Mahabharata
About
.
Volumes
.
Contact
मौसलपर्व
१.मौसलपर्व
अध्यायः - १
. राज्यप्राप्त्यनन्तरं षट्त्रिंशत्तमे वर्षे सनिर्घातवाय्वादीनि दुर्निमित्तान्यालोच्य चिन्तयन्युधिष्ठिरो मौसले रामकृष्णरहितानां वृष्णीनां कदनं रामकृष्णयोर्निधनं च श्रुत्वा भ्रातॄनानीय ’किं करिष्यामः’(8) इत्यवादीत् । ततः सर्वे दुःखशोकसमन्विताः समुपाविशन् ’कथं विनष्टा भगवन्’(12) इत्यादिके जनमेजयप्रश्ने ’षट्त्रिंशेऽथ ततो वर्षे’(13) इत्यादिनोत्तरमभिधाय ’केनानुशप्तास्ते वीराः’(14) इत्यादिके पुनर्जनमेजयप्रश्ने ’विश्वामित्रं च कण्वं च’(15) इत्यादिना तदुत्तरमभिदधद्वैशम्पायनो यदुकुमारकृतं विश्वामित्राद्युपहासं तद्दत्तं शापं मुसलस्य चूर्णीकरणपूर्वकं समुद्रे प्रक्षेपं सुरापानवर्जनविषये घोषणं च कथयति स्म
अध्यायः - २
. द्वारकायां नानोत्पातप्रादुर्भावः। तद्दर्शनात्कृष्णेन गान्धारीं शापदानानुस्मरणेन तस्य सत्यताचिकाषया भटैः सर्ववृष्ण्यादीनां तीर्थयात्रोद्घोषणम्.
अध्यायः - ३
. काल्याः स्त्रिया द्वारकाधावनादिषु दुर्निमित्तेषु प्रादुर्भूतेषु कृष्णस्य चक्रादिषु च दिवं गतेषु वृष्ण्यन्धकादयो भक्ष्यभोज्यादिसंग्रहपूर्वकं निर्गत्य प्रभासे न्यवसन् ।तत्र कालपरीतास्ते मद्यपानं विधाय मत्ता बभूवुः। तदा प्रथमं सात्यकिकृतवर्मणोः परस्परमर्माण्युद्घाटयतोः सात्यकिना कृतवर्मणि हते क्षुब्धेषु सर्वेषु सात्यकिप्रभृतीनां नाशेऽवशिष्टान् निघ्नन्तं केशवं बभ्रुदारुकौ ’रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः’(47)
अध्यायः - ४
. बभ्रुदारुकसहितः कृष्णो राममन्विच्छन्वृक्षमूले स्थितं चिन्तयन्तं तमेकान्ते दृष्ट्वा अर्जुनानयनार्थं दारुकमादिश्य मदागमनं प्रतीक्षस्वेति बलरामं प्रत्युक्त्वा द्वारकामेत्यार्जुनागमनपर्यन्तं स्त्रियो रक्षणीया इति पितरमभिधाय रामसंनिधावागतो नागरूपेण समुद्रं प्रविष्टं तं दृष्ट्वा चिन्तयन्नेकान्ते इन्द्रियादिनिरोधनपूर्वकं शयितो जराख्यव्याधेन मृगबुद्ध्या पादे विद्धसत्तमाश्वास्य दिवं जगाम श्रीकृष्णः
अध्यायः - ५
. दारुकमुखेन वृष्णीनां निधनं श्रुत्वा निर्गतोऽर्जुनोद्वारकामेत्य निरानन्दां तां दृष्ट्वा शोचन्कृष्णस्त्रीभिराक्रोशपूर्वकं परिवारितो मूर्च्छितः सत्यभामादिभिराश्वास्यासने उपवेशितस्ता आश्वास्य मातुलं द्रष्टुमभ्यगात्
अध्यायः - ६
. अर्जुनः शयानं वसुदेव दृष्ट्वा तत्पादौ जग्राह । वसुदेवश्च तं मूर्ध्न्युपाघ्राय बहु विलप्य श्रीकृष्णोक्तं कथयित्वा ’यदुक्तं पार्थ कृष्णेन’ (28) इत्याद्युवाच
अध्यायः - ७
. अर्जुनो दुःखितं वसुदेवं प्रति ’नाहं वृष्णिप्रवीरेण’ (2) इत्यादिना वृष्णिदारा बालान्वृद्धांश्चेन्द्रप्रस्थं नेष्यामीत्युक्त्वा दारुकं प्रति ’अमात्यान्-द्रष्टुमिच्छामि’ (6) इत्यभिधाय सुधर्माख्यां यादवीसभां प्रविष्टस्तत्रागतानमात्यादीन् प्रति यानादिसज्जीकरणमादिश्य ’अयं वो राजा वज्र इन्द्रप्रस्थे भविष्यति, इतः सप्तमे दिवसे समुद्र इमां पुरीं प्लावयिष्यत्यतो बहिर्वत्स्यामः’ इत्याज्ञापयामास । अर्जुनादिष्टैस्तैः सर्वस्मिन्सज्जीकृते श्वोभूते वसुदेवेनोत्सृष्टेषु प्राणेषु तस्यानु चतसृषु तत्स्त्रीष्वन्वारूढासु सर्वे तदौर्ध्वदेहिकं विधाय वृष्णीनां कदनस्थानमागत्य केशवरामयोः शरीरे सस्कृत्य सर्वेषामन्येषां दाहादि विधाय वृष्णिवीराणां स्त्रियः षोडश सहस्रं श्रीकृष्णभार्या वज्रपुरःसरा गृहात्वाऽर्जुनो निर्जगाम । सर्वेष्वेवं निर्गतेषु समुद्रेण फ्लावितायां द्वारकायां निर्गतोऽर्जुनः पञ्चनदे निवासमकरोत्, तत्र लुब्धेषु दस्युप्रायेषु गोपेषु वृष्णिस्त्रियो हर्तुं प्रवृत्तेषु तैर्युद्ध कुर्वत्यर्जुने खबाणक्षयादिके जातेऽपि धनुष्कोट्या तान् प्रहरत्यपि ते तमनादृत्य वृष्णिस्त्रिय आहृत्य जग्मुः । ततोऽर्जुनो दैवमित्युक्त्वा हृतशेषाः स्त्रिय आदाय कुरुक्षेत्रमवातरत् । ततो मार्तिकावते कृतवर्मतनयं सरस्वत्यां सात्यकितनयं निवेश्येन्द्रप्रस्थे वज्राय राज्यं ददौ । रुक्मिण्यादयोऽग्निं सत्यभामादयश्च वनं प्रविविशुः । ततोऽर्जुनो व्यासाश्रममागत्य तं ददर्श
अध्यायः - ८
. आगत्याभिवादनं कुर्वन्निर्विण्णमानसोऽर्जुनो ’नख-केश-दशा-कुम्भवारिणा किं समुक्षितः’(5) इत्यादिना व्यासेन पृष्टः कृष्णादीनां निधनादिकं गोपकृतं स्वपराभवं बाणक्षयादिकं चाख्याय ’उपदेष्टुं मम श्रेयो भवानर्हति सत्तम’(25) इत्युवाच। ’ब्रह्मशापविनिर्दग्धाः’(26) इत्यादिना व्यासेनोपदिष्टोऽर्जुनो हस्तिनापुरमागत्य युधिष्ठिराय सर्वं वृतं शशंस
मौसलपर्व