- १.अश्वमेधपर्व
- २. अनुगीतापर्व
- अध्यायः - १६. सभायां वसतोः केशवार्जुनयोः का कथाऽवर्तत इति जनमेजयप्रश्ने वैशम्पायनस्योत्तरम् । सभां पश्यन्नर्जुनः कञ्चिद्रमणीय सभोद्देशमागत्य विदितं मे महाबाहो संग्रामे समुपस्थिते । माहात्म्यं देवकीमातस्तच्च ते रूपमैश्वरम् (5) इत्यादिना पूर्वं युद्धारम्भे भवता यदुक्तं तत्सर्वं मे नष्टं कौतूहलं तु तच्छ्रवणेऽस्ति इत्याद्युवाच । श्रीकृष्णस्तु तं प्रति न च शक्यं पुनर्वक्तुम्’ (11) इत्याद्याख्याय 'कश्चिद्ब्राह्मणो ब्रह्मलोकादागतोऽस्माभिः सत्कारपूर्वकं पृष्टो यदाह तत्कथयामि’ (15) इत्याद्याह स्म । अस्माभिः पृष्टो ब्राह्मणो ’मोक्षधर्ममाश्रित्य यदपृच्छस्तत्कथयामि’ (17) इति प्रतिज्ञाय काश्यपसिद्धसंवादरूपमितिहासं कथयन्काश्यपं प्रति सिद्धेन कथितं स्वसिद्धिप्राप्तौ साधनादिकमाचष्टे....
- अध्यायः - १७. काश्यपः सिद्धस्य पादावुपसंगृह्य कथं शरीरं च्यवते इत्यादीन्सप्त प्रश्नांश्चकार । क्रमेणोत्तराणि वदन् सिद्धः ’कथं शरीरं च्यवते’ इत्यस्योत्तरम् आपुः कीर्तिकराणीह' (6) इत्यादिनाभिधायान्ते उपपत्तिं तु वक्ष्यामि गर्भस्याहमतः परम्' (42) इत्यनेन ’कथं चैवोपपद्यते’ इति द्वितीयप्रश्नस्योत्तरमाख्यातुं प्रतिजज्ञे......
- अध्यायः - १८. 'शुभानामशुभाना च' (1) इत्यादिना पूर्वकृतशुभाशुभकर्म परीतस्य गर्भप्रवेशादिकं प्रतिपाद्य ’शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम्’ (24) इति संशयं ’शरीरमात्मनः कृत्वा' (25) इत्यादिना निवर्तयामास ब्राह्मणः.. .....
- अध्यायः - १९. ’यः स्यादेकायने लीनः’ (1) इत्यादिना संसारतरणोपायमुपदिशन् 'अतः परं प्रवक्ष्यामि’ (15) इत्यादिना योगशास्त्रं, योगसाधनानि, चोपदिशति स्म ब्राह्मणः । ’भुक्तं भुक्तमिदं कोष्ठे' (39) इत्यादिषु शिष्यप्रश्नेषु ’यथा स्वकोष्ठे प्रक्षिप्य' (45) इत्यादिनोत्तरमभिधाय ’इदं सर्वरहस्यं ते' (52) इत्यादिनोपसंहृत्य शिष्यं विसृज्य स्वयमप्यगच्छद्ब्राह्मणः । श्रीवासुदेवोऽर्जुनं प्रत्येतदभिधाय ’कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा’ (55) इत्याद्युवाच....
- अध्यायः - २०. ’भुक्तामिदं कोष्ठे' इति प्रश्नोत्तरं विवृण्वन् वासुदेवो दम्पत्योः संवादरूपमितिहासं व्याजहार । 'कं नु लोकं गमिष्यामि’ (3) इत्यादिके ब्राह्मणीप्रश्ने 'सुभगे नाभ्यसूयामि’ (5) इत्यादिनोत्तरमभ्यधाद्ब्राह्मणः.......
- अध्यायः - २१. पूर्वोक्तोत्तरविषये दशहोतृविधानं कथयन् ब्राह्मणो मनसः प्राग्वागुत्पत्तिमभ्यधात् । ’कस्माद्वागभवत्पूर्वः कस्मात्पश्चान्मनोऽभवत्' (10) इति ब्राह्मणीप्रश्ने ब्राह्मणो वाङ्मसोर्भूतात्मनश्च संवादं कथयन्नुत्तरमभ्यधात् । 'अनुत्पन्नेषु वाक्येषु' (24) इत्यादिके ब्राह्मणीप्रश्ने ब्राह्मणस्तदुत्तरं वदन् वाङ्मनसयोरुभयोरपि विशिष्टत्वमविशेषादाह....
- अध्यायः - २२. एतद्विषये ’अत्राप्युदाहरन्तीं मम् (1) इत्यादिना सप्तहोतॄणां विधानकथनपूर्वकं ब्राह्मणो ब्राह्मण्याः 'सूक्ष्मेऽवकाशे सन्तस्ते' (4) इति प्रश्नोत्तरं कथयन् घ्राणादीनां सप्तानामितरेतरकार्यकारित्वाभावं प्रतिपाद्य प्राणादीनां मनोधीनत्वं मनसोऽप्यर्थप्रकाशकत्वं घ्राणाद्यधीनमितीन्द्रियमनःसंवादेतिहासमुखेनाह स्म....
- अध्यायः - २३. 'अत्राप्युदाहरन्तीमम्’ (1) इत्यादिना पञ्चहोतॄणां विधानं कथयन्' स्वभावात्सप्त होतारः' (3) इति ब्राह्मण्याक्षिप्तो ब्राह्मणः स्वस्वश्रैष्ठ्यविषये विवदतां प्राणादीनां पञ्चानां ब्रह्मणा सह संवादं कथयन्ब्राह्मोक्तं सर्वेषामन्योन्याश्रयत्वेन समं प्राधान्यमाह स्म....
- अध्यायः - २४. अत्र ब्राह्मणकथितो नारददेवमतसंवादः, तत्र ’सञ्जायमानस्य जन्तोः प्राणादीनां पञ्चानां मध्ये कः पूर्वं प्रवर्तते’ (2) इति देवमतप्रश्ने येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम्’ इत्याद्युत्तरं वदन्नारदः ’केनायं सृज्यते जन्तुः' (4) इति देवमतेन पृष्टः 'सङ्कल्पाज्जायते हर्षः' (5) इत्याद्याह स्म...
- अध्यायः - २५. पुनः 'अत्राप्युदाहरन्तीमम् ' (1) इत्यादिना चातुर्होत्रविधानकथनं प्रतिज्ञाय ’कारणं कर्म कर्ता च मोक्ष इत्येव भाविनि’ (3) इत्यादिना तत्सर्वं कथयित्वाऽन्ते यज्ज्ञानायेन्द्रियजयो यस्मिञ्ज्ञाते सामानि गायन्ति तं नारायणं विद्धीत्याह ब्राह्मणः.....
- अध्यायः - २६. एकः शास्ता न द्वितीयोऽस्ति शास्ता' (1) इत्यादिना नारायणस्वरूपं तस्यैव गुरुत्वेन शास्तृत्वं चाख्याय गुरुकथितमेकमेवोपदेशमात्मबुद्ध्या यथायथं गृह्णन्तीत्येतद्विषये पन्नगदेवर्षिप्रभृतीनां ब्रह्मोपदेशाख्यानं कथयति स्म ब्राह्मणः.....
- अध्यायः - २७. ब्रह्मणोऽसङ्गत्वं प्रतिप्रादयितुं 'सङ्कल्पदंशमशक्रम्' (1) इत्यादिविशेषणविशिष्टं वनं प्रविष्टोऽस्मीति वदन् ब्राह्मणः ’क्व तद्वनं महाप्राज्ञ’ (3) इत्यादिना ब्राह्मण्या पृष्टो 'नैतदस्ति पृथग्भावः' (4) इत्यादिनोत्तराण्यभिधाय ’एतदेवेदृशं पुण्यम्' (24) इत्यादिनोपसञ्जहार.....
- अध्यायः - २८. 'गन्धान्न जिघ्रामि रसान्न वेद्मि’ (1) इत्यादिना विदुषः स्वस्य कर्तृत्वाभावात्कृतेनापि कर्मणा बन्धो नास्तीति प्रतिपाद्य तद्विषयेऽध्वर्युयतिसंवाद व्याजहार ब्राह्मणः.....
- अध्यायः - २९. इन्द्रियजय एव महच्छौर्यमिति प्रतिपादयितुं कार्तवीर्यसमुद्रसवादमब्रवीद्ब्राह्मणः । कदाचित्समुद्रतीरे विचरन्कार्तवीर्यः समुद्रं प्रति बाणान्ववर्ष । तदा समुद्रेण ’मा मुञ्च नाराचान्' ( 4 ) इति प्रार्थितः संग्रामे मत्सदृशं वीरं कथयेत्युवाच । समुद्रेण कथितं जामदग्न्यं राममागत्य प्रतिकूलान्याचरतस्तस्य बाहुसहस्रच्छेदनपूर्वकं पराभवं चकार रामः । एवं क्षत्रियान्वारंवारं निघ्नन्तं रामं प्रत्येकविंशतितमे युद्धे ऋचीकमुखास्तत्पितर आगत्य निवारयामासुः....
- अध्यायः - ३०. हिंसाया अकर्तव्यत्वे अलर्कस्येतिहासं कथयामासुर्जामदग्न्यपितरः । अलर्को मही जित्वा सूक्षमं विचारं कुर्वन्निन्द्रियाणि जिगीषुर्मनःप्रभृतिषु बाणान् युञ्जंस्तैः ’नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यति' (7) इत्यादिना प्रत्याख्यातस्तपश्चर्यां कृत्वा योगाख्येन बाणेनेन्द्रियाणि जित्वा सिद्धिमवाप । एवं पितृभिर्बोधितो रामस्तपश्चचार....
- अध्यायः - ३१. हृदयबन्धहेतुभूतं गुणत्रयं मुमुक्षुणा हेयमिति 'त्रयो वै रिपवः' (1) इत्यादिना प्रतिपाद्य 'अत्र गाथाः कीर्तयन्ति’ (4) इत्यादिनाऽम्बरीषकथिता 'भूयिष्ठं विजिता दोषाः’ (7) इत्यादिका गाथा अभ्यभाषत ब्राह्मणः...
- अध्यायः - ३२. पूर्वोक्ताम्बरीषगीतायां लोभनिकृन्तनमुक्तं तद्विषये ब्राह्मणजनकसंवादरूपमितिहासं कथयति स्म ब्राह्मणो ब्राह्मणीं प्रति । कस्मिंश्चिदपराधे 'विषये मे न वस्तव्यं' ( 2 ) इति जनकेनोक्तः कश्चिद्ब्राह्मणस्तं प्रति 'आचक्ष्व विषयं राजन्' (3) इत्युवाच । तच्छ्रुतवतो जनकस्य 'पितृपैतामहे राज्ये वश्ये जनपदे सति । विषयं नाधिगच्छामि विचिन्वन्पृथिवीमहम्' (8) इत्याद्युक्तिं तथा प्रश्नमुखेन 'अन्तवन्त्य इहावस्था:' (15) इति वाक्यं च श्रुत्वा सन्तुष्टो ब्राह्मणः 'त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम्’ (25) इत्याद्युवाच.....
- अध्यायः - ३३. ’नाह तथा भीरु चरामि लोके' (1) इत्यादिना स्वस्य सर्वात्मकत्वादिकमभिधाय ’तस्मात्ते सुभगे नास्ति' (8) इत्याद्युपदिदेश......
- अध्यायः - ३४. 'नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना’ (1) इत्यादिनाऽऽक्षेपपूर्वकं येनैषा मतिर्लभ्यते तमुपायं वदेति ब्राह्मणीप्रश्ने 'अरणीं ब्राह्मणीं विद्धि' (3) इत्यादिना ज्ञानाग्न्युत्पत्तिसाधनं कथयति स्म ब्राह्मणः । 'यदिदं ब्रह्मणो लिङ्गम्' (4) इत्यादिके पुनर्ब्राह्मणीप्रश्ने 'अलिङ्गो निर्गुणश्चैव' (5) इत्यादिनोत्तरमाह ब्राह्मणः । ’ततस्तु तस्या ब्राह्मण्याः' (10) इत्यादिकां भगवदुक्तिं श्रुत्वाऽर्जुनः क्व नु सा ब्राह्मणी' (11) इत्याद्यपृच्छत् । भगवांश्च 'मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् । क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनञ्जय' (12) इत्यादिदेश...
- अध्यायः - ३५. 'ब्रह्म यत्परमं ज्ञेयं तन्मे व्याख्यातुमर्हसि’ (1) इत्यर्जुनप्रश्ने श्रीकृष्णो गुरुशिष्यसंवादकथनमुखेनोत्तरमाचचक्षे । 'कुतश्चाहं कुतश्च त्वम्’ (7) इत्यादिषु शिष्यप्रश्नेषु गुरुः ’ब्रह्मणोक्तमिदं सर्वमृषिप्रवरसेवितम्' इत्यारभ्य 'जहाति मृत्युजन्मनी' (22) इत्यन्तेनोपदिश्य 'प्रवक्ष्येऽहम्' (24) इत्यादिना प्रजापतिभरद्वाजाद्यैः 'कथं कर्म क्रियात् साधु' (29) इत्यादिपृष्टो ब्रह्मा यदुवाच तदभिधास्ये इति प्रतिजज्ञे । प्रजापत्यादिभिः पृष्टो ब्रह्मा 'सत्याद्भूतानि जातानि' (32) इत्यादिनाऽध्यायशेषेण सर्वप्रक्षानामुत्तराण्यभिधाय पञ्चविंशतितत्त्वान्यभिदधाति स्म....
- अध्यायः - ३६. 'तदव्यक्तमनुद्रिक्तम्' (1) इत्यादि उक्तान्येव तत्त्वानि विवृण्वन्ब्रह्मा 'तमसो मिथुनसत्वं सत्त्वस्य मिथुन रजः' (6) इत्यादिना गुणानां मिथुनान्याख्याय 'संमोहोऽज्ञानमत्यागः' (12) इत्यादिना तमसो गुणादिकं व्यवृणोत्....
- अध्यायः - ३७. 'रजोऽहं वः प्रवक्ष्यामि’ (1) इत्यादिनाऽध्यायेन रजसो विवरणमकरोद्ब्रह्मा.....
- अध्यायः - ३८. 'अतः परं प्रवक्ष्यामि’ (1) इत्यादिनाऽध्यायेन सत्त्वगुण विवृणुते स्म ब्रह्मा...
- अध्यायः - ३९. 'नैव शक्या गुणा वक्तुम्' (1) इत्याद्यध्यायेन गुणानामन्योन्याश्रयत्वमुद्रेकादितारतम्येन गत्यादिकं ’तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वमुच्यते' (12) इत्यादिना शूद्रादिषु तम आदि सत्त्वं स्थावरादिष्वपि तत्सत्त्वं तथा दानादीनामपि गुणभेदेन त्रैविध्यं प्रतिपाद्य 'यत्किञ्चिदिह लोकेऽस्मिन्’ (21) इत्यादिना सर्वस्य गुणत्रयव्याप्तत्वं कथयति स्म ब्रह्मा.....
- अध्यायः - ४०. 'अव्यक्तात्पूर्वमुत्पन्नम्’ (1) इत्यादिनाऽध्यायेनाव्यक्तान्महत्तत्त्वोत्पत्तिं तत्स्वरूपं चाभ्यधाद्ब्रह्मा......
- अध्यायः - ४१. 'य उत्पन्नो महान्पूर्वं’' (1) इत्यादिना महतोऽहङ्कारोत्पत्तिं तत्स्वरूपादिकं चाह स्म ब्रह्मा...
- अध्यायः - ४२. 'अहङ्कारात्प्रसूतानि’ (1) इत्यादिनाऽध्यायेनाहङ्कारात्पञ्चभूतोत्पत्त्यादिकमेकादशेन्द्रियाणामुत्पत्तिं चाख्याय तेषामध्यात्माधिभूताधिदैवतादीन्यभिधाय तज्जयेन ब्रह्मप्राप्तिं प्राप्तब्रह्मभावस्य सर्ववस्तुत्वं चाभ्यधाद्रह्मा...
- अध्यायः - ४३. प्राप्तब्रह्मभावस्येश्वरत्वं समर्थयितुं 'मनुष्याणां तु राजन्यः’ (1) इत्यारभ्य 'ब्राह्मणा धर्मसेतवः' (17) इत्यन्तेन विभूतीराख्याय 'अत ऊर्ध्वं प्रवक्ष्यामि’ (20) इत्यादिना नियतं धर्मलक्षणमुक्त्वा 'गुणानां ग्रहणम्' (28) इत्यादिना घ्राणादीन्द्रियैर्गन्धादिगुणग्रहणमाख्याय 'अलिङ्गग्रहणः' (36) इत्यादिनेन्द्रियग्राह्यो नित्यः क्षेत्रज्ञः इत्याद्यादिदेश ब्रह्मा.....
- अध्यायः - ४४. 'यदादिमध्यपयन्त' (1) इत्यादिना जन्मादियुक्तं ग्राह्यं कर्मसाध्यं च निरूप्य ’सर्वे क्षयान्ता निचया:’ (9) इत्यादिना सर्वस्यान्तवत्त्वं ज्ञानस्यानन्तत्वं च प्रतिपाद्य ज्ञानेन सर्वपापमुक्तत्वमभ्यधाद्ब्रह्मा......
- अध्यायः - ४५. 'बुद्धिसारं मनःस्तम्भम्’ (1) इत्यादिना कालचक्रं निरूप्य तन्निवृत्त्युपायमाख्यास्यन् गृहस्थादींश्चतुर आश्रमाननुक्रम्य 'सस्कारैः संस्कृतः' (15) इत्यादिना गृहस्थधर्मानाचष्ट ब्रह्मा...
- अध्यायः - ४६. 'एवमेतेन मार्गेण' (1) इत्यादिना ब्रह्मचर्यधर्मान् ’एवं युक्तो जयेत्स्वर्गम्' (17) इत्यादिना वानप्रस्थधर्मान् 'गृहस्थो ब्रह्मचारी च' (18) इत्यादिना संन्यासिधर्मांश्चादिदेश ब्रह्मा...
- अध्यायः - ४७. 'सन्यास तप इत्याहुः’ (1) इत्यादिना संन्यासिधर्माननूद्य 'अव्यक्तयोनिप्रभवः' (12) इत्यादिना रूपकेण ब्रह्मवृक्षं प्रदर्श्य ज्ञानासिना तच्छेदनान्मुच्यते इत्याह ब्रह्मा...
- अध्यायः - ४८. 'केचिद्ब्रह्ममयं वृक्षम्' (1) इत्यादिनोक्तमेवोपदेशं पुनरनुवदति स्म ब्रह्मा...
- अध्यायः - ४९. संशयमापन्नानामृषीणां 'को वा स्विदिह धर्माणाम्’ (1) इत्यादिनाऽध्यायेन प्रश्नः...
- अध्यायः - ५०. 'हन्त वः संप्रवक्ष्यामि’ (1) इत्यादिना ज्ञानमार्गस्यैव श्रैष्ठ्यमभिदधानो हिंसापराणां नरकप्राप्तिं सकामकर्मकारिणा जन्मादिमत्त्वं चाभिधाय 'अतः परं प्रवक्ष्यामि’ (7) इत्यादिना सत्त्वक्षेत्रज्ञयोः संयोगवियोगौ प्रतिपाद्य ’यथाध्वानमपाथेयः' (19) इत्यादिना कर्मणां फलप्राप्तौ सदेहमुद्भाव्य 'यथार्णवं महाघोरम्’ (26) इत्यादिना संसारसमुद्रतरणसाधनत्वेन गुरुरूपनौकाश्रयणं प्रतिपाद्य ’यन्नैव गन्धि नो रस्यम्’ (32) इत्यादिना ज्ञेयस्वरूपं निरूपयन् महदाद्याकाशान्तानां स्वरूपगुणादिकं संवर्ण्य पुरुषस्य सर्वेभ्यः परत्वादिकमभ्यधाद्ब्रह्मा....
- अध्यायः - ५१. 'भूतानामथ पञ्चानाम्’ (1) इत्यादिना क्षेत्रज्ञपर्यंतरूपत्वं मनसोऽमिधाय मनोनियम्येन्द्रियाश्वादियुतं ब्रह्मरथम् 'अव्यक्तादि विशेषान्तम्' (7) इत्यादिना ब्रह्मवनं तत्र क्षेत्रविदः सञ्चारं चाख्याय ब्रह्मज्ञाने सति त्रसादीनां सर्वेषां लयं प्रदर्श्य 'प्रजापतिरिदं सर्वम्' (14) इत्यादिनेन्द्रियमनसामैकाग्र्यरूपेण तपसा देवादीनां प्रजापतिकर्तृकं सर्जनम् 'ध्यानयोगेन शुद्धेन' (22) इत्यादिना प्रसन्नान्त:करणस्य सुखोपचयप्राप्त्यादिकं च प्रतिपाद्य ’एतद्वः सर्वमाख्यातम्' (40) इत्यादिनोपसंहृत्य गुरुः' इत्युक्तास्ते तु मुनयः' (41) इत्यादिना ब्रह्मणोपदिष्ट कृतवतां मुनीनां लोकप्राप्तिमभिधाय स्वशिष्यमपि ’त्वमप्येतदाचर' (42) इत्युपदिशति स्म । एतत्कथयन्तं वासुदेवं प्रति ’को न्वसौ ब्राह्मण:' (45) इति पप्रच्छार्जुनः । वासुदेवस्तु 'अहं गुरुर्महाबाहो !’ (46) इत्याद्युक्त्वा 'यदि तव मयि श्रद्धा तर्हि मदुक्तं सम्यगाचर मोक्षं प्राप्स्यसि’ (47-48) इत्यभिधायेदमेव गीतारूपेण मया प्रागुपदिष्टमिति प्रतिपाद्य 'द्वारकां गन्तुमिच्छामि' (50) इत्युक्ते अर्जुनस्तु हस्तिनापुरं गत्वा युधिष्ठिरानुज्ञया गन्तुमर्हसीत्यब्रवीत्......
- अध्यायः - ५२. स्वाज्ञया दारुकेण योजितं रथमारुह्य कृष्णार्जुनौ हस्तिनापुरमागत्य धृतराष्ट्रादीनभिवाद्यार्जुनगृहे निरुष्य प्रातर्युधिष्ठिरमागत्य प्रीयमाणेन तेनानुज्ञातौ निषेदतुः । ततोऽर्जुनप्रार्थितस्य युधिष्ठिरस्याज्ञया द्वारकां गन्तुं प्रस्थितः श्रीकृष्णोऽनुयातान् विदुरादीन्निवर्त्य सुभद्रासहितो जगाम......
- अध्यायः - ५३. पथि गच्छन् श्रीकृष्णो मध्ये मीलितेनोत्तंकेन 'कश्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत् । कृतं सौभ्रात्रमचलम्' (10) इत्यादि पृष्टः ’कृतो यत्नो मया पूर्वम्' (15) इत्याद्युवाच । तच्छ्रुत्वा क्रोधेन शापं दातुं प्रवृत्तमुतङ्कं प्रति 'शृणु मे विस्तरेणेदम्’ (23) इत्याद्याह स्म श्रीकृष्णः .. .
- अध्यायः - ५४. 'ब्रूहि केशव तत्त्वेन' त्वमध्यात्ममनिन्दितम् । श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन' (2) इत्युत्तङ्केनोक्तः श्रीकृष्णः 'तमो रजश्च सत्त्वं च विद्धि भावान्मदाश्रयान्' (2) इत्यादिनाऽघ्यात्मतत्त्वोपदेशमुपदिदेश....
- अध्यायः - ५५. 'अभिजानामि जगतः कर्तारं त्वां जनार्दन' (1) इत्याद्युक्तो विश्वरूपदर्शनार्थमुत्तङ्केन प्रार्थितो भगवांस्तद्दर्शयामास । उत्तङ्कस्तु तद्दृष्ट्वा भीतः सन् पूर्वरूपदर्शनं प्रार्थयति स्म । ततः प्रसन्नेन भगवता वरं याचस्वेत्युक्तेनोत्तङ्केन मरुदेशे जले याचिते विश्वरूपमुपसंहृत्य यदा तव जलेच्छा भवेत्तदा मच्चिन्तनं कुर्वित्युक्त्वा द्वारकामगाच्छ्रीकृष्णः । मरुदेशे भ्रमन्नुत्तङ्कस्तृषितः सन्नच्युतं सस्मार, तदा कश्चिन्मातङ्ग आगत्य मत्तो जलं गृहाणेति वदंस्तेन प्रत्याख्यातोऽन्तर्दधे । तत उत्तङ्कः कृष्णेनाह वञ्चित इति यावद्विचारयति तावदाविर्भूतो विष्णुर्मातङ्गहस्तेनोदकं दातुं तव न योग्यमिति तेनोक्तमिन्द्रवृत्तान्तमभिधाय यस्मिन्नहनि तवेच्छा भवेत्तस्मिन्नहनि जलपूर्णाः पयोधरा भविष्यन्ति ते चोत्तङ्कमेघा इति नाम्ना ख्याता भविष्यन्तीत्यभ्यधात् । तच्छ्रुत्वोत्तङ्कस्तुतोष...........
- अध्यायः - ५६. 'उत्तङ्कः केन तपसा’ (1) इत्यादिके जनमेजयेन पृष्टे वैशम्पायन उतङ्कस्य तप आदि कथयति स्म । गौतमशिष्य उत्तङ्को बहून्यहानि गुरुगृहे वासं कुर्वन्कदाचिद्वनात्काष्ठभारं शिरसा धृत्वा गृहमागत्य यावत्काष्ठभारं त्यजीत तावत्काष्ठलग्नां धवलां स्वजटां दृष्ट्वा स्वस्य जरा ज्ञात्वा विलपन्गुरुणा गौतमेन गृहगमनार्थमनुज्ञातो 'गुर्वर्थं प्रयच्छामि' (20) इत्युवाच । तुष्टेन गुरुणा 'दक्षिणा गुरुतोषो वै' (21) इत्यनेन गुरुसंतोषमेव दक्षिणात्वेनाङ्गीकृत्य 'यदि त्वं युवा भविष्यसि तदा मत्कन्यां पत्नीत्वेन ददामि’ (22-23) इत्युक्तो युवा भूत्वा तत्कन्यां प्रतिगृह्य गुरुदक्षिणार्थं प्रार्थितया गुरुपत्न्याऽहल्यया 'सौदासपत्न्या विधृते कुण्डले आनय’ (29) इत्युक्तस्ते आनेतुं सौदासं राक्षसभावापन्नं प्रति जगामोत्तङ्कः । अहल्यातस्तद्वृत्तान्तं श्रुत्वा चिन्तयन्गौतमस्तया प्रार्थितस्तद्रक्षणं प्रतिजज्ञे......
- अध्यायः - ५७. सौदासं प्रति गत उत्तङ्कस्तेन सहोक्तिप्रत्युक्त्यनन्तरं तत्पत्नी मदयन्ती प्रत्यागत्य मणिकुण्डले याचितवान् । सा च राज्ञोऽभिज्ञानमानयेत्युवाच....
- अध्यायः - ५८. मदयन्तीवाक्यादुत्तङ्कः पुनरागत्य सौदासात् 'न चैवैषा गतिः क्षेम्या' (2) इति श्लोकरूपमभिज्ञानमादाय तस्यै निवेदयति स्म । तदभिज्ञानं श्रुत्वा तया दत्ते कुण्डले गृहीत्वा पुनः सौदासमागत्य तेन सहोक्तिप्रत्युक्त्यनन्तरं निर्गतो मध्येमार्गं केनचित्पन्नगेन कुण्डलहरणे विहिते नागलोकं गन्तुं दण्डेन वल्मीकविदारणे प्रववृते । ब्राह्मणरूपेणेन्द्रेण बोधितो यदा न निववृते तदा तन्निश्चयं ज्ञात्वेन्द्रेण दण्डे वज्रास्त्रे योजिते झटिति सञ्जातेन मार्गेण नागलोकं गतो यदा कुण्डलप्राप्तौ निराशोऽभवत्तदा कश्चिदश्वत्थस्तत्रागत्य 'धर्मस्वापानमेतन्मे’ (42) इत्युवाच । अश्ववाक्यात्तदपानधमति तस्मिंस्तद्रोमकूपेभ्यो निर्गतेन धूमेन व्याकुलैर्नागैः सत्कारपूर्वकमर्पिते कुण्डले गृहीत्वा गुरुपत्न्यै निवेदयति स्म ।.....
- अध्यायः - ५९. 'उत्तङ्कस्य वरं दत्वा' (1) इत्यादिके जनमेजयप्रश्ने वैशम्पायनः श्रीकृष्णस्य द्वारकागमनादिकमभ्यधात्.....
- अध्यायः - ६०. युद्धवृत्तान्तज्ञानार्थं वसुदेवेन पृष्टः श्रीकृष्णोऽभिमन्युवधवर्जं सर्वं कथयति स्म...
- अध्यायः - ६१. अभिमन्युवध कथयेत्युक्त्वा मूर्च्छितायां सुभद्रायां दुःखितेन वसुदेवेन पृष्टः श्रीकृष्णोऽभिमन्युयुद्धकथनपूर्वकं तमभिधाय कुन्तीकृतं सुभद्राऽऽश्वासनमुत्तराऽऽश्वासनादिकं चाकथयत्.....
- अध्यायः - ६२. वैशम्पायनो वसुदेवादिकृतमभिमन्युश्राद्धादिकमभिधाय व्यासेन कृतं कुन्त्या उत्तराया अर्जुनस्य चाश्वासनं धर्मराजं प्रत्यश्वमेधकरणाज्ञाकरणादिकं चाचष्टे.....
- अध्यायः - ६३. 'श्रुत्वैतद्वचनम्’ (1) इत्यादिना व्यासवाक्यश्रवणोत्तरं युधिष्ठिरः किमकरोत्, मरुत्तेन मह्यां निक्षिप्तं धनं च कथमवापेति जनमेजयप्रश्ने वैशम्पायन उत्तरमाचख्यौ 'श्रुतं वो वचनं वीराः’ (4) इत्यादिना युधिष्ठिरेण व्यासोपदिष्टमरुत्तनिहितधनानयनाद्यर्थं कथं कर्तव्यमिति भ्रातृषु पृष्टेषु सत्सु 'रोचते मे महाबाहो' (11) इत्यादिकं सोत्साहं भीमवाक्यं श्रुत्वा हृष्टे युधिष्ठिरेऽर्जुनादिभिरपि तथैवेत्युक्ते सर्वे पाण्डवाः सुमुहूर्ते स्वस्तिवाचनादिपुरःसरं ब्राह्मणादीन् प्रदक्षिणीकृत्य निर्ययुः.....
- अध्यायः - ६४. ससैन्येषु पाण्डवेषु निर्गतेषु तन्मध्ये विराजमानो युधिष्ठिरो द्रव्यदेशमागत्य समे शुभे देशे सेनाया निवेशं चकार । ततः सर्वे पाण्डवा ब्राह्मणाज्ञया जलमात्रं पीत्वा तां रात्रिं कुशसंस्तरेषूषुः......
- अध्यायः - ६५. 'क्रियतामुपहारोऽद्य' (1) इत्यादिना ब्राह्मणैरुपदिष्टं रुद्रबलिदानादिविधिं कृत्वा तद्धनं खानयित्वा नानाविधानि पात्रादीनि धनानि च गृहीत्वा हस्तिनापुरमाजगाम युधिष्ठिरः.....
- अध्यायः - ६६. 'अश्वमेधदर्शनार्थं श्रीकृष्णादिषु हस्तिनापुरमागतेषु सत्सु प्रसूताया उत्तरायाः सकाशादश्वत्थामशस्त्रपीडितः शवभूतः परीक्षिज्जज्ञे । तत्र जनकोलाहलं श्रुत्वाऽन्तःपुरं प्रविष्टं श्रीकृष्णं प्रति कुन्ती 'वासुदेव महाबाहो' (15) इत्यादिना भवता पूर्वप्रतिज्ञातमश्वत्थामहतस्यैतस्यौज्जीवनं कुर्वित्याद्याह स्म । एवमुक्त्वा भूमौ पतितां तां प्रति कृष्ण आश्वासयामास...
- अध्यायः - ६७. श्रीकृष्णं दृष्ट्वा सुभद्रा दुःखार्ता सती 'पुण्डरीकाक्ष पश्य त्वम्' (2) इत्याद्युवाच...
- अध्यायः - ६८. सुभद्रावाक्यमङ्गीकृत्य परिक्षिज्जन्मगृहप्रविष्ट द्रौपद्या प्रदर्शितं श्रीकृष्णं प्रति 'पुण्डरीकाक्ष पश्यावाम्’ (12) इत्याद्युवाचोत्तरा......
- अध्यायः - ६९. एवं विलप्य भूमौ पतित्वा पुनरुत्थाय स्वाङ्के पुत्रमारोप्य पुनर्विलपन्त्या उत्तराया बिलापवाक्यानि श्रुत्वा श्रीकृष्णोऽप उपस्पृश्य ब्रह्मास्त्रं प्रतिसंहॄत्य परिक्षिज्जीवनार्थं प्रतिजज्ञे । तत्प्रभावाद्बालकः शनैः शनैः प्रास्पन्दत.....
- अध्यायः - ७०. 'ब्रह्मास्त्रं तु यदा राजन्' (1) इत्यादिना परीक्षिज्जन्मवृत्तान्तमाख्याय मासजाते परिक्षिति रत्नान्यादायागतान्पाण्डवान्प्रति यदूनां प्रत्युद्गमनादिकमभ्यधाद्वैशम्पायनः....
- अध्यायः - ७१. कृष्णेन प्रत्युद्गताः पाण्डवा हस्तिनापुरं प्रविश्य परिक्षिज्जीवनादिवृत्तान्तं श्रुत्वा श्रीकृष्णं पूजयामासुः । ततः केनचित्कालेनागतो व्यासो युधिष्ठिरेण ’भवत्प्रसादाद्भगवन्' (13) इत्यादिना प्रार्थितोऽश्वमेधं कर्तुमनुजज्ञे । व्यासवाक्यादश्वमेधकरणे मतिं कृत्वा युधिष्ठिरेण 'देवकी सुप्रजा देवी’ (19) इत्यादिना प्रार्थितः श्रीकृष्णः यजस्व मदनुज्ञातः' (25) इत्याद्युवाच....
- अध्यायः - ७२. युधिष्ठिरेण यज्ञदीक्षाग्रहणार्थं प्रार्थितो व्यासः 'चैत्र्यां पौर्णमास्यां तव दीक्षा भविष्यति यज्ञसंभाराः सम्भ्रियन्ताम्' (4) इत्याद्युवाच । ततो युधिष्ठिरो यज्ञसम्भारानाहृत्याश्वरक्षणार्थमर्जुनं पुररक्षार्थं भीमं, नकुलं सहदेवं च कुटुम्बतन्त्रे न्ययोजयत्....
- अध्यायः - ७३. दीक्षाकाले व्यासादयो युधिष्ठिरं दीक्षयित्वाऽश्वं मुमुचुः । तं रक्षितुमर्जुनः पौरादिभिराशास्यमानो विजयस्तत्पृष्ठतो निर्जगाम । अर्जुनस्य बहुभिर्जातानां युद्धानां मध्ये महान्ति युद्धानि वक्ष्यामीति प्रतिजज्ञे वैशम्पायनः....
- अध्यायः - ७४. अश्वोद्देशेनार्जुनस्य त्रिगर्तैः सूर्यवर्मणा, घृतवर्मणा च सह जातं युद्धं वर्णयति स्म वैशम्पायनः.....
- अध्यायः - ७५. प्राग्ज्योतिषपुर गतेऽश्वे तत्र भगदत्तपुत्रेण वज्रदत्तेन सहार्जुनस्य दारुणं युद्धमभूत्..
- अध्यायः - ७६. दिनत्रयपर्यन्तं प्रचलिते युद्धे चतुर्थेऽहनि क्रुद्धो वज्रदत्तोऽर्जुनमधिक्षिप्य गजारूढो युयुधे, अर्जुनश्च तदीयं गजं हत्वा तं पराजित्य चैत्र्यामश्वमेधार्थं त्वमागच्छेत्याज्ञापयति स्म....
- अध्यायः - ७७. सैन्धवैः सह युद्धं कुर्वन्नर्जुनस्तद्बाणवृष्ट्या मोहं प्राप्तो देवर्ष्यादिभिर्वर्द्धिततेजाः पुनर्युयुधे....
- अध्यायः - ७८. सैन्धवार्जुनयोर्युद्धे प्रवृत्तेऽर्जुनो 'युद्धे राजानो न हन्तव्याः किन्तु केवलं जेतव्याः' (9) इत्यादि युधिष्ठिरवाक्यं स्मृत्वा चिन्तयन्नर्जुनः सैन्धवान्प्रति 'श्रेयो वदामि युष्माकम्' (10) इत्याद्युवाच । ते च तच्छ्रुत्वा क्रुद्धाः सन्तः पुनर्युर्युधिरे । युद्धं निवारयितु पौत्रं पुरस्कृत्यागताया दुःशलाया उक्तिप्रत्युक्त्यनन्तरमर्जुनेन विसर्जिता सा योधान्निवर्त्य स्वगृहं जगाम । अर्जुनोऽपि सैन्धवान् जित्वाऽश्वमनुययौ । अश्वश्चार्जुनसहितो मणिपूरपतेर्देशं जगाम....
- अध्यायः - ७९. स्वपितरं प्रति विनयेनागतो बभ्रुवाहनः 'प्रक्रियेय न ते युक्ता’ (3) इत्यादिनाऽधिक्षिप्तो यदा चिन्तयति स्म तदा तदसहमानया महीं भित्त्वाऽऽगतया नागकन्ययोलूप्या प्रतिबोधितो युद्धं कुर्वन्नर्जुनबाणपीडितस्तं हृदये भित्त्वा निपात्य स्वयमपि पपात । तदा चित्राङ्गदा रणाजिरमागत्य निहतं पतिं ददर्श....
- अध्यायः - ८०. चित्रांगदा बहु विलप्य मुर्च्छिता पुनः संज्ञां लब्ध्वा तत्रोलूपी दृष्ट्वा तां प्रति 'उलूपि पश्य भर्तारम्' (3) इत्याद्यभिधाय भर्तारं प्रति ’उत्तिष्ठ कुरुमुख्यस्य' (9) इत्याद्युक्त्वा पुनरुलूपी प्रति 'उलूपि साधु पश्येमम्' (12) इत्याद्युदीर्य पतिचरणसमीपे प्रायोपवेशनमकरोत् । लब्धसंज्ञो बभ्रुवाहनः पतिचरणानुशायिनी मातरं दृष्ट्वा विलप्योलूपि प्रति ’पश्य नागोत्तमसुते’ (31) इत्याद्यभिधाय प्रायोपवेशनं चकार । उलूपी स्मरणमात्रेण संनिहितं सञ्जीवनमणिं गृहीत्वा बभ्रुवाहनं प्रति 'उत्तिष्ठ मा शुचः पुत्र' (44) इत्याद्यभिधाय तस्मै सञ्जीवनं मणिमदात् । बभ्रुवाहननिहितेन मणिना हृदि स्पृष्टोऽर्जुनो लब्धसंज्ञो बभ्रुवाहनमालिङ्ग्य 'किमिदं लक्ष्यते सर्वम्' (58) इति पप्रच्छ । एवं पृष्टः स उलूपी पृच्छ्यतामित्यब्रवीत्...
- अध्यायः - ८१. 'किमागमनकृत्यं ते’ (1) इत्यर्जुनेनानुयुक्तोलूपी 'न मे त्वमपराद्धोऽसि' (5) इत्यादिना युद्धेऽधर्मेण भीष्महननात्कुद्धानां वसूनां शापं स्वपितृप्रार्थितेभ्यः तेभ्यः शापमोचनप्रकारं चाभिधाय तदनुरूपो मयायं यत्नो विहित इत्याद्याह स्म । एतच्छ्रुत्वाऽर्जुनः प्रीतः सन् ’सर्वं मे सुप्रियं देवि' (22) इत्युलूपी प्रत्युक्त्वा 'चैत्र्यां पौर्णमास्यामश्वमेधं द्रष्टुं मातृभ्यां सहागच्छ' (24) इति बभ्रुवाहनमादिश्य भार्याभ्यामनुज्ञातः प्रययौ....1
- अध्यायः - ८२. राजगृहपुरमागतेऽश्वे तदधिपतिना सहदेवपुत्रेण मेघसंधिना सह युद्धं कुर्वन्नर्जुनस्तं पराजित्य यज्ञार्थमागमनमादिशति स्म....
- अध्यायः - ८३. मागधेनार्चितोऽर्जुनो दक्षिणां दिशं गत्वा तत्र शिशुपालसुतशरभप्रभृतीञ्जित्वा सौराष्ट्रदेशमागतो द्वारवत्यामुग्रसेनादिभिः सत्कृतो विचरन्गान्धारानगच्छत्....
- अध्यायः - ८४. गान्धारदेशाधिपतिना शकुनिपुत्रेण युद्धं कुर्वन्नर्जुनस्तं पराजित्य यज्ञार्थमागमनमादिशति स्म...
- अध्यायः - ८५. हस्तिनापुरमागन्तुं परावृत्तमश्वं चारमुखाच्छ्रुत्वा युधिष्ठिरेणाज्ञप्तो भीमो ब्राह्मणान् पुरस्कृत्य प्राज्ञैः शिल्पिभिर्यज्ञवाट ब्राह्मणानां राज्ञां च निवासयोग्यानि गृहाणि च निर्माय राज्ञामाकारणार्थे दूतान् प्रेषयामास । आगतानां राज्ञां सत्कारार्थमन्नपानादिप्रेषणार्थं दूतानादिश्य समागतान्मुनिगणान्सत्कर्तुं युधिष्ठिरः स्वयमेव दम्भं परित्यज्य ययौ । 'तस्मिन्यज्ञे प्रवृत्ते तु' (27) इत्यादिना प्रवृत्ते यज्ञे सम्भारादिकं वर्णयति स्म वैशम्पायनः...
- अध्यायः - ८६. समागतान्राज्ञो दृष्ट्वा युधिष्ठिरेणाज्ञप्तो भीमः सर्वान् पूजयामास । अथ गोविन्दो वृष्णिभिः सह बलदेवं पुरस्स्कृत्यागतो धर्मेण सत्कारपूर्वकं कृतप्रश्नो दूतद्वारा श्रुतमर्जुनसन्देशं 'यथा चात्ययिकं न स्यात्’ (16) इत्यादिकं कथयति स्म......
- अध्यायः - ८७. श्रीकृष्णवाक्यं श्रुतवता युधिष्ठिरेण 'अयमर्जुनः किंनिमित्तम् सदा सुखवर्जितः' (3) इति पृष्टः श्रीकृष्णोऽर्जुनस्य सदा दुःखभागित्वे सदाप्रवासित्वे च हेतुभूतमनिष्टलक्षणं कथयति स्म । एवं परस्परभाषणादिके प्रचलिते तत्रागताद्दूतादर्जुनागमनं श्रुत्वोपयातैर्युधिष्ठिरादिभिः सह कर्णमुखाः ’दिष्ट्यासि पार्थं कुशली' (19) इत्यादिका नराणां वाचः शृण्वन्नर्जुनो यज्ञवाटं प्रविवेश । एतस्मिन्नेव काले मातृभ्यां सहितो बभ्रुवाहन आगत्य वृद्धाभिवादनपुरःसरं कुन्त्या गृहे प्रविवेश......
- अध्यायः - ८८. द्रौपद्यादिभिः सत्कृते उल्लूपीचित्राङ्गदे कुन्तीगृहे ऊषतुः बभ्रुवाहनश्च धृतराष्ट्रादीन्प्रत्युपतस्थे । ते च तं सम्मानयामासुः । तृतीये दिवसे व्यासेन दक्षिणात्रैगुण्यं कुरु, तेनाश्वमेधत्रयं भविष्यति' (15) इत्युपदिष्टो यज्ञदीक्षां जग्राह युधिष्ठिरः । याजकाश्चोक्तं यज्ञक्रममस्खलितं कुर्वन्तो यूपादिकं कल्पयांचक्रुः । यूपे च त्रिशतीं पशूनां बबन्धुः....
- अध्यायः - ८९. अश्वमालभ्य तस्य वपामन्यान्यङ्गानि चाग्नौ हुत्वा यज्ञं समापयामासुः षोडशर्त्विजः । युधिष्ठिरोऽपि ब्राह्मणेभ्यो निष्काणि कोटिशो दत्वा व्यासादिभ्य ऋत्विग्भ्यो वसुन्धरां दक्षिणात्वेन ददौ । ततो व्यासवाक्याच्छ्रीकृष्णवाक्याच्च वसुन्धरामूल्यं त्रिगुणं हिरण्यं विततार । ब्राह्मणाश्च मुदिताः सन्तः स्वान् स्वानालयान् जग्मुः । राजभ्योऽपि रत्नादीनि ददद्युधिष्ठिरो बभ्रुवाहनं विपुलेन वित्तेन सत्कृत्य प्रास्थापयत्। दुःशलापौत्रं च स्वराज्येभ्यषेचयत् । कृष्णादीन्वृष्णिवीरानपि सत्कारपूर्वकं विसजयति स्म । ’एवं बभूव यज्ञः सः' (39) इत्यादिना यज्ञं प्रशशंस वैशम्पायनः......
- अध्यायः - ९०. 'पितामहस्य यज्ञे यत्किञ्चिदाश्चर्यमभूत्तत्कथय' (1) इति जनमेजयप्रश्ने वैशम्पायनस्तदाख्यातुमुपचक्रमे । अश्वमेधे निवृत्ते तत्र कश्चिन्नकुल आगत्य मनुष्यवाचा 'सक्तुप्रस्थेन वो नायम्' (7) इत्यादिनाऽधिचिक्षेप । तदा ब्राह्मणैः कृतप्रश्नः स सक्तुप्रस्थं विवरीतुमुञ्छवृत्तेराख्यायिकामाचख्यौ । कुरुक्षेत्रे निवसन्नुञ्छवृत्तिर्भार्यापुत्रस्नुषाभिः सहित उञ्छमप्यप्राप्नुवन्क्षुधापीडित एकदा यवप्रस्थं सम्पाद्य तस्य सक्तून् विधायाग्नौ हुत्वा यावद्व्यभजत तावदेकः कश्चिदतिथिराजगाम । तं दृष्ट्वा हृष्टास्ते सत्कारपूर्वकमेकं भागं तस्मै वितेरुः । तेनासन्तुष्टं तमालक्ष्य क्रमशः सर्वे स्वस्वभागान्सन्तुष्टाः सन्ती ददुस्तदा सन्तुष्टेनातिथिरूपेण धर्मेण 'अहो दान घुष्यते ते स्वर्गे स्वर्गनिवासिभिः’ (83) इत्यादिना तत्प्रशंसापूर्वकं दानं प्रशस्य 'आरोहत यथाकामम्’ (106) इत्याद्युक्तो भार्यया पुत्रेण स्नुषया सह दिवं जगाम । तस्य सक्तुगन्धेनोदकक्लेदेन दिव्यपुष्पविमर्देन च मम शरीरार्धं सुवर्णमयमभूत् । अपरमपि शरीरार्धं तथाविधं भूयादित्याशास्यात्रागतो नाहं तथाऽभूवमिति सक्तुप्रस्थेन वो नायमित्यब्रुवमित्युक्त्वा नकुलोऽन्तर्दधे......
- अध्यायः - ९१. 'यज्ञे सक्ता नृपतयः' (9) इत्यादिना यज्ञकरणं फलप्रदर्शनेन स्तुत्वा स नकुलो युधिष्ठिरस्याश्वमेध कस्माद्गर्हयामासेति जनमेजयेन पृष्टो वैशम्पायनः 'यज्ञस्य विधिमग्र्यं वै' (7) इत्यादिना तदुत्तरमाचष्ट । पुरा किलेन्द्रे यष्टुं प्रवृत्ते तत्रालभ्यमानेषु पशुषु दीनान्पपशून् दृष्ट्वा दयाविष्टा महर्षय इन्द्रमागत्य 'अपरिज्ञानमेतत्ते' (13) इत्यादिना हिंसामाचिक्षिपुः । तदसहमाने शक्रे विवादं निर्णेतुं तैरापृष्टो वसुः 'यथोपनीतैर्यष्टव्यम्' (22) इत्यनेन हिंस्राहिंस्रयज्ञस्तुल्यत्वापादनरूपं वितथमुत्तरं ददद्रसातलं जगाम । इत्याख्याय वैशम्पायनः 'तस्मान्न वाच्यं ह्येकेन' (24) इत्यादिनाऽहिंसाधर्मं प्रशंसन्दानरूपं धर्ममेव प्रशशंस.....
- अध्यायः - ९२. "धर्मागतेन त्यागेन' (9) इत्यादिना सर्वयज्ञेषु परमो निश्चयः कथमिति जनमेजयेन पृष्टो वैशम्पायनोऽगस्त्येतिहासं कथयन्तुत्तरमाह स्म । द्वादशवार्षिकी सत्रदीक्षा प्रविष्टेऽगस्त्ये महान्तोऽग्निकल्पा ऋषयस्ते यज्ञमुपातिष्ठन्त । एवंविधे यज्ञे प्रवृत्ते यदेन्द्रो न ववर्ष तदा कर्मान्तरे 'अगस्त्यो यजमानोऽसौ’ (13) इत्यादिकायां कथायां प्रवृत्तायां 'यदि द्वादशवर्षाणि’ (18) इत्यादिकामगस्त्योक्तिं तदनुरूपां स्थितिं च दृष्ट्वा 'प्रीताः स्म' (30) इत्याद्युक्तवत्सु ऋषिषु पुरंदरो ववर्षागस्त्यं च प्रसादयामास । 'कोऽसौ नकुलरूपेण' (39) इत्यादिके जनमेजयप्रश्ने वैशम्पायन उत्तरमाह स्म । पुरा किल जमदग्निः श्राद्धं सङ्कल्प्य समीपागतान् होममधेनुं दुग्ध्वा तद्दुग्धं दृढे भाण्डे स्थापयामास । तदा धर्मः क्रोधरूपेण प्रविश्य दुग्धं पीतवान् । एवमप्यक्रुद्धं मुनिं दृष्ट्वा क्रोधो ब्राह्मणरूपेणागत्य 'जितोऽस्मि' इत्याद्यभिधाय 'तपसो बिभेमि, (46) इत्युवाच । जमदग्निना तु न त्वया मे किञ्चिदपकृतं येषामर्थे पयः सङ्कल्पितं तान् पितॄन्गच्छ' (48) इत्युक्तः क्रोधः पितॄणामभिषङ्गान्नकुलत्वं प्राप्तः । पितॄन् प्रसाद्य तेभ्यः 'सक्तुप्रस्थनिदर्शनेन धर्मपुत्रमाक्षिपतः तब शापान्तो भविष्यति' (50) इति शापान्तं लेभे । वैशम्पायन एतदाख्याय 'एवमेतत्तदा वृत्तम्' (53) इत्यादिनोपसञ्जहार.....
अश्ववमेधिकपर्व