच्छायाश्राद्धमाहात्म्यं गोवाक्यात् 'बहुले समङ्गे’ (38) इति मन्त्रेण गोवन्दनादिकं सप्तर्षिब्रह्मसंवादमुखेन दरिद्रस्य यज्ञलप्राप्तिसाधनं चाभिदधाति स्म भीष्मः.....
- अध्यायः - १२७. विभावसुवाक्येन सोमस्यार्घ्यदानादिकं, श्रीवाक्येन प्रकीर्णभाजनादिवर्जनमगिरोवाक्येन सुवर्चलामूलहस्तेन करञ्जके संवत्सरं दीपदानस्य प्रजावर्धकत्वं, गार्ग्यवाक्येनातिथ्यदीपदानादिकं, धौम्यवाक्येन भिन्नभाण्डादिवर्जनं, जमदग्निवाक्येन हृदयशुद्धेः कर्मफलशुद्धिहेतुत्वं चाभ्यधाद्भीष्मः......
- अध्यायः - १२८. 'किञ्चिद्धर्मं प्रवक्ष्यामि' (1) इत्यादिना वायूक्तं मनुष्यसुखावहं धर्मरहस्यमब्रवीद्भीष्मः.....
- अध्यायः - १२९. लोमशोक्तं परदारवर्जनादिकं धर्मरहस्यम्.....
- अध्यायः - १३०. अरुन्धती कथितं कपिलादानादिकं धर्मरहस्यम् । ऋषीन्प्रति यमेनाभिहितं चित्रगुप्तोक्तधर्मरहस्यम्......
- अध्यायः - १३१. देवर्षिपितृप्रश्नानुरोधेन प्रमथैः कथितं धर्मरहस्यम्.....
- अध्यायः - १३२. रेणुकप्रश्नानुरोधेन दिग्गजैः कथितं धर्मरहस्यम् ......
- अध्यायः - १३३. महादेवाभिहितं धर्मरहस्यम्.......
- अध्यायः - १३४. स्कंदेनोपदिष्टं धर्मरहस्यं विष्णुकथितं सर्वधर्मरहस्यश्रवणफलं च......
- अध्यायः - १३५. 'के भोज्या ब्राह्मणस्येह' (1) इत्यादिना युधिष्ठिरेणानुयुक्तो भीष्मो ब्राह्मणादीना भोज्यानाख्याय शूद्राद्यन्नभोजने दोषानप्यभ्यधात्.......
- अध्यायः - १३६. ब्राह्मणस्य हव्यकव्ययोः प्रतिग्रहे भोज्ये च प्रायश्चित्तानि शुश्रूषुर्युधिष्ठिरो यदपृच्छत्तस्योत्तरं वदन्भीष्मो घृतादिप्रतिग्रहप्रायश्चित्तान्याख्याय मृतकस्य तृतीयदिनभोजनादीनां तान्याचष्ट.....
- अध्यायः - १३७. 'दानेन वर्ततेत्याह’ (1) इत्यादिना दानतपसोर्मध्ये किं श्रेष्ठमित्यभिप्रायके युधिष्ठिरप्रश्ने भीष्मः 'शृणु यैर्धर्मनिरतेः' इत्यादिना दानं प्रशंसंस्तेनात्रेयादीनामुत्तमलोकावाप्तिमाख्यात् .....
- अध्यायः - १३८. 'दानं कतिविधं देयम्’ (2) इत्यादिना युधिष्ठिरेण कृतेषु प्रश्नेषु भीष्मः ’शृणु तत्त्वेन कौन्तेय' (4) इत्यादिना दानस्य पञ्चविधत्वकथनपूर्वकं तत्फलादिकं व्याजहार......
- अध्यायः - १३९. ’पितामह महाप्राज्ञ’ (1) इत्यादिना प्रशंसापूर्वकं युधिष्ठिरेणोक्तो भीष्मस्तद्वाक्यं श्रुत्वा 'अस्य विष्णोः शंकरस्य च प्रभावं रुद्ररुद्राणी संवादं च कथयामि’ (8-9) इति प्रतिजज्ञे । द्वादशवार्षिकं व्रतं चरन्तं श्रीकृष्णं द्रष्टुं नारदादय आजग्मुः, ते च श्रीकृष्णेन सत्कृतास्तत्समीप उपविश्य मधुरा धर्मसहिताः कथाश्चक्रुः । एतदन्तेऽकस्माद्भगवन्नेत्रनिर्गतो वह्निः सर्वं पर्वतं दग्ध्वा भगवत्पादावस्पृशत् । भगवांश्चाग्निना दग्यं पर्वतं सौम्यैर्दृष्टिपातैः पुनः प्रकृतिस्थं चकार। एतदाश्चर्यदर्शनेन विस्मिता मुनयो भगवता विस्मयकारणं पृष्टाः सन्तः ’प्रथम वह्नेर्निर्गमनादिकं ब्रूहि पश्चाद्यच्छ्रुतं यच्च दृष्टं तद्वक्ष्यामहे’ (26-29) इत्युचुः । भगवान्वासुदेवः ’व्रतचर्यापरीतस्य' (32) इत्यादिना आत्मसमपुत्रलाभार्थं व्रतं चरितवतो ममायमात्मा मद्वक्त्रादग्निरूपेण निःसृत्य ब्रह्माणं द्रष्टुं गतस्तेन 'तेजसोऽर्धेन पुत्रस्ते भवितेति वृषध्वजः’ इत्युक्तो ममांतिकमागत्य शान्तोऽभूदित्याख्याय तान्प्रति यच्छ्रुतं यच्च वो दृष्टं तद्ब्रुवन्तु भवन्त इत्युवाच । तैश्च तत्कथयितुं प्रेरितो नारदो वक्तुमुपचक्रमे.....
- अध्यायः - १४०. पुण्ये हिमवति गिरौ तपश्चरन् महादेवो महर्षिभिरभिवंदितचरणः सभायामुपविवेश । तदोमापार्श्वत आगत्य नर्मार्थं महादेवस्य नेत्रे पाणिभ्यां समावृणोत् । तदा सर्वस्मिँल्लोके नष्टालोकेऽकस्मात्तस्य ललाटे तृतीयं नेत्रं समभूत् । तत्तेजसा दग्धं हिमालयं पुनरुमाप्रार्थनया भगवान्प्रकृतिस्थं चक्रे । तत उमाप्रश्नानुरोधेन तृतीयनेत्रोत्पत्तिकारणादिकमभिधाय 'भगवन् केन ते वक्त्रम्’ (46) इत्यादिना पुनरुमयाऽनुयुक्तो महादेवस्तदाख्यातुमुपचक्रमे....
- अध्यायः - १४१. उमया पृष्टो महादेवः 'तिलोत्तमा नाम पुरा’ (1) इत्यादिना स्वस्य वक्त्रचतुष्टयप्रादुर्भावकारणं जटिलत्वनीलकण्ठत्वकारणे वृषभध्वजत्वकारणं चाख्यातवान् । 'निवासा बहुरूपास्ते' (13) इत्यादिनोमया श्मशाननिवासकारणे पृष्टे महादेवो 'मेध्यान्वेषी' (16) इत्यादिना तदब्रवीत् । 'धर्मः किं लक्षणः प्रोक्तः’ (23) इत्यादिना धर्मलक्षणे उमया पृष्टे महादेवः 'अहिंसा, सत्यवचनम्’ (25) इत्यादिना धर्मस्य पञ्चविधत्वमाख्याय पुनरुमाप्रश्नानुरोधेन 'रहस्यश्रवण धर्मः' (35) इत्यादिना चातुर्वर्ण्यधर्मानाचष्ट । सर्वसाधारणं धर्मं श्रोतुमुमया पृष्टो महेश्वरः 'ब्राह्मणा लोकसारेण' (62) इत्यादिना ब्राह्मणधर्मकथनपुरःसरं त्रिवर्गसाधारणं धर्ममाख्याय मोक्षसाधनभूतं निवृत्तिधर्मं ’निवृत्तिलक्षणस्त्वन्यः’ (80) इत्यादिना बभाषे । ऋषिधर्मं ज्ञातमुमया पृष्टो महेश्वरो 'हन्त तेऽहं प्रवक्ष्यामि’ (95) इत्यादिना तमब्रवीत्........
- अध्यायः - १४२. 'देशेषु रमणीयेषु' (1) इत्यादिना वानप्रस्थधर्मेषु मया पृष्टेषु महादेवः 'वानप्रस्थेषु यो धर्मः’ (4) इत्यादिना तमुदैरयत् । 'ज्ञानगोष्ठीषु ये संसिद्धा वनवासिनः । स्वैरिणो दारसंयुक्तास्तेषां धर्मं कथय’ (20-21) इत्युमयाऽनुयुक्तो महेश्वरः 'स्वैरिणस्तपसा देवि सर्वे दावविहारिणः' (22) इत्यादिना तमभ्यधात् । 'आश्रमाभिरतास्ता पसादयः केन कर्मणा फलं प्राप्नुवन्ति' (34) इत्यादिके उमाप्रश्ने 'उपवासव्रतैर्दान्ता' (38) इत्यादिनोत्तरमाह स्म महादेवः......
- अध्यायः - १४३. 'केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम्' (2) इत्यादिना केन कर्मविपाकेन वैश्यः शूद्रतां, क्षत्रियो वैश्यतां, द्विजः क्षत्रियतां, विप्रः शूद्रतां, क्षत्रियश्च शूद्रतां, यातीत्यादिके उमाप्रश्ने 'ब्राह्मण्यं देवि दुष्प्रापम्' (6) इत्यादिना ब्राह्मणादिकर्मकथनपूर्वकं तत्तत्कर्मव्यत्ययादिना तत्तदन्नभक्षणादिना च प्रातिलोम्यं भवतीत्याह स्म महादेवः.....
- अध्यायः - १४४. 'धर्माधर्मौ नृणां ब्रूहि' (1) इत्यादिनोमया कृतेषु प्रश्नेषु तदुत्तरं वदन्महादेवः 'देवि धर्मार्थतत्त्वज्ञे’ (4) इत्यादिना कर्मबन्धनिवृत्तिहेतूनि कर्माण्यभिदधदर्थात्तद्विपरीतानि बन्धहेतुनीत्यभ्यधात् । 'बाचा तु बध्यते येन' (18) इत्यादिनोमया पृष्टो महादेव: 'आत्महेतोः परार्थं वा' (19) इत्यादिना बंधनिवृत्तिहेतुं वाचमभिदधदर्थात्तद्विपरीतां बन्धहेतुं व्याजहार । 'मनसा बध्यते येन' (28) इत्यादिनोमया पृष्टो महादेव: 'मानसेनेह धर्मेण’ (29) इत्यादिना बन्धनिवृत्तिहेतून् मानसव्यापारानभिदधदर्थात्तद्विपरीतान्बन्धहेतूनवोचत् । 'केनायुर्लभते दीर्घम्’ (42) इत्यादिना दीर्घायुष्ट्वाल्पायुष्ट्वादिकारणे उमया पृष्टे महादेवः 'हन्त तेऽहं प्रवक्ष्यामि’ (48) इत्यादिना तत्कथयति स्म.....
- अध्यायः - १४५. 'किं शीलः किं समाचारः’ (1) इत्यादिना पार्वत्या पृष्टो महादेवः 'दाता ब्राह्मणसत्कर्ता' (2) इत्यादिना स्वर्गगामिनस्तत्प्रसंगेन निरयगामिनश्चाचष्ट । 'इमे मनुष्या दृश्यन्ते’ (43) इत्यादिना केन कर्मविशेषेण प्रज्ञावादादयो भवन्तीति पार्वतीप्रश्ने महादेवः 'ब्राह्मणान्वेदविदुषः’ (47) इत्यादिना तदुत्तरमाख्याय 'सावद्यं किंतु वै कर्म’ (54) इत्यादि पार्वतीप्रश्ने पुनस्तदुत्तरं पुनः 'अपरे स्वल्पविज्ञानाः' इत्यादिप्रश्ने तदुत्तरं चाचख्यौ.....
- अध्यायः - १४६. स्त्रीधर्मान् ज्ञातुं महादेवेन पृष्टा पार्वती 'त्वद्दर्शनार्थमागताभिर्गङ्गादिभिः सह विचार्य कथयामि' (13-14) इत्यभिधाय ततो गङ्गयाऽनुज्ञाता सती स्त्रीधर्मान् कथयति स्म.....
- अध्यायः - १४७. ’वासुदेवस्य माहात्म्यं श्रोतुमिच्छामः’ (1) इति मुनिभिः पृष्टो महादेवो ब्रह्माणमारभ्य वसुदेवपर्यन्तं वंशपरम्परामभिधाय वसुदेवात्कृष्णजन्मादिवृत्तान्तं चाख्याय 'तस्मात्स वाग्मी धर्मज्ञः' (45) इत्यादिना नमस्यत्वादिकमवादीत्......
- अध्यायः - १४८. 'अथ व्योम्नि महान्शब्दः’ (1) इत्यादिना नारदेन शिवपार्वतीसंवादकथनोपसंहारे कृते मुनयः श्रीकृष्णं प्रणम्य प्रदक्षिणीकृत्य जग्मुः । भीष्म एतत्सर्वमाख्याय 'सोऽयं नारायणः' (19) इत्यादिना श्रीकृष्णमाहात्म्यमभिधाय 'भगवांश्चाप्यार्जवपरः' (37) इत्यादिना युधिष्ठिरमुपदिश्य ’एतदत्यद्भुतं वृतम्' (54) इत्यादिनोपसञ्जहार । एतदाकर्ण्य धृतराष्ट्रादयो जहृषुः......
- अध्यायः - १४९. 'किमेकं दैवतं लोके’ (2) इत्यादिषु युधिष्ठिरप्रश्नेषु भीष्मः 'जगत्प्रभुं देवदेवम्' (4) इत्यादिनोत्तराण्यभिधाय ’विष्णोर्नामसहस्त्रं मे’ (12) हत्याद्युक्त्वा 'ॐ विश्वं विष्णुर्वषट्कारः’ (24) इत्यादिना विष्णुसहस्रनामान्याख्याय तच्छ्रवणादिफलं चाचख्यौ....
- अध्यायः - १५०. ’कि जप्यं जपतो नित्यं भवेद्धर्मफलं महत्’ (1) इत्यादिके युधिष्ठिरप्रश्ने भीष्मो 'व्यासप्रोक्तां सावित्री श्रृणु’ (4) इत्युक्त्वा 'नमो वसिष्ठाय' (10) इत्यारभ्य 'पापस्य सुकृतस्य च’ (58) इत्यन्तेन सावित्रीमुपदिश्य ’एतान्वै कल्यमुत्थाय' (59) इत्यादिना तत्पाठफलमब्रवीत्.......
- अध्यायः - १५१. 'के पूज्याः के नमस्कार्या:’ (1) इत्यादिना युधिष्ठिरेणानुयुक्तो भीष्मो ब्राह्मणानां परिभवः’ (2) इत्यादिना प्रशंसापूर्वकं ब्राह्मणानां पूज्यत्वादिकमनुजगाद.....
- अध्यायः - १५२. 'कां तु ब्राह्मणपूजायाम्’ (1) इत्यादिना किं फलं क च कर्मोदयं दृष्ट्वा ब्राह्मणानर्चयसीति युधिष्ठिरस्यानुयोगे भीष्मः 'अत्राप्युदाहरन्तीमम्’ (2) इत्यादिना ब्राह्मणानां पूज्यत्वे पवनार्जुनसंवादेतिहासं कथयति स्म । दत्तात्रेयवरप्रदानेन लब्धसहस्रबाहुरर्जुनो वीर्यमदात् 'को वाऽस्ति सदृशो मम' (12) इत्याद्युवाच । तद्वाक्यान्ते ’न त्वं मूढ विजानीषे’ (14) इत्याद्याकाशवाणीं श्रुत्वा ’कुर्यां भूतानि तुष्टोऽहम्’ (15) इत्यादिना तामाक्षिपन्तं तं प्रत्यन्तरिक्षस्थो वायुः 'त्यजैनं कलुषं भावम्' (24) इत्याद्युवाच । तेन पुनः कस्त्वमित्युक्तो वायुरात्मानं कथयति स्म । स च पुनस्तं पप्रच्छ......
- अध्यायः - १५३. ’शृणु मूढ गुणान् कांश्चित्' (1) इत्यादिना कश्यपादिनिदर्शनकथनपूर्वकं ब्राह्मणान् प्रशशंस वायुः....
- अध्यायः - १५४. 'इमां भूमिं द्विजातिभ्यो दित्सुर्वै दक्षिणां पुरा’ (1) इत्यादिनाङ्गराजेन द्विजातिभ्यो दक्षिणात्वेन दीयमाना पृथ्वी कुद्धा सती स्थूलं 'स्वशरीरं त्यक्त्वा यदा ब्रह्मलोकं जगाम तदा कश्यपो मया त्यक्तं देहं योगबलेन प्रविश्य दिव्यानि त्रिंशद्वर्षसहस्त्राणि स्वयं भूमिरभूत् । ततः प्रभृति भूः काश्यपी जज्ञे इत्याख्यायिकामाह वायुः । पुनर्वायुरुतथ्यकथां कथयन् वरुणकृतमुतथ्यभार्याहरणमुतथ्यप्रेषितस्य नारदस्य वरुणकृतं प्रत्याख्यानमुतथ्यदत्तं वरुणशापं शापभीतेन वरुणेन कृतमुतथ्याय तद्भार्यासमर्पणमुतथ्यकृतवरुणमोचनादिकं चाख्यायोतथ्यो वरः क्षत्रियो वा वर इति ब्रूहीत्युवाच.....
- अध्यायः - १५५. तूष्णींभूते सहस्रार्जुने वायुर्देवप्रार्थनयाऽगस्त्येन स्वतेजसा कृतं दानवहननं तथा इन्द्रप्रार्थितेन वसिष्ठेन कृतं खलिदानवहननादिकं चाभिधाय वसिष्ठो वरः क्षत्रियो वा वर इति वदेत्यवादीत्......
- अध्यायः - १५६. "तूष्णींभूतेऽर्जुने पुनर्वायुस्तमसि प्रवृत्ते दानवैर्युध्यमाना देवा यदा पराबभूवुस्तदेन्द्रप्रार्थनयाऽत्रिः सोमसूर्यात्मको भूत्वा दानवान्ददाह । तत्तेजसा देवा अपि तान् जघ्नुरित्युक्त्वा च्यवनेऽश्विनोः सोमग्रहं दातुं प्रवृत्ते तं हन्तुमिन्द्रेणोद्यतं वज्र स्तम्भयित्वेन्द्रपराभवार्थं तत्कृतं मदासुरनिर्माणादिकं चाख्याय ’ब्रवीम्यहं ब्रूहि वा त्वं क्षत्रियं ब्राह्मणाद्वरम्’ (35) इत्युवाच......
- अध्यायः - १५७. तृष्णींभूतेऽर्जुने पुनर्वायुः मदास्यगतेषु देवेषु तत्काले च्यवनेन भूमौ हृतायां देवां ब्रह्माणं शरणं गत्वा द्यौः कपैराक्रान्ता भूश्च च्यवनेनाक्रान्ता' इत्याचख्युः । ततो ब्राह्मणान् शरणं गच्छतेति ब्रह्माज्ञया शरणमागत्य देवैः कपहननार्थं प्रार्थिता ब्राह्मणा ज्वालितानग्नीन् पृष्ट्वा कपान् जघ्नुरित्याद्याह स्म । वायूपदेशादर्जुनो 'जीवाम्यहं ब्राह्मणार्थम्' (24) इत्याद्युवाच । वायुश्च तं प्रति ब्राह्मणान् क्षात्रधर्मेण इत्याद्युवाच ......
- अध्यायः - १५८. 'ब्राह्मणानर्चसे राजन्' (1) इत्यादिके युधिष्ठिरप्रश्ने भीष्मः ’एष ते केशवः सर्वमाख्यास्यति महामतिः' (3) इत्याद्युक्त्वा भगवन्माहात्म्यं व्याजहार......
- अध्यायः - १५९. 'ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं मधुसूदन । वेत्ता त्वमस्य चार्थस्य वेद त्वां हि पितामहः’ (1) इति युधिष्ठिरेण पृष्टः कृष्णः ’प्रद्युम्नं प्रति यदहमब्रुवं तत्कथयामि’ (36) इत्याह स्म । ’किं फलं ब्राह्मणेष्वस्ति' (3) इत्यादि पृच्छन्तं प्रद्युम्नं प्रति ’व्युष्टिं ब्राह्मणपूजायाम्’ (7) इत्याद्युक्त्वा ब्राह्मणान् प्रशस्य 'अवसन्मद्गृहे तात ब्राह्मणो हरिपिङ्गलः' (14) इत्याद्यवोचम् । ’दुर्वाससं वासयेत्को ब्राह्मणं सत्कृतं गृहे’ (16) इत्यादिगाथां गायन्तं दुर्वाससमहं स्वगृहेऽवासयं स च कदाचिद्वहूनां सहस्राणामन्नं बुभुजे, कदाचित्स्वल्पम् । कदाचित्स गृहान्निर्गतो न पुनराजगाम । कदाचिद्गृहमागत्य सशय्यास्तरणं गृहं दग्ध्वा निर्गतः पुनरागत्य ’कृष्ण पायसमिच्छामि’ (22) इत्युवाच । ततो मया निवेदितं पायसं भुक्त्वा अवशिष्टेन पायसेनाङ्गानि लिम्पस्व इति तेनाज्ञप्तोऽविमृश्याङ्गानि म्यलेपयं तदनुज्ञया त्वन्मातू रुक्मिण्या अप्यङ्गानि न्यलेपयम् । उभावप्यावां रथे धुर्यवद्योजयित्वा स्वयंरथारूढो रुक्मिणी प्रतोदेन तुदन् राजमार्गेण निर्जगाम । व्रजति तस्मिन्श्रमाद्रुक्मिण्यां स्खलितायां रथात्प्रस्कद्योत्पथेन धावन्तं तमन्वहमप्यधावम् । तदा जितक्रोधं मां दृष्ट्वा सुप्रसन्नो मह्यं रुक्मिण्यै च वरान् दत्वाऽन्तर्दधे । अहं च 'यत्किंचिद्ब्राह्मणो ब्रूयात्तत्सर्वं कुर्याम्’ (51) इत्येतद्व्रतं कृत्वा गृहं प्राविशम्......
- अध्यायः - १६०. ’दुर्वाससः प्रसादाद्यद्विज्ञानं प्राप्तं तदाख्यातुमर्हसि’ (1) इति युधिष्ठिरप्रश्ने प्रातः स्वेन क्रियमाणं शतरुद्रीयजपं दक्षयज्ञविध्वंसनप्रकारं, त्रिपुरहननप्रकारं, चाचष्ट श्रीकृष्णः......
- अध्यायः - १६१. पुनः श्रीकृष्णो 'युधिष्ठिरमहाबाहो’ (1) इत्यादिना रुद्रस्य महाभाग्यं निबोधेत्युक्त्वा तस्य घोरसौम्ये तनू निरूप्येश्वरादिनाम्नां निर्वचनादिकं व्यवृणोत्......
- अध्यायः - १६२. 'निर्णयविषये प्रत्यक्षागमयोर्मध्ये किं कारणम्' (2) इति युधष्ठिरानुयोगे 'नास्त्यत्र संशयः कश्चिदिति मे वर्तते मतिः । शृणु वक्ष्यामि ते प्राज्ञ सम्यक्त्वं मेऽनुपृच्छसि' (3) इत्यादिनाऽऽगमबलीयस्त्वतात्पर्यकमुत्तरं जगाद भीष्मः। प्रत्यक्षानुमानागमानां मध्ये किं प्रबलं प्रमाणमिति युधिष्ठिरप्रश्ने भीष्मो 'धर्मस्य ह्रियमाणस्य’ (11) इत्यादिना वेदस्यैव मुखं प्रामाण्यं प्रत्यक्षानुमानयोर्व्यऽभिचारित्वादित्येतत्तात्पर्यकमुत्तरमब्रवीत् । ’वेदप्रत्यक्षाचाररूपप्रमाणत्रैविध्ये धर्मस्यैकत्वं कथम्’ (17-18) इति युधिष्ठिरेण पृष्टो भीष्मो 'धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः । ’यद्येवं मन्यसे राजस्त्रिधा धर्मविचारणा’ (19) इत्यादिना एक एव धर्मः प्रमाणत्रितयसंवादेन परीक्षणीय इत्येतत्तात्पर्यकमुत्तरमदात् । धर्ममसूयतां तत्पर्युपासकानां च गतिं पृष्टो भीष्मो 'रजसा तमसा चैव' (28) इत्यादिना तां कथयति स्म । युधिष्ठिरस्यासाधुसाधुरूपादिजिज्ञासया प्रश्ने 'दुराचाराश्च दुर्धर्षाः’ (33) इत्यादिनोत्तरमभिदधदसाधून् साधूंश्चाख्याय तेषामाचरणं चाह भीष्मः......
- अध्यायः - १६३. 'नाभागधेयः प्राप्नोति धनं सुबलवानपि’ इत्याद्यभिदधानं युधिष्ठिरं प्रति भीष्मः ईहमानः समारम्भानित्यादिना सुखाद्याप्तौ प्रमाणं कर्मैवेति बुद्ध्वा स्थिरो भवेत्युवाच ......
- अध्यायः - १६४. 'कार्यते यच्च क्रियते’ (1) इत्यादिनाऽध्यायेन धर्मप्रशंसापूर्वकं भीष्मस्योपदेशः.......
- अध्यायः - १६५. किं श्रेयः पुरुषस्येह किं कुर्वन्सुखमेधते । विपाप्मा स भवेत्केन किं वा कल्मषनाशनम्' (2) इति युधिष्ठिरानुयुक्तो भीष्मो 'अयं दैवतवंशो वै’ (3) इत्यादिना त्रिसन्ध्यं पठनात्कल्मषहरं दैवतवंशं गङ्गादिनदीर्हिमवदादिपर्व तान्पूर्वादिदिगवस्थितान्यवक्रीतादिऋषीन् नृगादिराजर्षींश्चाकथयत्.....
- अध्यायः - १६६. जनमेजयस्य ’शरतल्पगते भीष्मे’ (1) इत्यादिके प्रश्ने वैशम्पायनः 'अभून्मुहूर्तं स्तिमितम्' (4) इत्यादिना सर्वेषु तुष्णीं भूतेषु व्यासप्रेरितेन भीष्मेणानुज्ञातो युधिष्ठिरो धृतराष्ट्रादीन् पुरस्कृत्य हस्तिनापुरं जगामेत्याह स्म.....
- २. भीष्मस्वर्गारोहणपर्व
अनुशासनपर्व