Mahabharata
About
.
Volumes
.
Contact
आश्रमवासिकपर्व
१. आश्रमवासपर्व
अध्यायः - १
. "प्राप्य राज्यं महात्मानः पाण्डवा मे पितामहाः । कथमासन्महाराज्ञि धृतराष्ट्रे महात्मनि॥" (1) इत्यादिके जनमेजयप्रश्ने तदुत्तरं वदन्वैशम्पायनः पाण्डवानां पृथ्वीपालनादिकं धृतराष्ट्राय राजभोग्यद्रव्यदानादिकं कुन्त्यादिकर्तृकं गान्धारीपर्युपासनं च कथयति स्म ।
अध्यायः - २
. 'एवं संपूजितो राजा’(1) इत्यादिना युधिष्ठिरादिकर्तृकं धृतराष्ट्रपर्युपासनं, तेन तत्सम्तोषं, पाण्डवानां तदनुकूलवृत्त्या वर्तनं चाभ्यधाद्वैशम्पायनः........
अध्यायः - ३
. सुहृन्मध्ये भीमस्य बाहुशब्दं परुषाणि वचनानि च श्रुत्वा निर्विण्णो धृतराष्ट्रः सुहृदः समानीय तान्प्रति "विदितं भवतामेतत्" (16) इत्याद्यभिधाय युधिष्ठिरं प्रति “भद्रं ते यादवीमातः” (30) इत्याद्याख्याय वनगमनमयाचत । "न मां प्रीणयते राजन्" (41) इत्यादिकं युधिष्ठिरानुनयं श्रुत्वा पुनः "तापस्ये मे मनस्तात" (56) इति तमुक्त्वा सञ्जयादीन् प्रति च ’म्लायते मे मनो हीदम्’ (10) इत्यभिधाय मोहं जगाम । तं च युधिष्ठिरः पाणिना पस्पर्श । युधिष्ठिरेण "यस्य नागसहस्रेण" (63) इत्यादिनाऽनुनयपूर्वकं भोजनार्थं प्रेरितो धृतराष्ट्रो यावदङ्गीकरोति तावद्व्यास आगत्य तमवोचत्.....
अध्यायः - ४
. "युधिष्ठिर महाबाहो" (1) इत्यादिना व्यासकथितं धृतराष्ट्रस्य वनगमनमङ्गीकृत्याहारं कृत्वाऽऽश्रमं गच्छेत्युवाच युधिष्ठिरो धृतराष्ट्रं प्रति..........
अध्यायः - ५
. युधिष्ठिराभ्यनुज्ञातो धृतराष्ट्रो गृहं गत्वाऽऽहारं कृत्वा विदुरादिषु सर्वेषु शृण्वत्सु युधिष्ठिरं पृष्ठे पाणिना संस्पृश्य “अप्रमादस्त्वया कार्यः” (8) इत्यादिना राजनीतिमुपदिदेश.........
अध्यायः - ६
. धृतराष्ट्रेण युधिष्ठिरं प्रति राजनीतिकथनम्........
अध्यायः - ७
. धृतराष्ट्रेण युधिष्ठिरं प्रति राजनीतिकथनम्........
अध्यायः - ८
. “एवमेतत्करिष्यामि" (1) इत्यादिना युधिष्ठिरेणाङ्गीकृते गान्धार्या गृहं प्रविश्य तया पृष्टो ’व्यासाद्यनुज्ञातो गन्तास्मि’ इत्युक्त्वा सर्वासां प्रकृतीनां सान्निध्यमिच्छामि तथा पुत्राणां प्रेतभावानुगं वसुं च दातुमिच्छामीति निश्चित्य युधिष्ठिरमाज्ञापयति स्म । युधिष्ठिरेणानीते सर्वस्मिन्, ब्राह्मणादिषु सर्वेषु सन्निहितेषु प्रार्थनापूर्वकं “अरण्यगमने बुद्धिर्गान्धारीसहितस्य मे” (17) इत्याद्युवाच धृतराष्ट्रः, तच्छ्रुत्वा शोकाक्रान्तेषु सर्वेषु पुनरुवाच सः.....
अध्यायः - ९
. “शान्तनुः पालयामास” (1) इत्यादिना पुनर्याचिताः प्रकृतयो बाष्पव्याकुलाः परस्परं वीक्षां चक्रे...
अध्यायः - १०
. धृतराष्ट्रवाक्यश्रवणेन मोहितांस्तूष्णींभूतान् सर्वान्प्रति वनगमनार्थमनुज्ञां याचति धृतराष्ट्रे सर्वैरुत्तरं दातुं यो बहुचः साम्बो नाम ब्राह्मणो “यया वदसि राजेन्द्र" (14) इत्यादिना धर्मराजपर्यन्तानां प्रजापालनशैलीमयिगुणामुपपाद्य युद्धादिना जातस्य क्षयस्य देवकृतत्वं प्रतिपाद्य तमनुज्ञाप्य पाण्डवान्प्रशस्य 'मानसं दुःखमपनीय कार्याणि कुरुष्व' इत्याह । तद्वचनं श्रुत्वा धृतराष्ट्रोऽभिपूज्य सर्वाः प्रकृतीविसर्जयामास.....
अध्यायः - ११
. मृतोद्देशेन श्राद्ध-- कर्तुं द्रव्ययाचनार्थं धृतराष्ट्रेण प्रेषितस्य विदुरस्य वाक्यमनुमोदमाने युधिष्ठिरे क्रुद्धो भीमो ’वयं भीष्मस्य दास्यामः' (16) इत्यादिकं वाक्यमुवाच......
अध्यायः - १२
. “भीम ज्येष्ठो गुरुर्मे त्वम्’ (1) इत्यादिकां भीमं प्रत्यर्जुनस्योक्तिं श्रुत्वा युधिष्ठिरो विदुरं प्रति 'यावदिच्छसि दातुं तावदहं ददामि मत्कोशादिति बहु परिक्लिष्टो भीमो यम्मात्सर्यं करोति तन्मनसि नानेयं ममार्जुनस्य च गृहे यद्वित्तं तस्य सर्वस्य किंबहुना मच्छरीरस्य च स्वामी भवानिति च मद्वचनाद्धृतराष्ट्रं ब्रूहि' (13) इत्युवाच.....
अध्यायः - १३
. युधिष्ठिरसदेशं विदुरेण कथितं श्रुत्वा धृतराष्ट्रस्तमभिनन्द्य कार्तिक्यां दानानि चक्रे ......
अध्यायः - १४
. प्रीतो धृतराष्ट्रो भीष्माद्युद्देशेन दानानि विधाय पुत्रपौत्राणामात्मनो गान्धार्याश्चौर्ध्वदेहिकं दत्त्वा दानानि ददद्यदा परिश्रान्तो बभूव तदा युधिष्ठिरो दानयज्ञं निवर्तयति स्म.....
अध्यायः - १५
. कार्तिक्यामिष्टिं कृत्वाऽग्निहोत्रं पुरस्कृत्य गान्धार्या सहितो वधूजनैः परिवृतो धृतराष्ट्रो वनं गन्तुं भवनान्निर्जगाम, तदा कौरवस्त्रीणामार्तनादो बभूव, युधिष्ठिरादयश्चानुययुः....
अध्यायः - १६
. नगराद्वर्धमानद्वारेण निर्गतो धृतराष्ट्रो जनौघान्, कृपं, युयुत्सुं च निवर्त्य विदुरेण सञ्जयेन च सह जगाम । धृतराष्ट्राज्ञया निवृत्तो युधिष्ठिरः कुन्तीं प्रति ’अहं राजानमन्विष्ये’ (7) इत्याद्युवाच । तच्छ्रुत्वा 'सहदेवे महाराज' (10) इत्याद्युक्तवर्ती तां प्रति युधिष्ठिरः ’किमिदं ते व्यवसितम्’ (19) इत्यादिना विदुलापुत्रसंपादक----नपूर्वकमस्मान्प्रोत्साह्यैतावत्कारयित्वेदानीं कथं गच्छसीत्याद्युवाच । ’यदा राज्यमिदम्’ (25) इत्याद्युक्तवन्तं भीमं सुभद्रया सहानुगच्छन्ती द्रौपदी रुदतः पुत्राश्च केवलमीक्षमाणा कुन्ती वनवासकृतनिश्चया जगामैव । एवमप्यनुयातान्पुत्रान्प्रत्यब्रवीत्......
अध्यायः - १७
. ’एवमेतन्महाबाहो’ (1) इत्यादिना विदुलापुत्रसंवादकथनादिना कृतस्य प्रोत्साहनस्य कारणं प्रदर्श्य 'नाहं राज्यफलं पुत्राः' (19) इत्यादिना स्वस्य वैराग्यं प्रदर्शयति स्म कुन्ती........
अध्यायः - १८
. कुन्तीवाक्यं श्रुत्वा पाण्डवेषु निवृत्तेषु धृतराष्ट्रानुज्ञातया गान्धार्या बोधितायामप्यनिवृत्तायां कुन्त्यां पाण्डवेषु पुरं प्रविष्टेषु गच्छन्धृतराष्ट्रो भागीरथीतीरे प्रथमं निवासमकरोत्....
अध्यायः - १९
. द्वितीयेऽहनि सर्वमाह्निकं निर्वर्त्य भागीरथीतीरान्निर्गत्य कुरुक्षेत्रे यासाश्रममागत्य व्यासानुमत्या केकयराजेन शतयूपेनारण्यकं विधिं प्रत्युपदिष्टो गान्धार्या सहितो धृतराष्ट्रस्तपश्चचार ......
अध्यायः - २०
. धृतराष्ट्रं प्रति नारदपर्वतदेवलादिष्वृषिष्वागतेषु नारदः सहस्रचित्यप्रभृतीनां राज्ञां तपश्चर्यया स्वर्गगमनं तत्प्रसङ्गेन धृतराष्ट्रादीनां सामान्यतो गतिं कथयन् शतयूपप्रश्नानुरोधेन वर्षत्रयावधिकथनपूर्वकं धृतराष्ट्रस्य कुबेरलोकगमरूपां विशेषतो गतिं कथयति स्म ......
अध्यायः - २१
. धृतराष्ट्रे वनं गते पाण्डवेषु पौरजनेषु च शोचत्सु ब्राह्मणेषु च ’कथं नु राजा वृद्धः सः’ (3) इत्यादि तर्कपूर्वकं शोचत्सु सत्सु हतान् वीरान् संस्मृत्य नातिप्रमनसोऽपि पाण्डवाः परीक्षितं दृष्ट्वा प्राणान् धारयन्ति स्मेत्याह वैशम्पायनः.......
अध्यायः - २२
. कुत्न्यादिस्मरणपूर्वकं शोचन्युधिष्ठिरः सहदेवेन द्रौपद्या चानुज्ञातो धृतराष्ट्रादिदिदृक्षया वनं गन्तुमुद्यतः सेनापत्यादीनादिश्य नगराद्बहिः पञ्च दिनानि न्यवसत्.........
अध्यायः - २३
. ततो निर्गतो युधिष्ठिरो नगररक्षणार्थं युयुत्सुं धौम्यसहितं नियोज्य यमुनामुत्तीर्य धृतराष्ट्रस्याश्रमं जगाम.......
अध्यायः - २४
. तत्र धृतराष्ट्रादीनपश्यन्तो युधिष्ठिरादयस्तत्रत्यैस्तापसैः कथितेन पथा यमुनां प्रति स्नानाद्यर्थं गतान् द्रष्टुं पादचारिणो गत्वा कुन्त्याद्यभिवादनानन्तरं तैः सह पुनराश्रममाजग्मुः.........
अध्यायः - २५
. पाण्डवैः सह धृतराष्ट्रे स्थिते पाण्डवान्द्रष्टुमागतैस्तापसैः 'कतमो युधिष्ठिरः कतमौ भीमार्जुनौ' इत्यादि पृष्टः सञ्जयो 'य एष जाम्बूनदशुद्धगौरः’ (5) इत्यादिना तत्तत्स्वरूपकथनपूर्वकं सर्वानाचख्यौ । तान्बुद्धा गतेषु तापसेषु धृतराष्ट्रः सर्वान्प्रति कुशलं पप्रच्छ.......
अध्यायः - २६
. 'युधिष्ठिर महाबाहो’ (1) इत्यादिना धृतराष्ट्रस्य कुशलप्रश्नानन्तरं युधिष्ठिरः ’कच्चित्ते वर्धते राजन्’ (11) इत्यादिना कुशलं पृच्छन् 'क्व चासौ विदुरो राजन्नेमं पश्यामहे वयम्’ (15) इति पप्रच्छ । धृतराष्ट्रे विदुरस्य स्थितिं कथयति तत्कथितलक्षणैर्युतं तमालक्ष्य तत्पृष्ठतो गच्छन्युधिष्ठिर एकान्ते वृक्षमूलमाश्रित्य तस्याग्रे ’युधिष्ठिरोऽहमस्मि’ (24) इत्युक्त्वा तस्थौ । ततः सोऽपि स्वाग्रवर्तिनं युधिष्ठिरं दृष्ट्वा योगधारणया तच्छरीरं प्रविश्य स्थूलं शरीरं तत्याजविदुरः । युधिष्ठिरोऽपि तत्प्रवेशेनात्मानं बलवन्तं बुद्ध्वा मृतं तच्छरीरं संस्कर्तुमुद्यतोऽशरीरिण्या वाण्या निवारितो धृतराष्ट्रमागत्य तस्मै तद्वृत्तं कथयति स्म । ततस्तेन दत्तं फलमूलादि भुक्त्वा तत्रैव सर्वे पाण्डवा न्यवसन् ...
अध्यायः - २७
. विचित्रा धर्मार्थलक्षणाः कथाः कथयन्तः पाण्डवाः कुन्तीमभितस्तस्यां रात्र्यां सुषुपुः । उत्थितो युधिष्ठिरः प्रातराह्निकं विधायाश्रमं पश्यन् ब्राह्मणेभ्यो धनं वित्तीर्य कृताह्निकं धृतराष्ट्रं मात्रादींश्च दृष्ट्वा तदनुज्ञात उपविवेश । एवं मीमादयोऽप्युपविविशुः । एवं सर्वेषूपविष्टेषु शतयूपप्रभृतयो महर्षयः सशिष्यो व्यासश्च समाजग्मुः.....
अध्यायः - २८
. व्यासाज्ञया पाण्डवेषु समुपविष्टेषु सत्यवतीपुत्रो व्यासो “धृतराष्ट्र महाबाहो "(2) इत्याद्यभिधाय विदुरस्य युधिष्ठिरशरीरप्रवेशादिकं चाख्याय 'त्वां चापि श्रेयसा योक्ष्ये' (23) इत्याद्युक्त्वा ’न कृतं यैः पुरा कैश्चित्' (24) इत्याद्युवाच....
२. पुत्रदर्शनपर्व
अध्यायः - २९
. ’वनवासं गते विप्र' (1) इत्यादिना व्यासेन प्रतिज्ञातमाश्चर्यप्रदर्शनं कथय, तथा युधिष्ठिरस्य कति दिनानि वने निवासः इत्यादिके जनमेजयप्रक्षे वैशम्पायनः 'तेऽनुज्ञातास्तदा राजन्'धार्मिकं विषयं पुरस्कृत्य प्रवृत्तासु कथासु तदन्ते व्यासो विदित मन राजेन्द्र’ (16) इत्याभिधाय संशयच्छेदार्थमागतोऽस्मि, देवगन्धर्वादयो भिमपसो वीर्यं पश्यन्तु, के ते कामं प्रददामि, ब्रूहि इत्युवाच । व्यासवाक्यं श्रुत्वा धृतराष्ट्रो ’ब्रह्मकल्पैर्भवद्भिर्यत्’ (25) इत्यादिना मम परलोकभयं नास्तीत्युक्त्वा दुर्योधनापनयनेन मृतान् सर्वाननुस्मृत्य न शान्तिमधिह्गच्छामि’ (33) इत्याद्युवाच । -------षोडशेमानि वर्षाणि (38) इत्यादिना धृतराष्ट्रस्थितिं प्रदर्श्य 'तपसा सर्वान् लोकान् स्रष्टुं समर्थस्य तव लोकान्तरगतान् पुत्रादीन् राज्ञो दर्शयितुं किं दुःखकरम् ? (40) इत्याद्युवाच । तच्छ्रुत्वा प्रच्छन्नजातं पुत्रं कर्णं स्मरन्ती कुन्ती व्यासेनानुज्ञाता प्रवक्तुमुपचक्रमे......
अध्यायः - ३०
. 'भगवन्श्वशुरो मेऽसि’ (1) इत्यादिना दुर्वासोवरदानप्रभृति कर्णविसर्जनान्तं कन्यावस्थासम्बन्धि वृत्तमनूद्य कर्णदर्शनं प्रार्थयति स्म कुन्ती । व्यासः 'साधु सर्वमिदं भाव्यम्' (20) इत्यादिना तां समाश्वासयति स्म...
अध्यायः - ३१
. 'भद्रे द्रक्ष्यसि गान्धारि ! पुत्रान् भातॄन्सखींस्तथा । वधूश्च पतिभिः सार्धं निशि सुप्तोत्थिता इव । कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी । द्रौपदी पञ्च पुत्रांश्च (1-2) इत्याद्यभिधाय ’अवतेरुस्ततः सर्वे’ (5) इत्यादिनांशावतरणमभिधाय सर्वे भवन्तो भागीरथीं गच्छन्त्विति व्यासेनाज्ञप्ताः सर्वे गङ्गातीरं गत्वा सायंकालपर्यन्तं तत्र निवासं चक्रुः.........
अध्यायः - ३२
. 'ततो निशायां प्राप्तायां’ (1) पाण्डवैः सहितो धृतराष्ट्रः सर्वस्त्रीसहिता गान्धारी, इतरे पौरजानपदाश्च व्याससंनिधिमाजग्मुः । व्यासश्च गङ्गाजलमवगाह्य सर्वानाह्वयति स्म । व्यासेनाहूता भीष्मद्रोणपुरोगमा विराटपुत्रादयः कर्णदुर्योधनादयोऽन्ये च राजानो राजपुत्राश्च स्वस्ववेपादिसहिता निर्वैराः सन्तः समुत्तस्थुः । ततो व्यासदत्तदिव्यदृष्टिर्धृतराष्ट्रो गान्धारी चान्ये जनाश्च तान् दृष्ट्वाऽऽश्चर्यवन्तो मुमुदिरे....
अध्यायः - ३३
. निर्गतास्ते परस्परं सङ्गम्य मुदिताः सन्तो रात्रौ यथेच्छं विहत्यान्योन्यमामन्त्र्य व्यासेन विसर्जिताः स्वस्वलोकं जग्मुः । --लस्थितस्य व्यासस्याज्ञया मृतपतिकाः स्त्रियो जाह्नवीजलमवगाह्य पतिलोकं जग्मुः....
अध्यायः - ३४
. एतच्छ्रुत्वा हृष्टेन जनमेजयेन 'कथं नु त्यक्तदेहानां पुनस्तद्रूपदर्शनम्’ (2) इति पृष्टो वैशम्पायनः 'अविप्रणाशः सर्वेषाम्' (4) इत्यादिनाऽध्यायशेषेण तदुत्तरं कथयति स्म.......
अध्यायः - ३५
. ’अदृष्ट्वा तु नृपः पुत्रान्' (1) इत्यादिना विदुरस्तपोबलात्सिद्धिं प्राप्तो धृतराष्ट्रश्च व्यासप्रसादादिति वैशम्पायनेनोक्ते जनमेजयो 'व्यासो यदि मम पितरं दर्शयेत्तर्हि तव वचनं श्रद्धेयं जनमेजयो व्यासेन प्रदर्शितं परिक्षितं दृष्ट्वाऽवभृथस्नानं विधाय 'ऋषिद्वैपायनो यत्र’ (12) इत्यास्तीकवाक्यं श्रुत्वा वैशम्पायनं संपूज्य वनवासकथावशेषं पप्रच्छ... ...
अध्यायः - ३६
. 'पुत्रान्पौत्रान्दृष्ट्वा धृतराष्ट्रः किमकरोत् युधिष्ठिरश्च किमकरोत्' इति जनमेजयप्रश्ने वैशम्पायनस्तदुत्तरमाचख्यौ । आश्रममागतो धृतराष्ट्रो युधिष्ठिरविसर्जनार्थंयासेन प्रेरितो युधिष्ठिरं प्रति 'अजातशत्रो भद्रं ते' (14) इत्याद्यब्रवीत् । युधिष्ठिरश्च ’न मामर्हसि धर्मज्ञं परित्यक्तुम्’ (23) इत्याद्युवाच । गान्धार्या च गम्यतामित्युक्तः कुन्तीं प्रति 'विसर्जयति मां राजा’ (28) इत्याद्यवादीत् । सहदेवेन युधिष्ठिरं प्रति नोत्सहेऽहं परित्यक्तुं मातरं भरतर्षभ’ (37) इत्याद्युक्तं श्रुतवत्या कुन्त्या 'गम्यतां पुत्र मैव त्वं' (40) इत्पादिना बोधिते तस्मिन्गन्तुमुद्यतेन युधिष्ठिरेणाभिवादनपुरःसरमनुज्ञां' याचितो धृतराष्ट्रः सर्वालिङ्गनपूर्वकं सान्त्वयन्ननुजज्ञे । तथैव गान्धारीकुन्तीभ्यामनुज्ञातो युधिष्ठिरो भ्रातृभिर्द्रौपदीप्रभृतिभिर्योषिद्भिश्च सह हास्तिनपुरं जगाम....
३. नारदागमनपर्व
अध्यायः - ३७
. निवृत्तेषु पाण्डवेषु वर्षद्वयानन्तरमागतो नारदो युधिष्ठिरेण सत्कारपूर्वकं धृतराष्ट्रवृत्तान्तं पृष्टः ’स्थिरीभूय महाराज शृणु वृत्तं यथातथम्’ (9) इत्यभिधाय तं कथयति स्म । भवत्सु निवृत्तेषु गङ्गाद्वारं गतो धृतराष्ट्रो गान्धार्या कदाचिद्गङ्गायामाप्लुत्य निवृत्तोऽग्रे दावाग्निना दह्यमाने वने निराहारतया ततो निर्गन्तुमसमर्थः सञ्जयं प्रति ’दावाग्निरहितं प्रदेशं गच्छ’ इत्यनुज्ञाप्य सञ्जयोपदेशेनेन्द्रियग्रामं निरुद्ध्य च काष्ठोपमः स्थितो दावाग्निना दग्धोऽभूत् । तमनु गान्धारी कुन्ती व दग्धे बभूवतुः । सञ्जयश्च ततो निर्गतो हिमालयं जगाम । एतद्वृतं श्रुत्वा युधिष्ठिरादिष्वाक्रोशपूर्वकं रुदत्सु महान् स्वन आसीत् । तस्मिन्मुहूर्तान्निवृत्ते सति धर्मराजो नारदमब्रवीत्..........
अध्यायः - ३८
. 'तथा महात्मनस्तस्य' (1) इत्यादिकं युधिष्ठिरस्य विलापवाक्यम्...........
अध्यायः - ३९
. 'नासौ वृथाग्निना दग्धः (1) इत्यादिना वनं गच्छता धृतराष्ट्रेणोस्तर्गेष्टिं कारयित्वोत्सृष्टा अग्नयो याजकैर्वने परित्यक्तास्त एव दावरूपेण वनं दहन्तस्तं देहुरिद्यभिधाय नारदेनोदकदानादि कर्तुं प्रेरितो युधिष्ठिरो गङ्गाद्वारे नरान् संप्रेष्य द्वादशेऽहनि गङ्गातीरे श्रद्धादीनि विधाय नगरं प्रविवेश । नारदश्च युधिष्ठिरमाश्वास्य यथेप्सितं देशं जगाम......
आश्रमवासिकपर्व