Mahabharata
About
.
Volumes
.
Contact
स्वर्गारोहणपर्व
१.स्वर्गारोहणपर्व
अध्यायः - १
. ’स्वर्गं गत्वा पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे’ इति जनमेजयेन पृष्टो वैशम्पायनः ’स्वर्गं प्राप्य युधिष्ठिरादयो यदकुर्वत तच्छ्रुणु’ इत्युवाच । खर्गं गतो युधिष्ठिरो ’दुर्योधनं श्रिया जुष्टं दृष्ट्वा नाहमनेन सह वस्तुमिच्छामि किंतु यत्र मम भ्रातरस्तिष्ठन्ति तत्र यातुम्’ इति वदन्नुपदिशन्तं महामुनिं नारदं प्रति भ्रातॄणां कर्णधृष्टद्युम्नादीनां च के लोकाः इत्याद्यपृच्छत् ।
अध्यायः - २
. स्वर्गे कर्णादिबन्धुजनानपश्यता युधिष्ठिरेण देवान्प्रति यत्र कुत्रापि बन्धुजनैः सहैव स्वस्य निवासेच्छानिवेदनम् । देवैर्युधिष्ठिराय बन्धुजनप्रदर्शनं चोदितेन देवदूतेन तस्य नरकप्रदेशप्रापणम् । दुर्दर्शनरकदर्शनासहिष्णुतया दूतेन सह प्रतिनिवर्तमानेन युधिष्ठिरेण श्रुतपूर्वकण्ठध्वनिश्रवणम् । ततो युधिष्ठिरपृष्टैस्तैस्तं प्रति स्वैषां कर्णभीमादित्वकथनम् । ततस्तेन दूतं प्रति इन्द्रे स्वस्य तत्समीपं प्रत्यनागमनचोदना । दूतेनेन्द्रे युधिष्ठिरा चिकीर्षितनिवेदनम् ।
अध्यायः - ३
. दूतवाक्यं श्रुत्वा इन्द्रप्रभृतयो देवाः युधिष्ठिरमाजग्मुः । तत इन्द्रो ’युधिष्ठिर महाबाहो’ इत्यादिना त्वया सिद्धिः प्राप्ता तवाक्षया लोकाः, तव व्याजेन नरको दर्शितः, एहि भ्रातॄन् स्वपक्ष्यांश्च स्वस्थानस्थान् पश्य, स्वर्गंगामाप्लुतस्य तव मानुषो भावो गमिष्यति इत्याद्यवदत् । इन्द्रोक्त्यनन्तरं साक्षाद्धर्मेण ’भो भो राजन् महाप्राज्ञ’ इत्यादिना ’द्वैतवने प्रश्नद्वारा प्रथमा परीक्षा तव, द्वितीया च स्वर्गगमनकाले श्वरूपधारिणा कृता, तृतीया चेयम्’ इत्युक्त्वा ’न च ते भ्रातरः पार्थ नरकार्हा विशांपते’ इत्यादिना बोधितो युधिष्ठिरो गंगामवगाह्य दिव्यवपुर्भूत्वा धर्मेण सहितो महर्षिभिः स्तूयमानो निर्वैरो यत्र दुर्योधनादयः स्वानि स्थानानि भेजिरे तत्र जगाम
अध्यायः - ४
. सभायां गतो युधिष्ठिरोऽर्जुनेन सेव्यमानं गोविन्दं, द्वादशादित्यसहितं कर्णं, मरुद्गणसहितं भीमम्, अश्विभ्यां सहितौ नकुलसहदेवौ, द्रौपदी च कमलमालिनीं स्वर्गमाक्रम्य तिष्ठन्ती च ददर्श ।दृष्ट्वा च तेन पृष्ट इन्द्रः ’श्रीरेपा द्रौपदीरूपा त्वदर्थे मानुषं गता ।अयोनिजा’ इत्यादिना प्रत्येकं सर्वान् व्याजहार।
अध्यायः - ५
. भीष्मद्रोणौ महात्मानौ इत्यादिना भीष्मादीनामनुक्तानामन्येषां च स्वर्गे कियन्तं कालं स्थितिराहोस्वित्तेषां तत्र शाश्वतं स्थानं कर्मणामन्ते वा कां गतिं प्राप्ता इति जनमेजयप्रश्ने व्यासेनानुज्ञातो वैशम्पायनस्तत्प्रश्नमभिनन्द्य कर्मणामन्ते स्वैः स्वरंशिभिस्तादात्म्यं प्राप्तुं योग्यान् भीष्मादीन् ’वसूनेव महातेजाः’ इत्यादिनाऽऽख्याय एतत्ते सर्वमाख्यातम् इत्यादिना कौरवपाण्डवचरितकथनमुपसंजहार । सौतिः शौनकादीन्प्रति एतच्छ्रुत्वा द्विजश्रेष्ठाः’ इत्यादिना वैशम्पायनकथितामेतां कथां श्रुतवतो जनमेजयस्य यज्ञसमाप्तिपूर्वकं तक्षशिलातो हस्तिनापुरगमनमाख्याय ’एतत्ते सर्वमाख्यातम्’ इत्यादिनोपसंहृत्य महाभारतश्रवणपठनानां फलानि प्रातः पठनयोग्यं भारतसारसंग्रहं ’मातापितृसहस्राणि’ इत्यादि श्लोकचतुष्टयात्मकं भारतसावित्रीरूपं चाख्याय तन्माहात्म्यं व्याजहार
स्वर्गारोहणपर्व